
The Slaying of Madhu (Establishment of the Name ‘Madhusūdana’)
第72章叙述天神与阿修罗的决战:魔族Madhu直面Hari(毗湿奴),指责祂违背战场礼法。Madhu施展māyā幻力迷惑众军,甚至以幻相使部分天神互相误杀。 毗湿奴以穿透之箭与苏达尔沙那神轮(Sudarśana cakra)反击,洞察幻形,斩灭伪装为天神的阿修罗,断首无数,显出超越迷妄之明辨。Madhu更以幻术化作Hara/湿婆,又化作女神之相,企图动摇主与天界军阵。 梵天(Brahmā)出面解除Skanda的迷乱。最终,毗湿奴摧毁幻化的障碍与坠落的群山,斩下Madhu之首。诸天遂称颂主为“Madhusūdana”(诛Madhu者),以此名号确立为战胜māyā与不义之力的教义标记。
Verse 1
व्यास उवाच । दिव्यं रथं समास्थाय धनुर्हस्तो बलैर्युतः । गत्वा च माधवं संख्ये देवासुरगणाग्रतः
毗耶娑说道:他登上天界战车,手执神弓,并有兵力相随;在天神与阿修罗两军之前锋,奔赴战场中的摩陀婆(Mādhava)。
Verse 2
क्रोधेन महताविष्टो मधुर्निर्जरमर्दनः । अब्रवीत्परुषं वाक्यमव्ययं हरिमीश्वरम्
Madhu被炽烈的忿怒所吞没——那位摧折诸天者——便以粗厉之言对不坏的主宰哈利说道。
Verse 3
नारायण न जानासि युद्धधर्ममितः कथम् । अन्यायाद्दुर्वधोपायं कृत्वा नष्टो न शोचसि
噢那罗延啊,你怎会不知战斗之法度(战之法)?你以不义采取恶毒的杀害之计,如今已自取败亡,难道不悲悔吗?
Verse 4
अनेन पंकयोगेन व्यवहारा कृतस्य च । सुरत्वं चोपनष्टं स्यादन्यसृष्टिं करोम्यहम्
由于这般与污浊相杂——此“泥混”之染——以及所作诸般行事,天神之位确会失落;因此我将另行开创新的造化。
Verse 5
त्वामेव निहनिष्यामि सह देवगणैरिह । इत्युक्त्वा धनुरादाय जघान विशिखैर्विभुम्
“就在此处此刻,我必与诸天军众一同诛杀你。”言毕,他执起弓,万箭击向那位大能者。
Verse 6
माधवस्तान्बिभेदाथ शरैर्वज्रसमप्रभैः । बहुभिस्सर्वगात्रेषु जघान च मधुं ततः
于是,摩陀婆以光辉如金刚雷霆之箭贯穿众敌,继而又以无数箭矢遍击Madhu全身诸肢。
Verse 7
मायया छादितः सोभूद्दैत्यस्तं सुरसत्तमाः । ये वै शूराश्च रुद्राद्यास्त्रिदशास्सत्त्वधारिणः
那位大阿修罗被幻力(māyā)所遮蔽。于是诸天中最尊胜者——以鲁陀罗为首的英勇三十三天众,持守萨埵(sattva)之德——前来对视并应对他。
Verse 8
देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः । सेनान्यो गणपा देवा लोकेश हरविष्णवः
亦有种种天女在场,执持兵器,乘坐各自神乘;又有统帅、众军之长与诸神之众:护世者、哈罗(湿婆)以及毗湿奴。
Verse 9
अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति संगताः । विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम्
其时,其他诸神——以诸 ग्रह神等为首——皆聚集而战;然而当下,诸天确实、无疑地为摩度(Madhu)的幻术所灭。
Verse 10
संमुखे विमुखे चैव शरशक्त्यृष्टिवृष्टिभिः । पतंति सहसा देवा भूमौ शस्त्राभिपीडिताः
无论迎面而战,抑或转身退却,诸天在箭矢、长枪与投矛如雨的攻袭下,骤然坠地,被兵刃所压碎。
Verse 11
एतस्मिन्नंतरे विष्णुर्गृहीत्वा च सुदर्शनम् । असुरान्मायया देवान्जघान रणमूर्धनि
其间,毗湿奴执起苏达尔沙那神轮,于战阵最前沿击杀诸阿修罗——他们以幻力(māyā)伪作天众之形。
Verse 12
अथ तेषां शिरांस्येष छित्वा चैव सहस्रशः । पातयामास देवेशो दैत्यानां च सुरात्मनाम्
于是,众神之主斩下了数以千计的头颅,令其坠落——既有阿修罗(Daityas)的,也有众神中高尚灵魂的。
Verse 13
एवमन्यान्विभुर्दैत्यान्द्रावयामास संगरात् । तं दृष्ट्वा मुनयो देवाः सर्वे विस्मयमाययुः
威力无比的主就这样将其他的阿修罗逐出了战场。圣人和众神见状,皆充满了惊叹。
Verse 14
कर्णे कर्णे प्रजल्पंते देवा मुनिगणास्तथा । सदा देवैकगोप्ता च हरिरव्यय ईश्वरः
众神与圣人们一次又一次地在彼此耳边低语:“哈里(Hari)——那位不朽的主——永远是众神唯一的守护者。”
Verse 15
सर्वसाक्षी त्वयं देवो दैत्यजिष्णुर्युगे युगे । कथं हंति सुरान्सर्वान्कल्पांत इह जायते
上帝啊,您是一切的见证者,在每一个时代您都是恶魔的征服者。那么,为何在劫末之时,他会降生于此并毁灭所有的神灵呢?
Verse 16
एतस्मिन्नंतरे दूरे मधुर्मायां प्रयोजिता । हररूपधरो भूत्वा अब्रवीद्धरिमव्ययम्
与此同时,在遥远的地方,摩度(Madhu)施展了他的幻术;他化身为哈拉(湿婆)的形象,对不朽的哈里(Hari)说话。
Verse 17
दैत्यानामग्रतः पाप रणे देवान्समंततः । हत्वा किं ते शिवं चाद्य धर्मकीर्ति यशो गुणाः
罪人啊,你在战场上四面屠戮诸天神,又当着诸达伊提亚之面——如今此举还能给你带来什么善果?你的达摩何在,你的名声、声誉与德行又将安放于何处?
Verse 18
महतोन्मत्तभावेन न जानासि परान्स्वकान् । अतस्त्वां निशितैर्बाणैर्नयामि यमसादनम्
你因狂乱的大迷妄而不知分辨他人与己方。故我将以锐利之箭送你往阎摩之居所——死亡之域。
Verse 19
एवमुक्त्वा शरैरुग्रैर्जघान केशवं रणे । निचकर्त शरांस्तांस्तु माधवो वाक्यमब्रवीत्
说罢,他以凶猛之箭在战斗中射击凯沙瓦。然摩达瓦斩落那些箭矢,继而开口说道。
Verse 20
जानामि त्वां रणे दैत्यं हररूपधरं प्रियम् । शूरं शूरविकर्माणं मधुं मायानियोजितम्
我在战斗中认得你,达伊提亚啊——你这可爱者,披持哈拉(湿婆)之形:你是英勇事迹之英雄,摩度,被摩耶(幻力)所驱使。
Verse 21
मिथ्यालोकं प्रदास्यामि पातयित्वा रणाजिरे । एतस्मिन्नंतरे तीक्ष्णैः शरैर्विव्याध संयुगे
“我将把你送往虚妄之境,待我在战场上将你击倒。”就在这当口,他又以锋利之箭在交战中刺穿(他)。
Verse 22
जटिलं वृषकेतुं च वृषभस्थं महेश्वरम् । तयोर्युद्धमतीवासीद्देवदानवयोस्तदा
于是天神与达那婆之间爆发了极其激烈的战斗;大自在天摩诃湿伐罗亦在其间——发髻纠结,执牛为徽,端坐于神牛之上。
Verse 23
परस्परं भिंदतोश्च प्राप्तान्प्राप्तान्शरान्शरैः । क्षुरप्रेण धनुस्तस्य चिच्छेद हरिरव्ययः
当他们彼此击碎飞来的兵刃,以箭迎箭、逢矢必应之时,不朽的诃利以一支刃如剃刀的利箭,斩断了对手的弓。
Verse 24
ततश्च पातयामास घोटकं वृषरूपिणम् । स दैत्यश्शूलहस्तोथ प्रदुद्राव जगत्पतिम्
随后他击倒了那匹化作公牛之形的战马。于是那罗刹(大阿修罗)手执长矛,猛然冲向世间之主。
Verse 25
भ्रामयित्वा ततः शूलं जघान परमेश्वरम् । त्रिभिश्चिच्छेद बाणैश्च शूलं कालानलप्रभम्
于是他旋转三叉戟,击向至上主宰;然而主以三支箭将那如“时劫之火”般炽燃的三叉戟斩成碎段。
Verse 26
ततः क्रूरो महाबाहुर्मधुर्मायातिमायिकः । देवीरूपं समास्थाय सिंहस्थः प्रययौ हरिः
随后,凶猛而臂力无双、精通幻术的摩度(Madhu)化现为女神之形;而诃利则乘狮而行,向前进发。
Verse 27
शरैर्बहुविधैर्विष्णुं जघानैवाब्रवीद्वचः । स्वामी तु मे सुरश्रेष्ठ त्वयैव पातितो युधि
他以多种箭矢射击毗湿奴后,便说道:“噢,诸天中最胜者,我的主君唯由你一人在战场上击倒。”
Verse 28
अहं त्वां च हनिष्यामि सुतौ स्कंदविनायकौ । उक्तवंतं च दैतेयं जघान बहुमार्गणैः
“我也要杀你们——斯坎达与毗那夜迦之子。”说罢,他以无数箭矢将那达伊提亚射倒。
Verse 29
स पपात महीपृष्ठे गतासुर्लोहितोद्गिरः । पितरौ निहतौ दृष्ट्वा मायाबद्धो महाबलः
他倒在大地之上,气息已绝,口吐鲜血。见父母被杀,那大力者便为幻力(māyā)所缚,心神迷乱。
Verse 30
स्कंदः शक्तिं समादाय प्रायाद्योधयितुं हरिम् । ततो धाताऽब्रवीद्वाक्यं स्कंदं मोहप्रपीडितम्
斯坎达执起长枪,出发要与哈利(毗湿奴)交战。于是造物主达塔(梵天)对被迷惑所逼迫的斯坎达说了话。
Verse 31
पश्य ते पितरौ दूरे पश्यंतौ युद्धमीदृशम् । अंतरिक्षे भ्रमंतौ च संस्थितौ लोकसाक्षिणौ
看哪——你的两位祖先在远处,正观看这般战斗;他们在空中徘徊,作为诸世界之前的见证而常在。
Verse 32
एतच्छ्रुत्वा ततो दृष्ट्वा तत्रैवांतरधीयत । ततो धुंधुश्च सुंधुश्च भ्रातरावतिदर्पितौ
听闻此言又亲见其事,他当场隐没无踪。随后,兄弟二人——敦度与孙度——傲慢至极,挺身上前。
Verse 33
वधं प्रति हरेर्युद्धे पेततुर्गरुडोपरि । खड्गहस्तं च धुंधुं च सगदं सुंधुमेव च
在与哈利(主)交战之时,他们奔向自取灭亡,扑向迦楼罗:敦度手执利剑,孙度挥持钉锤(伽陀)。
Verse 34
चिच्छेद नंदकेनैकं गदया सादयत्परम् । पेततुस्तौ धरापृष्ठे प्रवीरौ क्षतविक्षतौ
他以难陀迦宝剑斩断其一,又以钉锤击碎其一。那两位勇猛之士,遍体创裂,倒落在大地之上。
Verse 35
मधुस्तदागतस्तूर्णमंतर्धानं तमोवृतः । पातयामास विष्णौ च मायया शतपर्वतान्
随后,摩度迅疾而至;被黑暗遮蔽,他隐没不见,并以其幻力(摩耶)令百座山岳坠落于毗湿奴之上。
Verse 36
ततस्तान्पर्वतांश्छित्वा तमसोऽन्तर्गतो युधि । क्रोधात्सुदर्शनेनैव शिरश्छित्वा निपातितः
继而,他斩碎那些山岳,于战阵中没入幽暗;又因忿怒,掷出苏达尔沙那神轮,斩落敌首,使其仆倒于地。
Verse 37
ततो ब्रह्मादिभिर्देवैश्शंभुना त्रिदशैरपि । मधुसूदन इतिख्यातिर्विष्णोर्लोकेषु कारिता
此后,由梵天等诸天、亦由湿婆(商婆)以及三十位天神共同宣扬,使毗湿奴以“摩杜苏陀那”(诛灭摩杜者)之名的声誉遍满诸世界。
Verse 72
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मधुवधोनामद्विसप्ततितमोऽध्यायः
至此,吉祥《莲华往世书》(Padma Purāṇa)第一部《创世品》(Sṛṣṭikhaṇḍa)中名为“诛灭摩杜”的第七十二章圆满结束。