Adhyaya 67
Srishti KhandaAdhyaya 6752 Verses

Adhyaya 67

The Slaying of Bala–Nāmuci

第六十七章中,希兰尼亚克沙(Hiraṇyākṣa)号令阿修罗出征,提提耶与达那婆大军倍增,遮蔽长空。诸天神众集结——鲁陀罗、萨提耶、毗湿毗天、婆苏等——又有斯甘达与伽那帕相随,在毗湿奴(Jiṣṇu)的率领下迎战。 大战惨烈,兵器如雨,凶兆纷呈,天地自然亦为之震荡。鲜血漫地,几成“血海”,河流仿佛倒转。斯甘达威力降临,令无数提提耶堕入阎摩之界;因陀罗与毗湿奴亦奋力抵御魔军攻势。 战至高潮,强横的阿修罗巴拉(Bala)屡扰诸神。因陀罗怒起,与之交锋,终使妖魔勇将败亡;诸天神欢庆,天花纷落,余众提提耶仓皇遁逃。

Shlokas

Verse 1

व्यास उवाच । एतच्छ्रुत्वा तु दैत्येंद्रो हिरण्याक्षो महाबलः । सरोषश्चातिताम्राक्षो ह्यसुरानादिदेश ह

毗耶娑说:听闻此事后,力大无比的代提耶王希兰尼亚克沙,怒目赤红,便向阿修罗众下令。

Verse 2

स्वयं गच्छामि युद्धाय देवानां विजिघांसया । नागच्छंति न युद्ध्यंते तेन मार्गाद्विशन्त्वितः

“我将亲自赴战,立誓诛杀诸天。凡不出征、不作战者,便从此处由那条道路进入。”

Verse 3

एतच्छ्रुत्वा तु वचनं शेषा दैत्यगणाधिपाः । युद्धाय प्रययुः सर्वे शूलपाशातिपंडिताः

听到这番话,其余代提耶军的诸首领尽皆奔赴战场,精通三叉戟与绳索套索之术。

Verse 4

अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि । निरंतरं तथाकाशं प्रययुर्युद्धकांक्षिणः

军势比先前更为浩大,竟增至百倍;诸军渴望战斗,连绵推进,以不绝之阵充满长空。

Verse 5

ततो रुद्रास्स साध्याश्च विश्वे च वसवस्तथा । स्कंदश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः

随后,诸鲁陀罗、萨陀耶、毗湿毗天与诸婆苏齐至;又有斯坎达与伽那帕同来——由毗湿奴(遍一切者)与吉湿奴(胜利者)居于前锋引领。

Verse 6

सर्वे योद्धुं गतास्ते च हृष्टा रणसमुत्सुकाः । एतस्मिन्नंतरे युद्धं देवदानवयोरपि

众者皆欣然出征,满怀欢喜,急欲交战。其间,天神与达那婆之间亦爆发了战争。

Verse 7

न भूतं न श्रुतं पूर्वं सर्वलोकभयंकरम् । शस्त्रास्त्रैबर्हुधा युक्तं शिशिरेणेव काननम्

此前未曾见闻如此景象——令诸世界皆生怖畏——刀兵飞矢森然并列,宛如冬林,枯枝密布而尖利刺人。

Verse 8

धरां स्वर्गौक आकाशं संरुध्य युद्धमाबभौ । अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले

他们遮蔽大地、天界与虚空,遂投入战斗。彼此相击:有的在空中厮杀,有的亦在地上交锋。

Verse 9

शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः । दारुणैः खड्गपातैश्च तथा चक्रपरःश्वधैः

用长矛、棍棒和锋利的飞镖;伴随着无数箭矢如雨般落下;用可怕的剑击;同样还有圆盘武器和战斧——

Verse 10

अन्यायुधैश्च विविधैर्निर्जघ्नुस्ते परस्परम् । अभवन्घोररूपाणि धराकाशे व्ययानि च

他们用各种其他武器互相击倒。可怕的形态显现出来,大地和天空中也出现了毁灭性的骚动。

Verse 11

शस्त्रैः शरैरसृक्पातैः कंकवायसजंबुकैः । यथा मुसलधाराभिर्घना वर्षंति लोहितम्

伴随着武器、箭矢和血雨——在苍鹭、乌鸦和豺狼之间——就像浓密的云层倾泻下暴雨一样,他们降下了血雨。

Verse 12

तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः । केचित्पतंति मुह्यंति स्खलंति च हसंति च

同样,鲜血从他们自己的身体里流出,众神和恶魔——有的倒下,有的迷惘,有的踉跄,有的甚至在大笑。

Verse 13

मुंचंति चार्तनादांश्च सिंहनादं मुहुर्मुहुः । केषांचिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे

他们不断发出痛苦的叫喊,一次又一次像狮子一样咆哮。有的人手臂被砍断,有的人双脚被切断。

Verse 14

छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि । कोटिकोटिसहस्राणि गजवाज्यसुराणि च

有些人的侧腹和腹部被撕裂,数百人倒在地上;成千上万的大象、马匹和战士也随之倒下。

Verse 15

अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि । ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः

血流在许多地方洒落在大地表面。于是,在大地之上,形成了一片血海。

Verse 16

विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः । तृणकाष्ठपरास्तत्र शक्तयो दारुसंचयाः

那里的河流随即开始倒流。在这个地方,水流夹带着草木和碎木块,堆积着大量的木材。

Verse 17

मुद्गरा मुसलाः शूला मकराद्या भवंति च । जयंतिका ध्वजा मीनाः कमठाश्चर्मकायकाः

还有各种形状,如木槌、杵和长矛;以及以摩竭鱼为首的形状。同样也有胜幡状、旗帜、鱼、乌龟以及身体像皮革一样的生物。

Verse 18

शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा । केशचामरशैवालाः संपूर्णास्तास्ततःस्ततः

它们也被芦苇之类的东西以及许多巨大的骆驼紧紧堵塞;那些地方到处长满了像头发一样的苔藓和牦牛尾拂尘,完全被覆盖了。

Verse 19

पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः । तदा वसुंधरा सर्वा सशैलवनकानना

被种种坠落的兵刃与飞矢击伤,海洋化作血海;于是整个大地——连同群山、森林与林苑——也被卷入那场毁灭。

Verse 20

रुधिरौघा महाघोरा सर्वलोकभयंकरा । स्कंदस्य शक्तिपातेन गता दैत्या यमक्षयम्

那些魔族(Daitya)如血流奔涌,极其可怖,令诸世界战栗;因军神斯坎达(Skanda)威力降临,他们被送往阎摩(Yama)之境,走向灭亡。

Verse 21

पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः । वरुणस्य च पाशेन बद्धा मग्ना यमक्षये

他们被至上的战斧击倒,又被如火焰般炽燃的火箭所伤;再被伐楼那(Varuṇa)的绳索缚住,沉没下去,进入阎摩(Yama)之所——死亡之境。

Verse 22

येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा । निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः

由他们的儿子与孙子——并同统帅与辅臣——在箭雨、长矛与投枪如雨之中,将诸魔族(Daitya)击倒。

Verse 23

ग्रहैश्च श्वसनैरेव यक्षगंधर्वकिन्नरैः । महत्या गदया चैव कुबेरेण च धीमता

又有诸星曜神(Graha)与尸林众(Śvasana),以及夜叉(Yakṣa)、乾闼婆(Gandharva)、紧那罗(Kinnara)同来;并且智者俱毗罗(Kubera)亦在场,执其威猛之钺槌。

Verse 24

घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः । पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले

他们被云中成簇的雷霆所击,被狂风驱使的冰雹所砸,又受群蛇可怖毒液所侵,诸达提耶遂坠落于大地之上。

Verse 25

अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः । पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः

又有无数无量、千万亿般的诸天神众前来击倒他们;众皆仆地,气息已绝。

Verse 26

देहांस्त्यक्त्वा दिवं यांति केचिच्च यममंदिरम् । केचिद्गच्छंति पातालं पुण्यापुण्यप्रयोगतः

舍弃其身,有的升往天界,有的赴阎摩之宫;亦有的堕入帕塔拉幽界,皆随其福业与罪业之作用而定。

Verse 27

एतस्मिन्नंतरे वेदाञ्जजल्पुः परमर्षयः । स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु

其间,至高的圣仙诵持吠陀而宣言:“愿婆罗门安泰,愿牛群安泰,愿妇女安泰,愿修苦行者安泰。”

Verse 28

प्रयुध्यमानेष्वन्येषु सांप्रतं सर्वजंतुषु । विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः

当其余众生正交战之时,余下的达提耶被诸天逼迫,遂依止于山岳以求庇护。

Verse 29

प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः । दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः

在战阵喧嚣中,他们惊惧战栗,向四方奔逃。及至阿修罗军阵被击溃,一位名为“婆罗”(Bala)的大力者挺身而出,威力无比。

Verse 30

अर्दयामास देवांश्च संयम्याग्निसमैः शरैः । तस्य बाणार्दिता देवा बहवो बलदर्पिताः

他以如火焰般炽烈的箭矢压制诸天,令其受制。许多自恃神力的天神,都被他的箭所伤,备受折磨。

Verse 31

पतिता धरणीपृष्ठे केचिद्भग्ना रणाजिरे । दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणम्

有的倒伏在大地之上,有的在战场中被击碎。见到他那宏大的作为——残酷而令世间战栗——

Verse 32

शशंसुरृषयो देवास्तत्र शिष्टाः प्रचुक्रुशुः । अथ क्रुद्धो महातेजाश्शतक्रतुररिंदमः

在那里,诸仙与诸天纷纷陈说,正直者高声呼喊;于是大威光明的“百祭主”释提桓因(因陀罗),摧敌者,怒火勃然。

Verse 33

जघान शरसंदोहैर्बलं बलवतां वरम् । सोपि क्रुद्धो बलो युद्धे तथा शक्रं ससंभ्रमः

他以密集箭雨击中婆罗(Bala),那位强者中的最强者。婆罗亦怒不可遏,在战斗之中带着凛烈的激荡,猛然冲向释迦罗(因陀罗)。

Verse 34

रुधिरेणावसिक्तांगौ प्रसृतेन महाबलौ । तौ यथा माधवे मासि पुष्पितौ किंशुकद्रुमौ

那两位大力者,周身为奔流之血所浸,宛如在摩达婆月盛放的金舒迦树,花焰灿然。

Verse 35

चक्राणि च सहस्राणि शूलानि मुसलानि च । निचखान रणे शक्रे चपले चासुरोत्तमः

战场上,那最卓越的阿修罗以千轮刃、三叉戟与棍棒猛击因陀罗,攻袭那摇摆不定的释迦。

Verse 36

तानि चक्राणि शूलानि निचकर्त्त शरोत्तमैः । सुरराट्सहसा भ्रांतो लीलया समरे बली

他以最上之箭斩落那些轮刃与三叉戟。诸天之王虽战力雄强,却骤然被震得踉跄,仿佛在阵中戏耍一般。

Verse 37

स च दैत्यो महातेजाः शक्त्या चैव पुरंदरम् । निजघान तदा तूर्णं गजस्थं च स्तनांतरे

那位光辉炽盛的代提耶当即迅疾以长枪击中普兰达罗,在其乘象而坐时刺入胸膛。

Verse 38

तया विनिहतः शक्रः प्रचचाल गजोपरि । लब्धसंज्ञो बलं जिष्णुर्बिभेद दनुजं क्षणात्

被那一击所伤,释迦在象背上摇晃。及至神识复归,强大的吉什努顷刻间劈裂那达那婆。

Verse 39

रथसंस्थस्य हस्तौ च धनुश्चिच्छेद चेषुणा । चर्मतीक्ष्णं ध्वजं तस्य शरेणैकेन वीरहा

那位诛灭勇士者以箭矢斩断车上战士的双手,又截断其弓;并以一箭劈开他锋利的皮盾与旗幡。

Verse 40

चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरो हयान् । शरेणैकेन सूतस्य शिरश्चिच्छेद तत्क्षणात्

他以四支锐箭贯穿四匹战马,又以一箭当即斩落御者之首。

Verse 41

छिन्नधन्वा हतरथो हताश्वो हतसारथिः । निपत्य मूर्च्छितः पृथ्व्यां मुहूर्तान्मृत्युमाप सः

弓已被斩,车已毁坏,马已被杀,御者亦亡;他昏厥坠地,不多时便走向死亡。

Verse 42

अथ क्रुद्धो महादैत्यो नमुचिः सुरदर्पहा । गदामादाय सहसा स जघान महागजम्

随后,大阿修罗那牟支——摧折诸天傲慢者——怒火中烧,骤然执起钉锤,猛击那头巨象。

Verse 43

यथा मेरुगिरेः शृंगे वज्रपातो भवेद्ध्रुवम् । तथैव च महाशब्दो ह्यभवल्लोमहर्षणः

正如雷霆必然击中须弥山之巅一般,当时亦响起一声巨响,令人毛发悚然直立。

Verse 44

प्रहारेणार्दितः पद्मी संचचाल स विह्वलः । रुधिरेणावसिक्तांगो विमुखो वेदनातुरः

帕德米受到重击,步履蹒跚,不知所措,站立不稳;他的四肢浸透了鲜血,转身离去时,痛苦折磨着他。

Verse 45

शतक्रतुं विधावंति शतशोथ सहस्रशः । अर्धचंद्रैक्षुःरप्रैश्च चिच्छेद पाकशासनः

当沙塔克拉图(Śatakratu)以成百上千种方式逃窜时,帕卡萨萨纳(Pākaśāsana)用半月形的箭将他击倒。

Verse 46

जंतुभिस्तस्य मायाभिरर्दितास्सुरपुंगवाः । भूमौ निपतिताः केचित्केचित्सुप्ता रथोपरि

受到他幻术力量的打击,众神之首陷入了混乱——有的倒在地上,有的睡在战车上。

Verse 47

दृष्ट्वा तस्य महत्कर्म माधवो विशिखांस्तथा । जंतुभूतान्स चक्रेण चिच्छेद देहलग्नकान्

看到那伟大的壮举,马达瓦(Mādhava)也用他的轮宝切断了那些变得像活物一样附着在身体上的箭。

Verse 48

ततो जिष्णुस्त्रिभिर्बाणैः पातयामास भूतले । पृथिव्यां पतितो दैत्यो मूर्च्छितस्खलितः पुनः

随后,吉什努(Jiṣṇu)用三支箭射中了他,将他击倒在地。那恶魔再次倒在地上,昏厥过去,摇摇欲坠。

Verse 49

दधार मुद्गरं घोरं शक्रं हंतुं समुद्यतः । ततो जघान मघवा कुलिशेन महासुरम्

那大阿修罗举起可怖的钉锤,奋然前进,欲杀释迦罗(因陀罗)。随即摩伽婆(因陀罗)以金刚杵之雷霆击打那强大的魔敌。

Verse 50

स पपात महीपृष्ठे क्षतवक्षा महाबलः । साधुसाध्विति देवाश्च सिद्धाश्चैव महर्षयः

那大力者胸膛受创,坠落在大地之上。诸天、悉达与大圣仙齐声称赞:“善哉!善哉!”

Verse 51

अपूजयंस्तदा शक्रं बहुभिः पुष्पवृष्टिभिः । ततो दैत्यगणाः सर्वे भीतास्तत्र प्रदुद्रुवुः । गीतं गायंति गंधर्वा ननृतुश्चाप्सरोगणाः

于是众人以繁盛花雨礼敬释迦罗(因陀罗)。随后一切代提耶众因恐惧而四散奔逃。乾闼婆歌唱颂赞,阿普萨拉众翩然起舞。

Verse 67

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे बलनमुचिवधोनाम सप्तषष्टितमोऽध्यायः

至此,光辉的《莲华往世书》第一部(创世品)中名为《诛灭婆罗那牟支》的第六十七章圆满结束。