
The Greatness of the Gaṅgā: Purification, Ancestor Rites, and Liberation
第62章为《恒河功德》(Gaṅgā-māhātmya)。毗耶娑应诸婆罗门之问,开示如何灭除诸罪,乃至重罪:忆念恒河之名、瞻礼其流、触及其水、沐浴、饮用,以及为祖先行祭(piṇḍa、tilodaka)皆能大净业障,成就殊胜福德。 经文反复宣说恒河信敬与升天、不复还及解脱(mokṣa)相连,尤强调在末法迦利时代(Kali-yuga)与吉时如转日(saṅkrānti)、vyatīpāta及日月食之际,其功德更为迅疾。并赐赞颂(stuti)与“根本真言”,称恒河为毗湿奴足水(Viṣṇu-pādodakī)、那罗延尼(Nārāyaṇī)。 又嵌入起源叙事:那罗陀问梵天,梵天说明恒河之神圣地位与降世次第——源自毗湿奴足下之水,经湿婆发髻承受,终由跋耆罗陀(Bhagiratha)引至人间。章末以果报偈(phalaśruti)总结:听闻、讲说、诵持此章,功德等同恒河沐浴,并能利益超度祖先。
Verse 1
। द्विजाऊचुः । मज्जनादखिलं पापं क्षयं यांति सुनिश्चितम् । महापातकमन्यच्च तदादेशं वदस्व नः
婆罗门们说道:“在圣水中沐浴,诸罪必定消灭。也请告诉我们,关于大罪以及其他重过的规定法则。”
Verse 2
पापात्पूतोऽक्षयं नाकमश्नुते दिवि शक्रवत् । सुरयोनेर्न हानिः स्यादुपदेशं वदस्व नः
“净除罪垢者,将得不坏之天界,如同天帝释迦(因陀罗)居于天宫。亦不致从天生之位堕落;因此,请告诉我们成就此事的教诲。”
Verse 3
अत्र भोग्यं परं सर्वं मृते स्वर्गे सुरोत्तमः । कलिपापहतानां च स्वर्गसोपानमुच्यते
“在此,一切至上的福乐皆可受用;死后亦能抵达殊胜天界。此亦被称为通天之阶,能救度为迦梨时代之罪所击倒的人们。”
Verse 4
व्यास उवाच । गतिं चिंतयतां विप्रास्तूर्णं सामान्यजन्मनाम् । स्त्रीपुंसामीक्षणाद्यस्माद्गंगा पापं व्यपोहति
毗耶娑说道:“婆罗门啊,对于思惟自身归趣的凡人,恒河能迅速除罪;因为仅仅得见她,男女之罪亦被洗净。”
Verse 5
गंगेति स्मरणादेव क्षयं याति च पातकम् । कीर्तनादतिपापानि दर्शनाद्गुरुकल्मषम्
仅仅忆念“恒河(Gaṅgā)”之名,罪业便消灭;称颂赞扬她,连极重之罪亦得除去;而只要得见其圣容,最沉重的垢染也被净化。
Verse 6
स्नानात्पानाच्च जाह्नव्यां पितॄणां तर्पणात्तथा । महापातकवृंदानि क्षयं यांति दिनेदिने
在阇诃那毗(Jāhnavī,即恒河)中沐浴,饮其圣水,并同样为祖先行供水祭(tarpaṇa),诸多大罪之群便日复一日地消减。
Verse 7
अग्निना दह्यते तूलं तृणं शुष्कं क्षणाद्यथा । तथा गंगाजलस्पर्शात्पुंसां पापं दहेत्क्षणात्
正如干棉与枯草被火瞬间焚尽,如是,触及恒河(Gaṅgā)之水,人之罪业亦于刹那间被烧尽。
Verse 8
संप्राप्नोत्यक्षयं स्वर्गं गंगास्नानेन केशवम् । यशो राज्यं लभेत्पुण्यें स्वर्गमंते परां गतिम्
以恒河沐浴并礼敬凯沙瓦(Keśava),便得不坏之天界。凭此功德,获得名声与王权;终末之时入于天界,并最终抵达至上的境地。
Verse 9
पितॄनुद्दिश्य गंगायां यस्तु पिंडं प्रयच्छति । विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु
现在请听:那人为其祖先而发心,依正法仪轨并诵念规定的仪式语,在恒河(Gaṅgā)中奉献食团供(piṇḍa)者,其功德果报为何。
Verse 10
अन्नैकेन तु साहस्रं वर्षं पूज्यः सुरालये । तिलेन द्विगुणं विद्धि तथा मेध्यफलेन च
以一份谷粮供养,便能在诸天之居处受敬一千年。应知以芝麻供养,其果报加倍;以清净吉祥之果亦复如是。
Verse 11
गव्येन विधिना विप्राः स्वर्गस्यांतो न विद्यते । एवं पिंडप्रदानेन नित्यं क्रतुशतं भवेत्
婆罗门啊,依所规定之以牛为仪的法则修行,导向天界(svarga)之功德无有穷尽。同样地,供献食团(piṇḍa),便恒常获得百次祭祀之功德。
Verse 12
पितरो निरयस्था ये धन्यास्ते मर्त्यवासिनः । धनपुत्रयुतारोग्यं सुखसंमानपूजिताः
凡其祖先虽住于地狱(naraka)而仍被忆念并得救济之人,实为有福之众生。此等人具足财与子嗣,身安无病,乐住世间,受人尊敬礼拜。
Verse 13
रसातलगता ये च ये च कीटा महीतले । स्थावरे पक्षिसंघादौ ते मर्त्या धनिनो नृपाः
居于罗娑多罗(Rasātala)者,以及在大地为虫者;又在不动之类与群鸟之中者——如是诸魂得为人身,复成富有之王。
Verse 14
तत्तत्पुत्रैश्च पौत्रैश्च गोत्रैर्दौहित्रकैस्तथा । जामातृभागिनेयैश्च सुहृन्मित्रैः प्रियाप्रियैः
——并与其子与孙、同族亲属及外孙;亦与女婿与外甥;以及善意之人、朋友——无论亲爱或不亲爱者。
Verse 15
प्रदीयते जलं पिंडं यथोपकरणान्वितम् । गंगातोयेषु तीरेषु तेषां स्वर्गोऽक्षयो भवेत्
若在圣洁恒河之水的岸边,依仪轨备齐所需供具,恭敬施与清水与团食(piṇḍa)供养,则彼等将得不坏之天界。
Verse 16
पिंडादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः । भवंति सुखिनः सर्वे मर्त्याश्शतसहस्रशः
凡因团食供养(piṇḍa)而得以升举的诸祖灵,尤其母系族属之先祖,皆得欢喜,数以十万计。
Verse 17
स्वर्गे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः । नित्यं वांञ्छंति सद्गंगां गच्छंतु सुरनिम्नगाम्
居于其天界之众生,以及下方居于中界者,恒常渴慕真实的恒河。愿他们前往那在诸天之间流淌的神圣天河。
Verse 18
एको गच्छति गंगां यः पूयंते तस्य पूरुषाः । एतदेव महापुण्यं तरते तारयत्यपि
纵使仅一人前往恒河,其祖先亦得清净。此即大功德:能令自度彼岸,亦能助他人同渡。
Verse 19
गंगा कृत्स्नगुणं वक्तुं न शक्तश्चतुराननः । अतः किंचिद्वदाम्यत्र भागीरथ्या द्विजा गुणम्
即使四面梵天亦不能尽述恒河之德。故而,诸位二次生者啊,我在此仅略说跋耆罗提(Bhāgīrathī)之殊胜。
Verse 20
मुनयः सिद्धगंधर्वा ये चान्ये सुरसत्तमाः । गंगातीरे तपस्तप्त्वा स्वर्गलोकेऽच्युताभवन्
诸牟尼、悉达、乾闼婆及其他最胜天众,曾在恒河岸边修苦行,由此在天界成就不坏不灭之身。
Verse 21
दिव्येन वपुषा सर्वे कामगेन रथेन च । अद्यापि न निवर्तंते रत्नपूर्णक्षयेषु वै
他们皆具天妙之身,并乘随意而行之车;直至今日亦不回返,确然安住于那宝珠充盈、无尽不竭的境界。
Verse 22
प्रासादा यत्र सौवर्णास्सर्वलोकोर्ध्वगाश्शिवाः । इष्टद्रव्यैः सुसंपूर्णाः स्त्रियो यत्र मनोरमाः
彼处有金色宫殿,吉祥庄严,高出诸世界之上;彼处亦有妙丽天女,悦目可亲,妆饰周备,珍爱之物充盈。
Verse 23
पारिजातः समाः पुष्पवृक्षाः कल्पद्रुमोपमाः । गंगातीरे तपस्तप्त्वा तत्रैश्वर्यं लभंति हि
彼处有如波利阇多般的花树,堪比如意宝树。于恒河岸边修苦行者,确能在彼处获得富饶与主宰般的福运。
Verse 24
तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा । पुरुदानैर्गतिर्या च गंगां संसेवतां च सा
由多种苦行、诸多祭祀(yajña)、各类誓愿与广大布施所成就的灵性归趣,同样赐予那些虔诚亲近并奉事恒河者。
Verse 25
जारजं पतितं दुष्टमंत्यजं गुरुघातिनम् । सर्वद्रोहेण संयुक्तं सर्वपातकसंयुतम्
那由通奸而生者,堕落卑劣、邪恶不净、为众所弃,乃至弑师之人——兼具一切背叛,染著诸般罪垢。
Verse 26
त्यजंति पितरं पुत्राः प्रियं पत्न्यः सुहृद्गणाः । अन्ये च बांधवाः सर्वे गंगा तु न परित्यजेत्
儿子或可弃父,爱妻与友朋亦可离去,诸亲眷皆可能背转——唯独圣河恒河(Gaṅgā)不可舍弃。
Verse 27
यथा माता स्वयं जन्ममलशौचं च कारयेत् । क्रोडीकृत्य तथा तेषां गंगा प्रक्षालयेन्मलम्
如同母亲亲自为新生儿行净礼,除去出生之垢;恒河亦复如是,将众生抱入怀中,洗涤其污秽。
Verse 28
भवंति ते सुविख्याता भोग्यालंकारपूजिताः । दर्शने क्रियते गंगा सकृद्भक्त्या नरैस्तु यैः
凡以一念虔敬,得以一见恒河、令其功德显现者,皆声名远播,受享乐与庄严之供奉礼敬。
Verse 29
तेषां कुलानां लक्षं तु भवात्तारयते शिवा । स्मृतार्ति हर्त्री यैर्ध्याता संस्तुता साधुमोदिता
吉祥女神湿婆妃(Śivā)能使其家族十万支系脱离轮回世有;忆念她者之苦恼皆为她所除——凡观想、赞颂她者,皆令贤善之行使她欢悦。
Verse 30
गंगा तारयते नॄणामुभौ वंशौ भवार्णवात् । संक्रांतिषु व्यतीपाते ग्रहणे चंद्रसूर्ययोः
恒河能拯救世人,并救度其祖先两系,使其脱离轮回生死之海;尤以太阳行度交替(saṅkrānti)、vyatīpāta之时,以及月食与日食之际为甚。
Verse 31
पुण्ये स्नात्वा तु गंगायां कुलकोटिं समुद्धरेत् । शुक्लपक्षे दिवामर्त्या गंगायामुत्तरायणे
在圣恒河中沐浴,能拔济家族一“俱胝”(crore)之众;尤当凡人于白半月之日间,在太阳北行(uttarāyaṇa)之时于恒河沐浴,其功德更盛。
Verse 32
धन्या देहं विमुंचंति हृदिस्थे च जनार्दने । अनेन विधिना यस्तु भागीरथ्या जले शुभे
福哉!当阇那尔达那(Janārdana)安住心中而舍身者;又福哉!依此所规定之仪轨,于吉祥的婆伽罗提河(Bhāgīrathī,即恒河)之水中(舍身)者。
Verse 33
प्राणांस्त्यक्त्वा व्रजेत्स्वर्गं पुनरावृत्तिवर्जितम् । यो गंगानुगतो नित्यं सर्वदेवानुगो हि सः
舍离生命之气后,他往生天界,永离再返(不复轮回)。因为恒常随顺恒河者,实为随顺一切诸天之人。
Verse 34
सर्वदेवमयो विष्णुर्गंगा विष्णुमयी यतः । गंगायां पिंडदानेन पितॄणां वै तिलोदकैः
毗湿奴(Viṣṇu)具足一切诸天之神性,而恒河充满毗湿奴之临在。故于恒河中奉献团食(piṇḍa),并以芝麻水作供献,实能利益诸祖灵(Pitṛ)。
Verse 35
नरकस्था दिवं यांति स्वर्गस्था मोक्षमाप्नुयुः । परदारपरद्रव्य बाधा द्रोहपरस्य च
身在地狱者亦可升至天界,身在天界者亦可得解脱(mokṣa)——只要舍弃侵犯他人之妻、侵夺他人财物、伤害众生,以及对他人的背叛与欺诈。
Verse 36
गतिर्मनुष्यमात्रस्य गंगैव परमा गतिः । वेदशास्त्रविहीनस्य गुरुनिंदापरस्य च
对一切世人而言,唯有恒河(Gaṅgā)是至上的归依与终极归宿——尤其对不通吠陀与论典(śāstra)者,以及专事诋毁上师(guru)者。
Verse 37
समयाचारहीनस्य नास्ति गंगासमा गतिः । किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः
对缺失正行与正当戒律者而言,再无可与恒河(Gaṅgā)之恩相匹的成就。纵有富饶供施的祭祀(yajña)何益?纵行极其艰苦的苦行又何益?
Verse 38
स्वर्गमोक्षप्रदा गंगा सुखसौभाग्यपूजिता । नियमैः परमैर्नित्यं किं योगैश्चित्तरोधकैः
恒河(Gaṅgā)赐予天界与解脱(mokṣa),并被礼敬为幸福与吉祥的施与者。若能恒常奉行至高的律仪(niyama),又何须以诸般制心之瑜伽行法?
Verse 39
भुक्तिमुक्तिप्रदा गंगा सुखमोक्षाग्रतः स्थिता । अनेकजन्मसंघात पापं पुंसां विनश्यति
恒河(Gaṅgā)赐予世间受用(bhukti)与解脱(mukti);她在前方显现为安乐与mokṣa。众生历经多生所积聚的罪垢,皆得消灭。
Verse 40
स्नानमात्रेण गंगायां सद्यः स्यात्पुण्यभाङ्नरः । प्रभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे
仅仅在圣洁的恒河(Gaṅgā)中沐浴,世人便立刻成为功德(puṇya)的受者。在普拉婆娑(Prabhāsa)亦然——当罗睺(Rāhu)遮蔽太阳、发生日食之时——其功德据说等同于布施一千头牛。
Verse 41
लभते यत्फलं दाने गंगास्नानाद्दिनेदिने । दृष्ट्वा तु हरते पापं स्पृष्ट्वा तु लभते दिवम्
日复一日,在恒河中沐浴,便获得与布施同等的福果。仅仅瞻见她便能除罪;触及她则得升天界。
Verse 42
प्रसंगादपि सा गंगा मोक्षदा त्ववगाहिता । सर्वेन्द्रियाणां चापल्यं वासनाशक्तिसंभवम्
即便只是偶然亲近,那恒河——一旦入水沐浴——亦成为赐予解脱(mokṣa)者。诸根的躁动,源于潜在习气(vāsanā)的力量。
Verse 43
निर्घृणत्वं ततो गंगा दर्शनात्प्रविनश्यति । परद्रव्याभिकांक्षित्वं परदाराभिलाषिता
于是,仅以瞻见恒河,残忍便被摧灭;同样,对他人财物的贪求与对他人妻室的欲念也被根除。
Verse 44
परधर्मे रुचिश्चैव दर्शनादेव नश्यति । यदृच्छालाभ संतोषस्स्वधर्मेषु प्रवर्तते
对他人之法(dharma)的偏爱,仅凭如实观见便会消散。满足于不求自来的所得,便在自身之法中安住而行。
Verse 45
सर्वभूतसमत्वं च गङ्गायां मज्जनाद्भवेत् । यस्तु गंगां समाश्रित्य सुखं तिष्ठति मानवः
在圣恒河(Gaṅgā)中沐浴,便能获得对一切众生平等无二的心。凡依止恒河而安住、心怀安乐的人,尤为蒙福。
Verse 46
जीवन्मुक्तस्स एवेह सर्वेषामुत्तमोत्तमः । गंगां संश्रित्य यस्तिष्ठेत्तस्य कार्यं न विद्यते
唯有那在此世依止恒河而安住者,才是现生解脱者(jīvanmukta),为众中最胜;对他而言,再无任何应作之事。
Verse 47
कृतकृत्यस्स वै मुक्तो जीवन्मुक्तश्च मानवः । यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम्
那人确已圆满、确已解脱,是现生解脱者:对他而言,祭祀(yajña)、布施(dāna)、苦行(tapas)、诵念(japa)、祖先祭(śrāddha)以及对诸天(deva)的礼敬,皆已成就。
Verse 48
गंगायां तु कृतं नित्यं कोटिकोटि गुणं भवेत् । अन्यस्थाने कृतं पापं गंगातीरे विनश्यति
确实,在恒河之上所作的一切,恒常增益,功德倍增至亿万倍。于他处所造之罪,在恒河岸边亦得消灭。
Verse 49
गंगातीरे कृतं पापं गंगास्नानेन नश्यति । आत्मनो जन्मनक्षत्रे जाह्नवीसंगते दिने
在恒河岸边所造之罪,亦能以恒河沐浴而灭除;尤其在自身出生宿(janma-nakṣatra)与阇诃那毗(Jāhnavī,即恒河)相关的吉日相会之时。
Verse 50
नरः स्नात्वा तु गंगायां स्वकुलं च समुद्धरेत् । आदरेण यथा स्तौति धनवंतं सदा नरः
人若沐浴于圣洁的恒河(Gaṅgā),便能超拔自家族系;正如世人常以恭敬赞颂富者以求其恩惠,同样在此亦当以虔诚与敬畏而行。
Verse 51
सकृद्गंगां तथा स्तुत्वा भवेत्स्वर्गस्य भाजनम् । अश्रद्धयापि गंगायां योसौ नामानुकीर्तनं
只要赞颂恒河一次,便堪受天界之果;即使无信心,凡为她而称念“恒河”之名者,亦得功德。
Verse 52
करोति पुण्यवाहिन्यास्स वै स्वर्गस्य भाजनम् । क्षितौ भावयतो मर्त्यान्नागांस्तारयतेप्यधः
使那载福之圣流得以奔涌者,实为堪受天界之人;并且因其滋养大地上的众生,也能救度居于下界的那伽(Nāga)。
Verse 53
दिवि तारयते देवान्गंगा त्रिपथगा स्मृता । ज्ञानतोज्ञानतो वापि कामतोऽकामतोपि वा
在天界,恒河救度诸天(deva),并被忆念为“三途之河”(tripathagā)。无论是明知而来或不知而至,是怀欲而求或无欲而近,她皆赐予超度与解脱。
Verse 54
गंगायां च मृतो मर्त्यः स्वर्गं मोक्षं च विंदति । या गतिर्योगयुक्तस्य सत्वस्थस्य मनीषिणः
凡人在恒河中舍身者,得生天界,亦得解脱(mokṣa);此正是安住于萨埵(sattva)、与瑜伽相应之智者所归之境。
Verse 55
सा गतिस्त्यजतः प्राणान्गंगायां तु शरीरिणः । चांद्रायणसहस्राणि यश्चरेत्कायशोधनम्
凡有身者若于恒河中舍命,其归趣如是:等同修行千千月行斋(Cāndrāyaṇa)之苦行,以净化此身。
Verse 56
पानं कुर्याद्यथेच्छं च गंगांभः स विशिष्यते । तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः
人可随意饮用;然恒河之水最为殊胜。诸圣地渡口(tīrtha)之威力至此,而诸天神之力尤为特出。
Verse 57
तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीम् । तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्
风神伐由(Vāyu)说:“吠陀功德之力,只及于未至阇诃那毗(Jāhnavī,恒河)之处。圣地渡口(tīrtha)共有三俱胝又半俱胝。”
Verse 58
दिविभुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि । विष्णुपादाब्जसंभूते गंगे त्रिपथगामिनि
在天界、在人间、于中空之域,你的那些圣地皆可得见,阇诃那毗啊——恒河啊,你出自毗湿奴莲足,循三途而流。
Verse 59
धर्मद्रवेति विख्याते पापं मे हर जाह्नवि । विष्णुपादप्रसूतासि वैष्णवी विष्णुपूजिता
阇诃那毗(恒河)啊,你以“法之流”而著称,愿你除去我的罪垢。你从毗湿奴之足而生;你是毗湿奴的圣力(Vaiṣṇavī),为毗湿奴所敬奉礼拜。
Verse 60
त्राहि मामेनसस्तस्मादाजन्ममरणांतिकात् । श्रद्धया धर्मसंपूर्णे श्रीमता रजसा च ते
求你护佑我脱离彼罪,自我出生直至死亡之终极;噢你圆满于正法、具足信心,并具吉祥光辉与高贵精进者。
Verse 61
अमृतेन महादेवि भागीरथि पुनीहि मां । त्रिभिः श्लोकवरैरेभिर्यः स्नायाज्जाह्नवी जले
噢大女神(Mahādevī),噢婆伽罗提(Bhāgīrathī),以甘露(amṛta)净化我。凡于阇诃那毗(Jāhnavī,恒河)之水中沐浴,并诵此三首胜妙偈者,皆得清净。
Verse 62
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गंगामाहात्म्यंनाम । द्विषष्टितमोऽध्यायः
至此,《圣莲华往世书》(Śrī Padma Purāṇa)第一部(Sṛṣṭikhaṇḍa)中名为《恒河功德》(Gaṅgā-māhātmya)的第六十二章圆满结束。
Verse 63
सकृज्जपान्नरः पूतो विष्णुदेहे प्रतिष्ठति । मंत्रश्चायं । ओंनमो गंगायै विश्वरूपिण्यै नारायण्यै नमोनमः
即使仅诵一次,人亦得清净,并安住于毗湿奴(Viṣṇu)之身(圣住处)。此即真言: “Oṁ——礼敬恒河(Gaṅgā),具宇宙之形者;礼敬那罗延尼(Nārāyaṇī),再三礼敬。”
Verse 64
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः । सर्वपापविनिर्मुक्तो गंगास्नानं विना नरः
凡以阇诃那毗(Jāhnavī,恒河)岸边之土置于头顶者,即使不入恒河沐浴,亦能解脱一切罪垢。
Verse 65
गंगाजलोर्मिनिर्धूत पवनं स्पृशते यदि । स पूतः कल्मषाद्घोरात्स्वर्गं चाक्षयमश्नुते
若被经由恒河之水波浪所净化的清风所触,此人便从可怖之罪垢中得以清净,并得不坏之天界。
Verse 66
यावदस्थि मनुष्यस्य गंगातोये प्रतिष्ठति । तावद्वर्षसहस्राणि स्वर्गलोके महीयते
只要人的遗骨安住于恒河之水中,他便在天界受尊崇,如此延续千千年。
Verse 67
पित्रोर्बंधुजनानां च अनाथानां गुरोरपि । गंगायामस्थिपातेन नरः स्वर्गान्न हीयते
将遗骨投入恒河——无论是父母、亲族、无依者,乃至师长之骨——此人亦不从天界堕落。
Verse 68
गंगां प्रतिवहेद्यस्तु पितॄणामस्थिखंडकम् । पदेपदेश्वमेधस्य फलं प्राप्नोति मानवः
若有人将祖先遗骨的一小片携至恒河,则其每一步都获得举行马祭(Aśvamedha)之功德。
Verse 69
धन्या जानपदा ये च पशवः पक्षिकीटकाः । स्थावरा जंगमाश्चान्ये गंगातीरसमाश्रिताः
福哉彼诸国土与其人民;亦福哉诸兽、诸鸟与诸虫——乃至一切有情与无情、动与不动者——凡依止恒河两岸而居者。
Verse 70
क्रोशांतर मृता ये च जाह्नव्या द्विजसत्तमाः । मानवा देवतास्संति इतरे मानवा भुवि
噢,最尊贵的再生者啊,凡在离阇诃那维(恒河)一拘舍之内死去者,皆成天界神众;其余之人仍仅为世间凡人。
Verse 71
गंगास्नानाय संगच्छन्पथि संम्रियते यदि । स च स्वर्गमवाप्नोति गंगास्नानफलं लभेत्
若有人为沐浴恒河而启程,途中不幸身亡,亦得升天,并获与恒河沐浴同等之功德。
Verse 72
गंगाजले प्रयास्यंति ते जीवाः पथि ये मृताः । कीटाः पंतंगाश्शलभाः पादाघातेन गच्छतां
即便那些在赴恒河之水途中死去的众生——虫蚁、飞虫与蛾类——也因行者足迹的触及而得以趋向更高之境。
Verse 73
ये वदंति समुद्देशं गंगां प्रति जनं द्विजाः । ते च यांति परं पुण्यं गंगास्नानफलं नराः
凡再生者向众人宣示通往恒河之方向者,此等之人亦得至上功德,与恒河沐浴之果报无异。
Verse 74
जाह्नवीं ये च निंदंति पाषण्डैर्हतचेतसः । ते यांति नरकं घोरं पुनरावृत्तिदुर्लभम्
凡诋毁阇诃那维(恒河)者,因邪见而心智败坏,必堕可怖地狱;自彼处再得善趣之回返,极为难得。
Verse 75
दुस्थोवापि स्मरन्नित्यं गंगेति परिकीर्तयन् । पठन्स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः
即使身处困厄之人——若恒常忆念并反复称诵“恒河(Gaṅgā)”之名——仅凭此诵念亦得升天。既如此,又何须多言?
Verse 76
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
凡称念“恒河、恒河(Gaṅgā, Gaṅgā)”者,即便相隔百由旬,也能解脱一切罪业,往生毗湿奴之界。
Verse 77
अंधाश्च पंगवस्ते च वृथाभव समुद्भवाः । गर्भपाताद्विपद्यंते ये गंगां न गता नराः
未曾前往恒河(Gaṅgā)之人,终致目盲跛行,生于徒然之世;他们陷入厄运,犹如胎堕之灾。
Verse 78
न कीर्तयंति ये गंगां जडतुल्या नराधमाः । परान्नोपदिशंति स्म वातूलाश्चित्तविभ्रमाः
不称赞恒河(Gaṅgā)者,乃人中最下,迟钝如木石。他们不劝赞供施之食;如同狂乱之人,心神迷乱。
Verse 79
न पठंति जना ये च तेषां शास्त्रं विनिष्फलम् । गंगापुण्यफलं विप्राः कुधियः पतिताधमाः
不研习经典之人,于其而言诸《论典》(śāstra)皆成无果。婆罗门啊,此等邪慧之辈乃堕落中最下者,亦失却圣恒河所赐之功德果报。
Verse 80
पाठयंति जना ये च श्रद्धया निपठंति च । गच्छंति ते दिवं धीरास्तारयंति पितॄन्गुरून्
凡教授此法者,及以信心诵读者——彼等坚忍之人得升天界,亦能度脱其祖先与师长。
Verse 81
पाथेयकं गच्छतां यो वसु शक्त्या प्रयच्छति । भागीरथ्या लभेत्स्नानं यः परान्नेन गच्छति
凡随己力以财物作旅人资粮者,得如在婆伽罗提(恒河)沐浴之功德;以饮食资助行旅者,亦同得此福。
Verse 82
कर्तुः स्नानफलं विद्याद्द्विगुणं प्रेरकस्य च । इच्छयानिच्छया चापि प्रेरणेनान्यसेवया
当知:行圣浴者所得之果,其功德对促使其行者加倍而归——无论出于愿意或不愿意,或以劝勉之言,或以代为服务而成就他人之行。
Verse 83
जाह्नवीं यो गतः पुण्यां स गच्छेन्निर्जरालयम् । द्विजा ऊचुः । गंगायाः कीर्तनं व्यास श्रुतं त्वत्तो विनिर्मलम्
凡至圣洁的阇诃那毗(恒河)者,必往不死者之居处。诸二生者曰:“噢,毗耶娑啊,我们从你处听闻此清净无垢、赞颂恒河之说。”
Verse 84
गंगा कस्मात्किमाकारा कुतः सा ह्यतिपावनी । व्यास उवाच । शृणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीं
“何以名为恒河?其形相如何?此至极净化之河从何而出?”毗耶娑曰:“谛听;今日我当宣说一则古老而圣善的故事。”
Verse 85
यां श्रुत्वा मोक्षमार्गं च प्राप्नोति नरसत्तमः । ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुंगवः
噢,众人之最,闻此便得解脱之道。往昔,圣者那罗陀,诸牟尼之冠,前往梵天界(Brahmaloka)。
Verse 86
नत्वा विधिं च पप्रच्छ पूतं त्रैलोक्यपावनम् । किं सृष्टं च त्वया तात संमतं शंभुकृष्णयोः
他礼拜维提(梵天Brahmā),便问那清净者、三界的净化者:“尊父啊,你所创造的是什么,能为商婆(湿婆Śiva)与奎师那(Kṛṣṇa)共同认可?”
Verse 87
सर्वलोकहितार्थाय भुवःस्थाने समीहितम् । देवी वा देवता का वा सर्वासामुत्तमोत्तमा
为利益一切世界,人们在大地之境寻求并安立于此。无论她是女神或任何神祇——在诸神之中,她皆为至上之至上。
Verse 88
यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः । अंडजाः स्वेदजा वृक्षा ये चान्य उद्भिज्जादयः
抵达于她时,诸天、阿修罗族(Daitya)、人类与龙蛇(nāga),以及卵生者、湿生者、树木与一切芽生之类的生命,皆来依止于她。
Verse 89
सर्वे यांति शिवं ब्रह्मन्समग्रं विभवं ध्रुवम् । ब्रह्मोवाच । सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी
婆罗门啊,一切众生皆归至湿婆(Śiva)——圆满、恒常、具足神圣威德。梵天说道:在远古创造之时,曾宣说“摩耶(Māyā)”,其本性即为原质(Prakṛti),乃是造化之力。
Verse 90
आद्या भव स्वलोकानां त्वत्तो भवं सृजाम्यहम् । एतच्छ्रुत्वा परा सा च सप्तधा चाभवत्तदा
“噢,太初者,请成为你自身诸世界之本源;我将由你而造化有。”闻此言,那至上神力当时化现为七重。
Verse 91
गायत्रीवाक्च स्वर्लक्ष्मीस्सर्वसस्य वसुप्रदा । ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी
她即是伽耶特丽(Gāyatrī)与圣言之力(Vāk);她是天界之吉祥天女(Svarga-Lakṣmī),赐予众生财富。她是智慧与学识;她是乌玛女神(Umā-devī)——神力(śakti)之种,修苦行、恒住于苦修(tapas)。
Verse 92
वर्णिका धर्मद्रवा च एतास्सप्त प्रकीर्तिताः । गायत्रीप्रभवा वेदा वेदात्सर्वं स्थितं जगत्
如是宣说此七者,其中有瓦尔尼迦(Varṇikā)与达摩德拉瓦(Dharmadravā)。诸吠陀由伽耶特丽而生,而整个宇宙依吠陀而安立。
Verse 93
स्वस्ति स्वाहा स्वधा दीक्षा एता गायत्रिजा स्मृताः । उच्चारयेत्सदा यज्ञे गायत्रीं मातृकादिभिः
“Svasti”“Svāh┓Svadh┓Dīkṣā”皆被忆念为由伽耶特丽所生。因此于一切祭祀(yajña)中,应常诵伽耶特丽,并与诸母神(Mātṛkā)等相应圣句同诵。
Verse 94
क्रतौ देवाः स्वधां प्राप्य भवेयुरजरामराः । ततस्सुधारसं देवा मुमुचुर्धरणीतले
在祭仪(kratu)中,诸天得其应得之分,便可离老离死。随后诸天将甘露般的精髓倾洒于大地之上。
Verse 95
अथ सस्यवती पृथ्वी ओषधीनां परा शुभा । फलमूलैरसैर्भक्ष्यैर्जनाः सुस्थतराभवन्
于是大地五谷丰登,至为吉祥,药草繁盛;众生以果实、根茎、汁液与滋养之食为资,身心更为康健安稳。
Verse 96
भारती सर्वलोकानां चानने मानसे स्थिता । तथैव सर्वशास्त्रेषु धर्मोद्देशं करोति सा
婆罗底(萨拉斯瓦蒂)安住于一切众生之口与心中,同样在诸部圣典(śāstra)里宣示正法(dharma)的教诲。
Verse 97
विज्ञानं कलहं शोकं मोहामोहं शिवाशिवम् । तया विना जगत्सर्वं यात्यतत्त्वमिति स्मृतम्
智慧与辨识、争斗与忧苦、迷妄与离迷、吉祥与不祥——若离于她,据说整个世界便堕入非真实,失却真理之本。
Verse 98
कमलासंभवश्चैव वस्त्रभूषणसंचयः । सुखं राज्यं त्रिलोके तु ततः सा हरिवल्लभा
由她而生的是莲华般的福泽与丰饶,并有衣服与饰物的积聚;她赐予三界安乐的王权,因此她为哈利(毗湿奴)所钟爱。
Verse 99
उमया हेतुना शंभोर्ज्ञानं लोकेषु संततम् । ज्ञानमाता च सा ज्ञेया शंभोरर्धाङ्गवासिनी
由于乌玛,商布(湿婆)的智慧在诸世界恒常流布;她当被知为智慧之母,居于商布之半身。
Verse 100
वर्णिकाशक्तिरत्युग्रा सर्वलोकप्रमोहिनी । सर्वलोकेषु लोकानां स्थितिसंहारकारिणी
瓦尔尼迦之力极其威猛,迷惑一切世界;于诸界之中,她成就众生的维持与毁灭。
Verse 101
देव्या च निहतौ पूर्वमसुरौ मधुकैटभौ । रुरुश्चापि हतो घोरः सर्वलोकपरिश्रुतः
从前,女神诛灭了两位阿修罗——摩度与凯塔婆;那可怖的鲁鲁亦被杀,其凶名震动诸世界。
Verse 102
सर्वदेवैकजेतारं सा जघ्ने महिषासुरम् । निहता लीलया देव्या येऽसुरा दैत्यपुंगवाः
她诛杀了摩醯娑阿修罗——独自征服诸天之者;那些阿修罗、诸代底耶中的雄杰,也被女神轻而易举地灭尽,宛如嬉戏。
Verse 103
एवं बलानि दैत्यानां निहत्य सर्वदा तया । पालितं मोदितं चैव कृत्स्नमेतज्जगत्त्रयम्
如是,她恒常歼灭代底耶的军势;此三界全体亦由她护持,并令之欢悦。
Verse 104
धर्मद्रवस्वरूपा च सर्वधर्मप्रतिष्ठिता । महतीं तां समालोक्य मया कमंडलौ धृता
她乃达摩之精髓,宛若流体之形,安立一切正法。见其广大无量,我将她摄持于我的水罐(迦曼陀卢)之中。
Verse 105
विष्णुपादाब्जसम्भूता शंभुना शिरसा धृता । अस्माभिश्च त्रिभिर्युक्ता ब्रह्मविष्णुमहेश्वरैः
她生自毗湿奴足下莲华,被商布(湿婆)顶戴,又与我等三位——梵天、毗湿奴与大自在天(摩诃湿伐罗)相应。
Verse 106
धर्मद्रवा परिख्याता जलरूपा कमंडलौ । बलियज्ञेषु संभूता विष्णुना प्रभविष्णुना
她名为“法流”(Dharmadravā),在(毗湿奴的)水罐(kamaṇḍalu)中呈水之形;她于婆利的祭祀中出现,由毗湿奴——万有显现之全能本源——所生。
Verse 107
छद्मना छलितः पूर्वं बलिर्बलवतां वरः । ततः पादद्वयेनैव क्रांतं सर्वं महीतलम्
往昔,婆利——强者之最——被伪装所欺;其后,仅以两步,便踏遍了大地的全部疆面。
Verse 108
नभः पादश्च ब्रह्माण्डं भित्वा मम पुरः स्थितः । मया संपूजितः पादः कमण्डलुजलेन वै
于是那只圣足上达苍穹,穿破宇宙之卵,立于我前;我便以我苦行水罐(kamaṇḍalu)之水,恭敬供奉那圣足。
Verse 109
प्रक्षाल्यैवार्चितात्पादाद्धेमकूटेऽपतज्जलम् । तत्कूटाच्छंकरं प्राप्य भ्रमते सा जटास्थिता
那洗涤并供奉过的圣足之水,落在金峰(Hemakūṭa)之上;自彼峰而至商羯罗(湿婆),并在其纠结发髻中流转安住。
Verse 110
ततो भगीरथेनैव समाराध्य शिवं भुवि । आनीयाराधितो नित्यं तपसा गजपुंगवः
随后,跋吉罗陀独自在世间如法恭敬供奉湿婆;并将其迎至此处后,那最尊贵的象王以苦行(tapas)恒常受礼敬。
Verse 111
तेन भित्वा नगं वीर्यात्त्रिभिर्दंतैः कृतं बिलम् । ततस्त्रिबिलगा यस्मात्त्रिस्रोता लोकविश्रुता
他以雄力凿穿群山,用三枚象牙开出三处洞口。因此她被称为“三穴之河”Tribilagā,又称“三流者”Trisrotā,名闻天下。
Verse 112
हरिब्रह्महरयोगात्पूता लोकस्य पावनी । समासाद्य च तां देवीं सर्वधर्मफलं लभेत्
因与哈利、梵天与哈罗相应而得清净,她遂成为净化诸世界者。凡趋近并礼敬此女神者,皆可获得一切法德功果。
Verse 113
पाठयज्ञपरैः सर्वैर्मंत्र होम सुरार्चनैः । सा गतिर्न भवेज्जंतोर्गंगा संसेवया च या
凡以诵读祭、持诵真言(japa)、火供与诸天礼拜为志者所能达到的归趣——众生也不如以虔诚奉事恒河(Gaṅgā)所能获得的那般归宿。
Verse 114
धर्मस्य साधनोपायो ह्यतः परो न विद्यते । त्रैलोक्यपुण्यसंयोगात्तस्मात्तां व्रज नारद
成就正法再无高于此的方便。既与三界功德相合,故汝当趋向于彼,噢那罗陀。
Verse 115
गंगातोयास्थिसंयोगात्सुतास्ते सगरस्य च । स्वर्गताः पितृभिश्चैव स्वपूर्वापरजैः सह
因其骸骨与圣恒河(Gaṅgā)之水相触,娑伽罗之诸子得升天界——并与其祖先及自身先后诸代子孙同往。
Verse 116
ततो ब्रह्ममुखाच्छ्रुत्वा नारदो मुनिपुंगवः । गंगाद्वारे तपः कृत्वा ब्रह्मणा सदृशोभवत्
随后,圣贤之最那罗陀(Nārada)亲从梵天(Brahmā)口中闻此,便在恒河门(Gaṅgādvāra)修苦行(tapas),遂得与梵天相类之境。
Verse 117
सर्वत्र सुलभा गंगा त्रिषुस्थानेषु दुर्लभा । गंगाद्वारे प्रयागे च गंगासागरसंगमे
恒河(Gaṅgā)处处可得,然于三处实为难遇:恒河门(Gaṅgādvāra)、普罗耶伽(Prayāga),以及恒河与大海相会之处。
Verse 118
त्रिरात्रेणैकरात्रेण नरो याति परां गतिम् । तस्मात्सर्वप्रयत्नेन सद्यो मुक्तिं विचिंतयेत्
守持此法三夜——乃至仅一夜——人便可达至上归趣。是故当尽诸努力,思惟当下解脱(mokṣa)。
Verse 119
ततो गच्छत धर्मज्ञाः शिवां भागीरथीमिह । अचिरेणैव कालेन स्वर्गं मोक्षं प्रगच्छथ
是故,诸知法者,当由此往诣吉祥的婆伽罗提河(Bhāgīrathī,即恒河)。不久便可得生天界,并证解脱(mokṣa)。
Verse 120
विशेषात्कलिकाले च गंगा मोक्षप्रदा नृणां । कृच्छ्राच्च क्षीणसत्वानामनंतः पुण्यसंभवः
尤其在迦梨时代,圣恒河(Gaṅgā)赐予众生解脱;对内在力量衰微、艰难挣扎之人,她的功德无尽,乃无量善德之源。
Verse 121
ततस्ते ब्राह्मणा हृष्टाः श्रुत्वा व्यासाद्गिरं शुभाम् । गंगायां तु तपस्तप्त्वा मोक्षमार्गं ययुस्तदा
于是那些婆罗门听闻毗耶娑(Vyāsa)吉祥之言而欢喜,在恒河边修行苦行(tapas),随后踏上通往解脱之道。
Verse 122
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम् । सर्वं तरति दुःखौघ गंगास्नानफलं लभेत्
凡人若聆听此无上功德的圣传,便能渡越一切苦海洪流,并获得如同在恒河沐浴的同等果报。
Verse 123
सकृदुच्चारिते चैव सर्वयज्ञफलं लभेत् । दानं जप्यं तथा ध्यानं स्तोत्रं मंत्रं सुरार्चनम्
即使只诵念一次,也能获得一切祭祀(yajña)之果;并同得布施(dāna)、持诵(japa)、禅修(dhyāna)、赞歌(stotra)、真言(mantra)与礼敬诸天(deva)之功德。
Verse 124
तत्रैव कारयेद्यस्तु स चानंतफलं लभेत् । तस्मात्तत्रैव कर्त्तव्यं जपहोमादिकं नरैः
凡在彼处亲令诸仪轨施行者,必得无尽果报。因此,人们应当就在彼处修持持诵(japa)、火供(homa)等诸般行法。
Verse 125
अनंतं च फलं प्रोक्तं जन्मजन्मसु लभ्यते
经中宣说其果报无穷无尽;此福德于生生世世皆可得。