नम॒ः सु ते॑ निरृते तिग्मतेजोऽय॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे ना॒के अधि॑ रोहयैनम्
námaḥ su te nirṛte tigmátejo ’yasmáyaṃ ví cṛtā bandhám etám | yaména tvaṃ yamyā saṃvidānóttame nā́ke ádhi rohayaínam
敬礼归于汝,尼利提(Nirṛti)啊,具锐利威能者!此铁之束缚——既已斩断——愿其解除。汝与阎摩(Yama)及阎弥(Yamī)同心相应,令彼登升于上,至于最高之天界。
नमः । सु । ते । निरृते । तिग्म-तेजः । अयः-मयम् । वि । चृताः । बन्धम् । एतम् । यमेन । त्वम् । यम्या । सं-विदानः । उत्तमे । नाके । अधि । रोहय । एनम् ।