
Description and Measurements of Śākadvīpa (with Oceans, Mountains, Varṣas, and Rivers)
第八章继续阐述七洲(sapta-dvīpa)的宇宙地理:先述阎浮洲(Jambūdvīpa)与阎浮山的尺度,又言咸海(盐海)之广为其倍,继而介绍舍迦洲(Śākadvīpa)为阎浮洲之两倍,并为乳海所环。 叙述由宏观量度转入洲内结构:宝石般的群山——以须弥(Meru)为首,并列摩罗耶(Malaya)、阇罗陀罗(Jaladhāra)、罗毗多迦(Raivataka)、湿耶摩山(Śyāmagiri)、杜伽石山(Durgaśaila)等——以及诸“雨域”(varṣa)之名,并附带与山岳与人物相关的名号与世系。 随后简述其民风与信仰:奉事湿婆(Śiva),有悉达(Siddha)与迦罗那(Cāraṇa)等众,社会无盗窃、无强制之王权。又列诸河流,包括恒河(Gaṅgā)之分流与多条圣河。末了诸仙(ṛṣi)请求更详尽的开示,使本章既为提纲亦为后续详说之门。
Verse 1
ऋषय ऊचुः । जंबूखंडस्त्वया प्रोक्तो यथावदिह सत्तमः । विष्कंभस्य च प्रब्रूहि परिमाणं हि तत्त्वतः
诸仙人说道:“噢,诸德中最胜者,你已在此如法宣说阎浮洲(Jambū-khaṇḍa)。如今请为我们详明开示其广度的真实尺度。”
Verse 2
समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः । शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम्
请如实宣说大海的尺度,以清明无瑕的叙述;并为我们讲述沙迦洲(Śākadvīpa)与正法的俱舍洲(Kuśadvīpa)。
Verse 3
शाल्मलं चैव तत्त्वेन क्रौंचद्वीपं तथैव च । सूत उवाच । विप्राः सुबहवो द्वीपाः यैरिदं संततं जगत् । सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुंगवाः
“同样也当如实讲述娑罗摩罗洲(Śālmala-dvīpa),并以同样方式讲述鸠槃遮洲(Krauñca-dvīpa)。”苏多(Sūta)说道:“婆罗门啊,诸多洲地使此世界铺展延续。我将宣说七大洲——请听吧,二生中之最胜者。”
Verse 4
अष्टादशसहस्राणि योजनानि द्विजोत्तमाः । षट्शतानि च पूर्णानि विष्कंभो जंबुपर्वतः
二生中之最胜者啊,阎浮山(Jambu)之广阔为一万八千由旬,另加整整六百由旬。
Verse 5
लवणस्य समुद्रस्य विष्कंभो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः
盐海(Lavaṇa-samudra)之广被说为其两倍;其中遍布诸多国土与地域,并以宝珠与珊瑚为庄严。
Verse 6
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः । सिद्धचारणसंकीर्णैः सागरः परिमंडलः
其上以多种矿藏斑斓之群山为饰;环绕的海界中,悉达(Siddha)与恰罗那(Cāraṇa)众充满其间。
Verse 7
शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः । शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः
如今我将如实宣说沙迦洲(Śākadvīpa),诸位德行最胜者。诸位持法者,请依正理今日谛听我所言。
Verse 8
इति श्रीपाद्मे महापुराणे स्वर्गखंडेऽष्टमोऽध्यायः
至此,光辉的《莲华大往世书》(Padma Mahāpurāṇa)之天界品(Svarga-khaṇḍa)第八章圆满结束。
Verse 9
क्षीरोदो मुनिशार्दूला येन संपरिवारितः । तत्र पुण्याजनपदास्तत्र न म्रियते जनः
噫,虎般的牟尼啊,乳海为其所环绕;其中有圣洁国土与福德郡邑——在那里,人们不遭死亡。
Verse 10
कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते । शाकद्वीपस्य संक्षेपो यथावन्मुनिसत्तमाः । उक्त एष महाभागाः किमन्यत्कथयामि वः
又怎会有饥馑呢?因为忍辱与灵耀之光确实在你们之中。诸位最胜牟尼,我已依次第如法略说沙迦洲。诸位有福者——我还能对你们说些什么呢?
Verse 11
ऋषय ऊचुः । शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः
诸仙人说道:“持法者啊,你已在此如法宣说沙迦洲的略要。大智者啊,请你如今依真实义,为我们详尽开示其全貌。”
Verse 12
सूत उवाच । तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः । रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये
苏多说道:“同样地,诸婆罗门啊,此处有七座山,名为‘宝山’;又有出产珠宝的矿藏与诸河流。我现在将叙述它们的名号。”
Verse 13
अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः । देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते
“诸位正法之人啊,你们以极其善妙的方式询问一切真理原则。第一、最尊者名为须弥(Meru),有天界圣仙与乾闼婆随侍。”
Verse 14
प्रागायतो महाभागा मलयोनाम पर्वतः । ततो मेघाः प्रवर्त्तंते प्रभवंति च सर्वशः
在东方,诸位有福者啊,有一座名为摩罗耶(Malaya)的圣山。云从彼处出发,又从彼处遍处兴起。
Verse 15
ततः परेण मुनयो जलधारो महागिरिः । ततो नित्यमुपादत्ते वासवः परमं जलम्
在那之后,诸牟尼啊,有一座名为阇罗陀罗(Jaladhāra)的大山。天帝婆娑婆(因陀罗)常常从彼处汲取至上的圣水。
Verse 16
ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः । उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम्
随后,在雨季之时,诸位最胜的两生者啊,甘霖由此而生。那里恒久安立着高耸的罗毗多迦(Raivataka)山。
Verse 17
रेवती दिवि नक्षत्रं पितामहकृतो विधिः । उत्तरेण तु विप्रेंद्राः श्यामो नाम महागिरिः
Revatī乃天界之星宿——为祖父梵天(Brahmā)所立之法度。其北方,噢最胜婆罗门,有一座大山,名为Śyāma。
Verse 18
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः
他光辉如新起雨云——身形高峻,庄严吉祥,形体灿然。由他之故,众生染得黝黑之色,心意欢悦。
Verse 19
ऋषय ऊचुः । सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया । प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह
诸仙人曰:“噢苏多(Sūta),因汝所言,我等生起极大疑惑。噢苏多,此处众生如何得以如理而成此黝黑之相(或境)?”
Verse 20
सूत उवाच । सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुंगवाः । गौरः कृष्णश्च पतगस्तयोर्वर्णांतरे द्विजाः
苏多曰:“于一切诸岛,噢大智之仙中雄者,有白鸟与黑鸟;而在二色之间,噢二次生者,亦有中间之色者。”
Verse 21
श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः । ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः
以Śyāma由彼处发起之故,故称其为Śyāmagiri。其后更远处,噢诸牟尼之最胜,有一座高峻而大吉祥之山,名为Durgaśaila。
Verse 22
केशरी केशरयुतो यतो वातः प्रवर्त्तते । तेषां योजनविष्कंभो द्विगुणः प्रविभागशः
自彼方之境,风息始起——其地遍满狮子与藏红花。其直径以由旬计,为两倍,依次分区而定。
Verse 23
वर्षाणि तेषु विप्रेंद्राः संप्रोक्तानि मनीषिभिः । महामेरुर्महाकाशो जलदः कुमुदोत्तरम्
婆罗门中之最胜者啊,其中诸“雨域”(varṣa)已为贤哲所宣说:摩诃梅鲁、摩诃迦沙、阇罗陀,以及俱牟陀乌多罗。
Verse 24
जलधारो महाप्राज्ञः सुकुमार इति स्मृतः । रेवतस्य तु कौमारः श्यामश्च मणिकांचनः
阇罗陀罗被忆念为大智者,亦名“苏库摩罗”(柔和、少壮者)。而在雷瓦塔一系中,其少子为湿耶摩,亦称“摩尼迦安遮那”。
Verse 25
केशरस्याथ मौदाकी परेण तु महान्पुमान् । परिवार्य्यं तु विप्रेंद्रा दैर्घ्यं ह्रस्वत्वमेव च
继而,论及计舍罗与牟达吉——婆罗门中之最胜者啊——更有一位大人物;并有环侍随从,亦有长短之别。
Verse 26
जंबूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः । शाको नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः
此洲名为阎浮提(Jambūdvīpa);其中央矗立一株大树,名曰“舍迦”(Śāka)。其民众皆极有智慧,并与其侍从随行者同在。
Verse 27
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः । तत्र गच्छंति सिद्धाश्च चारणा दैवतानि च
在那里,诸国土皆为圣地;在那里,人们礼敬商羯罗(湿婆)。悉达、恰罗那以及诸天神众亦往来其间。
Verse 28
धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः । वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते
那里众民皆守正法;四姓无嫉妒,各安其业,于彼处亦不见盗贼。
Verse 29
दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः । प्रजास्तत्र विवर्द्धंते वर्षास्विव समुद्रगाः
在那里,人们寿命绵长、智慧广大,远离衰老与死亡;众生繁盛,如雨季之河水暴涨,奔流归向大海。
Verse 30
नद्यः पुण्यजलास्तत्र गंगा च बहुधा गता । सुकुमारी कुमारी च शीता शीतोदका तथा
那里诸河流淌着净化之圣水;恒河亦分作多道水流。又有苏库玛丽河、库玛丽河,以及水性清冷的悉多河。
Verse 31
महानदी च भो विप्रास्तथा मणिजला नदी । इक्षुवर्द्धनिका चैव नदी मुनिवराः स्मृताः
婆罗门啊,又有摩诃那提河、摩尼阇罗河,以及伊刹乌伐檀尼迦河;诸位最胜牟尼皆忆念此等河流为圣。
Verse 32
ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः । सहस्राणां शतान्येव यतो वर्षति वासवः
随后涌现出极其庄严美妙、赐予功德的诸河;从那一方,婆娑婆(因陀罗)降下成百上千、乃至数十万的甘霖。
Verse 33
न तासां नामधेयानि परिस्मर्तुं तथैव च । शक्यंते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः
它们的名号无法尽数忆念,也无法完全计数;因为那些最胜之河确为神圣,能赐功德。
Verse 34
ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः । मृगाश्च मशकाश्चैव मानसा मल्लकास्तथा
其后有四处具功德之国土,闻名于世:名为Mṛga、Maśaka、Mānasa,以及Mallaka。
Verse 35
मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः । मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः
在Mṛga之地,有极趋向婆罗门之性者,如同安住本分的二次生者;而在Maśaka之地,哦大王,又有类刹帝利者,持正行义,能满一切所愿。
Verse 36
मानसाश्च महाभागा वैश्यधर्मोपजीविनः । सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः
而Mānasa之众,福德深厚,依毗舍之法而生;具足一切可愿之富饶,勇健无畏,于达摩与求财(artha)之道上志意坚定。
Verse 37
शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः । न तत्र राजा विप्रेंद्रा न दंडो न च दंडिकाः
然而那里的首陀罗恒称为“摩罗迦”(Mallaka)——皆为守法行义之人。噢,最胜婆罗门啊,彼处无王,无刑罚,亦无施刑者。
Verse 38
स्वधर्मेणैव धर्मज्ञास्ते रक्षंति परस्परम् । एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्
凭借各自所当行之本分,通达法者彼此护持。关于那座岛洲,唯此而已可言。
Verse 39
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि
此事亦当听闻:关于大威德的娑迦洲(Śākadvīpa),噢,强者啊。