Adhyaya 80
Srishti KhandaAdhyaya 8030 Verses

Adhyaya 80

Somārcana — Worship and Pacification of Soma (Moon) within Graha-Rites

第80章以求问诸行星(graha)之对治与安抚法门开篇,先从苏利耶(Sūrya,太阳)说起。经文指出:众生藉由行星之作用而受善业与罪业之果报,从而消尽积累的业力;苏利耶被称为“时间”(Kāla),亦为统御之大力,兼具威严与慈和两面。 随后转入具体仪轨:规定以特定树叶、酥油等作火供(homa),并引述安抚用的咒语;又按数量设定供献,以求除病、脱离杀害之罪与束缚之厄,并标明星期与月日(tithi)之时机,如周日奉行苏利耶之礼,明半月第七与第十五日用于康复。 继而专论苏摩(Soma,月神):以形上赞颂其遍满宇宙、主宰自创生至毁灭之运转,并以微细身意象描绘——甘露(amṛta)与月之驻处在头顶。最后给出虔敬礼赞、黎明诵持之苏摩真言,以及明确的布施(dāna)法:以器皿与加酥油之凝乳恭敬施与婆罗门(brāhmaṇa),得容色端严、富足兴盛与吉祥安稳。

Shlokas

Verse 1

वैशंपायन उवाच । श्रुतो ग्रहेश्वरस्यैष प्रभावस्त्वत्प्रसादतः । रव्यादीनां ग्रहाणां च साधनं नो वद द्विज

毗舍婆耶那(Vaiśaṃpāyana)说道:“承你恩德,我们已闻行星之主的威德。今请你,二次生者啊,告知我们关于诸星——自日轮起——的修持之法(仪轨与对治)。”

Verse 2

के ते रव्यादयस्तेषां कथं तोषः कथं प्रियम् । काले देशे तु संप्राप्ते दर्शनं तच्छिवाशिवम्

自太阳起的那些存在是谁?如何令其满足,何者为其所爱?而当时与处皆得其宜时,此一瞻见便成吉祥——或成不祥。

Verse 3

व्यास उवाच । ग्रहादयो ये लोके तु भुंजंति पुण्यपातकम् । शिवाशिवं च कुर्वंति विश्वकर्मक्षयाय वै

毗耶娑(Vyāsa)说道:“世间诸行星及其他天象之力,使众生受报于福与罪;它们成就吉与凶,实为令所积业行至消尽。”

Verse 4

सूरः कालोंतको ज्ञेयो जनेषु च ग्रहेषु च । तिग्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रभुः

应当了知:苏利耶(太阳神)即是时间,也是众生与诸星辰之终结者。由其炽烈与柔和两相和合,他成为主宰,既能制御亦能施恩。

Verse 5

ग्रहभावाच्च तस्यैव संतोषं निगदाम्यहम् । उदुम्बरपलाशाभ्यां पल्लवाभ्यां जुहोति यः

今我将依其性情宣说那位行星神的真正满足之法:凡以优昙婆罗与波罗沙树的嫩叶作供、行火供者,即能令其欢喜。

Verse 6

आकृष्णेनेति मंत्रेण मूलकेनाथ शांतये । जुहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे

为求息灾安宁,应以“ākṛṣṇeneti”之咒,依“mūlaka”(根本真言)而行火供;并以酥油同献,以成就所愿之果。

Verse 7

शांतये सर्वरोगाणां वधबंधविमोचने । एकैकेन तु मंत्रेण होतव्यं च शतंशतम्

为息除一切疾病,并得脱杀害与系缚,当以每一独立真言各行一百次火供。

Verse 8

शितं चच्छागलं दद्यात्सूरायादित्यवासरे । भोजयेद्ब्राह्मणान्शक्त्या हव्यकव्यैर्मनोहरैः

在主日(太阳之日),当以白山羊奉献于苏利耶;并随己力供养婆罗门,以悦意之供品——既有奉诸天之供,亦有奉祖灵之供。

Verse 9

सप्तम्यां च सिते पक्षे पंचदश्यां तथैव च । रोगाद्विमुच्यते रोगी न रोगात्कृच्छ्रमेष्यति

在白半月的第七日,以及同样在第十五日,病者得以脱离疾病,不再因病而陷入苦厄。

Verse 10

परमं चामरं सत्वमाब्रह्मस्तंबमात्रके । ब्रह्मांडे चाणुमात्रे च सूरः संभावयिष्यते

至上不死的实相——自梵天乃至一茎草叶——为智者所观想:或在广大梵卵之中,或在至微一尘之内。

Verse 11

संहारांतं क्रमात्सर्वमुत्पत्तिस्थितिकारणात् । प्राणसर्गे जनानां स पाता विश्वचरस्तनौ

由生起与住持之因,他循次第引领万有,直至终极的毁灭。于众生流出之际,他为其守护者,以有身之相行遍宇宙。

Verse 12

मृत्युकाले तनोर्मध्यात्प्राणेन सह गच्छति । शीर्षान्तस्थः सदा चंद्रो द्विरष्टकलया युतः

临终之时,它与命息同出,自身中部而去。恒常安住于头顶者为月,具足十六分相。

Verse 13

अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः । जंतवस्तेन जीवंति महासत्वानुमात्रकाः

昼夜之间,那向下者于其身降下甘露之雨;众生因此得以存活,唯随各自大生命力之分量而已。

Verse 14

उर्व्यां सस्यानि पुष्णाति तथा स्थावरजंगमान् । एताभ्यां पुष्पवद्भ्यां च धारितं जनितं जगत्

在大地上,庄稼得以滋养,静止与行动的众生亦然。凭借这两者——其恩泽如花——世界得以维系并被生起。

Verse 15

तयोराराधनात्पुष्टिः सदा पुण्यापरार्धिका । साधयेत्सर्वकार्याणि साधकः सर्वदा शुचिः

礼敬那二者,便得滋养与兴盛,并获不断增长的福德资粮。修行者恒常清净,能成就一切所作。

Verse 16

न पूजयति यो मोहात्सुधांशुं मानवाधमः । आयुस्तस्य क्षयं याति नरकं चाधिगच्छति

那最下劣之人,因迷妄而不礼敬甘露光(Sudhāṃśu)之月;其寿命渐损,且堕入地狱。

Verse 17

निष्कलंक कलाधार गंगाधर शिरोमणे । द्वितीयायां जगन्नाथ तुभ्यं चंद्र नमोस्तु ते

无垢之月啊,执持月相之主;为持恒河者(湿婆)顶上明珠。于第二日(tithi),宇宙之主啊,向你——旃陀罗——致敬礼拜。

Verse 18

तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि । प्रकरोति नरो यस्तु सोभीष्टं फलमाप्नुयात्

及至另一月日(tithi),凡人若亦向月神致礼,便能获得所愿之果报。

Verse 19

अत्रिनेत्रोद्भव श्रीमन्क्षीरोद मथनोद्भव । महेशमुकटावास तुभ्यं चंद्र नमोस्तुते

噢光辉的月神——出自阿特里之眼,由乳海搅拌而生,安住于大自在天(摩诃湿婆)之冠——我向你,旃陀罗,恭敬顶礼。

Verse 20

दिव्यरूप नमस्तुभ्यं सुधाकर जगत्पते । शुक्लपक्षे तथा कृष्णे त्रियामायां विदुर्बुधाः

噢具神圣妙相者——向你致敬,月神,世间之主。于白分与黑分之时,在夜之三更,智者皆知你的作用与威德。

Verse 21

ऊं ह्रां ह्रीं सोमाय नमः इति जप्यमंत्रः । प्रभाते जपनीयः । एवं यः पूजयेत्सोमं श्रावयेच्च शृणोति वा । स पीयूषसमो लोके भवेज्जन्मनि जन्मनि

“Ūṁ hrāṁ hrīṁ——向苏摩顶礼”:此为应当持诵之真言;当于黎明诵念。如此,凡礼敬苏摩者——或令他人诵持,或仅仅聆听——于世间生生世世,如甘露一般。

Verse 22

एवं सहस्रनाम्ना यः स्तौति पूजयते भुवि । सोऽक्षयं लभते स्वर्गं पुनरावृत्तिदुर्लभम्

如是,凡在世间以千名赞颂而礼拜者,得不坏之天界——那难以因再返轮回而失落的天界。

Verse 23

इति सोमपूजा । पित्तले भाजने कांस्ये दधिपूर्णे घृते शिवे । न्यूनोऽधिकस्तु विभवाच्छ्रुत्वा कर्मविमत्सरः

此即苏摩之供奉。以黄铜器与钟金(kāṃsya)钵盛之,供以凝乳,并以酥油充满,作为吉祥供品。供品或少或多随力而行;闻此教诲,当无嫉妒怨尤而修其仪轨。

Verse 24

स्वर्णे वा राजते वारे सौम्ये कृष्णभवे बुधम् । संस्थाप्य सर्वसंस्थाने दद्याद्बहुसुताय च

在明半月的星期三,应于如法清净的圣处安置一尊以金或银铸成的布陀(Budha,水星)圣像,随后以布施奉献之——祈求赐予多子之福。

Verse 25

परं भवति सौभाग्यं पीयूषादधिकं भृशम् । स्त्रीणां च पुरुषाणां च न दौर्भाग्यं कदाचन

至上的吉祥福运由此生起,其妙胜于甘露;无论女子或男子,自此不复遭遇不幸。

Verse 26

रूपसौभाग्यकामोहं दधिपूर्णं च भाजनम् । ददामि कांस्यपात्रस्थं देहि सौभाग्यरूपकम्

我愿求容色与吉祥,今奉上盛满凝乳之器,置于青铜钵中;愿赐我美貌与瑞福之相。

Verse 27

द्विजाय वाक्यपूर्वेण दद्याद्विमत्सरो नरः । शक्तितो दक्षिणा देया तथा वस्त्रादिकं नवम्

无嫉妒之人,应先以恭敬言辞启请,再向二生者(婆罗门)施与。随其力所能及,当奉献达克希那(dakṣiṇā),并施新衣等物。

Verse 28

भोज्यान्नं सर्वसम्पूर्णं तांबूलं सुमनोहरम् । पुष्पमालादिकं दद्याद्रूपसौभाग्यहेतवे

当奉献圆满备办之食、悦意的槟榔叶供(tāmbūla),以及花鬘等物,以成就美貌与吉祥福运之因。

Verse 29

एवं यः कुरुते दानं सोमोद्दिष्टं द्विजातये । स्वर्लोके नरलोके वा रूपसौभाग्यभुग्भवेत्

因此,凡依为苏摩所规定而向二次出生者(婆罗门)布施的人,无论在天界或人间,皆得享受容貌之美与吉祥福运。

Verse 80

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सोमार्चनं । नामाशीतितमोऽध्यायः

至此,在尊贵的《莲华往世书》第一部《创世品》(Sṛṣṭikhaṇḍa)中,名为“苏摩礼拜(Somārcana)”的第八十章圆满结束。