भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म्
bhúvo yajñásya rájasaś ca netā́ yátrā niyúdbhiḥ sácase śivā́bhiḥ | diví mū̱rdhā́naṃ dadhise svar-sā́ṃ jihvā́m agne cakṛṣe havyavā́ham
你为大地之引领者,为祭祀之引领者,亦为空界之引领者;在彼处你以吉祥之轭力相应相随。你在天界安置你的首;噢阿耆尼,你塑成那赢得天界之舌,作为负载供献者。
भुवः॑ । य॒ज्ञस्य॑ । रज॑सः । च॒ । ने॒ता । यत्र॑ । नि॒युद्भिः॑ । सच॑से । शि॒वाभिः॑ । दि॒वि । मू॒र्धान॑म् । द॒धि॒षे॒ । स्व॒र्-सा॑म् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒वाह॑म्