अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥
ayáṃ te yónir ṛtviyó yáto jātó árocathāḥ | táṃ jānánn agna ā́ róhā́thā no vardhayā rayím ||
这是你的胎座(yoni),礼仪之阿耆尼啊;你从此而生,遂放光辉。阿耆尼啊,既知此处,便登升其上而就座;并为我们增长财富。
अयम् । ते । योनिः । ऋत्वियः । यतः । जातः । अरोचथाः । तम् । जानन् । अग्ने । आ । रोह । अथ । नः । वर्धय । रयिम् ।