
Pṛthu’s Earth-Milking, the Etymology of ‘Pṛthivī,’ and the Vaivasvata (Solar) Genealogy
毗湿摩询问:为何诸王称为pārthiva(属地之王),大地又如何得诸名。普罗诃斯提耶叙述维那王堕落后,毗湿奴之化身普利图出现;他追逐化作母牛的大地,并“挤取其乳”,使资生之物与正法复兴。经中列举众类众生各以不同之犊与器皿取其所需之“乳”。随后描写普利图的理想王治,并为众生福祉而平整大地。 继而转入太阳系谱:毗婆斯瓦特之世系,娑智尼亚与影身(Chāyā),阎摩之诅咒与其职司。又说工巧神特瓦什特里削减太阳光辉,并由此立下造像不得描绘太阳之足的规制。末后叙述伊拉在舍罗伐那、于湿婆与帕尔瓦蒂主宰之境中发生性别转变;并及布陀与普鲁,以及绵延的太阳王族谱系,终以伊克什瓦库之盛名收束,并将罗摩安置于罗伽族系之中。
Verse 1
भीष्म उवाच । बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा । पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः
毗湿摩(Bhīṣma)曰:古昔传闻,大地曾为众王所享有、所统御。既然君王因与大地相连而称为“帕尔提瓦”(pārthiva),那么大地本身又是因与谁相应而得此名号呢?
Verse 2
किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकी । गौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे
为何大地被赋予这样的术语称号?又为何大地亦名“高丽(Gaurī)”?请为我说明这些名号的缘由。
Verse 3
पुलस्त्य उवाच । पुरा कृतयुगस्यासीदंगो नाम प्रजापतिः । मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी
普拉斯提亚说道:往昔在克利多(Kṛta)时代,有一位名为安伽(Aṅga)的生主(Prajāpati)。他迎娶了死神摩利提优(Mṛtyu)之女——极其不幸的阿提杜尔穆姬(Atidurmukhī)。
Verse 4
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा । अधर्मनिरतः कामी बलवान्वसुधाधिपः
她名为苏尼塔(Sunīthā),而久远以前,她的儿子名叫维那(Vena)——一位强盛的地上君王,纵欲而行,沉溺于非正法(adharma)。
Verse 5
लोकस्याधर्मकृच्चापि परभार्यापहारकः । अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः
他对世间行诸非义,甚至夺取他人之妻。于是,为使其改过并为世界安宁之故,诸大圣仙(ṛṣi)遂采取行动。
Verse 6
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः । शापेन मारयित्वैनमराजकभयार्दिताः
纵使一再劝请,那心性不净者仍不赐庇护。于是众人因无王而生惧,备受煎迫,便以诅咒将他诛灭。
Verse 7
ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः । तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः
于是无垢的婆罗门以力搅拌他的身体;当那身体被搅拌之时,种种弥勒叉(mleccha)族类便出生了。
Verse 8
शरीरे मातुरंशेन कृष्णांजनसमप्रभाः । पितुरंशस्य संगेन धार्मिको धर्मकारकः
在他的身中,由于母分,他具如黑色眼膏(añjana)般的幽暗光泽;又因与父分相应,他为正法之人,能成就达摩。
Verse 9
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी । दिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः
他从右手而生——执弓、持箭,并握钉锤(gadyā);此子由天界光辉所成,身披宝甲,臂戴宝饰。
Verse 10
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत । स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं
他以“普利图”(Pṛthu)之名而闻名,并作为毗湿奴的化身而诞生。由婆罗门为其灌顶后,他修行了极其艰难的苦行(tapas)。
Verse 11
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः । निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं
凭毗湿奴之恩赐,主宰获得了对一切的统御。见大地既无吠陀研习,又无祭祀呼声“瓦沙特”(vaṣaṭ),并且失却达摩,他忧心地注视着它。
Verse 12
वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः । ततो गोरूपमास्थाय भूः पलायितुमुद्यता
他因忿怒而举箭,威力无量,欲将其刺穿。于是大地化作母牛之形,准备逃遁。
Verse 13
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः । ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्
然而具箭囊与弓的普利图紧随其后。随后他在一处停下,说道:“我当如何行?”
Verse 14
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते । सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च
普利图又说道:“善德者啊,请速赐所求;为整个世界——不动者与动者——之故。”
Verse 15
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः । स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं
“如是。”大地说道。于是那位人王挤取其乳:以自生摩奴(Svāyambhuva Manu)为犊,以普利图自身为挤乳者,并以自己的手掌为器皿。
Verse 16
तदन्नमभवद्दुग्धं प्रजा जीवंति येन तु । ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्
那食物化为乳汁,众生赖此而生。随后当诸仙(ṛṣi)挤乳之时,索摩(Soma,月神)便在那时成为其犊。
Verse 17
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः । देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्
婆遮斯钵提(Vācaspati)成为挤乳者;器皿为《吠陀》,盛满苦行(tapas)之精髓。随后诸天挤取大地之乳,当时风神众(Marut)成为挤乳者。
Verse 18
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं । देवानां कांचनं पात्रं पितृणां राजतं तथा
因陀罗成为小牛;乳汁是闪耀着生命元气的力量。诸天之器为金器;而祖灵(Pitṛ)之器亦为银器。
Verse 19
अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः । बिलं च पात्रं नागानां तक्षको वत्सकोभवत्
安多迦(Antaka)成为挤乳者,阎摩(Yama)为小牛,斯瓦达(Svadhā)为乳之精味。蛇族(Nāga)以洞穴为器,而多叉迦(Takṣaka)成为他们的小牛。
Verse 20
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः । असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्
其后挤出的是毒乳;随后挤乳者又成为持国(Dhṛtarāṣṭra)。连阿修罗也将其挤入铁器之中——那折磨仇敌的毒。
Verse 21
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः । दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता
就器皿而言,摩耶(Māyā)成为小牛;出自普罗诃罗陀一系的毗卢遮那(Virocana)成为挤乳者。其处三首者充当牧者;由他使摩耶运转。
Verse 22
यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिः । कृत्वा विश्वावसुं वत्सं मणिमंतं महीपते
大王啊,往昔诸夜叉欲求隐匿,遂汲取大地之乳;以毗湿婆婆苏为犊,以摩尼曼特为挤乳者。
Verse 23
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं । रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च
继而诸饿鬼与罗刹之众汲出脂肪与浓稠之血;柔毗耶那婆为挤乳者,苏摩梨确为其犊。
Verse 24
गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः । वत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा
随后乾闼婆与众天女复又汲取大地之乳;以质多罗他为犊,牵引出诸般芬芳,并同样盛于莲叶之中。
Verse 25
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः । गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च
挤乳者名为婆苏卢支,通达《阿闼婆吠陀》;凭借群山汲取大地之乳,遂得种种珍宝。
Verse 26
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः । वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः
又汲出了神圣的药草;大地之巨擎——须弥山成为挤乳者。其处,喜马梵为犊,而器皿复为石制。
Verse 27
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं । पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः
于是以诸树为挤乳之具,汲取大地之乳;此乳纵被割断,亦能生出新芽。乳汁盛于以帕罗沙(palāśa)叶制成之器中,而花繁如云的娑罗(sāla)树亦参与此圣仪。
Verse 28
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः । एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः
继而,缚叉(plakṣa)树成为小牛,为诸树与森林之主;同样地,凭借其他(小牛等),大地也可随人所愿而被汲取其乳。
Verse 29
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति । न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्
当普利图(Pṛthu)治理国土之时,众生寿长、财丰、安乐;既无贫困,亦无疾病;无人困乏,亦无人作恶造罪。
Verse 30
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति । नित्यंप्रमुदितालोका दुःखशोकविवर्जिताः
当普利图(Pṛthu)统治国度之时,无灾厄,无侵害;众人恒常欢悦,远离痛苦与忧伤。
Verse 31
धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलः । भूमंडलं समं चक्रे लोकानां हितकाम्यया
那位大力者以弓端推开诸山之王,使大地之轮变得平坦,只为祈愿诸世界得享安宁与福祉。
Verse 32
न पुरग्रामदुर्गाणि न चायुधधरा नराः । म्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः
若无城邑、村落与堡垒,亦无执兵之人,则众生于彼处凋亡;忧苦弥漫,且无人敬重《政财之学》(arthaśāstra)之法度。
Verse 33
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति । कथितानि च पात्राणि यत्क्षीरं च यथा तव
当普利图(Pṛthu)治理国土之时,众人唯以达摩为归依。诸器皿既已述说,乳亦如是——正如你所陈述的那般。
Verse 34
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता । यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं
洞悉各自之所好,便依其性向而赐与。又于一切具足祭祀(yajña)光辉之圣地,我已向你呈献此教示。
Verse 35
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते । तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः
贤者啊,由于大地成为普利图(Pṛthu)之女,并因与其相应相随,故在智者之间以“普利提毗”(Pṛthivī)之名而著称。
Verse 36
भीष्म उवाच । आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं । सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि
毗湿摩(Bhīṣma)曰:“婆罗门啊,请依次第宣说完整的日族世系;又真知者啊,你亦当如法详述月族世系。”
Verse 37
पुलस्त्य उवाच । विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा । तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा
普拉斯提亚说道:往昔,毗婆斯梵由迦叶波与阿底提所生。亦复如是,他有三位妻子——桑吉尼娅(王后)以及普拉婆。
Verse 38
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं । प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं
那位王后——罗伊伐多之女——诞下一子,名为雷伐多。普拉婆诞下普拉婆塔;而桑吉尼娅亦诞下摩奴,即特瓦什特利之子。
Verse 39
यमश्च यमुना चैव यमलौ च बभूवतुः । ततस्तेजोमयं रूपमसहंती विवस्वतः
于是双生子诞生——阎摩与亚牟那。随后,她无法忍受毗婆斯梵那炽烈如火的光辉形相,便退避而去。
Verse 40
नारीमुत्पादयामास स्वशरीरादनिंदितां । त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी
她从自身之躯化生出一位无瑕的女子,形貌性情皆如特瓦什特利之女,名曰“恰雅”(影),光辉动人。
Verse 41
किंकरोमीति पुरतः संस्थितां तामभाषत । छाये त्वं भज भर्तारं मदीयं तं वरानने
他立于她前说道:“我当如何行?”噢,容颜姝丽的恰雅啊,你当以我之主为夫,承奉那位尊主。
Verse 42
अपत्यानि मदीयानि मातृस्नेहेन पालय । तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता
“以母亲的慈爱护持我的孩子。”她答曰“如是”,那位贞善的女子遂前往爱神迦摩(Kāma)。
Verse 43
कामयामास देवोपि संज्ञेयमिति चादरात् । जनयामास सावर्णिं मनुं मनुस्वरूपिणम्
那位天神亦怀恭敬而爱慕她,心念:“她当被称为娑ṃjñā(Saṃjñā)。”随后他生下娑婆尔尼·摩奴(Sāvarṇi Manu),具足摩奴之相。
Verse 44
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु । ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु
又因同属一系,她被许配给娑婆尔尼——毗婆斯瓦特·摩奴之子;其后依次(又迎娶)女儿塔帕蒂(Tapatī)以及特瓦什特丽(Tvāṣṭrī)。
Verse 45
छायायां जनयामास संज्ञेयमिति भास्करः । छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा
在影女遮耶(Chāyā)中,日神婆娑迦罗(Bhāskara)生下一子,名为娑ṃjñeya(Saṃjñeya)。其时,遮耶对自己的儿子之爱,竟胜过对摩奴。
Verse 46
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः । संतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं
摩奴先前不能忍受;于是阎摩(Yama)为怒所蔽,举起右足,当下出言威吓于他。
Verse 47
शशाप च यमं छाया भवतु क्रिमिसंयुतः । पादोयमेको भविता पूयशोणितविस्रवः
于是影子女神恰雅诅咒阎摩:“愿你为虫所侵;愿你这一只脚流出脓与血。”
Verse 48
निवेदयामास पितुर्यमः शापेन धर्षितः । निःकारणमहं शप्तो मात्रा देव सकोपया
阎摩受诅咒所苦,便向父亲禀告:“天神啊,我无缘无故被母亲在忿怒中诅咒。”
Verse 49
बालभावान्मया किंचिदुद्यतश्चरणः सकृत् । मनुना वार्यमाणापि मम शापमदाद्विभो
因童稚之心,我曾一次微微抬起脚。虽有摩奴劝阻,他仍赐我以诅咒,主啊。
Verse 50
प्रायो न माता सास्माकमसमा स्नेहतो यतः । देवोप्याह यमं भूयः किं करोमि महामते
“确然,我们的母亲在慈爱上无与伦比。”于是那位天神又对阎摩说道:“大心者啊,我当如何是好?”
Verse 51
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः । अनिवार्या भवस्यापि का कथान्येषु जंतुषु
由乐而生忧,谁能例外?业果相续实不可违——纵然是湿婆亦然;更何况其他众生。
Verse 52
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति । खंजं च रुचिरं चैव पादमेतद्भविष्यति
一只鹭将啄食你脚中的虫;而这只脚将变得跛弱,却仍显得秀美可观。
Verse 53
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह । वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः
闻此言后,他心安无惧,遂行极严的苦行。由于离欲,在圣地普什迦罗的渡口,他以果实、泡沫,乃至以气息为食而住。
Verse 54
पितामहं समाराध्य यावद्वर्षायुतं पुनः । तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः
他恭敬奉事祖父神梵天(Pitāmaha)长达一万年;凭借苦行之力,诸天之主——莲华所生者(Padma-sambhava)遂心生欢喜。
Verse 55
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं । धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्
他选择了护世之职、祖灵(Pitṛ)不坏之界,并承担审察此由法(dharma)与非法(adharma)交织而成之世的职责。
Verse 56
एवं स लोकपालत्वमगमत्पद्मसंभवात् । पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ
于是,奉莲华所生者(梵天)之命,他得成护世之位;无垢者啊,他亦获得对祖灵(Pitṛ)以及对正法与非法的主宰权。
Verse 57
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं । त्वष्टुः समीपमगमदाचचक्षे सरोषवान्
毗婆斯梵既知三阇尼亚之所作所行,便近诣工巧神特瓦什特里,忿然而言。
Verse 58
तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः । तवासहंती भगवंस्तेजस्तीव्रं तमोनुद
于是特瓦什特里先以安慰之辞对他说:“噢有福者,驱散黑暗者,我不能承受你那猛烈炽盛的光辉。”
Verse 59
बडवारूपमास्थाय मत्सकाशमिहागता । निवारिता मया सा च त्वद्भयेन दिवस्पते
她化作巴达瓦之形,来到我面前;而我因畏惧于你——噢诸天之主——便将她制止。
Verse 60
यस्मादविज्ञातमना मत्सकाशमिहागता । तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति
既然你怀着未明之意来到我前,因此你不配进入我的居所。
Verse 61
एवमुक्ता जगामाशु मरुदेशमनिंदिता । बडवारूपमास्थाय भूतले संप्रतिष्ठिता
既受此言,无瑕者疾往荒漠之地;复取母马之形,安住于大地之上。
Verse 62
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम् । अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्
因此,若我确为蒙你恩典之人,愿你赐我慈恩。我将以器具收摄你的光辉,把太阳安置其中。
Verse 63
रूपं तव करिष्यामि लोकानंदकरं प्रभो । तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं
“主啊,我将为你塑成一种令诸世界欢喜的形相。”太阳答曰“如是”,于是他使昼之造者旋转回转,以便重塑。
Verse 64
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत् । त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं
随后他分离出神圣威能,铸成毗湿奴之轮;又造鲁陀罗之三叉戟,并进一步制成因陀罗之金刚雷霆。
Verse 65
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं । रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्
工匠神特瓦什特利塑成无比之相:能灭代提耶与达那婆,具千道光芒,广大而雄伟,却唯独双足未曾造就。
Verse 66
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः । अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्
而他再也不能复见太阳之足的形相。因此直到今日,任何地方都不应命人雕造那双足的形像。
Verse 67
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां । कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं
凡行此事者,罪业最重,必堕受人讥毁之归趣;并且在此世亦将染上麻风,此乃众苦之名相。
Verse 68
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च । न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः
是故,求法(dharma)、欲(kāma)与利(artha)者,切莫于任何处所令人为智者“诸天之主”造作其足相——无论绘画之中,或在祠庙殿宇之内。
Verse 69
ततः स भगवान्गत्वा भूर्लोकममराधिपः । कामयामास कामार्तो मुख एव दिवाकरः
其后,那位可敬的尊主、诸不死者之王,前往人间;而太阳——宛如其自身之面——为欲火所逼,遂起渴慕之心。
Verse 70
अश्वरूपेण महता तेजसा च समन्वितः । संज्ञा च मनसा क्षोभमगमद्भयविह्वला
具足大威光,化作骏马之形而现;而娑ṃjñā(桑吉尼娅)惊惧不已,心神震荡,因恐怖而惶乱。
Verse 71
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया । तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्
他疑念道:“此乃他者(陌生者)。”遂由鼻孔泄出其精;而由此精液,据我等所闻,诞生了双生的阿湿毗那(Aśvin)二神。
Verse 72
दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः । ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं
由于他们因“听闻”而生,故被称为达斯罗(Daśra);又因从鼻尖显现,遂名为那萨提亚(Nāsatya)。他在久远之后认出那位神祇,便获得至上的满足与安宁。
Verse 73
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः । सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः
他与妻子同欢喜,乘坐天界的飞行宫殿(vimāna)前往天界。即便在今日,萨瓦尔尼亚·摩奴(Sāvarṇya Manu)仍在须弥山上修行苦行。
Verse 74
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः । यमुना तपती चैव पुनर्नद्यौ बभूवतुः
凭借苦行之力,沙尼(Śani)也在诸行星中获得同等之位;而雅穆那(Yamunā)与塔帕蒂(Tapatī)又再度化为河流。
Verse 75
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता । मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः
同样,性情可怖的毗湿提(Viṣṭhi)被安立为“时间”的一种显现。毗婆斯瓦特·摩奴(Vaivasvata Manu)也有十位大力之子。
Verse 76
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः । इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च
在他们之中,伊拉(Ila)为首,乃由求子祭(putreṣṭi)之仪而生。又有伊克什瓦库(Ikṣvāku)、库沙那婆(Kuśanābha)、阿利什塔(Ariṣṭa)以及德里什塔(Dhṛṣṭa)。
Verse 77
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः । पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः
那利湿延多、迦卢沙与大力的舍利耶提;又有普利沙陀罗与那婆伽——他们皆为人中之神圣者。
Verse 78
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम् । जगाम तपसे भूयः पुष्करं स तपोवनं
曼奴先为其正直之子伊罗行灌顶立王,随后又为修苦行而离去——前往普湿迦罗,那片苦行之林。
Verse 79
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः । वरं वरय भद्रं ते मानवेय यथेप्सितं
于是赐福者梵天为成就其愿而来,对他说:“吉祥者啊,摩奴之后裔啊,随你所愿,选择一项恩赐吧。”
Verse 80
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं । वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः
他便对那位神圣全能、莲目莲生的主说道:“愿我族系之中,世上一切君王皆与正法相应。”
Verse 81
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज । तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत
“主啊,莲生者啊,愿蒙你恩典,使我们得为自在的君王。”天神之主答曰“如是”,便当场隐没不见。
Verse 82
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा । अथैकदा रथारूढ इलो निज सुतो मनोः
随后他来到阿踰陀(Ayodhyā),如昔日一般居住其间。其后有一次,伊罗(Ila)——摩奴(Manu)之亲子——登上战车。
Verse 83
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां । भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन्
他遂踏上此大地——谷物几近匮乏——为成就其所愿;并周游诸洲(dvīpa),使诸王归于正法之秩序与约束。
Verse 84
जगामोपवनं शंभोरथाकृष्टः प्रतापवान् । कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्
于是那位威德炽盛者仿佛被牵引般,前往商婆(Śambhu)之园林,抵达名为舍罗婆那(Śaravaṇa)的大林,遍布如意树之藤蔓。
Verse 85
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः । उमया समयस्तत्र पुरा शरवणे कृतः
在那里,诸天之主——苏摩(Soma),顶戴新月者——欢然游乐;久远以前,他曾在舍罗婆那(Śaravaṇa)与乌玛(Umā)立下誓约。
Verse 86
पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं । स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले
凡具男性之名号者,若入我等之林——十由旬之范围内——皆将尽变为女性。
Verse 87
अज्ञातसमयो राजा इलः शरवणं गतः । स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्
伊罗王不知那禁忌之时与条件,走入舍罗婆那林苑;忽然化为女子,并在同一刹那变作“跋陀婆阿湿婆”。
Verse 88
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः । इलेति साभवन्नारी पीनोन्नतघनस्तनी
凡在为男子之时所作的一切,入于女身后尽皆遗忘。于是她成为名为“伊拉”的女子,胸乳丰盈而高挺坚实。
Verse 89
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा । पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा
她的髋与腿丰润而婀娜;双眸修长如莲瓣。面若满月,腰肢纤细而多姿,黑亮的眼神摄人心魄。
Verse 90
पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा । तनुलोमा सुवदना मृदुगद्गदभाषिणी
她的臂膀丰润而修长,微微上扬;发色深黑而卷曲。身有细柔毫毛,容颜秀美,言语轻柔,因情动而微颤。
Verse 91
श्यामागौरेण वर्णेन तनुताम्रनखांकुरा । कार्मुकभ्रूयुगोपेता हंसावरणगामिनी
她肤色微黝而带莹白,纤指尖端缀以铜红之甲;双眉如弓般弯秀,步履轻盈,宛若天鹅之行。
Verse 92
भ्रममाणा वने तस्मिन्चिंतयामास भामिनी । को मे पिता वा भ्राता वा को मे त्राता भवेदिह
她在那片森林中徘徊,心中忧惧的女子沉思道:“谁是我的父亲,谁是我的兄长?在此地,谁能成为我的护佑者?”
Verse 93
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले । चिंतयंती च ददृशे सोमपुत्रेण साङ्गना
“我被许配给谁为妻?我在世间已度过多少年岁?”她正如此思量时,连同侍从一起,被苏摩之子(月神之子)看见了。
Verse 94
इलारूप समाक्षिप्त मनसा वरवर्णिनी । बुधस्तदाप्तये यत्नमकरोत्कामपीडितः
那位美丽的女子心神被伊拉(Ilā)的形貌所摄;而布陀(Budha)为欲火所逼,竭力设法求得她。
Verse 95
विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः । वेणुदंडकृतावेशः पवित्रक खनित्रकः
他形貌殊异,剃光其首;携一只净水壶(kamandalu)与一卷经书。又执竹杖,随身带着库沙草环与一把小铲。
Verse 96
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली । वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः
梵天(Brahmā)化作婆罗门之相,顶结发髻、佩戴耳饰而宣说;身旁随从少年梵学生与求施者,手持柴薪、花、库沙草与净水。
Verse 97
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम् । बहिर्वनस्यांतरितः किल पादपमंडपे
过了一段时日,他寻觅之后,便在那处呼唤那位泰米尔女子——她藏在林中近处,仿佛在树下枝叶成荫的亭棚里。
Verse 98
ससंभ्रममकस्माच्च सोपालंभमिवाभवत् । त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम
他忽然惊惶不安,仿佛在责备她:“你竟舍弃对阿耆尼火供(Agnihotra)的侍奉,离开我家到哪里去了?”
Verse 99
इयं विहारवेला ते अतिक्रामति सांप्रतम् । एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना
你游憩的时辰此刻正要过去。来吧,来吧,广胯的佳人——你为何如此慌乱,又因何缘故?
Verse 100
इयं सायंतनी वेला विहारस्येह वर्त्तते । कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम
此处正是傍晚游憩之时。先涂抹清洁、整饰一新,再以花朵装点我的居所。
Verse 101
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन । आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ
她说道:“噢,苦行功德深厚的圣者,我已将一切尽忘。请告诉我关于我自己,也告诉我关于你;并说说我的夫君与我的家族吧,噢,云色幽暗者。”
Verse 102
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी । अहं च कामुको नाम बहुविद्यो बुधः स्मृतः
布陀对那纤细的少女说道:“噢,伊拉,肤色殊妙者,我名迦慕迦;我亦被称为布陀,通晓多门学艺。”
Verse 103
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः । इति सा तस्यवचनात्प्रविष्टा बुधमंदिरम्
“我父乃至上的婆罗门,出自光辉显赫之族。”因他此言,她便进入布陀仙人的居所。
Verse 104
रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम् । इला कृतार्थमात्मानं मेने तद्भवने स्थिता
宫殿遍布宝柱,由神圣的幻力(māyā)所成,光辉灿然;伊拉居于其中,自觉此身已得圆满。
Verse 105
अहो वृत्तमहोरूपमहो धनमहोकुलम् । मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम्
“啊,多么可敬的行止!啊,多么绝妙的容色!啊,多么丰厚的财富!啊,多么高贵的族系!无论是我的、他的、或我夫君的——啊,何等无上的丽质!”
Verse 106
रेमे च सा तेन सममतिकालमिला वने । सर्वभोगमये गेहे यथेंद्रभवने तथा
她与他在伊拉之林中欢悦相伴,历时甚久;居于充满一切享乐的宅邸,宛如在因陀罗的天宫一般。
Verse 107
अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाः । इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम्
于是,他们寻觅自己的君王;那位的诸弟——摩奴族裔之人——以伊克什瓦库为首,当时前往舍罗婆那的近旁。
Verse 108
ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम् । रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम्
随后,他们众人看见:在他们面前站立着那位马面者——无与伦比——宝饰之端放射光辉,光束灿然照耀。
Verse 109
संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः । अयं चंद्रप्रभो नाम वाजी तस्य महात्मनः
他们一经辨认,众皆惊叹道:“这正是那位大德所有、名为‘月光’(Candraprabha)的骏马。”
Verse 110
अगमद्वडवारूपमुत्तमं केन हेतुना । ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम्
“他因何缘故而得此殊胜的母马之形(Vaḍavā)?”于是他们询问自己的家祭司——迈特罗伐鲁尼(Maitrāvaruṇi)。
Verse 111
किमेतदित्यभूच्चित्रं वद योगविदां वर । वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा
“这是怎么回事?实在奇异——请说吧,瑜伽智者中最胜者。”于是,婆悉吒(Vasiṣṭha)亦以禅观之眼观见其相,便将一切尽皆开示。
Verse 112
समयः शंभुदयिता कृतः शरवणे पुरा । यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति
久远以前,商婆(湿婆)所钟爱的女神在舍罗婆那林中立下法则:凡男子入此处,必得女身。
Verse 113
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु । इलः पुरुषतामेति यथासौ धनदोपमः
此马亦与国王同时立刻得女身;而伊罗(Ilā)又复为男,如同那位可比财主俱毗罗(Kubera)者。
Verse 114
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम् । ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः
亦复如是,当勤加努力,礼敬持弓者毗那迦(Pinākin,湿婆)。随后众人前往大神摩醯湿伐罗(Maheśvara)所在之处。
Verse 115
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ । तावूचतुरलं चैष समयः किं नु सांप्रतं
他们以种种赞颂之偈礼赞帕尔瓦蒂与至上自在天(Parameśvara)。二神遂言:“够了——此刻究竟有何所求?”
Verse 116
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः । दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम्
伊叉婆拘(Ikṣvāku)行马祀(Aśvamedha)所得之果报,亦将同样归于你们二人。既施此赠与,那位勇士必无疑成为一位金普鲁沙(Kiṃpuruṣa)。
Verse 117
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः । इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत्
众维婆斯瓦塔之子齐声说道:“如是。”遂皆离去。其后,伊罗行毕神圣的马祭(Aśvamedha),便化为一位金普鲁沙(Kiṃpuruṣa)。
Verse 118
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः । बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्
勇者一月为男身,又一月复为女身。住于布陀(Budha,水星)之居所时,尼罗遂怀胎在身。
Verse 119
अजीजनत्पुत्रमेकमनेकगुणसंयुतम् । बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः
布陀生下一子,具足众德,名为普鲁(Pūru);随后他又复归天界。
Verse 120
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा । सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः
其时,那方国土因伊罗之名而称为伊罗弗利多(Ilāvṛta)。出自月族与日族的王统之中,诞生了伊罗王,能令宗族兴盛。
Verse 121
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः । इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः
如是,普鲁之子普鲁罗婆娑(Purūravas)成为增盛宗族者;同样,伊克什瓦库王(Ikṣvāku)亦被称为太阳(Arka)王朝之始祖,噫,人中之主。
Verse 122
इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यते । पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम्
伊罗在成为金普鲁沙(Kiṃpuruṣa)的状态时,也被称为苏丢姆那(Sudyumna)。后来,苏丢姆那又有三位不可战胜的儿子。
Verse 123
उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान् । उत्कलस्योत्कला नाम गयस्य तु गयापुरी
随后有乌特迦罗(Utkala),同样也有伽耶(Gaya),并有威力非凡的哈利塔湿瓦(Haritāśva)。乌特迦罗之地(或城)名为乌特迦拉(Utkalā),伽耶之地则称伽耶城(Gayāpurī)。
Verse 124
हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सह । प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम्
随后,迪吉雅弥雅(Digyāmyā)与俱卢族(Kurus)一同承认哈利塔湿瓦(Haritāśva),并在普拉提什塔那(Pratiṣṭhāna)为其子普鲁罗婆斯(Purūravas)行灌顶加冕。
Verse 125
जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः । इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्
以果实为食,他前往享受伊罗弗利多(Ilāvṛta)那神圣的国土;而伊克湿瓦库(Ikṣvāku)的长嗣则获得了摩陀耶提舍(Madhyadeśa),即中央之地。
Verse 126
नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलः । नाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम्
那利湿延陀(Nariṣyanta)有一子名为舒迦(Śuka),力大无比。由那婆伽(Nābhāga)生出安婆利沙(Ambarīṣa);而德里什塔(Dhṛṣṭa)则有三位儿子。
Verse 127
धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान् । आनर्तो नाम शर्यातेः सुकन्या चैव दारिका
有达利什塔凯图(Dhṛṣṭaketu)、斯瓦达尔玛(Svadharmā)与英勇的兰那达利什塔(Raṇadhṛṣṭa);而舍利耶提(Śaryāti)生一子名阿那尔塔(Ānarta),又有一女名苏迦尼娅(Sukanyā)。
Verse 128
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान् । आनर्तो नाम देशोभून्नगरी च कुशस्थली
阿那尔塔(Ānarta)有一子名罗遮摩那(Rocamāna),威德勇猛。由他兴起名为阿那尔塔的国土,其都城为俱沙斯塔利(Kuśasthalī)。
Verse 129
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च । ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च
由罗遮摩那(Rocamāna)生瑞瓦(Reva);由瑞瓦又生莱瓦塔(Raivata)。他有百子,其中长子亦名迦库德弥(Kakudmī)。
Verse 130
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता । करूषाच्चैव कारूषा बहवः प्रथिता भुवि
其女为瑞瓦蒂(Revatī),以罗摩(Rāma)之妻而闻名。又由迦卢沙(Karūṣa)繁衍出众多迦卢沙族(Kāruṣa),名扬大地。
Verse 131
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत । इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः
普利沙陀罗(Pṛṣadhra)因杀牛之罪,受师长诅咒而成首陀罗(Śūdra)。而在伊克什瓦库(Ikṣvāku)诸子之中,其名为毗库克希(Vikukṣi)、尼弥(Nimi)与檀陀迦(Daṇḍaka)。
Verse 132
श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताः । मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः
在他们之中,有五十位是那一百子中最为卓越者;而这些子嗣——诸王中最尊贵者——诞生于须弥山之北。
Verse 133
चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन् । मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः
据说那些国王共有四十八位,以及其余补足百数者,都位于须弥山之南。
Verse 134
ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः । तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः
从长子诞生一子,名为迦库特斯塔(Kakutstha);其子为苏优陀那(Suyodhana)。其子名为普利特利(Pṛthṛ);而毗湿伐斯塔(Viśvasta)是那位普利图(Pṛthu)之子。
Verse 135
आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत् । युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान्
其子为阿尔德拉(Ārdrā);由他诞生优婆那湿婆(Yuvanāśva)。优婆那湿婆之子,是那位英勇者,名为舍婆斯塔(Śāvasta)。
Verse 136
निर्मिता येन शावस्ती ह्यंगदेशे नराधिप । शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत्
大王啊,正是他在昂伽(Aṅga)之地建立了舍罗伐悉底(Śrāvastī)。由舍婆斯塔(Śāvasta)生出布利哈达湿婆(Bṛhadaśva),由他又兴起俱伐罗湿婆(Kuvalāśva)。
Verse 137
धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरा । तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च
他昔日诛灭阿修罗敦杜(Dhuṃdhu),遂得名号“敦杜摩罗”(Dhuṃdhumāra)。其后生三子:坚马(Dṛḍhāśva)、光辉者(Ghṛṇi),以及第三子。
Verse 138
कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान् । दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः
迦毗罗马(Kapilāśva)以英勇著称,被传为诛灭“道敦杜摩罗”(Dhauṃdhumāra)者。坚马(Dṛḍhāśva)之子为欢喜者(Pramoda),而其子为哈利耶施瓦(Haryaśva)。
Verse 139
हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत् । अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ
哈利耶施瓦(Haryaśva)生尼俱婆(Nikuṃbha),由尼俱婆又生三诃多马(Saṃhatāśva)。而无作马(Akṛtāśva)与战马(Raṇāśva)二人,皆为三诃多马之子。
Verse 140
युवनाश्वो रणाश्वस्य मांधाता च ततोभवत् । मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः
战马(Raṇāśva)生幼那施瓦(Yuvanāśva),由幼那施瓦生曼陀多(Māndhātā)。曼陀多生普鲁库察(Purukutsa),并且亦生国王法堤(Dharmasetu)。
Verse 141
मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान् । पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः
又有闻名的牟朱昆达(Mucukunda)——威力无比,且为释迦罗(Śakra,即因陀罗)之友——乃普鲁库察(Purukutsa)之子;他不可抗拒,为那尔摩陀河(Narmadā)之主。
Verse 142
संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत् । त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः
他的儿子是Saṃbhūti;由他诞生了Tridhanvā。Tridhanvā之子亦出生,被人忆念为Trayyāruṇa。
Verse 143
तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः । तस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः
他的名字是Satyavrata,因此被称念为Satyaratha。他的儿子是Hariścandra;由Hariścandra诞生了Rohita。
Verse 144
रोहताच्च वृको जातो वृकाद्बाहुरजायत । सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः
由Rohatā诞生Vṛka;由Vṛka诞生Bāhu。其子Sagara成为国王,具至高的正法与虔德。
Verse 145
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा । ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया
萨伽罗王亦有两位王后——Prabhā与Bhānumatī。昔日因求子之愿,她们礼敬供奉奥尔瓦之火。
Verse 146
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम् । एका षष्टिसहस्राणि सुतमेकं तथापरा
奥尔瓦对二人心生欢喜,遂依其所愿赐予殊胜恩许:一位得六万子嗣,另一位则得一子。
Verse 147
अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान् । एकं भानुमती पुत्रमगृह्णादसमंजसं
她迎受了宗族的开创者;普拉婆(Prabhā)迎受了许多儿子。婆奴摩蒂(Bhānumatī)只迎受一子——阿萨曼贾萨(Asamañjasa)。
Verse 148
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा । खनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे
于是,雅达维的普拉婆(Prabhā)诞下六万子。为寻祭马而掘地之时,他们被毗湿奴(Viṣṇu)焚尽。
Verse 149
असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतः । तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः
阿萨曼贾萨(Asamañjasa)之子,是闻名的阿姆舒曼(Aṃśumān)。其子为迪利帕(Dilīpa),而由迪利帕诞生婆吉罗陀(Bhagīratha)。
Verse 150
येन भागीरथी गङ्गा तपः कृत्वावतारिता । भगीरथस्य तनयो नाभाग इति विश्रुतः
由他以苦行(tapas)之力,使婆吉罗陀之恒河——婆吉罗提·恒伽(Bhāgīrathī Gaṅgā)降临人间;婆吉罗陀(Bhagīratha)之子,名闻为那婆伽(Nābhāga)。
Verse 151
नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत् । तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत्
由那婆伽(Nābhāga)生安婆利沙(Ambarīṣa);由他出信度洲(Sindhudvīpa)。信度洲之子为阿瑜陀寿(Ayutāyu),而由阿瑜陀寿诞生利图帕尔那(Ṛtuparṇa)。
Verse 152
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः । तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत्
由他而出,迦尔摩沙波陀(Kalmāṣapāda)亦被追念为“萨尔瓦业者”(Sarvakarmā)。其子为阿那兰尼亚(Anaraṇya),阿那兰尼亚之子为尼格那(Nighna)。
Verse 153
निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ । अनमित्रो वनमगादरिनाशकृते नृप
大王啊,诞生了两位卓越之子——阿那密多罗(Anamitra)与罗古优多摩(Raghuuttama)。阿那密多罗入林而去,为的是歼灭仇敌。
Verse 154
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा । दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत्
由罗古(Raghu)生出帝利波(Dilīpa),由帝利波又生阿阇(Aja)。由阿阇生长臂者迪尔伽婆呼(Dīrghabāhu),其后又有普罗阇波罗(Prājāpāla)。
Verse 155
ततो दशरथो जातस्तस्य पुत्रचतुष्टयं । नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत्
其后诞生了十车王(Daśaratha),他有四位王子。众子皆具那罗延(Nārāyaṇa)之本性,而罗摩(Rāma)为长子。
Verse 156
रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनः । वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः
同样地,他成为诛灭罗波那(Rāvaṇa)者、兴盛罗古族(Raghu)之增广者——其圣行传记由最尊胜的婆尔伽瓦(Bhārgava)为伐弥吉(Vālmīki)而撰成。
Verse 157
तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः । अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः
他的儿子名为库沙(Kuśa),增盛伊克什瓦库(Ikṣvāku)族裔。由库沙生阿提提(Atithi),而尼沙陀(Niṣadha)为其子。
Verse 158
नलस्तु निषधाज्जातो नभास्तस्मादजायत । नभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम्
由尼沙陀(Niṣadha)生那罗(Nala);由他生那婆斯(Nabhās)。由那婆斯出现本陀利迦(Puṇḍarīka),其后为克谢摩檀梵(Kṣemadhanvan)。
Verse 159
तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान् । अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः
他的儿子是英勇而威势赫赫的提婆尼迦(Devānīka)。提婆尼迦之子为阿希那古(Ahīnagu),其后为娑哈斯罗阿湿婆(Sahasrāśva)。
Verse 160
ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत् । तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत्
随后诞生了旃陀罗婆卢迦(Candrāvaloka);继而出现塔罗毗荼(Tārāpīḍa)。其子为旃陀罗吉利(Candragiri),而旃陀罗吉利之子为旃陀罗(Candra)。
Verse 161
श्रुतायुरभवत्तस्माद्भारते यो निपातितः । नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः
因此,那位被遣降至婆罗多(Bhārata)之地者,被称为室卢达优(Śrutāyu)。在此族系中,有两位名为那罗(Nala)者尤为著名。
Verse 162
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः । एते विवस्वतो वंशे राजानो भूरिदक्षिणाः
同样,毗罗塞那之子——奈沙陀,这位人中王——亦享盛名。此诸王出自毗婆斯梵之族,皆以丰厚布施而著称。
Verse 163
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः
凡出自伊克什瓦库族系者,尤以其为最上而被称颂传扬。