अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॒व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत्
avó̄cāma kaváye médhyāya váco vandā́ru vṛṣabhā́ya vṛ́ṣṇe | gaviṣṭhíro námasā stó̄mam agnáu divī́va rukmám uruvyáñcam aśret
我等已向圣贤、向具神圣慧力者宣说言辞;向那公牛、向强健者献上赞词。最渴求牛群者,以恭敬之礼将颂歌安置于阿耆尼(Agni)之中,如同天上金色的饰环,远照而广展。
अवो॑चाम । क॒वये॑ । मेध्या॑य । वचः॑ । व॒न्दारु॑ । वृष॒भाय॑ । वृष्णे॑ । गवि॑ष्ठिरः । नम॑सा । स्तोम॑म् । अ॒ग्नौ । दि॒वि॒-इ॒व । रु॒क्मम् । उ॒रु॒व्यञ्च॑म् । अ॒श्रेत्