
本章以善那特库玛罗(Sanatkumāra)的教诲展开,阐明功德的层级:苦行、林居等严修固然可赞,但即便诵学一首ṛc(吠陀颂句)亦有果报;而将神圣学问教授他人,其功德较自修加倍。继而提出强烈主张:若无《普拉那》,世间犹如无日无月之宇宙,因此应恒常修学普拉那之教。通晓普拉那者(purāṇavit/purāṇajña)被尊为诸受施者中最胜之器,堪受礼敬,因为此类师长以依śāstra之教导,救人脱离无明之“地狱”。经文明示不可将普拉那知者视作凡人,而应视其为圆满总智,并将其地位与梵天、毗湿奴与哈罗(湿婆)相联系。最后制定布施之法:财物、谷粮、黄金、衣服、土地、牛、车乘、象与马等,若以虔敬施与具德的普拉那知者,便得不坏之乐,并获可比重大吠陀祭祀之功德,从而把知识传承与祭仪经济及解脱之道相贯通。
Verse 1
सनत्कुमार उवाच । तपस्तपति योऽरण्ये वन्यमूलफलाशनः । योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने
萨那特库玛罗说道:噢圣者,在林中修苦行、以野根野果为食者所得之果报,等同于研习哪怕一首吠陀《颂》(ṛc)者所得之果报。
Verse 2
श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः । तदध्यापनतश्चापि द्विगुणं फलमश्नुते
噫,二生中最胜者!由研习《闻传》(Śruti)所得之功德,若再教示他人,则此功德倍增;于是得享双重之果。
Verse 3
जगद्यथा निरालोकं जायतेऽशशिभास्करम् । विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा
噫,牟尼!若无月与日之光照,世间将如在幽暗中生起;同样,此《往世书》当常与我等共学,不然理解便如陷于黑暗。
Verse 4
तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः । सम्बोधयति लोकं तं तस्मात्पूज्यः पुराणगः
即便有人因恒常无明而在地狱受苦——若依经典而觉醒,启迪并教化众人——因此,通晓《往世书》(Purāṇa)者应受礼敬供奉。
Verse 5
सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् । पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
在一切堪受供养者之中,通晓《往世书》者最为殊胜。因为他能救人脱离灵性堕落,所以被宣称为真正的“pātra”(堪受圣施与教导之器)。
Verse 6
मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन । पुराणज्ञस्सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः
切莫以凡夫之见看待通晓《往世书》者。知《往世书》者实为全知——乃梵天、毗湿奴与哈罗(湿婆)之形——应当奉为上师(Guru)而敬礼。
Verse 7
धनं धान्यं हिरण्यं च वासांसि विविधानि च । देयं पुराणविज्ञाय परत्रेह च शर्म्मणे
当以财物、谷粮、黄金及种种衣服,布施供养通晓《往世书》(Purāṇa)之人,以求此世安泰、彼世安宁。
Verse 8
यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः । पात्राय शुभवस्तूनि स याति परमां गतिम्
善人若以大欢喜心,将吉祥之物施与堪受者——通达诸《往世书》(Purāṇa)之贤者——便得至于至上归趣。
Verse 9
महीं गां वा स्यंदनांश्च गजानश्वांश्च शोभनान् । यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु
请聆听:凡将土地、母牛、战车,以及俊美的大象与骏马,布施给堪受者之人,其功德果报为何。
Verse 10
अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि । अश्वमेधमखस्यापि स फलं लभते पुमान्
此人于今生与来世皆得一切善愿之不坏圆满,并获得与举行马祭(Aśvamedha)同等的功德。
Verse 11
मही ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् । स तारयति वै वंश्यान्दश पूर्वान्दशापरान्
凡向堪受者布施已耕作、丰饶而吉祥之田地者,实为其族系之解脱者,度脱其前十代与后十代。
Verse 12
इह भुक्त्वाखिलान्कामानंते दिव्यशरीरवान् । विमानेन च दिव्येन शिवलोकं स गच्छति
在此世间享受了一切所愿之福后,临终之际他得获天妙之身;并乘天界飞车(毗摩那),前往湿婆界(Śivaloka),即主宰湿婆之居处。
Verse 13
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः
至此,《圣湿婆大往世书》第五部《乌玛集》中,名为“往世书功德之赞述”的第十三章圆满结束。
Verse 14
शंभोरायतने यस्तु कारयेद्धर्मपुस्तकम् । विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम्
凡令人制备一部神圣的法(dharma)之书,并安置于商婆(主宰湿婆)圣殿者——也请聆听:若在毗湿奴、苏利耶(太阳神)或任何神祇之庙中同样安置,其所得之果报。
Verse 15
राजसूयाश्वमेधानां फलमाप्नोति मानवः । सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति
人能获得等同于罗阇苏耶与马祭(Aśvamedha)之功德;迅速超越日界,往生梵天界(Brahmaloka)。
Verse 16
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले । भुंक्ते निष्कंटकं भोगान्नात्र कार्या विचारणा
在彼处住经百百劫后,便于人间成王;享受无碍之乐——对此无需再疑虑思量。
Verse 17
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत्
凡所宣说之千次马祭(Aśvamedha)功果,行者若在神前修持持诵(japa),亦得同等之果。
Verse 18
इतिहासपुराणाभ्यां शम्भोरायतने शुभे । नान्यत्प्रीतिकरं शंभोस्तथान्येषां दिवौकसाम्
在吉祥的商婆(Śambhu,湿婆)圣殿中,没有什么比诵读《伊提哈萨》与《往世书》更令湿婆欢喜;同样,对居天诸神而言,也无他事更为悦意。
Verse 19
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् । तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम्
因此,当竭尽全力诵读此圣典;同样,以爱敬之心聆听它,便能赐予一切所愿之果报。
Verse 20
पुराणश्रवणाच्छंभोर्निष्पापो जायते नरः । भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात्
聆听商婆(Śambhu,主湿婆)的《往世书》,人便得以离罪清净。享受丰盛殊胜的福德之后,终将证达湿婆之界——湿婆世界(Śivaloka)。
Verse 21
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च । तत्पुण्यं लभते शंभोः कथाश्रवणमात्रतः
通过举行罗阇苏耶祭所获之功德,以及通过百次阿耆尼什托摩祭所获之功德——仅仅聆听商婆(主湿婆)的神圣故事,亦能获得同等功德。
Verse 22
सर्वतीर्थावगाहेन गां कोटिप्रदानतः । तत् फलं लभते शंभोः कथाश्रवणतो मुने
噢,牟尼圣者,聆听商婆(主湿婆)的神圣故事,便能获得与遍浴一切圣地渡口(tīrtha)并施舍一亿头牛同等的果报。
Verse 23
ये शृण्वंति कथां शंभोस्सदा भुवनपावनीम् । ते मनुष्या न मंतव्या रुद्रा एव न संशयः
凡恒常聆听商婆那净化诸界之圣传者,不应被视为凡人;毫无疑问,他们本身即是鲁陀罗。
Verse 24
शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् । पदाम्बुजरजांस्येव तीर्थानि मुनयो विदुः
诸牟尼知晓:聆听湿婆圣德圣名者,以及善人歌咏其圣名者——自身便如圣地渡口(tīrtha)一般神圣,犹如主之莲足尘埃能使人清净。
Verse 25
गंतुं निःश्रेयसं स्थानं येऽभिवांछन्ति देहिनः । कथां पौराणिकीं शैवीं भक्त्या शृण्वंतु ते सदा
凡具此身而渴望抵达至善至上的解脱之境者,应当常以虔敬之心聆听这部湿婆派的《往世书》圣传。
Verse 26
कथां पौराणिकीं श्रोतुं यद्यशक्तस्सदा भवेत् । नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम्
若有人不能常常聆听《普罗那》(Purāṇa)的神圣叙事,则当以调伏自持之心,每日至少聆听一“牟呼尔多”(muhūrta,定量短时)亦可。
Verse 27
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् । पुण्यमासादिषु मुने शृणुयाच्छांकरीं कथाम्
若有人不能日日聆听,噢圣者(muni)啊,也当令其至少在圣月等吉祥时节,聆听与商羯罗(Śaṅkara)相关的神圣叙事。
Verse 28
शैवीं कथां हि शृण्वानः पुरुषो हि मुनीश्वर । स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम्
噢,诸牟尼之主!凡聆听神圣的湿婆派圣传者,皆能越度轮回,焚尽业力之大林。
Verse 29
कथां शैवीं मुहूर्तं वा तदर्द्धं क्षणं च वा । ये शृण्वति नरा भक्त्या न तेषां दुर्गतिर्भवेत्
凡以虔敬聆听湿婆圣传者——无论一牟呼尔多、其半,乃至一刹那——皆不堕恶趣;于彼等不生灾厄与下沉之命运。
Verse 30
यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने । शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत्
噢,牟尼!由一切布施与一切祭祀所得之福德,若聆听商婆(Śambhu)之《往世书》,其果报便坚固不移,恒常不失。
Verse 31
विशेषतः कलौ व्यास पुराणश्रवणादृते । परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः
尤其在迦梨时代,噢毗耶娑,除聆听诸《往世书》(Purāṇa)之外,人间不复忆有更高之法(dharma)——即专注于解脱(mokṣa)之禅观的正法。
Verse 32
पुराणश्रवणं शम्भोर्नामसंकीर्तनं तथा । कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः
聆听《往世书》并同样歌咏赞诵商婆(Śambhu)圣名,必赐予世人如如意树(kalpadruma)之甘美果实——对此毫无疑虑。
Verse 33
कलौ दुर्मेधसां पुंसां धर्माचारोझ्झितात्मनाम् । हिताय विदधे शम्भुः पुराणाख्यं सुधारसम्
在迦梨时代,为了利益那些慧根迟钝、生命已背离法行(dharma)之人,商婆(Śambhu)制定了名为《往世书》(Purāṇa)的甘露精髓。
Verse 34
एकोऽजरामरस्याद्वै पिबन्नेवामृतं पुमान् । शम्भोः कथामृतापानात्कुलमेवाजरामरम्
人若饮啜商婆(Śambhu)甘露般的圣传,便如同饮不死甘露(amṛta)一般,脱离衰朽与死亡。诚然,啜饮主湿婆圣故事之甘露,甚至整个家族血脉亦得离衰离死。
Verse 35
या गतिः पुण्यशीलानां यज्वनां च तपस्विनाम् । सा गतिस्सहसा तात पुराणश्रवणात्खलु
亲爱的啊,善行者、行祭者与苦行者所证得的同一崇高境地,确实可由聆听《往世书》(Purāṇa)而立刻获得。
Verse 36
ज्ञानवाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः । अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च
若虽勤修瑜伽诸论而仍未得真知,当研习《普罗那》(Purāṇa)之圣典,并当聆听其诵讲——使正见由湿婆所启示的教法而生。
Verse 37
पापं संक्षीयते नित्यं धर्म्मश्चैव विवर्द्धते । पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते
恒常听闻《普罗那》(Purāṇa),罪业日日消磨,而法(dharma)确然增长;由此听闻普罗那,智者不再坠入轮回(saṁsāra)。
Verse 38
अतएव पुराणानि श्रोतव्यानि प्रयत्नतः । धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा
因此,应当以真诚的精进聆听诸《往世书》(Purāṇa):为成就达摩、阿尔塔与迦摩,并且抵达通向解脱(mokṣa)之道。
Verse 39
यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया । तत्फलम समवाप्नोति पुराणश्रवणान्नरः
无论通过祭祀、布施、苦行,以及虔敬侍奉诸圣地所获得的功德——同样的果报,人只要聆听《往世书》(Purāṇa)便能成就。
Verse 40
न भवेयुः पुराणानि धर्ममार्गे क्षणानि तु । यद्यत्र यद्व्रती स्थाता चात्र पारत्रकी कथाम्
若无诸《往世书》(Purāṇa),在达摩之道上连片刻也难以成立。因为无论持戒守誓者居于何处,凭借往世书的教诲,关于来世的法语便在彼处安立。
Verse 41
षड्विंशतिपुराणानां मध्येऽप्येकं शृणोति यः । पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः
在二十六部《往世书》中,凡能聆听哪怕一部,或以虔敬之心诵读者,必得解脱;对此毫无疑惑。
Verse 42
अन्यो न दृष्टस्सुखदो हि मार्गः पुराणमार्गो हि सदा वरिष्ठः । शास्त्रं विना सर्वमिदं न भाति सूर्य्येण हीना इव जीवलोकाः
不见有他道能赐真实安乐;往世书之道恒为最胜。离开经典,一切皆不显明——如众生世界失却太阳之光。
It argues for Purāṇa as an essential instrument of illumination and right knowledge—comparing a world without Purāṇa to a world without sun and moon—thereby asserting that Purāṇic study must be continuous and central to religious life.
The chapter sacralizes pedagogy: the teacher is not merely a transmitter of information but a salvific agent who rescues beings from ignorance. Reverence to the Purāṇa-knower encodes the idea that knowledge (jñāna) itself functions as a liberating power within Shaiva order.
No distinct iconographic form (svarūpa) is foregrounded in the sampled verses; instead, Śiva is invoked via the epithet Hara in a doctrinal comparison that elevates the Purāṇa-knower to a guru-status aligned with Brahmā, Viṣṇu, and Hara.