तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः
táṃ patnī́bhir ánu gacchema devāḥ putráir bhrā́tṛbhir utá vā híraṇyaiḥ | nā́kaṃ gṛbhṇā́nāḥ sukṛ́tasya loké tṛtī́ye pṛṣṭhé ádhi rocané diváḥ
愿我们追随他,诸神啊——与妻室、与子嗣与兄弟,亦与黄金同往;在善行者之界,执取天界,于第三高处,在天之光辉境域之上。
तम् । पत्नीभिः । अनु । गच्छेम । देवाः । पुत्रैः । भ्रातृभिः । उत । वा । हिरण्यैः । नाकम् । गृभ्णानाः । सुकृतस्य । लोके । तृतीये । पृष्ठे । अधि । रोचने । दिवः ।