Adhyaya 3
Uma SamhitaAdhyaya 378 Verses

Kṛṣṇādi-Śivabhaktoddhāraṇa & Śiva-māhātmya-varṇana (Deliverance of Krishna and other devotees; Description of Shiva’s Greatness)

第三章以对话体传授以湿婆为中心的奉爱及其应许的果报。萨那特库玛罗叙述围绕仙人优波摩纽的教诲场景与众人惊叹(vismaya);优波摩纽心境寂静安稳(śānta-mānasa),显现已得定力。瓦苏德瓦(克里希纳)赞叹受法之奉献者最堪称颂,因为湿婆乃诸天之天(devādideva),赐予精进者亲近同在(sānnidhya)。优波摩纽安慰瓦苏德瓦:凭摩诃提婆之恩,湿婆显现(darśana)将很快获得,诸般恩赐亦将在明确期限内成就,文中直言为十六个月。核心修持是持诵“南无湿婆耶”(Namaḥ Śivāya)这一“咒王”(mantra-rāja),称其能满一切愿(sarva-kāma-prada),并赐世间受用(bhukti)与解脱(mukti)。叙事以示范与法门并举:以可重复的持诵实践印证湿婆至上与慈恩,带来显现、赐福与强盛之子;并以“日月如瞬”作结,表明沉浸于湿婆圣事(Śiva-kathā)本身亦能转化身心。

Shlokas

Verse 1

सनत्कुमार उवाच । एतच्छ्रुत्वा वचस्तस्य सोब्रवीत्तं महामुनिम् । विस्मयं परमं गत्वोपमन्युं शांतमानसम्

萨那特库玛罗说道:听闻他那番言辞后,他心生至大惊异,便对那位心境寂静安定的大牟尼优波摩纽开口说道。

Verse 2

वासुदेव उवाच । धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती । यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे

婆苏提婆说道:“你真是有福啊,婆罗门中的最胜者!在真正成就者之中,谁又堪当赞颂你?因为为你,诸神之神亲自赐下近在咫尺的临在,即便在劳苦艰难之中亦复如是。”

Verse 3

दर्शनं मुनिशार्दूल दद्यात्स भगवाञ्छिवः । अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ

噫,诸牟尼中的猛虎,愿那吉祥的世尊湿婆赐我以神圣的瞻礼;至少,也愿祂同样垂赐于我这般恩典。

Verse 4

उपमन्युरुवाच । अचिरेणैव कालेन महादेवं न संशयः । तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम

优波摩纽说道:“不久你必得见摩诃提婆,毫无疑虑。唯凭他的慈恩,噢至上之人,你必定得以瞻见他。”

Verse 5

षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् । सपत्नीकात्कथं नो दास्यते देवो वरान्हरे

“至第十六个月,你将从摩醯湿伐罗得获殊胜的恩赐。噢哈利,主宰怎会不赐福于与其妻同心虔敬奉事之人呢?”

Verse 6

पूज्योसि दैवतैस्सर्वैः श्लाघनीयस्सदा गुणैः । जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत

你为诸天所当礼敬,因诸德而恒常可赞。噢阿周多,具信且坚定者,我今将宣说当以持诵(japa)反复念诵之真言。

Verse 7

तेन जपप्रभावेण सत्यं द्रक्ष्यसि शंकरम् । आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात्

凭借那真言持诵(japa)之力,你必将真实得见商羯罗(Śaṅkara);并将从大自在天(Maheśvara)得一子,其力与汝等同。

Verse 8

जपो नमश्शिवायेति मंत्रराजमिमं हरे । सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम्

噢,哈利啊,当诵此“咒中王”——“南无湿婆耶(Namaḥ Śivāya)”。此咒神圣殊胜,能成就一切正当愿求,并赐予世间受用与究竟解脱。

Verse 9

सनत्कुमार उवाच । एवं कथयतस्तस्य महादेवाश्रिताः कथाः । दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस

萨那特库玛罗说道:当他如此讲述——叙说一切归依大自在天(摩诃提婆)的故事——对那位苦行者而言,八日流逝宛如一瞬。

Verse 10

नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः । मंत्रमध्यापितं शार्वमाथर्वशिरसं महत्

至第九日,圣贤依法为他授予灌顶;并传授他神圣的湿婆派真言——伟大的《阿闼婆首罗》(Atharvaśiras)教法,显示舍尔瓦(湿婆)。

Verse 11

जटी मुण्डी च सद्योऽसौ बभूव सुसमाहितः । पादांगुष्ठोद्धृततनुस्तेपे चोर्द्ध्वभुजस्तथा

他立刻成为结发(jaṭā)之苦行者,头亦剃净,心神专一而安住。以大脚趾支撑举身而行苦行;又双臂上举,继续其精进的苦修。

Verse 12

संप्राप्ते षोडशे मासि संतुष्टः परमेश्वरः । पार्वत्या सहितश्शंभुर्ददौ कृष्णाय दर्शनम्

当第十六个月到来时,至上主帕拉梅湿伐罗心生欢喜;商布与帕尔瓦蒂同在,赐予克里希纳神圣的亲见(darśana)。

Verse 13

पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् । ब्रह्माद्यैस्स्तूयमानं तु पूजितं सिद्धकोटिभिः

他们见到主与帕尔瓦蒂同在——三目者、月冠者旃陀罗舍迦罗——为梵天等诸神所赞颂,又为无数悉地者所礼拜供养。

Verse 14

दिव्यमाल्याम्बरधरं भक्तिनम्रैस्सुरासुरैः । प्रणतं च विशेषेण नानाभूषणभूषितम्

他身披神圣花鬘与天衣;诸天与阿修罗因虔敬而谦伏,皆向他俯首顶礼。尤为庄严者,是他受恭敬供奉,遍饰种种宝严。

Verse 15

सर्वाश्चर्यमयं कांतं महेशमजमव्ययम् । नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम्

她见到可爱之主——大自在天(Mahēśa)——不生不灭,具足一切奇妙;众多不同的伽那随侍左右,安然喜悦,并与两位圣子同在,乃至上主宰。

Verse 16

श्रीकृष्णः प्रांजलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः । ईदृशं शंकरं प्रीतः प्रणनाम महोत्सवः

见到圣者商羯罗如此奇妙的形相,圣克里希纳合掌致敬,双目因惊叹而明亮张开。心生大欢喜,他俯首礼拜,仿佛胸中正举行一场盛大的神圣庆典。

Verse 17

नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा । सहस्रनाम्ना देवेशं तुष्टाव नतकंधरः

当时,他以种种赞颂偈颂——以神圣之语作供养——礼敬诸天之主;并俯首谦恭,诵念《千名》以赞扬天主德韦沙(湿婆)。

Verse 18

ततो देवास्सगंधर्वा विद्याधरमहोरगाः । मुमुचुः पुष्पवृष्टिं च साधुवादान्मनोनुगान्

于是诸天与乾闼婆、持明者及大龙蛇一同降下花雨,并由衷齐呼“善哉!善哉!”,欢喜赞许。

Verse 19

पार्वत्याश्च मुखं दृष्ट्वा भगवान्भक्तवत्सलः । उवाच केशवं तुष्टो रुद्रश्चाथ बिडौजसा

圣主见到帕尔瓦蒂的容颜——祂素来怜爱信众——便心生欢喜;随后,光辉威猛的鲁陀罗对凯沙瓦开口说道。

Verse 20

श्रीमहादेव उवाच । कृष्णं जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् । वृणीष्व त्वं वरान्मत्तः पुण्यांस्त्रैलोक्यदुर्लभान्

圣大天说道:“噢,克里希纳,我知你是我的奉者,恒常以坚固誓愿归依于我。故当从我处选择恩赐——清净的福佑,即便三界之中亦难得。”

Verse 21

सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा कृष्णः प्रांजलिरादरात् । प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः

萨那特库玛罗说道:克里希纳听闻此言,恭敬合掌,向万有之主商布一再顶礼,然后开口禀告。

Verse 22

कृष्ण उवाच । देवदेव महादेव याचेऽहं ह्युत्तमान्वरान् । त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान्महेश्वर

克里希纳说道:“噢诸神之神,噢大天摩诃提婆,我诚心祈求最殊胜的恩赐——共八种,噢主宰——正是你亲自所指示的那些,噢摩诃伊湿伐罗。”

Verse 23

तव धर्म्मे मतिर्नित्यं यशश्चाप्रचलं महत् । त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति

“愿我之心恒常安住于你的达摩;愿我伟大的名声坚固不移。愿我常住于你不离的近旁,愿我对你的坚定奉爱永存于我。”

Verse 24

पुत्राणि च दशाद्यानां पुत्राणां मम संतु वै । वध्याश्च रिपवस्सर्वे संग्रामे बलदर्पिताः

“愿我确实得子——十人乃至更多。愿一切仇敌,恃力而骄、气焰膨胀者,皆在战场上被诛灭。”

Verse 25

अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो । योगिनामपि सर्वेषां भवेयमतिवल्लभः

噢主啊,愿我不因仇敌而在任何地方遭受羞辱;反而愿我成为极其可爱之人,甚至为一切瑜伽行者所敬爱。

Verse 26

इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते । सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः

“因此,噢诸神之神,请赐予我这八种殊胜的恩赐。向你顶礼。唯你是万有之主;尤其,你是我自身的主宰。”

Verse 27

सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा तमाह भगवान्भवः । सर्वं भविष्यतीत्येवं पुनस्स प्राह शूलधृक्

萨那特库玛罗说:听闻他的话后,至福的主巴瓦(湿婆)对他说。执三叉戟者又宣言:“如是,一切终将如其所应而成就。”

Verse 28

साम्बो नाम महावीर्यः पुत्रस्ते भविता बली । घोरसंवर्तकादित्यश्शप्तो मुनिभिरेव च

“一个名为萨姆巴(Sāmba)的儿子将为你而生,勇力宏大、威势强盛。并且他还将被诸牟尼诅咒,化作可怖的‘劫尽之日’萨ṃ瓦尔塔卡太阳(Saṃvartaka),以毁灭之炽焰灼燃。”

Verse 29

मानुषो भवितासीति स ते पुत्रो भवि ष्यति । यद्यच्च प्रार्थितं किंचित्तत्सर्वं च लभस्व वै

“他将以人身而生,成为你的儿子。凡你所祈求的一切——哪怕最微细之愿——愿你确实尽皆获得。”

Verse 30

सनत्कुमार उवाच । एवं लब्ध्वा वरान्सर्वाञ्छ्रीकृष्णः परमेश्वरात् । नानाविधाभिर्बह्वीभिस्स्तुतिभिस्समतोषयत्

萨那特库玛罗(Sanatkumāra)说道:如是,圣克里希纳(Śrī Kṛṣṇa)从至上主宰帕拉梅湿瓦拉(Parameśvara)处得到了所有恩赐,便以种种繁多而丰盛的赞颂圣歌,使主心满意足。

Verse 31

तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला । वासुदेवं महात्मानं शंभुभक्तं तपस्विनम्

随后,喜悦而恒爱护持信众的湿婆女神——帕尔瓦蒂(Pārvatī)——对大心的瓦苏戴瓦(Vāsudeva)开口:他是商布(Śambhu)的虔诚奉者,也是坚毅的苦行者。

Verse 32

पार्वत्युवाच । वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ । गृहाण मत्तश्च वरान्मनोज्ञान्भुवि दुर्लभान्

帕尔瓦蒂说道:“噢婆苏提婆,噢大智的克里希纳,噢无罪者——我对你甚为欢喜。请从我这里领受这些赐福,悦心而在世间难得。”

Verse 33

सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्याः पार्वत्यास्स यदूद्वहः । उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा

萨那特库玛罗说道:如是听闻帕尔瓦蒂之言后,那位出自夜度族的高贵后裔便答复道——其内心澄然安泰,意念与虔敬相应。

Verse 34

श्रीकृष्ण उवाच । देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे । तपसाऽनेन सत्येन ब्राह्मणान्प्रति मास्मभूत्

圣克里希纳说道:“女神啊,若你欢喜并真实赐我诸愿;则凭此苦行、凭此真实,愿我心中永不生起对婆罗门的轻慢与恶意。”

Verse 35

द्वेषः कदाचिद्भद्रं पूजयेयं द्विजान्सदा । तुष्टौ च मातापितरौ भवेतां मम सर्वदा

愿我任何时候都不怀嗔恨。愿我恒常礼敬贤善之士与“二次出生者”(dvija)。并愿我的父母常常因我而欢喜满足。

Verse 36

सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः । कुले प्रभृति रुचिता ममास्तु तव दर्शनात्

愿我对一切众生修习和善与友爱,随处自在而行。自今日起,因蒙得见于你之恩,愿我心于自身家族与血脉中生起欢喜。

Verse 37

तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु । यतीनामतिथीनां च सहस्राण्यथ सर्वदा

我愿以百次祭祀(yajña)使诸天——自因陀罗起——皆得欢喜;并愿恒常供养、令千千万万苦行者与尊贵宾客心满意足。

Verse 38

भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् । बांधवैस्सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः

愿我常在家中供奉以信心净化的饮食;愿我与亲族恒常和睦相爱,并得长久的满足与深沉的安宁。

Verse 39

देवि भार्य्यासहस्राणां भवेयं प्राणवल्लभः । अक्षीणा काम्यता तासु प्रसादात्तव शांकरि

噢女神,愿我成为千千万万妻子视若生命的挚爱;凭你的恩典,噢商羯梨(Śāṅkarī),愿我对她们的欲愿之力永不衰减。

Verse 40

आसां च पितरो लोके भवेयुः सत्यावादिनः । इत्याद्याः सुवरास्संतु प्रसादात्तव पार्वति

并愿这些女子在世间的父祖先辈皆为说真言者。凭你的恩典,噢帕尔瓦蒂(Pārvatī),愿他们及其余众人具足美善之声与高贵之言。

Verse 41

सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता । एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा

善达库玛罗(Sanatkumāra)说:女神听了他的话,惊异地对他说:“如是成就。愿福佑于你——愿此恒常不灭,能圆满一切所愿。”

Verse 42

तस्मिंस्तांश्च वरान्दत्त्वा पार्वतीपरमेश्वरौ । तत्रैवांतश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम्

在那处赐予他这些恩赐之后,帕尔瓦蒂与至上主(Parameśvara)仍留在原地,内心安住寂定——如此向克里希纳(Kṛṣṇa)显现其真实而慈悲的垂怜。

Verse 43

कृष्णः कृतार्थमात्मानममन्यत मुनीश्वरः । उपमन्योर्मुनराशु प्रापाश्रममनुत्तमम्

于是,克里希纳——诸牟尼之尊——自觉功德圆满。旋即,他抵达牟尼优波摩纽那无上之林居道场。

Verse 44

प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः । तया वृत्तं च तस्मै तत्समाचष्टोपमन्यवे

随后,克西希哈在彼处俯首顶礼那位牟尼,并将经由她所发生的一切始末,尽数陈述给优波摩纽。

Verse 45

स च तं प्राह कोऽन्यस्स्याच्छर्वाद्देवाज्जनार्द्दन । महादानपतिर्लोके क्रोधे वाऽतीव दुस्सहः

那牟尼又对他说:“噢,阇那尔达那,除神圣的舍尔瓦(湿婆)之外,还能有谁?在此世间,他是大施之主;而一旦震怒,实难抵当。”

Verse 46

ज्ञाने तपसि वा शौर्य्ये स्थैर्य्ये वा पद एव च । शृणु शंभोस्तु गोविन्द देवैश्वर्य्यं महायशाः

无论在智慧、苦行、勇武、坚忍,或在地位成就之上——请聆听吧,声名显赫的戈文达,聆听商布(湿婆主)那神圣的主宰威权。

Verse 47

तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छंभोस्तु भक्तिमान् । पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः

闻此言,他以信心充满,遂成商布的虔诚 भक्त。继而他请问湿婆主的伟大功德;那位尊贵的牟尼便为他开示作答。

Verse 48

उपमन्युरुवाच । भगवाञ्शंकरः पूर्वं ब्रह्मलोके महात्मना । स्तुतो नामसहस्रेण दण्डिना ब्रह्मयोगिना

优波摩纽说:往昔在梵天界(梵天世界),吉祥的主——商羯罗,曾被大心的圣者檀丁所赞颂;他是知梵者与瑜伽行者,以一千神圣名号而颂扬。

Verse 49

सांख्याः पठंति तद्गीतं विस्तीर्णं च निघंटवत् । दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम्

萨数派的追随者将那教诲诵为“歌”,铺陈广大如同词典。然而对凡人而言难以领会;但此赞颂之歌能赐予一切愿求的圆满。

Verse 50

स्मरन्नित्यं शंकरं त्वं गच्छ कृष्ण गृहं सुखी । भविष्यसि सदा तात शिवभक्तगणाग्रणीः

“你当恒常忆念商羯罗;去吧,哦克里希那,安乐归家。孩子啊,你将永远成为湿婆信众之众的首领。”

Verse 51

इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् । मनसा संस्मरञ्शंभुं केशवो द्वारकां ययौ

如是受教,婆苏提婆向那位圣贤之主顶礼;随后,凯沙瓦心中默念商婆(湿婆大自在天),启程前往堕罗迦。

Verse 52

सनत्कुमार उवाच । एवं कृष्णस्समाराध्य शंकरं लोकशंकरम् । कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा

萨那特库玛罗说:“如是,哦诸牟尼中最胜者,克里希那如法礼敬商羯罗——利益诸世界者——遂得所愿圆满;并且同样,他对一切众生皆不可战胜。”

Verse 53

तथा दाशरथी रामश्शिवमाराध्य भक्तितः । कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत्

同样地,噢最胜仙人,达沙罗陀之子罗摩以虔敬礼敬并安抚大自在天湿婆;遂得所愿圆满,四方皆获胜利。

Verse 54

तपस्तप्त्वाऽतिविपुलं पुरा रामो गिरौ मुने । शिवाद्धनुश्शरं चापं ज्ञानं वै परमुत्तमम्

噢仙人,往昔罗摩在山中修行极其宏大的苦行;并从湿婆处获得弓与箭,又得无上、无比的至高智慧。

Verse 55

रावणं सगणं हत्वा सेतुं बद्ध्वांभसांनिधौ । सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम्

他诛灭罗波那及其眷属军众,又在大海之滨架起长桥;复得悉多,归返家国,继而以正法统御并安享整个大地。

Verse 56

तथा च भार्गवो रामो ह्याराध्य तपसा विभुम् । निरीक्ष्य दुःखितश्शर्वात्पितरं क्षत्रियैर्हतम्

同样地,婆伽婆罗摩(帕罗修罗摩)以苦行礼敬遍一切的至尊;继而悲恸地见到其父为刹帝利所杀——此乃舍婆(湿婆)之意旨与法令所定。

Verse 57

तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् । त्रिस्सप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात्

蒙慈悲的至上主帕拉梅湿伐罗垂恩,他得一柄锋利如剃的战斧;并凭此斧,在主的恩佑下,将那些刹帝利反复诛灭,凡二十一回。

Verse 58

अजेयश्चामरश्चैव सोऽद्यापि तपसांनिधिः । लिंगार्चनरतो नित्यं दृश्यते सिद्धचारणैः

阿阇耶与阿摩罗——至今仍为苦行功德之宝藏者——恒常恭敬礼拜湿婆林伽,并为悉达与查罗那诸众所见。

Verse 59

महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति । कल्पांते पुनरेवासावृषिस्थानमवाप्स्यति

罗摩安住于摩诃因陀罗山,恒常住于苦行之中。至劫末(kalpa),他将再度证得仙圣(ṛṣi)之位与境界。

Verse 60

असितस्यानुजः पूर्वं पीडया कृतवांस्तपः । मूलग्राहेण विश्वस्य देवलो नाम तापसः

往昔,阿悉多之弟——名为提婆罗的苦行者——因苦恼所迫而修行苦行,欲把握宇宙之根本因由。

Verse 61

पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् । अधर्म्यं धर्ममल मल्लिंगमारध्य कामदम्

那位坚固的苦行者——纵被普兰达罗(因陀罗)诅咒——仍礼拜赐愿之林伽。由此礼拜,不法被净化为正法,罪垢亦得除灭。

Verse 62

चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले । वसिष्ठशापाद्गृत्समदो दण्डकारण्य एकलः

因瓦西什塔之诅咒,恰克舒沙摩奴之子吉利察摩陀在荒漠之地化为鹿,独居于檀陀迦森林。

Verse 63

हृदये संस्मन्भक्त्या प्रवणेन युतं शिवम् । तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत्

他以谦卑的奉爱在心中忆念湿婆;于是那本具如死神之口般可怖面相的伽那,化为鹿面。

Verse 64

अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः । शंकरेण कृतः प्रीत्या नित्यं लम्बोदरानुगः

他既越过诅咒,便被引至不老不死之境。随后,商羯罗以慈爱之恩,使他永远成为兰波达罗(象头神伽内沙)的虔诚随侍。

Verse 65

गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् । कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत्

湿婆以“舍婆”(Śarva)之名赐予伽尔吉亚:连此世难得的解脱(mokṣa)亦赐下;并赐随意行止之能、得入大圣域(mahākṣetra)、通达时(kāla)之智,以及崇高宏盛的灵性福德。

Verse 66

चतुष्पादं सरस्वत्याः पारंगत्वं च शाश्वतम् । न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः

湿婆赐予他们萨拉斯瓦蒂的四重圆满——恒常的通达与究竟的卓越;并且又赐下一千子嗣,举世无比。

Verse 67

वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् । पराशराय च ददौ जरामृत्युविवर्जितम्

持毗那迦之主(湿婆)心生欢喜,赐下其子——至上瑜伽行者韦陀毗耶娑;并亦赐予帕罗沙罗不老不死之境。

Verse 68

मांडव्यश्शंकरणैव जीवं दत्त्वा विसर्जितः । वर्षाणां दश लक्षाणि शूलाग्रा दवरोपितः

曼陀婆耶由商羯罗亲自赐予生命而得释放;然而他仍在三叉戟尖端上被钉住长达十万之十倍年岁,承受其系缚之果,直至主的恩典终得显现。

Verse 69

दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि । पुत्रं तु गालवं यश्च पूर्वमासीद्गृहाश्रमी

曾有一位贫穷的婆罗门,把自己的儿子托付在师长(古鲁)家中;他先前曾行居家之道,而那儿子名为伽罗婆(Gālava)。

Verse 70

गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् । भार्य्यामुवाच यः कश्चिदवश्यं निर्धनो यतः

无论他是从牟尼的精舍暗中而来,还是以乞士之身来到那家——不论是谁——他对妻子说:“他必定贫乏,因此才来此。”

Verse 71

स तु वाच्यो भवत्या च न दृश्यंत इति प्रियः । अतिथेरागतस्यापि किं दास्यामि गृहे वसन्

爱人啊,你也当对他说:“不可相见。”因为纵有宾客到来,我在家中两手空空,又能拿什么供奉于他呢?

Verse 72

कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः । तामुवाच स भर्ता ते क्व गतश्चेति तं च सा

有一次,一位客人到来,因饥渴而疲惫不堪。于是她的丈夫对她说:“你到哪里去了?”——她也随即回答了他。

Verse 73

प्राह भर्ता मदीयस्तु सांप्रतं न च दृश्यते । स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा

她说:“此刻我的丈夫不见踪影。”那位圣仙以天眼洞悉其事,便对她如此说道。

Verse 74

गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः । विश्वामित्रस्यनुज्ञातस्तत्पुत्रो गालवस्तथा

那位婆罗门藏身于屋内,便在那屋中死去。得维湿瓦密多的许可,他的儿子——伽罗婆——随后依礼而行。

Verse 75

गृहमागत्य मातुस्स श्रुत्वा शापं सुदारुणम् । आराध्य शंकरं देवं पूजां कृत्वा तु शांभवीम्

他回到家中,从母亲口中听闻那极其可怖的诅咒。于是他虔诚奉事圣主商羯罗(Śaṅkara),并修行“娑摩婆毗”(Śāmbhavī)之供奉——以敬信礼拜湿婆吉祥威德之力。

Verse 76

गृहादसौ विनिष्क्रांतस्संस्मरञ्शंकरं हृदा । अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम्

他走出家门,心中默念圣者商羯罗(湿婆)。随后见到儿子,父亲合掌恭敬地对他说道。

Verse 77

महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः । धनवान्पुत्रवांश्चैव मृतोऽहं जीवितः पुनः

蒙大天(摩诃提婆)之恩,我已圆满成就一切当行之事。我得财富与子嗣;虽曾如同已死,如今又被赐回生命。

Verse 78

इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् । वक्तुं शंभोश्च गुणाञ्शेषस्यापि न मुखानि स्युः

因此,我已将一切可说之事尽皆告知于汝。然而无论略说或详述,我都无力圆满称扬商婆(Śambhu)的德性与威光;即便是舍沙(Śeṣa)自身,也没有足够的口舌把它们全部说尽。

Frequently Asked Questions

The chapter advances a grace-based Shaiva argument: Vāsudeva seeks Śiva’s favor, and Upamanyu authoritatively guarantees Śiva-darśana and boons, grounding the claim in a practical means—pañcākṣarī japa—thereby converting theology into a replicable sādhanā.

“Darśana” functions as epistemic confirmation (experiential proof) of Śiva-tattva; “prasāda” encodes the doctrine that ultimate fruition is granted rather than mechanically produced; and “Namaḥ Śivāya” as mantra-rāja symbolizes a compressed total practice—renunciation (namaḥ), devotion, and identity-orientation toward Śiva.

Śiva is emphasized in functional epithets—Mahādeva/Śaṅkara/Devādideva—highlighting supremacy, beneficence, and accessibility to devotees through mantra-japa; Gaurī/Umā is not foregrounded in the sampled verses but remains the theological frame of the Umāsaṃhitā’s Śiva-with-Śakti orientation.