
本章由苏多(Sūta)叙述,围绕名为迦摩卢佩湿伐罗(Kāmarūpeśvara)的湿婆信徒展开危机,将人间王权、罗刹的凶暴与湿婆无形的护佑并置。湿婆偕同众伽那(gaṇa)以隐秘之姿(gupta)靠近,为护持其信徒(rakṣārtham),点明核心主题:神圣临在即使隐藏亦能运作。消息传至一位罗刹:某王正在为“你”施行敌对的咒术/厌胜仪式(ābhicārika),罗刹遂起贪嗔,披甲执兵前来对峙。经文所引处称其名为毗摩(Bhīma),他以暴力相胁并逼问真相;而迦摩卢佩湿伐罗则在内心以湿婆为依止,安住信念。本章揭示神学张力:一方面是不可避免的业报既定(prārabdha 主宰结果),另一方面是恩典——商羯罗(Śaṅkara)慈悲且近在身旁,因此魔威并非终极。其奥义呈现《往世书》式的天意观:prārabdha 设定事件的场域,但奉爱(bhakti)与湿婆的亲近将恐惧转为归依,显明护佑既属形上(湿婆为命运之主)亦属现实(伽那与隐密干预)。
Verse 1
सूत उवाच । शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया । स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात्
苏多说道:湿婆主亦与其众伽那(gaṇa)同行,出于欲成就众生安乐之愿。祂隐而不现,恭谨守护,停驻在其信徒近旁,为护佑那位奉主者。
Verse 2
एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च । अत्यंतं ध्यानमारब्धं पार्थिवस्य पुरस्तदा
与此同时,在迦摩卢佩湿伐罗(Kāmarūpeśvara)处,主就在那位人间国王面前,开始了极深且坚定不移的禅定。
Verse 3
केनचित्तत्र गत्वा च राक्षसाय निवेदितम् । राजा किंचित्करोत्येवं त्वदर्थं ह्याभिचारिकम्
有人前往那里,向罗刹禀告:“国王正在做一件事——确是为你之故——施行敌对的咒术(阿毗遮罗)。”
Verse 4
सूत उवाच । राक्षसस्स च तच्छुत्वा क्रुद्धस्तद्धननेच्छया । गृहीत्वा करवालं च जगाम नृपतिं प्रति
苏多说道:罗刹闻此大怒,起杀意;遂执剑而往,直趋国王。
Verse 5
तद्दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् । तदर्थं तत्स्वरूपं च दृष्ट्वा किंचित्करोत्यसौ
他见那里已安立圣徽——先有土制林伽等——罗刹察其用意与真实相,便作出某种回应之举。
Verse 6
अत एनं बलादद्य हन्मि सोपस्करं नृपम् । विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम्
“因此,今日我必以强力杀此国王——连同他的一切器具与财物。”如此思定后,那罗刹盛怒如火,对国王说出这番话。
Verse 7
भीम उवाच । रेरे पार्थिव दुष्टात्मन्क्रियते किं त्वयाधुना । सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम्
毗摩说道:“喂,恶心之王!你如今在做什么?如实说来——若说真话,我不杀你;否则,我必定斩你。”
Verse 8
सूत उवाच । इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः । मनसीति चिचिन्ताशु शिवविश्वासपूरितः
苏多说道:听闻那番言辞后,迦摩卢佩湿伐罗——其心迅疾充满对湿婆不动摇的信念——当即在内心思惟道:“诚然如此。”
Verse 9
भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः । प्रारब्धाधीनमेवात्र प्रारब्धस्स शिवः स्मृतः
凡注定将发生之事,必然发生——无人能使其回转。于此,一切皆由“普拉拉布达”(已发动之业)所主宰;而这普拉拉布达本身,即被忆念为湿婆。
Verse 10
कृपालुश्शंकरश्चात्र पार्थिवे वर्तते ध्रुवम् । मदर्थं न करोतीह कुतः कोयं च राक्षसः
“慈悲的商羯罗确实在此,安住于这土制的帕尔提瓦林伽之中。然而祂并未在此为我而行事——那么此人又怎会是罗刹呢?”
Verse 11
स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति । सत्यप्रतिज्ञो भगवाञ्छिवश्चेति श्रुतौ श्रुतः
他必将成就与自身相称的誓愿,此事必定应验。因为连吠陀也宣说:薄伽梵湿婆乃“守誓真实者”。
Verse 12
मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः । तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः
“凡有人残酷加害我的奉献者,我为护佑那奉献者,必诛灭恶人——毫无疑问。”
Verse 13
एवं धैर्य्यं समालंब्य ध्यात्वा देवं च शंकरम् । प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः
于是,罗塞湿伐罗凝聚心中坚忍,观想天神商羯罗(Śaṅkara);以真挚的奉爱,他献上祈祷——寂然无声,唯在心内。
Verse 14
त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु । सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम्
噢,大王,我属于您——您愿意怎样就怎样做。在此我说一句真实之言:请为我的福祉而行。
Verse 15
एवं मनसि स ध्यात्वा सत्यपाशेन मंत्रितः । प्राह सत्यं वचो राजा राक्षसं चावमानयन्
于是,国王在心中沉思,并以“真理之索”(satyapāśa)在内心自固;随后他开口说出真实之言,同时斥责并羞辱那罗刹。
Verse 16
नृप उवाच । भजामि शंकरं देवं स्वभक्तपरिपालकम् । चराचराणां सर्वेषामीश्वरं निर्विकारकम्
国王说道:“我礼敬商羯罗天尊,护持自家奉献者之主;祂是统御一切有情与无情之大自在者,恒常不变、无有变异。”
Verse 17
सूत उवाच । इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः । क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत्
苏多说道:听到迦摩卢佩湿伐罗的话语,毗摩——因愤怒而四肢颤动——开口回言。
Verse 18
भीम उवाच । शंकरस्ते मया ज्ञातः किं करिष्यति वै मम । यो मे पितृव्यकेनैव स्थापितः किंकरो यथा
毗摩说道:“我很清楚你的商羯罗(Śaṅkara)是谁。他真能对我做什么?因为正是我父系的叔父把我安置在他的权下,仿佛一个卑微的仆役。”
Verse 19
तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे । तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा
你倚仗的正是那股力量而想取胜。若果真如此,那么一切早已被你征服——此处无需再作思量。
Verse 20
यावन्मया न दृष्टो हि शंकरस्त्वत्प्रपालकः । तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित्
只要我还未见到商羯罗——你真正的护持者——你便侍奉此人,把他当作主人;从未有一刻你曾另作他行。
Verse 21
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नामैकविंशोऽध्यायः
如是,在《圣湿婆摩诃往世书》第四部《俱底鲁陀罗集》中,第二十一章圆满终结,章名为《毗摩伊湿伐罗光明灵伽之伟大与显现缘起》。
Verse 22
अन्यथा हि भयं तेऽद्य भविष्यति न संशयः । स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः
否则,今日恐惧必定临到你,毫无疑问。我这具可怖威势之人,将把你主人的严厉之手——也就是惩罚——加诸于你。
Verse 23
सूत उवाच । इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः । दृढं शंकरविश्वासो द्रुतं वाक्यमुवाच तम्
苏多说道:听闻那番言辞后,迦摩卢佩湿伐罗王对商羯罗的信心坚固,便立刻对他说道。
Verse 24
राजोवाच । अहं च पामरो दुष्टो न मोक्ष्ये शंकरं पुनः । सर्वोत्कृष्टश्च मे स्वामी न मां मुंचति कर्हिचित्
国王说道:“我确是卑劣而邪恶之人;我决不再舍弃商羯罗。我的主乃至上圆满之卓绝者——祂在任何时候都不会遗弃我。”
Verse 25
सूत उवाच । एवं वचस्तदा श्रुत्वा तस्य राज्ञश्शिवात्मनः । तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत्
苏多说道:当时听罢那位国王——其身心皆归依湿婆——所言,凶怖的罗刹毗摩立刻嗤笑,随即对君主开口说道。
Verse 26
भीम उवाच । मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् । योगिनां का च निष्ठा वै भक्तानां प्रतिपालने
毗摩说道:“他日日向我乞食,怎能知晓自身的真实本性?若主宰的坚决正是在护佑与照拂信徒之中显现,那么诸瑜伽行者又谈何坚定的修持?”
Verse 27
इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा । अहं च तव स स्वामी युद्धं वै करवावहे
既已在心中如此决断,你当尽皆退去,远远站立。我——实为你正当之主——如今将投入战斗。
Verse 28
सूत उवाच । इत्युक्तस्य नृपश्रेष्ठश्शंभुभक्तो दृढव्रतः । प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा
苏多说道:被如此言辞所及,那位最上之王——誓愿坚固、敬奉商婆(Śambhu)——无所畏惧地回答了毗摩;毗摩常为诸世界带来苦恼。
Verse 29
राजोवाच । शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते । त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि
国王说道:“听着,恶心的罗刹!此事我不能为。若你自己正被改变、被牵引摆布,又从何处自称有力?”
Verse 30
सूत उवाच । इत्युक्तस्सैन्यमादाय राजानं परिभर्त्स्य तम् । करालं करवालं च पार्थिवे प्राक्षिपत्तदा
苏多说道:被如此言及后,他收拢军队;继而斥责那位国王,立刻向君主掷去一柄可怖之剑与一把弯刀。
Verse 31
पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् । इत्युवाच विहस्यैव राक्षसैस्स महाबलः
“看吧——就在今日亲见我主、至尊之力;祂的威能为信徒带来喜悦。”说罢,那极其强大的他笑着对罗刹众说道。
Verse 32
करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः । यावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः
噢,二次生的圣者们:直到那剑触及土制灵伽之时,直到从那土形之中,哈罗(Hara,湿婆)亲自随愿显现。
Verse 33
पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् । मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा
看吧——我即毗摩伊湿伐罗(Bhīmeśvara)。为护佑而我在此显现。这正是我古老的誓愿:我的奉献者,我恒常护持。
Verse 34
एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् । इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः
“因此,立刻观看我那令奉献者得喜乐的威力。”说罢,他执持弓毗那迦(Pināka),将利剑劈为两段。
Verse 35
पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा । तच्छूलं शतधा नीतमपि दुष्टस्य शंभुना
随后,那个罗刹再次投掷出他自己的三叉戟。然而,商菩制服了那个恶徒,将那柄三叉戟击碎成了上百个碎片。
Verse 36
पुनश्शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः । शंभुना सापि बाणैस्स्वैर्लक्षधा च कृता द्रुतम्
他再次向商菩投掷出他的长矛。但是,商菩啊,诸位再生族仙人们,主迅速用他自己的箭将那件武器击成了十万个碎片。
Verse 37
पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि । शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात्
随后他将战斧掷向湿婆。刹那之间,湿婆以其三叉戟将其击碎,化作如芝麻般细小的碎屑。
Verse 38
ततश्शिवगणानां च राक्षसानां परस्परम् । युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम्
随后,湿婆的众伽那与罗刹彼此交战,惨烈的战斗骤然爆发——目睹者无不心惊,亦令观者生起悲苦。
Verse 39
ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् । समुद्राश्च तदा सर्वे चुक्षुभुस्समहीधराः
于是刹那之间,大地尽皆骚动不安。其时诸海翻涌动荡,连群山也为之震颤——显出由湿婆的宇宙意志所发动的无边威力。
Verse 40
देवाश्च ऋषयस्सर्वे बभूवुर्विकला अति । ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितश्शिवः
于是诸天与诸仙圣尽皆沮丧无力,彼此相告而叹曰:“诚然,我们向湿婆(Śiva)的祈求竟成徒然。”
Verse 41
नारदश्च समागत्य शंकरं दुःखदाहकम् । प्रार्थयामास तत्रैव सांजलिर्नतमस्तकः
这时那罗陀(Nārada)来到,当即合掌俯首,祈祷商羯罗(Śaṅkara)——焚尽忧苦之主。
Verse 42
नारद उवाच । क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक । तृणेकश्च कुठारो वै हन्यतां शीघ्रमेव हि
那罗陀说道:“恕我,恕我,噢主宰!你是令迷妄生起者(亦是破除迷妄者)。一叶草芒岂同利斧——故请速速击我,确然如此。”
Verse 43
इति संप्रार्थितश्शंभुः सर्वान्रक्षोगणान्प्रभुः । हुंकारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा
如是恳请之下,商布(Śambhu)这位至尊主宰,当即仅以其“吽(Huṃ)”之吼为武器,将一切罗刹众尽化为灰烬。
Verse 44
सर्वे ते राक्षसा दग्धाः शंकरेण क्षणं मुने । बभूवुस्तत्र सर्वेषां देवानां पश्यताद्भुतम्
噢圣者,在一瞬之间,那些罗刹尽被商羯罗(Śaṅkara)焚尽。就在彼处,诸天亲眼所见,一桩奇妙之事随即发生。
Verse 45
दावानलगतो वह्निर्यथा च वनमादहेत् । तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात्
如同被林野大火所驱的烈焰焚尽森林一般,当湿婆震怒之时,罗刹众的威势亦在刹那间被吞灭。
Verse 46
भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा । परिवारयुतो दग्धो नाम न श्रूयते क्वचित्
当时无人知晓毗摩究竟如何——甚至是否尚有灰烬也不得而知。亦从未听闻他与随从一同被焚而死之事。
Verse 47
ततश्शिवस्य कृपया शांतिं प्राप्ता मुनीश्वराः । देवास्सर्वे च शक्राद्यास्स्वास्थ्यं प्रापाखिलं जगत्
随后,承蒙主湿婆的慈悲,诸大牟尼得获寂静安宁。诸天众神——以释迦罗(因陀罗)为首——皆复归安泰,整个世界亦重得圆满与安稳。
Verse 48
क्रोधज्वाला महेशस्य निस्ससार वनाद्वनम् । राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम्
从大自在天摩诃舍的忿怒中迸发出炽烈火焰,蔓延自一林至一林。那些罗刹的灰烬也弥漫遍布整片林野,充塞四方。
Verse 49
ततश्चौषधयो जाता नानाकार्यकरास्तथा । रूपान्तरं ततो नॄणां भवेद्वेषांतरं तथा
随后,诸般药草生起,各各能成就多种功效。其后在人类之中,便出现形体的差别,也出现外貌与衣饰的差别。
Verse 50
भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् । तन्न कार्यं च यच्चैव ततो न भवति द्विजाः
从那地方应当远远离开,避开诸如部多、普雷多、毗舍遮等鬼魅之类。噢二生者,在那里不应从事任何行为,因为从那样的处所不会生起吉祥的成就。
Verse 51
ततः प्रार्थितश्शम्भुर्मुनिभिश्च विशेषतः । स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे
随后,诸圣牟尼尤其恳切祈请商婆(湿婆)道:“噢主宰啊,请住于此处;因为您是众生之主——愿您为诸世界的安乐与福祉而驻留。”
Verse 52
अयं वै कुत्सितो देश अयोध्यालोकदुःखदः । भवंतं च तदा दृष्ट्वा कल्याणं संभविष्यति
“此地确实卑秽,令阿踰陀之民受苦;然而在那时得见于您,吉祥必定由此生起。”
Verse 53
भीमशंकरनामा त्वं भविता सर्वसाधकः । एतल्लिंगं सदा पूज्यं सर्वापद्विनिवारकम्
你将以“毗摩商羯罗”(Bhīmaśaṅkara)之名而闻名,成就一切所愿。此灵伽应当恒常礼拜,因为它能消除一切灾厄。
Verse 54
सूत उवाच । इत्येवं प्रार्थितश्शम्भुर्लोकानां हितकारकः । तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः
苏多说道:如此被祈请后,商布(Śambhu)——恒常为诸世界之福祉——便欢喜而慈爱地留在原处;虽全然自在独立,却对信徒极其怜爱。
A rākṣasa (Bhīma) advances to harm a king after hearing of an alleged ābhicārika act, while Śiva—arriving with gaṇas—stays concealed near His devotee; the theological argument contrasts prārabdha’s inevitability with the lived certainty of Śiva’s protective presence.
Śiva’s ‘hidden’ proximity (gupta-sthiti) symbolizes transcendence that remains immanent: the divine may be unseen yet causally decisive. The rākṣasa’s sword and threats encode the volatility of tamasic force, while the devotee’s internal reflection models śiva-viśvāsa as a yogic stabilizer that converts crisis into surrender.
The chapter highlights Śiva as Śaṅkara—the compassionate protector who operates through gaṇas and providential concealment. Gaurī is not foregrounded in the sampled passage; the emphasis is on Śiva’s rakṣā-śakti rather than a paired theophany.