Adhyaya 7
Srishti KhandaAdhyaya 7114 Verses

Adhyaya 7

The Jyeṣṭha Full-Moon Vow, the Birth of the Maruts, and the Outline of Secondary Creation (Manvantaras)

毗湿摩请问普罗陀斯提:由底提所生的摩卢特(Maruts)为何反而为诸天所爱。普罗陀斯提叙述底提在娑罗萨伐底河畔的普什迦罗行苦行,并向婆悉吒求教;婆悉吒为她开示“耶什陀月圆戒”(Jyeṣṭha Pūrṇimā vrata)。章中详述仪轨:安置水罐(kalaśa)、供奉白色供品、供置梵天与娑维特丽之像、诵持真言、每月重复修持,并以终末布施(dāna)圆满,许以灭罪、增福与契入梵。 戒行既成,迦叶为底提行受胎之法,意在诞生能诛因陀罗之子,并教以孕期戒律。因陀罗乘其一念疏失,裂分胎儿为四十九;梵天为其命名“摩卢特”,赐予天神之位与祭祀分受。随后转入“再造”(pratisarga):普利图任命诸宇宙主宰,并概述诸摩奴时代(Manvantara)及其圣贤体系。

Shlokas

Verse 1

भीष्म उवाच । दितेः पुत्राः कथं जाता मरुतो देववल्लभाः । देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम्

毗湿摩说道:马鲁特诸神——狄蒂之子——如何诞生,却又为诸天所钟爱?又为何他们虽与诸天为敌对者,却仍与诸天同行,具足无上之友谊?

Verse 2

पुलस्त्य उवाच । पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः । पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम्

普拉斯提耶说道:久远以前,在天神与阿修罗之战中,当诸天被哈利所杀时,她——为其子与孙而悲恸——前往人间大地那殊胜之境。

Verse 3

पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे । भर्त्तुराराधनपरा तप उग्रं चचार ह

在普什迦罗那大圣渡口,于萨拉斯瓦蒂河吉祥之岸,她——专心奉事其夫——修行严峻的苦行。

Verse 4

दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता । फलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः

狄蒂确为代提耶之母;她持戒贤善,为成就圣仙之意而行苦行:以果为食,修持如“克里恰罗”与“旃陀罗耶那”等诸般誓戒。

Verse 5

यावद्वर्षशतं साग्रं जराशोकसमाकुला । ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत

她整整一百年有余,常为衰老与忧苦所缠。其后,因苦行之热力所炙,她便请问婆悉吒等诸圣仙。

Verse 6

कथयंतु भवंतो मे पुत्रशोकविनाशनम् । व्रतं सौभाग्यफलदमिहलोके परत्र च

请诸位为我讲述一种神圣的誓戒,能消除丧子之悲,并赐予吉祥之果——此世与来世皆得。

Verse 7

ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम् । यस्य प्रसादादभवत्सुतशोकविवर्जिता

毗湿多等诸位上首仙人说道:“(她应当奉行)耶耶什吒月的满月誓戒;凭此恩德,她便脱离了因儿子而起的悲痛。”

Verse 8

भीष्म उवाच । श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम् । सुतानेकोनपंचाशद्येन लेभे पुनर्दितिः

毗湿摩说道:婆罗门啊,我愿聆听耶耶什吒月满月誓戒;凭此,底提又再得四十九位儿子。

Verse 9

पुलस्त्य उवाच । यद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतम् । विस्तरेण तदेवेदं मत्सकाशान्निशामय

普罗诃斯提耶说道:“请从我这里细细聆听:正是那一誓戒,昔日由毗湿多等仙人向底提所宣说。”

Verse 10

ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रता । स्थापयेदव्रणं कुंभं सिततण्डुलपूरितम्

在耶耶什吒月的白半月,于满月之日,持戒精勤者应安置一只无瑕之罐,盛满白米。

Verse 11

नानाफलयुतं तद्वदिक्षुदंडसमन्वितम् । सितवस्त्रयुगच्छन्नंसितचंदनचर्चितम्

同样地,它备有种种果品,并配以甘蔗之茎;又以一对洁白之布覆之,并涂抹白檀香膏以为庄严。

Verse 12

नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः । ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्

随其力所能及,当备诸般饮食并奉以黄金;并于其上安置一只铜器,盛满粗糖(gud)。

Verse 13

तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे । कुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः

其上,于莲华之中空处,当以黄金塑作梵天;并在其左侧造作娑维特丽(Sāvitrī),以糖晶为饰。

Verse 14

गंधंधूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत् । तदभावे कथं कुर्याद्यथा पद्मे पितामहः

当向二者奉献香气与熏香,并令歌咏与乐器之音奏起。若此皆不可得,当如何行持——如同《莲华》(Padma Purāṇa)中祖父梵天所行?

Verse 15

ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम् । शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसंभवम्

当制作为召请梵天之吉祥圣像(pratimā),以粗糖(gud)为质;并以白花、不碎之米与芝麻籽礼拜莲生者(Padma-sambhava,梵天)。

Verse 16

ब्राह्माय पादौ संपूज्य जंघे सौभाग्यदाय च । विरिंचायोरुयुग्मं च मन्मथायेति वै कटिम्

当先如法礼敬双足以奉梵天,又礼敬小腿以奉赐福者;复当礼敬双大腿以奉毗邻支(梵天);并且确实应礼敬腰部以奉摩摩他(迦摩)。

Verse 17

स्वच्छोदरायेत्युदरमतंद्रायेत्युरो विधेः । मुखं पद्ममुखायेति बाहू वै वेदपाणये

梵天之腹称为“清净之腹”,其胸称为“不倦者”。其面称为“莲华面”,其臂实为“手持吠陀者”。

Verse 18

नमः सर्वात्मने मौलिमर्च्चयेच्चापि पंकजम् । ततः प्रभाते तत्कुंभं ब्राह्मणाय निवेदयेत्

当诵“敬礼普遍之我”,并以莲华供养而礼拜。随后于黎明时分,应将那水罐奉献给一位婆罗门。

Verse 19

ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विना । भक्त्या प्रदक्षिणं दद्यादिमं मंत्रमुदीरयेत्

当以虔敬供食于一位婆罗门;而自身应不加盐而食。又当以虔敬行右绕礼(pradakṣiṇa),并诵此真言。

Verse 20

प्रीयतामत्र भगवान्सर्वलोकपितामहः । हृदये सर्वलोकानां यस्त्वानंदोभिधीयते

愿此处令吉祥世尊——一切世界之祖父(Pitāmaha)欢喜;彼名为“安乐(喜乐)”者,住于一切众生之心。

Verse 21

अनेन विधिना सर्वं मासिमासि समाचरेत् । उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम्

依此法门,应当月复一月恒常奉行一切。于满月之日持斋,礼敬那不坏的梵(Brahman)。

Verse 22

फलमेकं च संप्राश्य शर्वर्यां भूतले स्वपेत् । ततस्त्रयोदशे मासि घृतधेनुसमन्विताम्

仅食一果,夜间当卧于裸地。其后至第十三月,应作布施,并以“酥油之牛”相随为供。

Verse 23

शय्यां दद्याद्विरिंचाय सर्वोपस्करसंयुताम् । ब्रह्माणं कांचनं कृत्वा सावित्रीं रजतैस्तथा

当以具足诸般器具之床榻供奉毗邻支(梵天)。又当以黄金铸作梵天之像,并同样以白银铸作娑维特丽(Sāvitrī)。

Verse 24

पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतु । वस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः

愿那莲华性之宇宙造化主得获娑维特丽(Sāvitrī)。又当以虔敬供养一位婆罗门及其妻,奉上衣服与饰物以致敬。

Verse 25

शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत् । होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत्

随己之力,当施与牛等诸物,并诵曰:“愿梵天欢喜。”当以白芝麻行护摩火供,并称诵梵天之名号。

Verse 26

गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित् । विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः

明了正法者,当同样供献牛酥油与甜乳饭;并应随己之力,施财与花鬘于婆罗门。

Verse 27

यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वा । सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम्

凡于满月之日依仪轨行此法者——女子亦然——皆得脱离一切罪业,而证与梵(Brahman)合一。

Verse 28

इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुते । यो ब्रह्मा स स्मृतो विष्णुरानंदात्मा महेश्वरः

就在此世,必得贤良之子与恒久福运。因为那位为梵天(Brahmā)者,亦被忆念为毗湿奴(Viṣṇu),并为大自在天(Maheśvara),其自性即是安乐。

Verse 29

सुखार्थी कामरूपेण स्मरेद्देवं पितामहम् । एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः

求乐之人,当随所愿之形忆念天界之祖父(梵天 Brahmā)。听闻此言,底提(Diti)便依之尽行诸事,无一遗漏。

Verse 30

कश्यपो व्रतमाहात्म्यादागत्य परया मुदा । चकार कर्कशां भूयो रूपलावण्यसंयुताम्

迦叶波(Kaśyapa)因誓愿之威德而欢喜前来,又使那性情粗厉者重新具足容貌之美与娟丽。

Verse 31

वरैराछंदयामास सा तु वव्रे वरंवरम् । पुत्रं शक्रवधार्थाय समर्थं च महौजसम्

于是她以诸般恩赐求其欢喜,并择取最上之愿:得一子——具足能力、光辉赫奕——为诛灭释迦罗(因陀罗)而生。

Verse 32

वरयामि महात्मानं सर्वामरनिषूदनम् । उवाच कश्यपो वाक्यमिंद्रहंतारमूर्जितम्

“我选择那位大心之者,能诛尽诸天之神。”迦叶波如是发出刚劲之言,择取那强力的因陀罗杀者。

Verse 33

प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभे । आपस्तंबीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि

“我将以此为凭赐予你;但吉祥者啊,当先行此事:今日举行阿帕斯坦巴(Āpastamba)之仪——为求子嗣的 iṣṭi 祭——美乳者啊。”

Verse 34

विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे । भविष्यति शुभो गर्भो देवि शक्रनिषूदनः

“随后我将令你受孕;我将触及你吉祥的双乳,丽人啊。将诞生一位福德之子,女神啊——他必诛灭释迦罗(因陀罗)。”

Verse 35

आपस्तंबीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम् । इंद्रशत्रोभवस्वेति जुहाव च हविस्त्वरन्

于是他举行阿帕斯坦毗(Āpastambī)之礼——富于财施的求子 putreṣṭi 祭;他急速奉献供物入火,口诵:“因陀罗之敌啊,愿汝诞生!”

Verse 36

देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः । दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः

诸天皆迷惘,陀提耶与达那婆亦心灰意冷。于是迦叶使底提受孕,又再次对她开示。

Verse 37

मुखं ते चंद्रप्रतिमं स्तनौ बिल्वफलोपमौ । अधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः

你的面容如明月;双乳似毕婆果。双唇若珊瑚,肤色尤为殊妙庄严。

Verse 38

त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम् । तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव

见到你,广目者,我竟忘却自身之躯。故而,善腰者,此种子已由手安置于你的双乳之上。

Verse 39

त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वरानने । संवत्सरशतं त्वेकमस्मिन्नेव तपोवने

善颜者,于此胎孕当勤加守护用功;并当在此苦行林中住满整整一百年。

Verse 40

संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि । न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा

善色女啊,孕妇于暮时(sandhyā)不可进食;亦不可在任何时候停立或走近树根之处。

Verse 41

नोपस्करेषु निविशेन्मुसलोलूखलादिषु । जलं च नावगाहेत शून्यागारं च वर्जयेत्

不可坐卧于杵、臼等家用器具之上;不可不如法入水沐浴;亦当远离空寂荒废之屋而不居。

Verse 42

वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत् । न नखेन लिखेद्भूमौ नांगारे न च भस्मनि

不可立于蚁丘之上,亦不可令心惊扰不安。不可用指甲在地上抓写,也不可在炽炭或灰烬上如此。

Verse 43

न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत् । न तुषांगारभस्मास्थि कपालेषु समाविशेत्

不可常常沉睡不醒,亦不可舍弃身之修持。又不可触近糠壳、木炭、灰烬、骸骨与头骨。

Verse 44

वर्जयेत्कलहं लोके गात्राभ्यंगं तथैव च । न मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथंचन

当远离世间争斗,亦当避免以油涂身。不可披散头发而立,亦不可在任何情况下处于不净。

Verse 45

न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित् । न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती

贞淑之妻不可北首而卧,亦不可南首而卧;不可衣不蔽体,不可忧惧烦乱,亦不可双足湿润。

Verse 46

नामंगल्यां वदेद्वाचं न च हास्याधिकाभवेत् । कुर्याच्च गुरुभिर्नित्यं पूजां मांगल्यतत्परा

不应说不祥之语,也不应纵情大笑。应专注于吉祥,常常依师长(上师)之教,与诸师同修而行礼拜供奉。

Verse 48

सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत् । तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता । न गर्हयेच्च भर्ता रंसर्वावस्थमपि क्वचित्

她应以浸润诸般药草之水沐浴。应面容欢悦,专心于令夫君欢喜并得益之事;无论夫君处于何种境况,任何时候都不应责难他。

Verse 49

कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम् । स्तनौ मे चलितौ स्थानान्मुखं च वलिभंगुरम्

我已消瘦而羸弱,老年也临到我身。我的乳房离开原处而下垂,我的面容亦起皱而脆弱。

Verse 50

एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित् । स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः

“任何时候都不要说:‘我被你弄成如此。’愿吉祥护佑于你;我将离去。”她又如此告诫,他答道:“如是。”

Verse 51

पश्यतां सर्वभूतानां तत्रैवांतरधीयत । ततः सा भर्तृवाचोक्तविधिना समतिष्ठत

在一切众生注视之下,她就在彼处隐没消失。其后,她依照夫君所言之仪轨与法度而行。

Verse 52

अथ ज्ञात्वा तथेंद्रोपि दितेः पार्श्वमुपागतः । विहाय देवसदनं तां शुश्रूषुरवस्थितः

随后,因已明了此事,因陀罗也来到底提身旁;离开诸天之宫,他留在那里,专心侍奉于她。

Verse 53

दितेश्छिद्रांतरप्रेप्सुरभवत्पाकशासनः । विपरीतोंतरव्यग्रः प्रसन्नवदतो बहिः

帕迦沙娑那(因陀罗)企图在底提的脆弱间隙中寻得破绽;外表言笑温和,内心却焦灼不安、暗自图谋。

Verse 54

अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन् । ततो वर्षशतांते सा न्यूने तु दिवसैस्त्रिभिः

他装作不知情,仍为自身之利行那吉祥之事。随后,百年将尽之时——尚差三日——她便到了那一关口。

Verse 55

मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा । अकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा

她心中欢喜而惊异,自以为所愿已成;然而她卧下时披散着头发,却未行洗净双足之净礼。

Verse 56

निद्राभरसमाक्रांता दिवा परशिराः क्वचित् । ततस्तदंतरं लब्ध्वा प्रविश्यांतः शचीपतिः

她被沉重的睡意所压,有时甚至白昼也侧首而卧。于是,舍支之主(因陀罗)觅得空隙,便进入其内。

Verse 57

वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः । ततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः

天神之主以金刚杵将那胎藏劈为七分;由此诞生七位少年,光辉灿然,如日之威耀。

Verse 58

रुदंतः सप्त ते बाला निषिद्धा दानवारिणा । भूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः

那七个孩子啼哭不止,丹那婆之敌加以禁止;然而他们仍哭泣,哈利便将每一个又各自分为七分。

Verse 59

चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान् । एवमेकोनपंचाशद्भूत्वा तेरुरुदुर्भृशम्

执金刚者又一次斩裂那些立于那“腹大者”之上的众者;于是数成四十九,他们发出震天巨吼。

Verse 60

इंद्रो निवारयामास मा रुदध्वं पुनःपुनः । ततः स चिंतयामास वितर्कमिति वृत्रहा

因陀罗不断制止他们,一再说道:“莫要再哭。”随后,诛伏弗利陀罗者(因陀罗)开始沉思,将此事反复权衡于心。

Verse 61

कर्मणः कस्य माहात्म्यात्पुनः संजीवितास्त्वमी । विदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम्

“凭借谁的功业之伟,你们得以再度复生?我已由福德之缘而明了此理;请告知我,守持满月斋(Pūrṇamāsī)之果报为何。”

Verse 62

नूनमेतत्परिणतमथवा ब्रह्मपूजनात् । वज्रेणाभिहताः संतो न विनाशमुपाययुः

此必是成熟功德之果——或亦由于礼敬梵天;虽为金刚雷霆所击,这些正直圣者却未遭毁灭。

Verse 63

एकोप्यनेकतामाप यस्मादुदरगोपनम् । अवध्या नूनमेते वै तस्माद्देवा भवंत्विति

既然一者为藏身于腹中而化作多形,此等必定不可侵犯;因此,愿他们成为诸天。

Verse 64

यस्मान्मा रुद इत्युक्ता रुदंतो गर्भसंभवाः । मरुतो नाम ते नाम्ना भवंतु सुखभागिनः

既被告诫“莫哭”,却仍自胎中啼哭而生,愿他们以“摩鲁特”(Maruts)之名为世所知,并得共享安乐。

Verse 65

ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः । अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्

于是他安抚了诸天之主,又对底提说道:“请宽恕我。”我依恃治国权谋之计,才造下此等罪过。

Verse 66

कृत्वा मरुद्गणं देवैः समानममराधिपः । दितिं विमानमारोप्य ससुतामगमद्दिवम्

他使摩鲁特众与诸天同等尊位后,不死者之主将底提与其子一同安置于天车之上,遂往天界而去。

Verse 67

यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन् । न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः

他们全都化为摩鲁特诸风暴神,得享祭祀(yajña)供品之分。他们不与阿修罗同流合一,因此成为天神(Deva)所钟爱者。

Verse 68

भीष्म उवाच । आदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मे । प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे

毗湿摩说道:“婆罗门啊,你已为我详述原初之创生(ādi-sarga)。如今也请告诉我次第之创生(prati-sarga),以及诸类受造之众的主宰者。”

Verse 69

पुलस्त्य उवाच । यदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूव । तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम्

普拉斯提耶说道:当普利图受灌顶加冕,成为大地上整个国度的至尊之主时,他也立苏摩为诸药草之主、为祭祀誓行(yajña-vrata)之主,并为诸苦行(tapas)之主。

Verse 70

नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम् । अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्

同样,他也为群星宿曜之华盖、为飞鸟、树木、灌木、藤蔓与蔓延之草木立下主宰;又立伐楼那为水界之主,并立毗舍罗伐那(俱毗罗)为财富之主、诸王之上尊。

Verse 71

विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार । प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्

他立毗湿奴为阿底提耶诸日神之主,立阿耆尼为八伐苏之主并为诸世界之主宰;又立达克沙为诸生主(Prajāpati)之首,并使释迦(因陀罗)为摩鲁特之上主。

Verse 72

दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम् । पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम्

随后,他赞颂普罗诃罗陀(Prahlāda)为代提耶与达那婆之主;又立阎摩(Yama)为祖灵皮特利(Pitṛ)之统御;并尊持三叉者(Śūlapāṇi)为毗舍遮、罗刹、诸兽、鬼灵(Bhūta)、夜叉与毗陀罗(Vetāla)之王。

Verse 73

प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम् । गंधर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार

他立普罗雷耶雪山(Prāleyśaila)为群山之主;以大海为诸河之君;又复任命奇多罗罗他(Citraratha)为乾闼婆、持明者(Vidyādhara)与紧那罗之统领。

Verse 74

नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश । दिग्वारणानामधिपं चकार गजेंद्रमैरावणनामधेयम्

他敕命威力无比的婆苏吉(Vāsuki)为那伽之主;又指定多叉迦(Takṣaka)为群蛇之主;并立名为爱罗伐多(Airāvata)的象王,统摄守护诸方的方象。

Verse 75

सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकार । सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम्

他立苏波尔那(Suparṇa,迦楼罗 Garuḍa)为众鸟之主;于诸马中,立乌柴赫施罗婆(Uccaiḥśravas)为王。于群兽中,以狮为尊;于牛群中,以公牛为首;于一切树木中,又以普拉克沙(plakṣa,圣无花果)为最上。

Verse 76

पितामहः पूर्वमथाभ्यषिंचदेतान्पुनः सर्वदिशाधिनाथान् । पूर्वेश दिक्पालमथाभ्यषिंचन्नाम्ना सुवर्माणमरातिकेतुं

随后,祖父神(Pitāmaha,梵天 Brahmā)再度为这些统摄诸方的主宰行灌顶礼;并为东方守护者加冕——其名为苏瓦尔摩(Suvarmā)与阿罗提计都(Arātiketu)——令其为东方之主。

Verse 77

ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम् । सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः

随后,居于宇宙卵中的主(梵天)在南方安置海之主——遍自在者(Sarveśvara),以“螺足”(Śaṅkhapada)之名著称;又在西方安置该方之主、名为萨计图曼(Saketumān)的自在天。

Verse 78

हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार । अद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम्

他又任命金毛罗摩(Hiraṇyaromā)为北方之主,为一位生主(Prajāpati),亦为云(Megha)之子。直至今日,诸方之主仍在履行其职,恒常承担诸世界之重担,以为护持。

Verse 79

चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम् । गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां

由这四位为证,名为普利图(Pṛthu)的国王受灌顶加冕,成为大地上最初的受圣礼之王。待名为恰克舒沙(Cākṣuṣa)的摩奴期过去之后,他们又立毗婆斯瓦特(Vaivasvata,摩奴)为此大地之主。

Verse 80

गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते । प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः

当间隔已过、名为恰克舒沙(Cākṣuṣa)的时期终结,而毗婆斯瓦特(Vaivasvata)摩奴期再度开启之时,便出现了一位生于太阳族系、具足瑞相者,作为此一切动与不动众生之生主(Prajāpati)。

Verse 81

पुलस्त्य उवाच । मन्वंतराणि सर्वाणि मनूनां चरितानि यत् । प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः

普拉斯提耶(Pulastya)说道:“我将叙述一切摩奴期(Manvantara)、诸摩奴(Manu)的行传、劫(kalpa)的度量,并略说与之相应的创造。”

Verse 82

एकचित्तः प्रसन्नात्मा शृणु कौरवनंदन । यामा नाम पुरा देवा आसन्स्वायंभुवांतरे

汝当一心专注、心神澄明而聆听,噢,俱卢族之欢喜者。远古之时,有名为“夜摩”(Yāma)之诸天,住于自生者(Svāyambhuva)之摩奴劫(Manvantara)中。

Verse 83

सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः । आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च

昔时七位圣仙(ṛṣi),即摩利支(Marīci)等所传者:阿祇尼陀罗(Āgnīdhra)、阿祇尼婆呼(Agnibāhu)、毗部(Vibhu),以及娑伐那(Savana)。

Verse 84

ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः । स्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः

光明者(Jyotiṣmān)、辉耀者(Dyutimān)、吉祥者(Bhavya)、慧(Medhā)、慧宾(Medhātithi)与婆苏(Vasu)——此十位乃自生者摩奴(Svāyambhuva Manu)之族系增盛者。

Verse 85

प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम् । एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम्

既已成就此复次之创造(pratisarga),彼等遂往至上之境。自生者(Svāyambhuva)之事已如是宣说;其后当说斯瓦罗支沙(Svārociṣa)。

Verse 86

स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः । नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः

斯瓦罗支沙(Svārociṣa)有四子,神辉如天:那婆那婆西亚(Nabhonabhasya)、普拉布利底(Prabhṛti)、婆伐那(Bhāvana)与吉尔提伐尔陀那(Kīrtivarddhana)。

Verse 87

दत्तोग्निश्च्यवनस्तंभः प्राणः कश्यप एव च । अर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन्

达塔阿尼、恰瓦那、斯坦婆、普拉那与迦叶;以及阿尔瓦与布里哈斯帕提——此七位成为七圣仙(Saptarṣi)。

Verse 88

तदा देवाश्च तुषिताः स्मृता स्वारोचिषेंतरे । हवींद्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः

其时在斯瓦罗奇沙摩奴期,诸天被称忆为“兜史多”(Tuṣita);又说有哈维因陀罗与苏赫克利塔,穆尔蒂被忆为神圣配偶;阿帕与光车(Jyotiratha)亦在彼时被记念。

Verse 89

वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा । द्वितीयमेतत्कथितं मन्वंतरमतः परं

其后,毗湿吒有七子,当时皆成众生之主(Prajāpati)。如此第二摩奴期已宣说;其后叙述将继续展开。

Verse 90

अन्यच्चैव प्रवक्ष्यामि तथा मन्वंतरं शुभं । मनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत्

我还将宣说另一吉祥的摩奴期:在那里,一位名为乌塔摩(Uttama)的摩奴生下十位儿子。

Verse 91

इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च । मधुश्च माधवश्चैव नभस्योथ नभस्तथा

他们是:伊沙(Iṣa)、乌尔迦之子(Ūrja-tanūja)、舒支(Śuci)、舒克罗(Śukra);又有摩度(Madhu)与摩达婆(Mādhava);纳婆西亚(Nabhasya),以及纳婆斯(Nabhas)。

Verse 92

सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनः । भानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः

在他们之中,Saha——由 Sahas 所生——最为卓越,能增长名声。在此体系中,Bhānava 被称为诸天,而 Ūrjā 被记为七位圣仙(七 Ṛṣi)。

Verse 93

कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शंखः प्रवाहितः । मितिश्च संमितिश्चैव सप्तैते योगवर्द्धनाः

Kaukabhiṇḍi、Kutuṇḍa、Dālbhya、Śaṅkha、Pravāhita、Miti 与 Saṃmiti——此七者皆为增长瑜伽(灵修之道)者。

Verse 94

मन्वंतरं चतुर्थं तु तामसं नाम विश्रुतं । कपिः पृथुस्तथैवाग्निरकपिः कविरेव च

第四个摩奴时期(Manvantara)以“Tāmasa”之名著称;其中提到 Kapi、Pṛthu、Agni、Akapi 与 Kavi。

Verse 95

तथैव जन्यधामानौ मुनयः सप्त नामतः । साध्या देवगणा ये च कथितास्तामसेंतरे

同样,七位圣仙(ṛṣi)以其名号被知为众生之祖;而 Sādhya——诸天之众——亦已在 Tāmasa 摩奴时期中加以叙述。

Verse 96

अकल्मषस्तपोधन्वी तपोमूलस्तपोधनः । तपोराशिस्तपस्यश्च सुतपस्यः परंतपः

他无垢清净,富有苦行(tapas)之财;以苦行为根,自身即为苦行之宝。他是修持之聚,恒常行于梵行与苦修——善于大苦行,乃至上之 tapas 行者。

Verse 97

तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः । पंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु

塔摩萨的诸子皆为十族之增盛者。同样地,请聆听第五位摩奴——赖瓦塔的摩奴纪(Manvantara)。

Verse 98

देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः । हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः

提婆婆呼(Devabāhu)、苏婆呼(Subāhu)、帕尔迦尼亚(Parjanya)、萨玛约牟尼(Samayomuni)、希兰尼亚罗摩(Hiraṇyaromā)与萨普塔阿湿瓦(Saptāśva)——这些被忆念为七位圣仙(Ṛṣi)。

Verse 99

देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः । अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः

诸天(Deva)、诸元素之“罗阇斯”(rajas,能量)以及诸本性成分(prakṛti)皆如是被忆念。又有阿瓦沙(Avaśa)、见真如者(Tattvadarśī)与维提曼(Vītimān),并列哈维亚帕(Havyapa)与卡毗(Kapi)。

Verse 100

मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः । धर्मवीर्यबलोपेता दशैते रेवतात्मजाः

解脱而无所贪求,具足清净之萨埵(sattva),离迷妄而光明炽然——赖瓦塔的这十位儿子,皆具法(dharma)、勇武与力量。

Verse 101

भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा । विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे

婆利古(Bhṛgu)、苏达摩(Sudhāmā)、毗罗阇(Viraja)、萨希什努(Sahiṣṇu),以及那罗陀(Nārada);又有毗婆斯梵(Vivasvān)与名为克利丁(Kṛtin)者——此即另外七位七圣仙(Saptarṣi)。

Verse 102

चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताः । विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः

在恰克舒萨(Cākṣuṣa)摩奴劫中,诸天之神——其名无一遗漏地被记载——已被分别而依次宣说,皆为居于天界者。

Verse 103

चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनः । रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश

当恰克舒萨(Cākṣuṣa)摩奴劫到来之时,诸天之神的第五代便出现了。同样地,从鲁鲁(Ruru)起,恰克舒萨有十位儿子。

Verse 104

प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव ते । अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं

我先前已讲述过斯瓦扬布瓦(Svāyambhuva)系谱中的那些(王者/圣贤);同样,我也已向你叙说了安塔拉(Antarā)与恰克舒萨(Cākṣuṣa)的时期。

Verse 105

सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते । अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा

如今我将宣说第七个摩奴劫,名为毗婆斯瓦塔(Vaivasvata)摩奴劫。其中有圣仙阿特里(Atri)、婆悉吒(Vasiṣṭha)、迦叶(Kaśyapa),以及乔达摩(Gautama)。

Verse 106

भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् । जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः

又有婆罗堕阇(Bharadvāja)这位瑜伽行者,威德炽盛的毗湿瓦密多罗(Viśvāmitra),以及阇摩达格尼(Jamadagni)——此七位即当今你们的大圣仙。

Verse 107

कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं । सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथांतरं

既已建立正法(dharma)的正当秩序,他们便证得至上境界。如今我将宣说萨瓦尔尼亚(Sāvarṇya)的摩奴纪(Manvantara),以及摩奴未来的摩奴纪。

Verse 108

अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा । शतानंदः काश्यपश्च रामश्च ऋषय स्मृताः

阿湿婆他摩(Aśvatthāmā)、舍罗德梵(Śaradvān)、拘尸迦(Kauśika),以及伽罗婆(Gālava);又有舍多难陀(Śatānanda)、迦叶(Kāśyapa)与罗摩(Rāma)——皆被忆念为圣仙(ṛṣi)。

Verse 109

धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव च । वरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान्

底利提(Dhṛti)、婆利延(Varīyān)、耶婆苏(Yavasu)、苏伐尔那(Suvarṇa),以及再一次底利提;又有毗利湿奴-毗利耶(Variṣṇu-vīrya)、苏摩提(Sumati)、婆苏(Vasu)、湿拘罗(Śukra)与雄力具足的毗利耶梵(Vīryavān)——(此诸名次第宣举)。

Verse 110

भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताः । रौच्यादयस्तथान्येपि मनवः संप्रकीर्तिताः

已宣说:未来者(Bhaviṣya)之子,即名为阿尔迦萨瓦尔尼(Ārkasāvarṇi)的摩奴;同样,自柔吉耶(Raucya)起等诸摩奴,也都已如法次第列举。

Verse 111

रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति । मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति

由生主(Prajāpati)卢支(Ruci)将诞生一子,名为柔吉耶(Raucya);同样,那位为部提(Bhūti)之子的摩奴,将以“部提耶”(Bhautya)之名为人所知。

Verse 112

ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतः । ऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा

随后,摩卢萨伐尔尼(Merusāvarṇi)被忆念为摩奴(Manu),即梵天(Brahmā)之子;其后又有梨婆(Ṛbhu)、利都达摩(Ṛtudhāmā),以及毗湿伐迦仙那(Viṣvaksena),同样被称念为诸摩奴。

Verse 113

अतीतानागताश्चैव मनवः परिकीर्तिताः । वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप

过去的诸摩奴与未来将来的诸摩奴,确已宣说无遗。以这千千瑜伽为度,岁月的相续尽被涵摄,噢大王。

Verse 114

स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरं । कल्पक्षये निवृत्ते तु मुच्यंते ब्रह्मणा सह

在各自的周期中,他们生起这一切——动与不动;当一劫(kalpa)终了而大毁灭来临之时,他们与梵天同得解脱。

Verse 115

अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनः । ब्रह्माद्या विष्णुसायुज्यं ततो यास्यंति वै नृप

在千千瑜伽的尽头,他们一次又一次地归于消亡;随后,梵天等众得与毗湿奴(Viṣṇu)合一,确然如此,噢大王。