Adhyaya 61
Srishti KhandaAdhyaya 6144 Verses

Adhyaya 61

The Greatness of the Hymn to Tulasī

第61章(PP.1.61)开篇写诸婆罗门(dvijāḥ)祈请哈利(毗湿奴)开示功德殊胜的图拉西赞(Tulasī-stotra)。毗耶娑以回忆与《斯甘达往世书》相关的旧日宣说来确立传承权威,叙事继而转向圣者沙塔难陀(Śatānanda),其门下守戒弟子前来求问能带来利益与福德(puṇya)之法。 本章以颂赞与仪轨义理交织,宣明图拉西女神(Tulasī-devī)的伟大:称念其名、得见其形即可灭罪;其叶能净化对舍利格罗摩(Śālagrāma)与凯沙瓦(Keśava)的供奉;凡以图拉西供养毗湿奴者,阎摩(Yama)之权势亦不能加害。文中并提及她的圣地与显现处——戈玛蒂(Gomatī)、弗林达文(Vṛndāvana)、喜马拉雅、檀陀迦(Daṇḍaka)、里希亚穆卡(Ṛśyamūka)——并配以果报宣说(phalaśruti)。 结尾强调在十二日斋(Dvādaśī)之夜守夜诵赞的利益:消除过失与罪障,令家宅吉祥,得财富、健康,并成就坚定不退的毗湿奴信爱(Vaiṣṇava bhakti)。

Shlokas

Verse 1

। द्विजाऊचुः । तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम् । तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम्

婆罗门们说道:“噢,哈利啊,我们已从你处聆闻图拉西花的吉祥大功德。如今我们愿听那为她而作、具福德的赞颂圣歌。”

Verse 2

व्यास उवाच । पुरा स्कंदपुराणे च यन्मया कीर्तितं द्विजाः । कथयामि पुराणं च पुरतो मोक्षहेतवे

毗耶娑说道:“诸位二次生者啊,我昔日在《斯坎达往世书》中所宣说者,如今我将再于你们面前叙述那部往世书,以作解脱之因。”

Verse 3

शतानंद मुनेः शिष्याः सर्वे ते संशितव्रताः । प्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम्

圣者沙塔难陀的弟子们皆严守誓戒;他们向师长顶礼后,那些婆罗门便请问他何者为功德,何者为利益。

Verse 4

पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम् । तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर

主啊,昔日从梵天口中所闻那赞颂图拉西(Tulasī)的圣歌,我们如今愿从你处再闻;噢,诸梵(Brahman)知者中最胜者。

Verse 5

शतानंद उवाच । नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहा । पापानि विलयं यांति पुण्यं भवति चाक्षयम्

沙坦难陀(Śatānanda)说:当称诵她的名号时,摧破阿修罗傲慢者便欢喜;罪业消融,福德亦成不坏。

Verse 6

सा कथं तुलसी लोकैः पूज्यते वंद्यते नहि । दर्शनादेव यस्यास्तु दानं कोटिगवां भवेत्

图拉西(Tulasī)怎会不为世人所礼敬供养?仅仅一见她,便得如布施一千万头牛之功德。

Verse 7

धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौ । सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ

在迦利时代,于世间真是有福的人:其家中每日于地上备有供奉娑罗伽罗摩石(Śālagrāma)的图拉西(tulasī)。

Verse 8

तुलसीं ये विचिन्वंति धन्यास्ते करपल्लवाः । केशवार्थं कलौ ये च रोपयंतीह भूतले

采撷图拉西(Tulasī)的双手,如嫩芽般可敬,实为有福;在迦利时代,为了凯沙瓦(Keśava,毗湿奴 Viṣṇu)而在大地上种植图拉西者亦复有福。

Verse 9

किं करिष्यति संरुष्टो यमोपि सह किंकरैः । तुलसीदलेन देवेशः पूजितो येन दुःखहा

即使阎摩盛怒,携诸使者,又能对那以一片图拉西叶礼敬诸天之主、能除忧苦者的人做什么呢?

Verse 10

तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरः । स्नाने दाने तथा ध्याने प्राशने केशवार्चने

凭借朝圣等行旅及其功德,甚至乾闼婆(kinnara)亦能成就:以圣浴、布施、禅观、食用供养之食,以及礼拜凯沙瓦(毗湿奴)。

Verse 11

तुलसी दहते पापं कीर्तने रोपणे कलौ । तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये

噢图拉西,在迦利时代,你因被称颂、因被栽植而焚尽罪业。你生自甘露,永远为凯沙瓦(毗湿奴)所钟爱。

Verse 12

केशवार्थं चिनोमि त्वां वरदा भव शोभने । त्वदंगसंभवैर्नित्यं पूजयामि यथाहरिम्

我为凯沙瓦而采撷你;愿你赐福,妙丽者。以你自身所生之物,我恒常如法礼敬哈利。

Verse 13

तथा कुरु पवित्रांगि कलौ मलविनाशिनि । मंत्रेणानेन यः कुर्याद्विचित्य तुलसीदलम्

“如是行吧,肢体清净者——迦利世之垢秽摧灭者。凡以此真言,细心拣择并奉献一片图拉西叶者……”

Verse 14

पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत् । प्रभावं तव देवेशि गायंति सुरसत्तमाः

礼敬婆苏提婆(Vāsudeva)所得功德,增至数十万倍乃至亿万倍。噢,女神啊,诸天中最殊胜者歌咏你不可思议的威德。

Verse 15

मुनयः सिद्धगंधर्वाः पाताले नागराट्स्वयम् । न ते प्रभावं जानंति देवताः केशवादृते

诸牟尼、悉达与乾闼婆——乃至冥界(Pātāla)中的龙王——也不知祂的真实威力;诸天亦然,唯有凯沙瓦(Keśava)例外。

Verse 16

गुणानां परिमाणं तु कल्पकोटिशतैरपि । कृष्णानंदात्समुद्भूता क्षीरोदमथनोद्यमे

纵历经数百亿万劫(kalpa),也无法穷尽那些德性的全量;它们源自克里希纳(Kṛṣṇa)在搅动乳海之举中所涌现的喜悦与安乐。

Verse 17

उत्तमांगे पुरा येन तुलसी विष्णुना धृता । प्राप्यैतानि त्वया देवि विष्णोरंगानि सर्वशः

噢,女神啊,往昔毗湿奴(Viṣṇu)曾将图拉西(Tulasī)置于其顶;你得此圣草,便在一切意义上获得了毗湿奴的诸肢——亦即圆满的恩宠。

Verse 18

पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम् । त्वदंगसंभवैः पत्रैः पूजयामि यथा हरिम्

噢,图拉西(Tulasī)啊,因你而得清净与圣洁;我向你顶礼。以从你自身肢体所生的叶片,我如法礼敬哈利(Hari)。

Verse 19

तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम् । रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता

请如此行事,使我无有障碍,得以证入至上境界。(此圣树/圣草)植于戈摩提河岸,并由黑天(Kṛṣṇa)亲自护养。

Verse 20

जगद्धिताय तुलसी गोपीनां हितहेतवे । वृंदावने विचरता सेविता विष्णुना स्वयम्

为饶益世间、为成就牧女(gopī)之福,徜徉于弗林达文(Vṛndāvana)的图拉西(Tulasī),竟由毗湿奴(Viṣṇu)亲自侍奉。

Verse 21

गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च । वसिष्ठवचनात्पूर्वं रामेण सरयूतटे

为令戈库拉(Gokula)兴盛、为诛灭甘萨(Kaṁsa),早先依瓦西什塔(Vasiṣṭha)之言,罗摩(Rāma)曾在萨拉尤河(Sarayū)岸行(诸仪轨)。

Verse 22

राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये । रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम्

噢,世间所爱者,你被栽植为诛灭罗刹(rākṣasa);你被栽植为增长苦行之力(tapas)。噢,图拉西(Tulasī),我向你顶礼。

Verse 23

वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजा । अशोकवनमध्ये तु प्रियेण सह संगता

与婆苏提婆(Vāsudeva)离别之时,阇那迦之女(悉多,Sītā)忆念观想于你;而在阿输迦林(Aśoka grove)之中,她与所爱之人重逢相聚。

Verse 24

शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये । रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम्

女神啊,久远以前在喜马拉雅山,你为帕尔瓦蒂所栽植,乃为商羯罗之故,以增长苦行之力。圣洁的图拉西啊,我向你顶礼。

Verse 25

सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नंदने । दुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते

在天园难陀那中,诸天之妻与乾闼婆族的奇那罗等皆礼敬你,为灭除恶梦之故。愿你受我敬礼。

Verse 26

धर्मारण्ये गयायां च सेविता पितृभिः स्वयम् । सेविता तुलसी पुण्या आत्मनो हितमिच्छता

在达摩林与伽耶之地,连诸祖灵(Pitṛ)亦亲自供奉你。凡求自身福祉者,当礼敬这清净的图拉西。

Verse 27

रोपिता रामचंद्रेण सेविता लक्ष्मणेन च । पालिता सीतया भक्त्या तुलसी दंडके वने

在檀陀迦森林中,图拉西由罗摩旃陀所栽,罗什曼那侍奉其旁,悉多以虔爱之心细心护养。

Verse 28

त्रैलोक्यव्यापिनी गंगा यथा शास्त्रेषु गीयते । तथैव तुलसी देवी दृश्यते सचराचरे

正如经典称颂恒河遍满三界,如是女神图拉西亦显现于一切有情与无情之造化之中。

Verse 29

ऋश्यमूके च वसता कपिराजेन सेविता । तुलसी वालिनाशाय तारासंगम हेतवे

她居于梨沙牟迦(Ṛśyamūka),受猴王侍奉;为灭伐利(Vāli),亦为促成塔罗(Tārā)与他者之结合而在彼处。

Verse 30

प्रणम्य तुलसीदेवीं सागरोत्क्रमणं कृतम् । कृतकार्यः प्रहृष्टश्च हनूमान्पुनरागतः

礼拜图拉西女神后,遂得渡越大海。哈奴曼(Hanumān)使命既成,欢喜充满,再次归来。

Verse 31

तुलसीग्रहणं कृत्वा विमुक्तो याति पातकैः । अथवा मुनिशार्दूल ब्रह्महत्यां व्यपोहति

受持图拉西者,得以脱离诸罪而行;又或,噫,圣贤之虎啊,它甚至能除去梵杀罪(brahmahatyā,杀婆罗门之罪)。

Verse 32

तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् । गंगास्नानमवाप्नोति दशधेनुफलप्रदम्

凡以头顶承载经图拉西叶滴流之水者,得如沐浴恒河(Gaṅgā)之功德;并赐与等同布施十牛之果报。

Verse 33

प्रसीद देवि देवेशि प्रसीद हरिवल्लभे । क्षीरोदमथनोद्भूते तुलसि त्वां नमाम्यहम्

愿垂慈,女神啊,诸天之主母;愿垂慈,哈利(Hari)之所爱。图拉西啊,你出自乳海搅拌之际,我今向你顶礼。

Verse 34

द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम् । द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः

凡于持守十二日(Dvādaśī)之夜守夜,并诵读圣罗勒(Tulasī)赞者,克舍婆(Keśava)将赦免其三十二种过失。

Verse 35

यत्पापं यौवने बाल्ये कौमारे वार्द्धके कृतम् । तत्सर्वं विलयं याति तुलसीस्तव पाठतः

无论在少年、童年、青春或老年所造之罪,皆因诵读圣罗勒(Tulasī)赞而尽皆消融。

Verse 36

प्रीतिमायाति देवेशस्तुष्टो लक्ष्मीं प्रयच्छति । कुरुते शत्रुनाशं च सुखं विद्यां प्रयच्छति

天神之主欢喜满足,慈恩垂顾,赐予拉克什弥(Lakṣmī)之福;又摧灭怨敌,并赐安乐与智慧。

Verse 37

तुलसीनाममात्रेण देवा यच्छंति वांछितम् । गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनाम्

但凭称念圣罗勒(Tulasī)之名,诸天便赐所愿;即便是可责之人,天神之主亦能在其具身之时赐予解脱(mokṣa)。

Verse 38

तुलसी स्तवसंतुष्टा सुखं वृद्धिं ददाति च । उद्गतं हेलया विद्धि पापं यमपथे स्थितम्

当圣罗勒(Tulasī)因赞颂而欢喜时,便赐安乐与兴盛。应当知晓:罪业即使出于疏忽而作,也会生起,立于通往阎摩(Yama)之路上。

Verse 39

यस्मिन्गृहे च लिखितो विद्यते तुलसीस्तवः । नाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम्

凡家中供有书写的《图拉西赞颂》,不祥不住其内;此家必定获得吉祥。

Verse 40

सर्वं च मंगलं तस्य नास्ति किंचिदमंगलम् । सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम्

于彼,一切皆成吉祥,毫无不祥;常得丰足,福裕恒在,财宝与谷粮充盈。

Verse 41

निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः । जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः

对凯沙瓦的坚定奉爱生起,与毗湿奴信众不相离;其人无病而生,心念不趋于非义。

Verse 42

द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम् । तीर्थकोटिसहस्रैस्तु यत्फलं लक्षकोटिभिः

凡于十二日(Dvādaśī)守夜之夜诵读图拉西赞颂者,得其功德之果,等同千亿倍圣地朝圣之报,乃至万万亿倍。

Verse 43

तत्फलं समवाप्नोति पठित्वा तुलसीस्तवम्

诵读图拉西赞颂,即得彼等同之果报与功德。

Verse 61

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः

至此,尊贵的《莲华往世书》(Padma Purāṇa)第一部《创世品》(Sṛṣṭikhaṇḍa)中,名为《图拉西赞颂之伟大功德》的第六十一章圆满结束。