
Praise of Digging Wells and Building Water-Reservoirs (The Merit of Water-Works)
第57章以水为法(dharma)在仪式与社会中的根基:水维系生命与清净,成就祭祖的śrāddha,滋养农耕,并支撑日常诸事。因此,开凿井泉、营建池塘与圣水池(puṣkariṇī)被赞为最上等的公共布施。 经文描绘其天界果报——可享一劫(kalpa)之乐——并以“滴滴皆成功德”的意象说明其福德无量,能跨越多生多世,惠及不同阶层。 章中以一则试验故事对比金钱施舍与供水善业的恒久:将石板投入水工之中,在法神(Dharma)作证下衡量功德,显明供水之功德更胜且不竭。末了告诫不敬必招忧苦,而宣说或聆听此法门能灭罪增福,并可导向解脱。
Verse 1
द्विजा ऊचुः । कीर्तिर्धर्मोथ लोकेषु सर्वाणि प्रवराणि च । वद नो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः
二次生者说道:“噢,诸牟尼之虎,请为我们宣说诸世界中的名闻(kīrti)与正法(dharma),以及一切最胜之理与事;若你确实垂怜于我等。”
Verse 2
व्यास उवाच । यस्य खाते वने गावस्तृप्यंति मासमेव च । यद्वा सप्तदिनात्पूतः सर्वदेवैः स पूजितः
毗耶娑说道:在林中,若有人所掘之坑使群牛得以满足整整一月;或即便七日之内令一人得清净——此人便为一切天神所尊崇礼拜。
Verse 3
पुष्करिण्या विशेषेण पूता या यज्ञकर्मणा । यत्फलं जलदानेन सर्वमत्रास्यि तच्छृणु
请听:此圣池(puṣkariṇī)尤以祭祀(yajña)之行而得净化;在此处,布施清水之功德所生的一切果报,皆能圆满获得。
Verse 4
हायने हायने चैव कल्पं कल्पं विधीयते । दानात्स्वर्गमवाप्नोति तोयदः सर्वदो भुवि
年复一年,劫复一劫,此圣仪依法而行。以布施(dāna)得生天界;施水之人,于世间即是施与一切者。
Verse 5
मेघे वर्षति खाते च जायंते ये तु शीकराः । तावद्वर्षसहस्राणि दिवमश्नाति मानवः
当雨云倾注、雨点击地而飞溅起多少水珠,人便在天界享受同样数量的千年之乐。
Verse 6
तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेत् । प्राणानां च विनान्नैश्च धारणन्नैव जायते
凭借清水与熟食(如米饭等),人心得以满足;若无饮食,诸生命之气的维系便全然不能生起。
Verse 7
पितॄणां तर्पणं शौचं रूपं वै गंध्यनाशनम् । बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम्
祭奉祖灵的奠水、清净、容色之美与除去秽臭——此间所生的一切种子:无不依水而立。
Verse 8
वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च । तेनैव सर्वकार्यं च पानीयं मेध्यमेव च
以水洗衣令人悦意,亦能净洗器皿;凭此水诸事得成,而饮用之水亦确然清净。
Verse 9
तस्मात्सर्वप्रयत्नेन वापीकूपतटाककम् । कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च
是故当竭尽诸般努力,兴建井、池与蓄水之所;以尽其力,亦以尽其财。
Verse 10
ततो विनिर्जले देशो यो ददाति जलाशयम् । वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेत्
因此,凡在无水之地施设蓄水之所者——日日如是,应宣说其得享天界,历一劫之久。
Verse 11
त्रिविष्टपाच्च्युतो विप्रो वेदशास्त्रार्थपारगः । लोकबंधुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेत्
那位从天界堕落的婆罗门,虽失其天位,却通达吠陀与诸论典之义;为世间之友与施惠者,心性正直;修持苦行之后,当复升天界。
Verse 12
एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते । क्षत्त्रियाणां कुले जातः सार्वभौमो भवेन्नृपः
如是,得此八生之次第(或奉行其法),则一项仪轨之果报被说为不坏不尽。若生于刹帝利之族,国王便成转轮圣王、普世之主。
Verse 13
विशोऽक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियम् । शूद्रादयोन्त्यजाश्चान्ये लभंते स्वर्गतिं मुहुः
当知:对吠舍而言,不竭之财乃是生生世世仍为所珍爱之物。即便是首陀罗、所谓安底阇等与其他人,也屡屡得至通往天界之道。
Verse 14
चतुर्हस्तप्रमाणं तु कूपं खनति यः पुमान् । परोपकारकं नित्यं कल्पं स्वर्गं तु हायने
凡人若凿掘一口四肘之井,恒常行利他之事,便得享天界一整劫(kalpa)之福;乃至一年亦得天福之报。
Verse 15
द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे । विंशत्किष्कुप्रमाणां तु दद्यात्पुष्करिणीं तु यः
当知:若加倍,其果亦加倍;若增至四倍,则成百倍之报。凡施建一座莲池(puṣkariṇī),其量度为二十 kiṣku 者——
Verse 16
विष्णोर्धाम लभेत्सोपि दिव्यभोगं तथैव च । अनंतरं नृपो जातो धनी वागीश्वरो भवेत्
他亦得至毗湿奴之圣住处,并同样享受天界妙乐;其后再生之时,便成王者,富足而善辩,为言辞之主。
Verse 17
एवं द्विस्त्रिश्चतुर्वापि गुणतो भोग्यमिष्यते । विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः
如是,据其功德之品类,可得享受二次、三次,乃至四次。应知:若其广大,则福报丰盈,以千为量;而不坏者阿周陀,实为神圣天妙。
Verse 18
सहस्राद्द्विगुणेनैव सुरपूज्यो भवेन्नरः । जंतवस्तत्र ये संति यावंतो जीवनं ययुः
以千倍再加倍之功德,人便成为诸天亦当礼敬者。并且,凡居于彼处的一切众生,皆得圆满其所分配的寿命之期。
Verse 19
तत्संख्याका जनास्तस्य किंकराः पृष्टलग्नकाः । भवंति सततं गेहे पुरे जनपदेषु च
与其数目相等之人,皆为其仆从,常常紧随其后不离;在其家中、城中,以及诸乡邑之处,恒常侍从。
Verse 20
विहाय पितरं भोग्या धने क्षीणे यथा वनम् । पक्षिणस्सूकरश्चैव महिषी करिणी तथा
当财物耗尽之时,依附者便舍离其庇护者,犹如众生在林野资用枯竭时离去:飞鸟、野猪,以及母水牛与母象亦复如是。
Verse 21
उपदेष्टा च कर्त्ता च षडेते स्वर्गगामिनः । दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेत्
教诲者与行持者——此六类之人被说能往生天界。又当宣说诸鸟亦有“神圣之天”;诚然,经典中称有百重天界。
Verse 22
क्रोडो वर्षसहस्रं तु महिष्ययुतहायनम् । देवरूपं समास्थाय करिण्या लक्षमुच्यते
所谓“kroḍa”被说为一千年;“mahiṣīyuta”则为一万年之期。若取神圣之形,此度量由母象称为“lakṣa”。
Verse 23
कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च । पुरा धनिसुतेनैव कृतः ख्यातो जलाशयः
一则教诲之功德,胜于一“koṭi”;而行作者之果报,实为无尽。往昔,达尼之子曾建成一座闻名的水库。
Verse 24
अयुतधनव्ययेनैव प्राणेनैव बलेन च । सर्वसत्वोपकाराय शिवश्रद्धायुतेन च
以巨量财物之施舍,乃至以自身生命与力量——皆为利益一切众生——并具对湿婆(Śiva)之信敬。
Verse 25
कालेन कियता चापि क्षीणवित्तोऽभवत्किल । कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः
过了一段时日,据说他已财尽。其时有一位富者因有所求而劝动他,愿意付出相应的价金。
Verse 26
विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना । दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्
富者思量之后说道:“如今且听我的提议。我将给你一万第纳尔,而且这也是因她之故。”
Verse 27
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे । शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः
你以为与圣池相连的功德是你所得之利;随后又按自身能力付其价,决意将它据为己有。
Verse 28
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः । फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः
闻此,他答道:“纵使一日之内行之万次,其果报亦必不失,恒为功德;知功德者皆如是说。”
Verse 29
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे । स्नानपानादिकं कर्म सर्वे कुर्वंत्यभीष्टतः
在这无水之地,我已凿掘并建成一口湿婆之井。于此,众人随其所愿行沐浴、饮用等诸般行持。
Verse 30
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते । ततस्तस्याभवद्धास्यं तथैव च सभासदाम्
“因此,即便对我而言——虽所求未得圆满——也不会生起恒久之果。”于是他成了笑柄,连同会众诸人亦然。
Verse 31
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह । सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः
他为羞愧所逼,也说了这番话:“我们的陈述真实无妄——请依照达摩来检验我们。”
Verse 32
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः । दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्
然而出于嫉妒,他对他说:“父亲,请听我所言。给我一万第那罗,然后带来一块石板。”
Verse 33
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु । उन्मज्जति च यत्काले प्रस्तरः संतरत्यपि
“我将把你投入坑中;你当如其所宜而沉没。待你再度浮起之时,连石板也能漂浮渡过。”
Verse 34
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा । बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः
“我的财物不会减少——此乃依达摩而当得。”说罢“就这样吧”,他从对方取了那一万之数,回到自己家中。
Verse 35
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा । पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः
就在众证人面前,他也使一块石板被投下;在那宏大的圣池中,人、天神与阿修罗都看见了它。
Verse 36
ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा । दीनारायुतदानस्य पुष्करिण्या जलस्य तु
于是,在法(Dharma)的天平上,由法本身作证而称量:布施一万第纳尔的功德,以及圣池(puṣkariṇī)之水的功德。
Verse 37
न समं तु दिनैकं तु जलस्य धर्मतो भृशम् । धनिनो मानसं दुःखं मोघार्थं च परेऽहनि
就连一日也并不与另一日相同,尤其在水之事上——其性变化甚大;而富者心中生苦,次日其所作亦复徒然。
Verse 38
शिलोच्चयोऽभवत्तीर्णो द्वीपवच्च जलोपरि । ततः कोलाहलः शब्दो जनानां समुपस्थितः
一座高耸的岩石堆隆起,凌于水上,宛如一座岛屿。随即四周响起喧嚣的哗然之声——众人聚集的嘈杂。
Verse 39
तच्छ्रुत्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः । दृष्ट्वा शैलं तथाभूतं कृतं तेनायुतं तथा
听闻那奇妙之语,二人欢喜而至。见那山果如所述之状,也见其确由彼如是造成。
Verse 40
ततः खाताधिपेनैव शैलं दूरे निपातितम् । पुण्यं खातस्य चोत्खाते प्रलुप्तस्य सुतेन हि
随后,正是由卡塔之主(Khātādhipa)将那山远远掷去。而与“Khāta”相关、因掘凿开挖而生的福德(puṇya),确由普拉卢普塔(Pralupta)之子所获得。
Verse 41
सोपि नाकं समारुह्य जन्मजन्मसु निर्वृतः । गोत्रमातृगणानां च नृपाणां सुहृदां तथा
他亦登升天界,生生世世常得圆满安乐——并与其族姓之众与诸母之群,同诸王与友人亦复如是。
Verse 42
सखीनां चोपकर्तॄणां खातं खात्वाऽक्षयं फलम् । तपस्विनामनाथानां ब्राह्मणानां विशेषतः
掘凿井池等水藏,得不坏之果报——尤为为友人及恩人而作,尤其为苦行而无依之婆罗门而作。
Verse 43
खातं तु जनयित्वा तु स्वर्गं चाक्षयमश्नुते । तस्मात्खातादिकं विप्राः शक्तितो यः करिष्यति
若令掘作水池井泉等水藏,便得不坏之天界。是故,诸婆罗门啊,凡能随力而行掘凿池井等诸事者……
Verse 44
सर्वपापक्षयात्पुण्यं मोक्षं यायान्न संशयः । य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्
由灭尽一切罪业,得福德而证解脱(mokṣa),毫无疑惑。凡令世间得闻此宏伟有力之法(dharma)叙事者……
Verse 45
सर्वखातप्रदानस्य फलमश्नाति धार्मिकः । ग्रहणे भास्करस्यैव भागीरथ्यां तटे वरे
正直之人得享施与诸般布施之圆满功德——当日食之时,于殊胜的婆伽罗提河(恒河)妙岸行其仪轨。
Verse 46
गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः । न च दारिद्रतामेति न शोकं व्याधिसंचयम्
凡聆听布施千万头牛之功德果报者,即得同等福德;不堕贫困,不陷忧悲,亦不遭诸病积聚。
Verse 57
असंमानं महद्दुःखमुभयोर्नाधिगच्छति । इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे खातादिकीर्तनंनाम सप्तपंचाशत्तमोऽध्यायः
不敬乃大苦;由此二者皆不得安乐。至此,《圣莲华往世书》第一部《创世品》中名为“Khātādikīrtana(坑等称颂)”之第五十七章圆满。