Adhyaya 53
Svarga KhandaAdhyaya 5390 Verses

Adhyaya 53

Teaching of Karma-yoga (Student Conduct, Vedic Study, and Gāyatrī Supremacy)

第53章将梵行学生(brahmacārin)的戒律规定为业瑜伽:恭敬师长,约束身口,遵守侍奉礼仪,并严禁轻慢、无礼或过分亲昵。 随后转入吠陀修学法:每日诵读,持诵圣音 praṇava(Om),并将供献与四部吠陀及诸《往世书》(Purāṇa)相联系;最终强力推尊伽雅特丽(Gāyatrī)持诵为精髓,其功德超越诸吠陀。 本章又说明吠陀开学仪式(vedopākaraṇa)的时节、随季节的学习期限,并详列“非诵日”(anadhyāya)的触发缘由,如风暴、凶兆、不净、特定月相日、丧亡等。结尾告诫不可只作机械背诵而不观义,劝人终身依吠陀与圣传(smṛti)而学而行,并引摩奴(Manu)为权威。

Shlokas

Verse 1

व्यास उवाच । एवं दंडादिभिर्युक्तः शौचाचारसमन्वितः । आहूतोध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम्

毗耶娑言:如是,具持杖等诸所需,安住清净与正行;被召唤时,当开始诵学,目光注视师尊之面。

Verse 2

नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः

应当常以双手恭举以备侍奉,行止端正,善自调伏;当被告知“坐下”时,应面向师尊而坐。

Verse 3

प्रतिश्रवणसंभाषे शयानो न समाचरेत् । आसीनो न च भुंजानो न तिष्ठेन्न पराङ्मुखः

在聆听与对话之时,不应卧而为之;亦不应坐而为之,亦不应食而为之;也不应背向而立。

Verse 4

नीचैः शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषयेन यथेष्टासनो भवेत्

在上师面前,应常将卧榻与座位置于较低处;并且只应在上师目光所及、合乎礼法之处就座,不可随心所欲。

Verse 5

नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम्

不可称呼他的名号——即便是间接提及、随口一说也不可;亦不可模仿他的步态、言语与举止。

Verse 6

गुरोर्यत्र परीवादो निंदा वापि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गंतव्यं वा ततोऽन्यतः

凡有诽谤或非议上师之处,应当掩住双耳;或即刻离开那里,前往别处。

Verse 7

दूरस्थो नार्चयेदेनं न क्रुद्धो नांतिके स्त्रियः । न चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ

不可远处礼拜于他,不可在嗔怒时礼拜,也不可在妇女近旁礼拜。亦不可顶撞回话;在他面前也不应久立而不就座。

Verse 8

उदकुंभं कुशान्पुष्पं समिधोऽस्याहरेत्सदा । मार्जनं लेपनं नित्यमंगानां वै समाचरेत्

应常为他奉上水罐、库沙草、鲜花与柴薪;并当恒常为其肢体行拂拭清洁与涂抹膏油之礼。

Verse 9

नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रामेदासनं चास्य च्छायादीन्वा कदाचन

切不可跨越或践踏他以花鬘供奉之卧榻,也不可跨越他的木屐与鞋履;亦不可踩踏他的座位,或在任何时候侵扰他的影子等诸事。

Verse 10

साधयेद्दंतकाष्ठादींल्लब्धं चास्मै निवेदयेत् । अनापृच्छ्य न गंतव्यं भवेत्प्रियहिते रतः

应为他备办洁齿木等物,凡所获得皆当呈献于他。未经请示不可往任何处去;当恒常致力于令上师欢喜并有益之事。

Verse 11

न पादौ सारयेदस्य सन्निधाने कदाचन । जृंभितं हसितं चैव कंठप्रावरणं तथा

在他面前,切不可伸展双足;同样也不可打呵欠、放声而笑,或以失礼之态遮掩喉颈。

Verse 12

वर्जयेत्सन्निधौ नित्यमंगस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः

在师长面前,应常常避免掰响或弹动肢体关节。应于适当之时诵读修学,只要上师不生不悦。

Verse 13

आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितः । आसने शयने याने नैव तिष्ठेत्कदाचन

当在上师身旁较低处就坐,以专注恭敬之心奉事。无论何时,都不可坐上上师之座、卧其床榻,或乘其车乘。

Verse 14

धावंतमनुधावेत गच्छंतमनुगच्छति । गोश्वोष्ट्रयानप्रासादे तथाधोविष्टरेषु च

见人奔走,当随之奔走;见人前行,当随之前行。同样地,无论乘牛马骆驼所牵之车,居于楼阁宫室,乃至卧于下榻,亦当相随相伴。

Verse 15

आसीत गुरुणा सार्द्धं शिलाफलक नौषु च । जितेंद्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः

当与师长同住相随,即便在石板之上或舟船之中亦然;应恒常自制,制伏诸根,调御其心,离嗔无怒,身心清净。

Verse 16

प्रयुंजीत सदा वाचं मधुरां हितकारिणीम् । गंधमाल्यं रसं कल्पं शुक्तिं प्राणिविहिंसनम्

应常以甘美而有益之言语行事;并可用香气与花鬘,取其和善之味与调制之食,食用不害众生之物,不伤一切有情。

Verse 17

अभ्यंजनांजनोन्मर्द्दच्छत्रधारणमेव च । कामं लोभं भयं निद्रां गीतवादित्रनर्तनम्

又如:涂油按摩与妆饰,摩擦其身,乃至执持华盖;以及欲念、贪求、恐惧、昏睡、歌唱、奏乐与舞蹈等事。

Verse 18

आतर्जनं परीवादं स्त्रीप्रेक्षालंभनं तथा । परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत्

应当竭力远离:恐吓威逼、诽谤毁谤、以淫欲之目窥视并骚扰妇女、加害他人,以及恶意搬弄是非。

Verse 19

उदकुंभं सुमनसो गोशकृन्मृत्तिका कुशान् । आहरेद्यावदन्नानि भैक्ष्यं चाहरहश्चरेत्

他应备办水罐、鲜花、牛粪、净土与库沙草;若尚无食物,便当日日出行乞食,以日常布施之食维生。

Verse 20

घृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् । अनृत्यदर्शी सततं भवेद्गीतादि निस्पृहः

他当戒离酥油与一切盐类,并远离凡已陈腐之食;常常不观舞乐,亦不贪恋歌唱等诸般声色。

Verse 21

नादित्यं वै समीहेत नाचरेद्दंतधावनम् । एकांतमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम्

不应凝视日轮,亦不应(于彼时)行刷牙洁齿之事;也不应在僻静处与不净之女或首陀罗等私下交谈。

Verse 22

गुरूच्छिष्टं भेषजान्नं प्रयुंजीत न कामतः । मलापकर्षणं स्नानं नाचरेद्धि कदाचन

不可仅因欲念而食师长所余之食,亦不可随意取用被视作药食之物;并且绝不可行那只为去除身垢而作的沐浴。

Verse 23

न कुर्यान्मानसं विप्रो गुरोस्त्यागे कथंचन । मोहाद्वा यदि वा लोभात्त्यक्त्वा तु पतितो भवेत्

婆罗门绝不可在心中起舍弃师尊之念;若因迷妄或贪欲而弃师,则堕为失德之人。

Verse 24

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं न द्रुह्येत्कदाचन

无论是世间之学、吠陀之学,或真正的灵性之智——都应从赐予此智者处受学;对那位传授者,任何时候都不可背叛或加害。

Verse 25

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य न मनुस्त्यागमब्रवीत्

即便上师傲慢,不知应作与不应作,且已走上邪途——摩奴也未曾规定应当舍弃他。

Verse 26

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् । नत्वाभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत्

当师之师在前,应如对待自己的上师一般恭敬行事。并且先行顶礼,在得上师许可之后,方可再向其他诸师致敬。

Verse 27

विद्यागुरुष्वेतदेवं नित्यावृत्तिषु योगिषु । प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च

对于传授学问之师与恒常修持的瑜伽行者,确实如此:他们制止你趋向不义(adharma),也教导你何为有益。

Verse 28

श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबंधुषु

为求自身至善,应常以对待上师之礼,待上师之子、上师之妻,以及上师的亲族。

Verse 29

बालः संमानयेन्मान्याञ्छिष्टो वा यदि कर्म्मणि । अध्यापयन्गुरोः सूनुं गुरुवन्मानमर्हति

即使是孩童,也应敬奉可敬之人;若其已受正行之训,则教导上师之子的师者,当受与上师同等之敬礼。

Verse 30

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजनः । न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च

对于上师之子,不应为其施行身躯按摩与沐浴,也不应食他人之残食;亦不当为其洗净其足。

Verse 31

गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः । असवर्णाश्च संपूज्याः प्रत्युत्थानाभिवादनैः

与师同一种姓(varṇa)之师母,应如师一般受敬;即便师母属不同种姓,也当以起身迎接与致敬礼拜而恭敬相待。

Verse 32

अभ्यंजनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्

为师母涂抹香膏、为其沐浴、揉擦按摩其身,以及梳饰其发——此等事皆不应为之。

Verse 33

गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः । कुर्वीत वंदनं भूम्यामसावहमिति ब्रुवन्

然若师母尚年轻,不应以触其足而致礼;当伏地礼拜,口称:“我即是彼(弟子),前来顶礼。”

Verse 34

विप्रोष्य पादग्रहणपूर्वकं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्म्ममनुस्मरन्

自远行归来时,应先以触足为始,向师母恭敬顶礼;忆念贤善之人所行的正法与端正行持。

Verse 35

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा । संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया

母之姊妹、舅母、婆母以及父之姊妹,皆当如法恭敬供养;于师者而言,她们应被尊重如同师母(导师之妻)。

Verse 36

भ्रातृभार्याश्च संग्राह्या सवर्णा हन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसंबंधियोषितः

兄弟之妻若同一种姓(varṇa),亦可纳为婚配,即便她屡死屡生亦然。若女子离夫在外,则亦可迎娶与宗亲、族属相连之女子。

Verse 37

पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी

对父之姊妹、母之姊妹、兄长之妻,乃至自己的姊妹,都应以待母之礼而行;然而亲生之母,尊重尤为至上。

Verse 38

एवमाचारसंपन्नमात्मवंतमदांभिकम् । वेदमध्यापयेद्धर्म्मं पुराणांगानि नित्यशः

对于具此等善行、能自制、无伪饰之人,应日日教授《吠陀》与法(dharma)之义,并兼授《普拉那》(Purāṇa)之诸支分。

Verse 39

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् । हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः

当弟子在师长身边住满一年时,即使上师尚未传授知识,仅因弟子与师同住,上师也能除去弟子的罪业与过失。

Verse 40

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । शक्तोन्नदोंबुदः साधुरध्याप्यादश धर्मतः

师长之子应勤于侍奉,能施与知识,持法而清净;具足才能,如雨云般带来喜悦,且为善德之人——当依正法教授十种本分。

Verse 41

कृतकंठस्तथाऽद्रोहः मेधावी गुरुकृन्नरः । आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः

应当嗓音清朗,无怨害之心,聪慧而勤于事师;为人可信,亦为众人所喜。如此,受过正当训练的两次生者,便能依仪轨教授六种吠陀学科。

Verse 42

एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम् । आचम्य संयतो नित्यमधीयीत उदङ्मुखः

应当在如此的婆罗门中行布施;至于他处,则只施与相称之物。先以啜水净身,摄心自持,日日面向北方诵习圣典。

Verse 43

उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽरमेत्

合掌抱持师足,仰望上师之面,应当说道:“尊者,请教我。”并在适当之时亦当请求:“愿得片刻止息(休憩)。”

Verse 44

प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावकः । प्राणायामैस्त्रिभिः पूतस्ततोंकारमर्हति

面向东方,他应恭敬端坐于圣洁的库沙草之上;以三次调息净化身心之后,方堪诵出神圣的音节“唵”(Oṃ)。

Verse 45

ब्राह्मणः प्रणवं कुर्यादंतेऽपि विधिवद्द्विजाः । कुर्यादध्यापनं नित्यं सब्रह्मांजलिपूर्वतः

婆罗门应依仪轨诵出“普拉纳瓦”(Oṃ),即使在诵读或仪式结束之时亦然,噢诸位两次生者。并且他应日日教授吠陀,以合掌恭敬梵(Brahman)为始。

Verse 46

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः । अधीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा

对一切众生而言,吠陀是永恒之眼。虽应日日研习,但唯有依婆罗门的戒律与修持方能正解;否则便会误解而偏曲。

Verse 47

अधीयीत ऋचो नित्यं क्षीराहुत्या सदेवताः । प्रीणाति तर्पयन्कालं कामैर्हूताः सदैवताः

应恒常诵读《梨俱吠陀》之赞歌。以乳为供,诸天得以敬奉;于适当时辰令其满足,则那些常在的神祇——以所愿供品而召请者——便心生欢喜。

Verse 48

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः । सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम्

恒常研习《夜柔吠陀》者,以凝乳(dahi)之供令诸天欢喜;研习《娑摩吠陀》者,则以酥油(ghee)之供日日令其欢悦。

Verse 49

अथर्वांगिरसो नित्यं मध्वा प्रीणाति देवताः । धर्मांगानि पुराणानि मांसैस्तर्पयतेसुरान्

阿闼婆—安吉罗传统恒常以蜂蜜取悦诸天;而作为达摩之肢的《往世书》,以肉供使诸神满足。

Verse 50

प्रातश्च सायं प्रयतो नैत्यकं विधिमाश्रितः । गायत्रीं समधीयीत गत्वारण्यं समाहितः

清晨与傍晚,行者自持清净,依止日常所定之仪轨;当往林间(寂静处),摄心安住,诵持伽耶特丽。

Verse 51

सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः

当日日诵伽耶特丽女神——千般为最上,百中为中枢,十中为最胜;如是持诵,被称为“持咒之祭”(japa-yajña)。

Verse 52

गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुः । एकतश्चतुरोवेदा गायत्रीं च तथैकतः

主以天平衡量伽耶特丽与诸吠陀:一边是四部吠陀,另一边唯有伽耶特丽。

Verse 53

इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनं । नाम त्रिपंचाशत्तमोऽध्यायः

如是,在尊贵的《莲华大往世书》之天界品(Svarga-khaṇḍa)中,名为《业瑜伽之教》的第五十三章至此圆满。

Verse 54

पुराकल्पे समुत्पन्ना भूर्भुवः स्वः सनातनाः । महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः

在久远的劫初,永恒的三大圣宣——Bhūr、Bhuvaḥ、Svaḥ——应运而生;此三者即三种Mahāvyāhṛti,能除尽一切不祥。

Verse 55

प्रधानं पुरुषः कालो विष्णुब्रह्ममहेश्वराः । सत्वंरजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः

Pradhāna(本原质料)、Puruṣa(宇宙之人)、时间,以及诸神Viṣṇu、Brahmā、Maheśvara——并同三种guṇa:sattva、rajas、tamas——依次被传统忆念为(七种)vyāhṛti。

Verse 56

ओंकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम् । एष मंत्रो महायोगः सारात्सार उदाहृतः

Oṃkāra即彼至上梵;其后为Sāvitrī(Gāyatrī)。此咒为大瑜伽,被宣说为诸精髓之精髓。

Verse 57

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम्

那位梵行者若日复一日诵持此Gāyatrī——诸吠陀之母——并了知其义,便得至无上归趣。

Verse 58

गायत्री वेदजननी गायत्री लोकपावनी । गायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते

Gāyatrī为吠陀之母,Gāyatrī为诸界之净化者。无有胜过Gāyatrī之持诵;了知此理,便得解脱。

Verse 59

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम्

噢,最殊胜的再生者啊,吠陀复诵之仪(vedopākaraṇa)依传统应在室罗伐那月的满月日举行;或在阿沙陀月的满月日,或在普罗什塔帕迪之满月日举行。

Verse 60

यत्सूर्ययाम्यगमनं मासान्विप्रोर्द्धपंचमान् । अधीयीत शुचौ देशे ब्रह्मचारी समाहितः

在太阳南行持续的诸月——五个半月——婆罗门应在清净之处研习,住持梵行(brahmacārin),心神安定,专注不散。

Verse 61

पुष्ये तुच्छंदसां कुर्याद्बहिरुत्सर्जनं द्विजः । मासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि

当月宿为补沙(Puṣya)之时,再生者应在外行排泄之事;同样地,当月之白半到来时,于第一日之上午亦应如此。

Verse 62

छदांसि च द्विजोऽभ्यस्येच्छुक्लपक्षे तु वै द्विजः । वेदांगानि पुराणानि कृष्णपक्षेषु मानवः

在白半(śukla-pakṣa),再生者应习学吠陀的韵律(chandas);在黑半(kṛṣṇa-pakṣa),则应研习吠陀支分(Vedāṅga)与诸《往世书》(Purāṇa)。

Verse 63

इमान्नित्यमनध्यायानधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणोऽभ्यस्यन्नपि प्रयत्नतः

从事吠陀学习者,应恒常避开这些必须停诵的时段(anadhyāya);即便正在教授或勤勉练习,也应在彼时克制而止。

Verse 64

कर्णश्रवेऽनिले रात्रौ दिवापांसुसमूहने । विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे

当夜里狂风在耳畔轰鸣,当白昼尘土成团聚集,当雷电轰鸣而大雨倾注,又当巨大的流星如洪流般坠落之时——

Verse 65

अकालिकमनध्यायमेतेष्वाह प्रजापतिः । एतानभ्युदिनान्विद्याद्यदा प्रादुष्कृताग्निषु

生主(Prajāpati)宣示:在这些情形中,应行不合时的停诵停学吠陀(anadhyāya);又当圣火被扰乱或被玷污之时,应知此等为“abhyudina”之日,即须特别守持的日子。

Verse 66

तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने । निर्घाते भूमिचलने ज्योतिषां चोपसर्जने

在此等时刻,应行停学(anadhyāya):于反常的时令以及云现之时;于霹雳雷震、地动山摇之际,并于天上诸光体出现不祥扰动之时。

Verse 67

एतानकालिकान्विद्यादनध्यायानृतावपि । प्रादुष्कृतेष्वग्निषु च विद्युत्स्तनितनिस्वने

应知这些为立刻应行停学(anadhyāya)之因,即便在应时之季亦然:当火焰骤然凶猛腾起之时,以及电闪雷鸣之声震响之时。

Verse 68

सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा । नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च

凡有闪电之时,即为停学(anadhyāya)之时;并且在其后的夜分,也当如同白昼一般而停诵停学。在乡村与城邑之中,亦应视为常行的停学。

Verse 69

धर्मनैपुण्यकामानां पूतिगंधे च नित्यशः । अंतः शवगतेग्रामे वृषलस्य च सन्निधौ

凡欲于达摩中得善巧、积累功德者,不应常处于秽臭之中——不可住在被尸骸所染的村落里,也不可亲近与吠舍罗(vṛṣala,卑贱不净者)为伍。

Verse 70

अनध्यायोरुद्यमाने समये जलदस्य च । उदके चार्धरात्रे च विण्मूत्रं च विसर्जयन्

在不诵读之期(anadhyāya)、日出之时、云起之际、在水中,或于半夜,都不应排泄粪尿。

Verse 71

उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिंतयेत् । प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य वेतनम्

即便处于食余不净(ucchiṣṭa),即便已食用施于祭祖的 śrāddha 供品,博学的婆罗门亦不应心中踌躇:既已受纳,当取为 ekoddiṣṭa(为一位亡者所作之 śrāddha)所施之供养金(dakṣiṇā)。

Verse 72

त्र्यहं न कारयेद्ब्रह्म राज्ञो राहोश्च सूतके । यावदेकान्ननिष्ठा स्यात्स्नेहालोपश्च तिष्ठति

在因国王或罗睺之死而生的丧秽(sūtaka)期间,三日之内不应举行梵祭(Brahma-yajña,吠陀祭仪)——只要仍守持“一食同类”的戒行,并且禁欲避亲的状态尚在。

Verse 73

विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् । शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम्

只要在博学婆罗门之身旁,便不应诵称(梵天)Brahmā 之名——尤其在卧躺、双足伸展,或作不恭之姿时更当禁止。

Verse 74

नाधीयीतामिषं जग्ध्वा शूद्रश्राद्धान्नमेव च । नीहारे बाणशब्दे च संध्ययोरुभयोरपि

食肉之后,不应诵读圣典;食用首陀罗之施罗陀(śrāddha)供食之后,亦不应诵读。又在雾中、闻箭声之时,以及两次暮晓交界(黎明与黄昏)的沙提亚(sandhyā)之际,都不宜诵读。

Verse 75

अमावास्या चतुर्दश्योः पौर्णमास्यष्टमीषु च । उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्

在阿摩婆娑(amāvasyā,新月日)、第十四日(tithi)、满月日(pūrṇimā)与第八日(tithi)之时;又在优帕迦尔曼(Upākarman)与乌特萨尔迦(Utsarga)之际,应行三夜之斋戒或忏悔性的克制。

Verse 76

अष्टकासु अहोरात्रमृत्वंतासु च रात्रिषु । मार्गशीर्षे तथा पौषे माघमासे तथैव च

在阿湿多迦(Aṣṭakā)诸日,当昼夜皆然;又在标志季节转折的诸夜。并且在摩伽施尔沙月(Mārgaśīrṣa)、保沙月(Pauṣa)以及摩伽月(Māgha)之中亦复如是。

Verse 77

तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेषु सूरिभिः । श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च

诸贤者宣说:在黑半月(kṛṣṇa-pakṣa)之中有三次阿湿多迦(Aṣṭakā)。当于舍勒湿摩塔迦树(śleṣmātaka)、娑尔摩梨树(śālmali)与摩度迦树(madhuka)的荫下行持。

Verse 78

कदाचिदपि नाध्येयं कोविदारकपित्थयोः । समानविद्ये च मृते तथा सब्रह्मचारिणि

不可在拘毗陀罗树(kovidāra)与迦毗提他树(kapittha)之下诵读圣典。又当学业相当者亡故之时,亦不宜诵读;在同修梵行者(brahmacārin)面前,也不应诵读。

Verse 79

आचार्ये संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम् । छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः

即使导师(ācārya)已离世,也应遵行三夜停学之制。此等被宣说为婆罗门的“间隙”——名为不诵(anadhyāya)之期,吠陀学习当暂停。

Verse 80

हिंसंति राक्षसास्तेषु तस्मादेतान्विवर्जयेत् । नैत्यकेनास्त्यनध्यायः संध्योपासनमेव च

在那些处所或时机中,罗刹(Rākṣasa)会加害于人,因此应当回避。然行持日常仪轨者并无不诵(anadhyāya)之断;唯当恒守三时暮晓的沙提耶礼拜(sandhyā-upāsanā)。

Verse 81

उपाकर्म्मणि होमांते होममध्ये तथैव च । एकामृचमथैकं वा यजुः सामानि वा पुनः

于优帕迦摩(Upākarman)仪中——在供火祭献的末了,亦在祭献进行之中——当诵一颂《梨俱》(Ṛk),或诵一则《夜柔》(Yajus)祭辞,或复诵《娑摩》(Sāman)圣歌。

Verse 82

नाष्टकाद्यास्वधीयीत मारुते चाभिधावति । अनध्यायस्तु नांगेषु नेतिहासपुराणयोः

在阿湿多迦(Aṣṭakā)等仪期,不应诵习;大风奔袭之时亦不应学习。然而,不诵(anadhyāya)之禁不及诸支学(aṅga),亦不及《伊提哈娑》(Itihāsa)与《往世书》(Purāṇa)。

Verse 83

न धर्मशास्त्रेष्वन्येषु सर्वाण्येतानि वर्जयेत् । एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः

在其他《法论》(Dharmaśāstra)中亦教人回避此诸禁事。如是略说,梵行学生(brahmacārin)之法与职责已被宣示。

Verse 84

ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् । योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः

往昔,梵天曾将此教诲授予心志调御的圣仙:凡二次生者,若不先研习《闻传》(吠陀),却向他途用功,便是迷误。

Verse 85

स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः । न वेदपाठमात्रेण संतुष्टो वै भवेद्द्विजः

如此迷昧之人,二次生者不应与之交谈;当视为离于吠陀之外。诚然,二次生者不应仅以诵读吠陀而自足。

Verse 86

पाठमात्रावसानस्तु पंके गौरिव सीदति । योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत्

然而只止于诵读者,必沉没于泥淖,如牛陷泥中——即便依正法学了吠陀,却不思惟吠陀之义者。

Verse 87

स संमूढः शूद्रकल्पः पात्रतां न प्रपद्यते । यदित्वात्यंतिकं वासं कर्तुमिच्छति वै गुरौ

那迷昧之人,行止如首陀罗,不能获得受持圣教的资格。即便如此,若他愿意在上师身边久住不离,

Verse 88

युक्तः परिचरेदेनमाशरीरविमोक्षणम् । गत्वा वनं च विधिवज्जुहुयाज्जातवेदसम्

当以调御之心侍奉于师,直至身解脱之时;其后入林,依仪轨向“知一切生者”——阇多吠陀(阿耆尼)献供。

Verse 89

अधीयीत तथा नित्यं ब्रह्मनिष्ठः समाहितः । सावित्रीं शतरुद्रीयं वेदांतांश्च विशेषतः । अभ्यसेत्सततं युक्तो भिक्षाशनपरायणः

他应当日日诵习,安住于梵(Brahman),心神寂定。尤其应恒常修习萨维特丽(伽雅特丽)圣咒、《百鲁陀罗》(Śatarudrīya)以及吠檀多的教义;自持严谨,以乞食为唯一资粮。

Verse 90

एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वः । पुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः

此至上《往世书》(Purāṇa)及其仪则,已依吠陀与圣传而在此如实宣说于汝等;这正是往昔天圣自生摩奴(Svāyambhuva Manu)在诸大圣仙之最胜者诘问时所开示的。