Adhyaya 55
Srishti KhandaAdhyaya 5557 Verses

Adhyaya 55

The Origin of the Lauhitya River (and the King of Tīrthas)

第55章将两则关于欲望(kāma)的警诫故事与圣地(tīrtha)的起源相交织。恒河岸边,一位受人敬仰的游行者婆罗门(paramahaṃsa brāhmaṇa)遭遇一位绝色女子;恐惧、诱惑、拒绝与夜间的紧张纠缠,最终以死亡与众人追问收束,显明欲望足以扰乱定慧。 叙事继而上升至宇宙层面:梵天(Brahmā)见到阿莫迦(Amoghā,圣者/国王商檀奴 Śaṃtanu 之妻)而心动,精种坠落;夫妇以合乎法(dharma)的方式处置此事,由此显现净化之“诸圣地之王”,并与劳希底河(Lauhitya)的源起相连。末后,帕罗修罗摩(Paraśurāma/Jāmadagnya)为屠戮刹帝利求净,遍浴诸河仍不得安;其斧在一处右旋回流的潭/涡中得以清净,印证此 tīrtha 能赐解脱。全章旨趣在于:欲望难制,而圣地与虔敬(bhakti)能复归清净。

Shlokas

Verse 1

श्रीभगवानुवाच । अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च । पुरा भागीरथी तीरे द्विजः परमहंसकः

世尊曰:“我还要再宣说一段——关于被欲爱所制者。往昔,在婆伽罗提河(恒河)之岸,有一位婆罗门,乃至上出离者(paramahaṃsa)。”

Verse 2

उपदेष्टा सहस्राणां द्विजानां शांतिदः परः । एकदंडधरः साक्षात्कूर्मवद्धरणी स्थितः

他为千千万万二生者施与至上安宁,亦为众人之师;手持一杖而立于大地,诚如龟化身俱尔摩(Kūrma)托持世界一般。

Verse 3

एकाकिनः सतस्तस्य देवागारे विनिष्कृते । पत्युर्गृहात्परं गेहं गंतुं सायं समुद्यता

当其夫独自外出不在时,她在神庙礼拜既毕,便于傍晚动身,欲从夫家前往另一处宅邸。

Verse 4

अकस्माद्युवती नारी मिलिता रूपधारिणी । दृष्ट्वा तां भगवान्विप्रो मन्मथस्य भयार्दितः

忽然,一位青春女子现出绝美之相前来与他相遇。圣洁的婆罗门见到她,便被爱神迦摩(Kāma)之威所惊,心生惧惮。

Verse 5

अगारजठरे कृत्वा स चैनां प्राक्षिपत्क्षपाम् । अर्गलं सा दृढं कृत्वा देवागारे सुशोभने

他把屋内深处当作“腹室”,将她投置于夜色之中。她却牢牢闩上门闩,安住在那华美庄严的神庙里。

Verse 6

कदाचिदपि तं द्वारादागंतुं न ददाति ह । एवंभूतः समाधिस्थः क्षपां क्षिप्त्वा विलप्य सः

她无论何时都不许他从门口进入。他便如此安住于三摩地,度过一夜;随后哀叹悲泣,泪流不止。

Verse 7

चिंतयंस्तां वरारोहां द्वारि किं वा कृतं मम । एवं संचिंत्यतामाह द्वारं देहीह नः प्रिये

他思念那位腰胯婀娜的佳人,心中自问:“我在门前究竟做了什么?”如此思量后,他对她说道:“亲爱的,请在此为我们开门。”

Verse 8

पतिश्च वशगः कांते दयितस्ते भविष्यति । ततस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम्

“亲爱的,你的丈夫将对你倾心顺从。”随后她对那位婆罗门——一位老者——说道;他的话语带着欲念的诱哄。

Verse 9

अनन्विता गिरःस्तात वक्तुं त्वं नार्हसि प्रभो । अथासौ भगवान्प्राह प्रचुरं चास्ति मे वसु

“亲爱的,你的话语紊乱;你不配开口,噢主宰。”于是那位世尊答道:“我亦拥有丰厚的财宝。”

Verse 10

तव दास्यामि कल्याणि प्रस्फोटय कपाटिकाम् । विप्रमाह पुनः सा च त्वं वै मे धर्मतः पिता

“吉祥的夫人,我将把它给你——打开那小门吧!”婆罗门又说道。她却答道:“确然依于法(dharma),你是我的父亲。”

Verse 11

मा गच्छ पुत्रिकां मां च परयोषां च धार्मिक । मनसा स समालोच्य सुषिरेण पथा गृहान्

“不可接近我的女儿,也不可接近我,更不可接近他人之妻,噢正直者。”他心中如此思量,便循着隐秘的路径前往诸家。

Verse 12

बाहुनोद्धाट्यते नैव गंतुं चैव समुद्यतः । गच्छतश्चार्द्धमरर उत्तमांगं सुसंकटे

即使他举起双臂、欲要出行,也无法前进;而当他勉强行走时,头颅半受创伤,陷入极其险厄之境。

Verse 13

प्रविष्टं न पुनश्चैति पंचत्वमगमत्तदा । उषःकाले समायाता रक्षिणो ये च किंकराः

一旦进入,便不再返回;就在那时,他归于五大之境——即死亡。黎明时分,守卫与随从前来。

Verse 14

अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताः । कथं च निधनं त्वस्य संभूतं ब्रूहि सुंदरि

他们见到那具奇异的尸身,惊叹地对她说道:“他的死亡如何发生?请告诉我们,端丽的女士。”

Verse 15

कथयित्वा तु तद्वृत्तमभीष्टं देशमागता । एवं कामस्य महिमा दुर्निवारो जनेषु च

她将那一切经过尽数叙说后,便回到自己所愿之处。如此便是伽摩(Kāma,欲望)之威力:在人间实难遏止。

Verse 16

सर्वेषामपि जंतूनां सुरासुरनृणां भवेत् । दृष्ट्वाऽमोघां वरारोहां सर्वलोकपितामहः

在一切众生之中——天神、阿修罗与人类——当万界祖父梵天见到那位“无失”的、肢体娴美的女子时,心中亦为欲念所动。

Verse 17

च्युतबीजोभवत्तत्र लौहित्यसंभवस्मृतः । पुनाति सकलान्लोकान्सर्वतीर्थमयो हि सः

在那里,由坠落之精种生起一条圣流,被称忆为“劳希底耶(Lauhitya)之源”。诚然,它具足一切圣地(tīrtha)之德,能净化诸世界。

Verse 18

यमाश्रित्य नरो याति ब्रह्मलोकमनामयम् । द्विज उवाच । कथं च ब्रह्मणो मोहो ह्यमोघा का वरांगना

依凭阎摩(Yama),人得以到达无病之梵天界(Brahmaloka)。那位二生者说道:“梵天何以生起迷惑?那位‘无失’的殊胜女子又是谁?”

Verse 19

उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतः । श्रीभगवानुवाच । मुनिर्देवैः समाराध्यः पद्मयोनिसमप्रभः

“我愿如实聆听诸圣地之王(Tīrtha-rāja)的起源。”世尊说道:“那位牟尼为诸天所敬奉,光辉灿然,堪比莲华所生者(梵天 Brahmā)。”

Verse 20

शंतनुश्चेति विख्यातः पत्नी तस्य पतिव्रता । अमोघेति समाख्याता रूपयौवनशालिनी

他以“商檀奴”(Śaṃtanu)之名闻世。他的妻子守持贞顺之誓,名为“阿摩伽”(Amoghā),容貌姝丽,青春焕发。

Verse 21

अस्याश्च पतिमन्वेष्टुं यातो ब्रह्मा च तद्गृहम् । तस्मिन्काले मुनिश्रेष्ठः पुष्पाद्यर्थं वनं गतः

为寻她的丈夫,梵天(Brahmā)来到那座宅邸。正当其时,最上之牟尼已入林中,为采集花朵等物而去。

Verse 22

सा तं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौ । दूरेभिवादनं कृत्वा सा गृहं प्रविवेश ह

见到诸天之最胜者,她奉上迎宾之礼——阿尔伽供水(arghya)、洗足之水等。她在恭敬的距离处致礼后,便进入屋内。

Verse 23

तां च दृष्ट्वा नवद्यांगीं धाता कामवशं गतः । स्रष्टात्मानं समाधायाचिंतयत्तां पुरोगताम्

见到她——肢体新嫩、青春正盛——造物主达塔(Dhātā)竟为欲念所摄。于是他摄持其创造之心入于定中,凝思那立于面前的女子。

Verse 24

बीजं पपात खट्वायां ब्रह्मणः परमात्मनः । ततो ब्रह्मा गतस्त्रस्तस्त्वरया परिपीडितः

梵天——至上自性——的种子落在床榻之上。随后梵天惊惧不安,被急迫所逼,迅速离去。

Verse 25

अथायातो मुनिर्गेहं शुक्रं पीठे ददर्श ह । तमपृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान्

随后圣仙来到屋中,看见舒克罗坐在宝座上。他问那位高贵的女子:“这里来了哪一位男子?”

Verse 26

तमुवाच ततोऽमोघा ब्रह्मा ह्यत्रागतः पते । त्वामेवान्वेषितुं नाथ मया दत्तोत्र पीठकः

阿摩伽对他说:“主啊,确是梵天来到此处。尊主,为了只寻你一人,我在这里设下了座位。”

Verse 27

शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसि । ततो ध्यानात्परिज्ञातं तेनैव च द्विजन्मना

在此你应以苦行知晓与舒克罗相关的缘由。于是那位两次出生者通过禅观,便彻底明了了此事。

Verse 28

ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञया । उत्पद्यते सुतस्ते तु सर्वलोकैकपावनः

贤淑的女子啊,依我之命护持这至上的梵天种子;由此你将诞生一子——唯他能净化一切世界。

Verse 29

आवयोः सर्वकल्याणं फलिष्यति मनोगतम् । ततः पतिव्रता तस्य आज्ञामागृह्य संभवात्

对我们二人而言,心中所怀的一切吉祥愿望都将结果。随后,那位守夫之贞的妻子领受他的命令,依言而行。

Verse 30

पपौ रेतो महाभागा ब्रह्मणः परमात्मनः । आवर्त इव संजज्ञे रौद्रगर्भ इति स्फुरन्

那位大福之人饮下梵天——至上真我——的精液;其内光焰闪现,如旋涡般的形相生起,遂以“罗陀罗胎(Raudragarbha)”之名著称。

Verse 31

प्रसोढुं नैव शक्ता सा शंतनुं चाब्रवीत्ततः । गर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो

她无法承受,便对商檀奴说道:“主啊,尊主啊,我如今不能承载此胎,尊者啊。”

Verse 32

किं करिष्यामि धर्मज्ञ प्राणो मे संचलत्यपि । आज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च

“我当如何,知法者啊?连我的性命之息也在摇曳。大德啊,请下命令——我应在何处舍下这胎儿?”

Verse 33

पत्युराज्ञां समादाय मुक्तो गर्भो युगंधरे । पयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम्

她领受夫命,便将胎儿放出于瑜伽陀罗(Yugandhara)之上——清净无垢,由乳与光明所成,安立为一切法(dharma)之根基。

Verse 34

तन्मध्ये पुरुषः शुद्धः किरीटी नीलवाससा । रत्नदाम्ना च विद्धांगो दुःप्रेक्ष्यो ज्योतिषां गणः

在其中显现出一位清净的普鲁沙:头戴冠冕,身着蓝衣,躯体以宝石花鬘庄严;光辉炽盛,令人难以直视,宛如万千光明的聚集。

Verse 35

ततो देवगणाः स्वर्गात्पुष्पवर्षमवाकिरन् । प्रसूतः सर्वतीर्थेषु तीर्थराज इति स्मृतः

随后,诸天神众自天界降下花雨。他在一切圣地渡口(tīrtha)中显现,被称念为“诸 tīrtha 之王”。

Verse 36

ततो राम इति ख्यातः प्रजातोहं भृगोः कुले । क्षत्रियान्पितृहंतॄंस्तु ससैन्यबलवाहनान्

其后我生于婆利古(Bhṛgu)之族,名闻为罗摩(Rāma)。我诛灭刹帝利——弑我祖先者——并连同其军队、兵力与车乘尽皆摧毁。

Verse 37

हत्वा युद्धगतान्भीतान्पंकैः सर्वैर्युतो ह्यहम् । ब्रह्महत्यासमं घोरं मद्गेहे समुपस्थितम्

我杀戮了那些奔赴战场而今惶恐之人;我自身染着诸般污秽,竟在自家宅中见到一桩可怖之罪,等同于梵杀(brahma-hatyā),赫然立于我前。

Verse 38

पंकयुक्तं कुठारं मे क्षालितं नैव शुद्ध्यति । ततः खे चाभवद्वाणी राम मद्वचनं कुरु

“我的斧钺沾满泥垢,纵然洗涤也不见清净。”随即虚空中响起声音:“罗摩啊,依我所言而行。”

Verse 39

यत्र तीर्थे कुठारं ते निर्मलं च भवेदिह । तत्र ते सर्वपापानां जातानां च क्षयो भवेत्

在任何一处圣地渡口(tīrtha),若你的斧在此得以净化;就在那处,一切已造诸罪皆将灭尽。

Verse 40

जनानां तत्र सर्वेषां हितार्थं तिष्ठ मानद । चपलं गच्छ तीर्थानि सर्वाणि सुमहांति च

“你当留在那里,尊荣的施与者,为了众生的利益;而你这不安之人,当前往一切圣地渡口(tīrtha),乃至最伟大的诸处。”

Verse 41

तेषां मध्ये महातीर्थे पर्शुः शुद्धो भवेद्यदि । तं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम्

在诸圣地之中,若在那大圣地里斧(paraśu)得以清净,当知此处在诸 tīrtha 中被称颂为赐予解脱(mokṣa)之地。

Verse 42

तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदा । गंगां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा

闻此言后,阇摩达格尼耶(Jāmadagnya)遂启程前往诸圣地渡口:恒河(Gaṅgā)、光辉的萨拉斯瓦蒂(Sarasvatī)、卡维里(Kāverī),以及同样的萨拉尤(Sarayū)。

Verse 43

गोदावरीं च यमुनां कद्रूं च वसुदां तथा । अन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम्

又至戈达瓦里(Godāvarī)与亚穆纳(Yamunā),亦至迦德茹(Kadrū)与瓦苏达(Vasudā);并至另一条秀美而赐福增德之河——位于东方的吉祥高丽(Gaurī)。

Verse 44

गच्छतस्तस्य धीरस्य सदागतिसमस्य च । क्षालितः सर्वतीर्थेषु न पुनर्निर्मलोऽभवत्

那位坚毅之人虽不断前行,行止安定而平衡;又在一切圣地渡口沐浴洗净,却仍未能再度清净。

Verse 45

ततो गिरिगुहां दुर्गां महारण्यं च पर्वतम् । गिरिकूटं च दुर्लभ्यं ययौ तीर्थमसौ हरिः

随后,哈利前往那处圣地渡口(tīrtha):那难以抵达的山洞要塞、广袤大林与群山,以及名为吉里库塔(Girikūṭa)的险峻高峰。

Verse 46

न च निर्मलतामेति कुठारस्तस्य तेन च । विषादमगमत्तत्र रामः परपुरंजयः

而那把斧也因他之故未能恢复本来的清净;因此,罗摩——征服敌城者——在彼处陷入忧郁。

Verse 47

हाहेति विविधं कृत्वा चोपविश्य धरातले । प्रचिंतामगमद्वीरस्तमुवाच पुनस्तथा

他以种种方式呼喊“哀哉,哀哉!”,遂坐于地上。忧思缠身之际,他又以同样的话语再次对他说。

Verse 48

पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरे । तच्छ्रुत्वा नरशार्दूलो गत्वा कुंडं ददर्श सः

“在东方,诸神之主啊,还有一处圣地渡口(tīrtha)在洞窟之中。”闻此,众人之虎便前往那里,见到了那神圣的池沼。

Verse 49

प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभम् । तज्जलस्पर्शमात्रेण कुठारः शुद्धतां गतः

那向右旋转的水涡清净吉祥,能除罪障。仅以那水一触,连斧头也得以净化。

Verse 50

ततो रामोभिषेकं तु कृतवान्प्रमुदान्वितः । शुद्धात्मनस्त्वपापस्य बुद्धिर्जाता प्रपाविनी

随后,罗摩欢喜充满,举行了阿毗湿迦(灌顶加持)。对那心灵清净、无罪之人,生起了明澈而净化的觉知。

Verse 51

स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्य तम् । ततस्ततोऽचलात्प्राप्य पुरं वेगसमन्वितः

罗摩久住其地,礼敬并安抚那“诸圣渡口之王”。随后他自一山至一山前行,迅疾非常,终于抵达城邑。

Verse 52

ख्यातं कृत्वा ततश्चोर्व्यां गतोसौ लवणार्णवम् । अयं तीर्थवरः साक्षात्पितामहकृतो भुवि

使其名声远播之后,他又行遍大地,前往咸海。此乃世间最胜的圣渡处,确由毗多摩诃(梵天)亲自建立于大地。

Verse 53

सुखदः सर्वतः शुद्धो मुक्तिमार्गप्रदः किल । एवं कामप्रभावं च विद्धि दुर्वारदुःसहम्

据说它赐予安乐,遍体清净,并施与通向解脱(mokṣa)之道。然而当知:欲爱(kāma)之力如是,难以抗拒,亦难以忍受。

Verse 54

कामाज्जातं वृषं पापं पुण्यं पुण्यप्रयोगतः । स जातश्चैव लौहित्यो विरंचेश्चैव चौरसः

由欲望生出罪恶之牛;由修行功德而生出功德本身。又他生为“Lauhitya”,亦为毗然遮(梵天)之子,形体方正而匀称。

Verse 55

शंतनो क्षेत्र संजातस्त्वमोघागर्भसंभवः । विरिञ्चिना जितः कामः शांतनोरप्यमत्सरात्

你,商坦努(Śaṃtanu),从田地(kṣetra)而生,出自阿莫迦(Amoghā)之胎。毗然遮(梵天)战胜了伽摩(欲);商坦努亦因无嫉妒而克服了它。

Verse 56

तस्याः पतिव्रतात्वाच्च तीर्थात्तीर्थवरो हि सः । एवं यस्तु पठेन्नित्यं पुण्याख्यानमिदं शिवम्

又因她具足“守夫誓”(pativratā)之德,对夫不移,那处圣渡(tīrtha)遂成诸一切圣地中最胜者。如此,凡每日诵读此关于湿婆的神圣吉祥传说者,皆得大功德。

Verse 57

शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति

凡在世间居住之时,以欢喜心聆听此法者,便行于通向解脱(mokṣa)之道。