
Dharma of the Renunciant: Alms Discipline, Meditation, and Expiations
第60章阐明出家遁世者之法:以乞食(bhikṣā)为生,或以果实与根茎维持。并规定严谨的乞食仪轨:每日仅一巡,少语寡言,所至人家有限,停立须短,并以洗净与行ācāmana等净行保持清净。 本章将饮食之礼与观修相合:先向日神奉献,再以数口供养诸prāṇa;并行暮旦Sandhyā诵念,观心莲花,令心归一,终以“Oṃ”入定。 教义之极处宣示:至上之光为不二真如,与大自在天Mahādeva/Śiva同体;同时亦以毗湿奴/那罗延Viṣṇu/Nārāyaṇa为解脱之所缘。继而指出修行者之过失——欲染、妄语、偷盗、伤害与饮食违犯——并开示赎罪法prāyaścitta(Sāṃtapana、Kṛcchra、Cāndrāyaṇa、Prajāpatya)及调息prāṇāyāma之次数,最后嘱咐此法当秘传于具德之人。
Verse 1
व्यास उवाच । एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् । भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा
毗耶娑说:“如是,对于安住于自身住期(āśrama)戒律、调伏其心的遁世者(yati),所宣说的生计当以乞食为本;或以果实与根茎为食。”
Verse 2
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरम् । भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति
遁世者应当每日仅乞食一次,不可久留,亦不应扩展乞行之路。因为执著于乞食的比丘,确实也会执著于诸根境界。
Verse 3
सप्तागारं चरेद्भैक्ष्यमलाभे न पुनश्चरेत् । गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः
乞士应当在七家乞食;若未得食,便不应再度乞求。他应仅停留如挤一头牛乳之须臾,俯首向下而立。
Verse 4
भिक्षेत्युक्त्वा सकृत्तूष्णीमादद्याद्वाग्यतः शुचिः । प्रक्ष्याल्य पाणी पादौ च समाचम्य यथाविधि
仅说一次“Bhikṣā(乞食)”,那清净而摄语者应默然受取(施食)。随后洗净手足,并依仪轨行阿遮摩那(ācamana,净口礼)。
Verse 5
आदित्यं दर्शयित्वान्नं भुंजीत प्राङ्मुखो नरः । हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः
先将食物奉献示于太阳,男子应面向东方而食。心神专注,先以五口作供,献于五种生命气(prāṇa),然后再食其余八口。
Verse 6
आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम् । आलाबुदारुपात्रे च मृण्मयं वैणवं तथा
行净水啜饮(ācamana)之后,应观想神圣的梵天(Brahmā)、至上主宰;并以葫芦或木制之器行仪,亦可用陶土之器,以及竹制之器。
Verse 7
चत्वारि यतिपात्राणि मनुराह प्रजापतिः । प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च
生主摩奴(Prajāpati Manu)宣说:出家行者受施有四时——夜初、午夜、夜后分,亦复于其余相应之时。
Verse 8
संध्यासूक्तिविशेषेण चिंतयेन्नित्यमीश्वरम् । कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम्
以暮晨交时(Sandhyā)诸赞的殊胜诵持,应恒常观想主宰——先安置于心莲之中那位名为“宇宙者”,由其而生宇宙。
Verse 9
आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम् । सर्वस्याधारमव्यक्तमानंदं ज्योतिरव्ययम्
他是一切众生之真我,安住于黑暗之外;为万有之依止,未显之体,喜乐本身——不坏不灭之光。
Verse 10
प्रधानपुरुषातीतमाकाशं दहनं शिवम् । तदंतं सर्वभावानामीश्वरं ब्रह्मरूपिणम्
超越原质(Pradhāna,太初自然)与灵我(Puruṣa,觉知原则)者为虚空(ākāśa);而更在其上者为火——吉祥的湿婆(Śiva),一切存在状态之终极界限,主宰,其形即梵(Brahman)。
Verse 11
ओंकारांतेथवात्मानं समाप्य परमात्मनि । आकाशे देवमीशानं ध्यायीताकाशमध्यगम्
以“唵”(Oṃ)为终,令自我融入至上我;继而于苍穹之中观想主宰伊沙那(Īśāna),那位神圣者,安住于虚空中央。
Verse 12
कारणं सर्वभावानामानंदैकसमाश्रयम् । पुराणपुरुषं विष्णुं ध्यायन्मुच्येत बंधनात्
观想毗湿奴(Viṣṇu)——太初之人(Purāṇa-Puruṣa),一切存在状态之因,唯一本乐之所依——便能从系缚中解脱。
Verse 13
यद्वा गुहादौ प्रकृतौ जगत्संमोहनालये । विचिंत्य परमं व्योम सर्वभूतैककारणम्
又或者,在洞窟等处——于原质(Prakṛti)之中、世间迷惑的居所——当观想至上的虚空(vyoman),一切众生唯一之因。
Verse 14
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते । आनंदं ब्रह्मणः सूक्ष्मं यत्पश्यंति मुमुक्षवः
彼即一切众生之生命,世界于其中归于寂灭;那是梵(Brahman)微妙之乐,为求解脱者所亲见。
Verse 15
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् । अनंतं सत्यमीशानं विचिंत्यासीत वाग्यतः
在其中唯有梵(Brahman)安住,其标志即纯净之智——无尽、真实、至上主宰;观想彼者,他便摄持言语而安住。
Verse 16
गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम् । योवतिष्ठेत्सदानेन सोश्नुते योगमैश्वरम्
此乃最隐秘之智——隐秘胜于一切隐秘——为诸苦行者(yati)所宣说;恒常安住于此者,得自在神圣之瑜伽。
Verse 17
तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः । ज्ञानं समभ्यसेद्ब्रह्म येन मुच्येत बंधनात्
因此,应恒常乐于智慧,专注于自我之学;当勤修梵智,由此得解脱诸缚。
Verse 18
मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम् । आनंदमक्षरं ज्ञानं ध्यायेत च ततः परम्
了知自我迥然独立——孤然一体,离于万有——其后当观修至上:不坏之识智,亦即安乐。
Verse 19
यस्माद्भवंति भूतानि यज्ज्ञात्वा नेह जायते । स तस्मादीश्वरो देवः परस्ताद्योधितिष्ठति
万有众生由彼而生,知彼则于此不复再生;彼即主宰、神圣自在天(Īśvara),超越一切而安立为至上。
Verse 20
यदंतरे तद्गमनं शाश्वतं शिवमव्ययम् । य इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः
那内在间隙中的运行是永恒的,吉祥(湿婆)而不坏。凡能作为此之内证者,既为自我亦超越自我者,即是大神自在天(Mahēśvara)。
Verse 21
व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च । एकैकातिक्रमेणैव प्रायश्चित्तं विधीयते
凡为行乞沙门所规定的诸誓戒,以及这些誓戒亦然——每一条若有违犯,皆应依次为每一项过失制定相应的赎罪法(prāyaścitta)。
Verse 22
उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः । प्राणायामसमायुक्तं कुर्य्यात्सांतपनं शुचिः
若因欲念而亲近女子,持戒之人当专心行赎罪:自身清净,修行萨安塔帕那(Sāṃtapana)苦行,并配合调息法(prāṇāyāma)。
Verse 23
ततश्चरेत नियमात्कृच्छ्रं संयतमानसः । पुनराश्रममागम्य चरेद्भिक्षुरतंद्रितः
随后,当以调伏之心依规修行克里恰拉(kṛcchra)苦行;再回到住处(āśrama)后,行乞者应不懈怠地继续托钵行乞。
Verse 24
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथापि च न कर्तव्यः प्रसंगो ह्येष दारुणः
智者说:与法(dharma)相应的不实之言并不伤害;然而即便如此,也不应将其作为行径,因为此乃险恶而可怖的纠缠。
Verse 25
एकरात्रोपवासश्च प्राणायामशतं तथा । उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना
若出言妄语,求法之行者当行一夜斋戒,并修一百次调息(prāṇāyāma),以自净其过。
Verse 26
परमापद्गतेनापि न कार्यं स्तेयमन्यतः । स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः
纵使陷于极端困厄,亦不可盗取他人之物。经论(Smṛti)宣说:无有比盗窃更大的不义(adharma)。
Verse 27
हिंसा चैवापरा तृष्णा याच्ञात्मज्ञाननाशिका । यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः
暴力,以及另一过失——贪渴——并与乞求相伴,皆能毁坏对真我(Ātman)的觉知。世人所谓“财富”,实则是这些生命之息向外奔逐诸境。
Verse 28
स तस्य हरते प्राणान्यो यस्य हरते धनम् । एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रतच्युतः
夺人财物者,亦夺其命息。如此行之,此恶心之人便离正行,堕失其誓戒。
Verse 29
भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतंद्रितः । अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत्
复又生起厌离与悔悟,比丘当不懈而警醒,继续以乞食为生;然若比丘无故骤然行暴力,
Verse 30
कुर्यात्कृच्छ्रातिकृच्छ्रं तु चांद्रायणमथापि वा । स्कंदेतेंद्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि
若出家行者(yati)因诸根羸弱,见女子而发生不由自主之遗泄,当修严厉之苦行“克利遮罗提克利遮罗”(Kṛcchrātikṛcchra)或行“月行誓”(Cāndrāyaṇa)。
Verse 31
तेन धारयितव्या वै प्राणायामास्तु षोडश । दिवास्कंदे त्रिरात्रं स्यात्प्राणायामशतं बुधाः
因此,确应修习十六次调息(prāṇāyāma)。至于“Divāskanda”之时,连行三夜,智者规定当作一百次调息。
Verse 32
एकान्ने मधुमांसे च नवश्राद्धे तथैव च । प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम्
对于仅食一餐者,或食蜜与肉者,或行新设之施食祭(śrāddha)者,以及公开取盐者——于此诸种情形,皆宣说以“生主法”(Prajāpatya)忏悔为净化。
Verse 33
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् । तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेत्
恒常安住于禅观者,一切罪垢不断消灭。是故当观想那罗延(Nārāyaṇa),并专心归依于对祂的禅念。
Verse 34
यद्ब्रह्मणः परं ज्योतिः प्रविष्टाक्षरमव्ययम् । योंतरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः
那超越梵天(Brahmā)之至上光明,入于不坏不变之“无字”(akṣara);彼为内在之我、至上梵(Brahman)——当知彼即大自在天(Maheśvara)。
Verse 35
एष देवो महादेवः केवलः परमं शिवः । तदेवाक्षरमद्वैतं तदा नित्यं परं पदम्
唯有祂是神——大天(Mahādeva)、至上的湿婆。祂即是不坏的、不二的真实;祂是永恒的至高归处。
Verse 36
तस्मान्महीयते देवे स्वधाम्नि ज्ञानसंज्ञिते । आत्मयोगात्परे तत्वे महादेवस्ततः स्मृतः
因此,在那被称为“智”(知识)的神圣自住之境中,祂备受崇敬;又因凭借自我之瑜伽安住于至上真实,故被忆念为大天(Mahādeva)。
Verse 37
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति । तमेवात्मानमन्वेति यः स याति परं पदम्
他不见有任何神祇与大天(Mahādeva)相别离。凡唯独追随祂、认祂为本我者,得至上之境。
Verse 38
मन्यंते ये स्वमात्मानं विभिन्नं परमेश्वरात् । न ते पश्यंति तं देवं वृथा तेषां परिश्रमः
凡妄想自身之我与至上主宰相分离者,不能见彼神圣之神;他们的劳作徒然无益。
Verse 39
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् । स देवस्तु महादेवो नैतद्विज्ञाय बध्यते
至上梵(Brahman)唯是一体——应当证悟的不坏真如。此神即大天(Mahādeva);不证此理,众生仍受系缚。
Verse 40
तस्माद्यतेत नियतं यतिः संयतमानसः । ज्ञानयोगरतः शांतो महादेवपरायणः
因此,出家行者应当恒常精进——自律而摄心——安住于智瑜伽,寂静安然,完全归依大天(湿婆,Mahādeva)。
Verse 41
एष वः कथितो विप्रा यतीनामाश्रमः शुभः । पितामहेन मुनिना विभुना पूर्वमीरितः
婆罗门们啊,我已向你们宣说这吉祥的出离者住处(āśrama);它早先由可敬的祖父神毗多摩诃(Pitāmaha)——大能的牟尼——所宣示。
Verse 42
नापुत्रशिष्ययोगिभ्यो दद्यादेवमनुत्तमम् । ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्म्माश्रयं शिवम्
不可将此无上教法授与不具资格者——非为可承之子、可受之弟子或瑜伽行者者。此吉祥之智,由自生者(梵天,Svayambhū)所宣说,依止出家者之法(yati-dharma),清净慈利,如同湿婆。
Verse 43
इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रतिहितमनसो ये नित्यमेवाचरंति
如是宣说了出家行者的戒律仪轨:其唯一宗旨,在于令诸天之最欢喜。凡心志安住、恒常奉行者,不复再起系缚之生,亦无其所证之毁失。
Verse 60
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्टितमोऽध्यायः
至此,吉祥《莲华大往世书》(Padma Mahāpurāṇa)之《天界品》(Svarga-khaṇḍa)第六十章圆满结束。