शर्मा॒स्यव॑धूत॒ᳪ रक्षोऽव॑धूता॒ अरा॑त॒यो ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु । अद्रि॑रसि वानस्प॒त्यो ग्रावा॑ऽसि पृ॒थुबु॑ध्न॒: प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु
śármā́si avadhū́taṃ rákṣo’vadhūtā́ arā́tayo ’dítyās tvág asi práti tvā́ditir vettu | ádrir asi vānaspatyó grā́vā ’si pṛthúbudhnaḥ práti tvā́dit yās tvág vettu
汝为庇护:罗刹(Rakṣas)已被抖落;敌对之力已被抖落。汝为阿底提之皮:愿阿底提(Aditi)认知并承受汝。汝为石;汝为林主(vanaspati)所生之压榨石(grāvan);汝为广基:愿阿底提之皮认知并承受汝。
शर्मा॒सि । अव॑धूतम् । रक्षः॑ । अव॑धूताः । अरा॑तयः । अदि॑त्याः । त्वक् । असि । प्रति॑ । त्वा । अदि॑तिः । वेत्तु ।
अद्रिः॑ । असि । वानस्प॒त्यः । ग्रावा॑ । असि । पृ॒थु-बु॑ध्नः । प्रति॑ । त्वा । अदि॑त्याः । त्वक् । वेत्तु ।