Adhyaya 63
Srishti KhandaAdhyaya 6332 Verses

Adhyaya 63

The Hymn to Gaṇapati (and the Rule of Worshipping Gaṇeśa First)

本章由普罗罗斯提耶追述往事开篇:桑阇耶曾问毗湿摩,诸神礼拜应以何者为先,何种供奉最能令仪轨生效。依毗耶娑之教,确立甘尼沙为“先供”(prathama-pūjā)之主,先礼之则障碍消除,诸事得成。 继而举出譬例:帕尔瓦蒂献出名为“摩诃布提”(Mahābuddhi)的天赐摩达迦甜团,并设“谁为最先”之竞。甘尼沙不以朝圣、誓愿或祭祀为胜,唯绕行父母一周;此举被宣示胜过诸朝圣、苦行与祭献,由此正当化其在一切仪式中的优先地位。 随后本章制定四提日(Caturthī)的礼拜与斋戒,并给出赞颂仪轨,含十二名号的诵念。其果报为成就、护佑与得生天界。

Shlokas

Verse 1

पुलस्त्य उवाच । एतस्मिन्नंतरे पूर्वं व्यासशिष्यो महामुनिः । नमस्कृत्य गुरुं भीष्म संजयः परिपृच्छति

普罗萨提亚说:从前就在此时此刻,毗耶娑之弟子、大圣仙善阇耶礼敬其师毗湿摩,继而发问。

Verse 2

देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम् । अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने

请你确切说明礼拜诸天之正法与次第:日常供奉中,谁最应先礼为至尊,谁又当居中受礼?

Verse 3

अंते च पूजा कस्यैव कस्य को वा प्रभावकः । किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः

而在最后,究竟谁的礼拜最为决定性?又是谁使其功德成就、令其生效?抑或,大婆罗门啊,人礼拜何者而得何果?

Verse 4

व्यास उवाच । गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह । विनायकत्वमाप्नोति यथा गौरीसुतो हि सः

毗耶娑说:在此起首当先礼敬伽内沙,为除诸障碍。如此便得“毗那耶迦”之位,正如他——高丽之子——本然如是。

Verse 5

पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ । सर्वलोकधरौ शूरौ देवौ स्कंदगणाधिपौ

往昔,帕尔瓦蒂由大自在天(摩诃湿伐罗)诞下这两位圣子——英勇的天神斯坎达与众伽之主伽内沙(Gaṇādhipa),承持一切世界。

Verse 6

तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत । इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः

山岳之女见到他们二人,为成就其事而开口道:“孩子们,这甜美的摩达迦(modaka)乃诸天欢喜所赐。”

Verse 7

महाबुद्धीति विख्यातं सुधया परिनिर्मितम् । गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ

此物名闻为“摩诃 बुद्ध智(Mahābuddhi,大智慧)”,由不死甘露所成。我亦将宣说其功德——你们当摄心谛听。

Verse 8

अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम् । सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः

唯以嗅闻此物,便必得不死;并能通达一切经论(śāstra)之真实旨趣,精于诸般兵器与飞射之具。

Verse 9

निपुणः सर्वतंत्रेषु लेखकश्चित्रकृत्सुधीः । ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः

他将精通诸般论典与诸密续,亦为善书善画之智者;通晓知识与证悟之理——诚然无疑,他成就遍知。

Verse 10

पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत् । यस्तस्य वै प्रदास्यामि पितुस्ते संमतं त्विदम्

“愿你们的两位儿子,得成超越正法(dharma)的卓越,进而获得百种成就(siddhi)。而我确会将她赐予配得上她的人——此事亦得你们父亲认可。”

Verse 11

श्रुत्वा मातृमुखादेवं वचः परमकोविदः । स्कंदस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं

他从母亲口中听罢此言,至智的斯甘达(Skanda)立刻启程,前往斯甘达的圣地渡口(tīrtha),其名闻遍三界。

Verse 12

बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात् । पितरौ प्रदक्षिणं कृत्वा लंबोदरधरस्सुधीः

他乘上自己的孔雀,刹那之间便完成了灌顶(abhiṣeka)。随后绕行父母以示敬礼,那位智者—携带腹大之主(伽内沙,Gaṇeśa)—继续前行。

Verse 13

तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः । पुरतश्च तथा स्कंदो मे देहीति ब्रुवन्स्थितः

就在那时,他满怀欢喜地立于父母之前;而斯甘达也站在前方,说道:“把他给我。”

Verse 14

ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत् । सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा

随后她端详二者,帕尔瓦蒂(Pārvatī)惊叹道:“即便汇集一切圣地(tīrtha)的灌沐,乃至诸天众神,也不能以那般方式成就此事。”

Verse 15

सर्वयज्ञव्रतैर्मंत्रैर्योगैरन्यैर्यमैस्तथा । पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्

即使以一切祭祀与誓戒、以诸咒语、以瑜伽及其他修行与克制,也无人能及礼敬父母之功德,连其十六分之一亦不能得。

Verse 16

तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि । अतो ददामि हेरम्बे मोदकं देवनिर्मितम्

因此,此一位胜过百子——确然百倍有余。故而,噢赫兰巴,我奉上此由诸天所制的摩陀迦。

Verse 17

अस्यैव कारणादस्य अग्रे पूजा मखेषु च । वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च

正因如此,在诸祭仪中其礼拜居首;而《吠陀》与诸《论典》亦于开端恒常将其置于礼拜仪轨之首。

Verse 18

पार्वत्या सह भूतेशो ददौ तस्मै वरं महत् । अस्यैव पूजनादग्रे देवास्तुष्टा भवंतु च

怖提舍(主湿婆)与帕尔瓦蒂同在,赐予他大恩许曰:“自今以后先礼拜于彼,愿诸天亦得欢喜。”

Verse 19

सर्वासामपि देवीनां पितॄणां च समंततः । तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे

当先礼拜伽内舍伐罗之时,愿一切女神与祖灵四方所修诸苦行,恒常结成胜果。

Verse 20

ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः । कोटिकोटिगुणं तेषु देवदेवी वचो यथा

因此,在一切祭祀(yajña)中,二次生者应礼敬伽那帕(Gaṇapa);因为在这些仪轨里,功果将以亿万倍增——此乃圣母女神之言。

Verse 21

दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा । कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा

他欢喜地将那具足诸德、功德圆满的供施奉献给诸神之女神(Devadevyā);随后在一切天神面前,授予其统领伽那众(Gaṇas)的主位。

Verse 22

तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने । गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः

因此,在盛大祭祀、赞颂圣歌与日常礼拜中,凡先礼敬伽内沙(Gaṇeśa)者,便能于一切所作之事获得圆满成就。

Verse 23

एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया । पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्

诸神既知此理,为求得心所珍爱之成就,便一同礼拜(于彼),以必得天界与解脱(mokṣa)为坚定之志。

Verse 24

नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं । लिंगे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि

在月四日(Caturthī),若人仅于夜间进食并礼拜伽那之主(Gaṇādhipa),则当应礼敬神祇之时——无论在林伽(liṅga)、圣像(mūrti)或绘像之中——皆应以其所现之形而敬拜。

Verse 25

गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशांतिद । उमानंदप्रद प्राज्ञ त्राहि मां भवसागरात्

噢众伽那之主,向您顶礼——您能平息一切障碍。噢赐予乌玛喜乐的智者,请救我脱离轮回(saṃsāra)之海。

Verse 26

हरानंदकरध्यान ज्ञानविज्ञानद प्रभो । विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा

噢以禅观令哈拉欢喜者,噢赐予知识与证悟之慧的主宰。障碍之王(Vighnarāja)啊,我向您顶礼;愿您恒常慈悦、常怀欢喜。

Verse 27

कृतोपवासो गणपं पूजयेद्यो नरो मुदा । सर्वपापविनिर्मुक्तः सुरलोके महीयते

凡人若守斋戒而欢喜礼敬伽那帕提(Gaṇapati),便能脱离一切罪垢,并在诸天之界受尊崇。

Verse 28

स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं । ओंनमो गणपतये मंत्र एष उदाहृतः

我今将宣说由十二圣名组成的吉祥赞颂。其真言如是:『唵(Oṃ),礼敬伽那帕提(Gaṇapati)。』

Verse 29

गणपतिर्विघ्नराजो लंबतुंडो गजाननः । द्वैमातुरश्च हेरम्ब एकदंतो गणाधिपः

伽那帕提——障碍之王(Vighnarāja),长鼻象面者;双母所生的赫兰巴(Heramba);独牙者、众伽那之主(Gaṇādhipa)。

Verse 30

विनायकश्चारुकर्णः पशुपालो भवात्मजः । द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्

“(其名为:)毗那夜迦(Vināyaka)、佳耳者(Cārukarṇa)、牧主(Paśupāla)、婆伐之子(Bhavātmaja)。凡清晨起身诵念此十二名者……”

Verse 31

विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित् । महाप्रेताश्शमं यांति पीड्यते व्याधिभिर्न च । सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते

对他而言,整个世界皆顺从,无论何处都不生障碍。即使强大的亡灵之众亦得安息,他也不为疾病所苦。脱离一切罪垢,终得不坏之天界。

Verse 63

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गणपतिस्तोत्रं नाम । त्रिषष्टितमोऽध्यायः

至此,《圣莲花往世书》(Śrī Padma Purāṇa)第一卷《创世品》(Sṛṣṭikhaṇḍa)中名为《礼赞伽那帕提》(Gaṇapati 赞)的第六十三章圆满结束。