
The Account of Women (Householder Ethics, Fault, Merit, and Govinda-Nāma as Purification)
《莲华往世书》PP.1.52 以一位婆罗门(dvija)向哈利(毗湿奴)请问业报之苦开篇,如曼达维亚被钉刑,以及因道德过失而招致麻风等。由此展开对居家者伦理的训诫,并强调邪行所致的危险:家族血统受损、社会秩序紊乱、罪业增长。 在叙述者引入的嵌套对话中,纳罗陀向乌玛(天后帕尔瓦蒂)发问,乌玛列举诸般过犯(通奸、虐待、遗弃与不正当关系)及其堕入地狱的果报。随后转入净化之道:忆念并宣说“瞿文达”圣名,被譬喻为烈火,能焚尽诸罪,乃至重罪(mahāpātaka)。 后段又谈福德:听闻与诵读往世书、布施、与生育与婚礼相关的施与,以及婚配资格与禁止以“买卖新娘”之类的聘价。最后以果报偈(phalaśruti)总结听闻本章的功德利益。
Verse 1
द्विज उवाच । मांडव्यस्य मुनेर्विष्णोश्शूलाघातः कथं तनौ । पत्यौ पतिव्रतायाश्च कथं कुष्ठं कलेवरे
婆罗门说道:“噢,毗湿奴,圣者曼达维亚为何身遭木桩贯刺?又为何因其夫之缘故,一位守贞尽节的贤妻之身竟生麻风?”
Verse 2
हरिरुवाच । शिशुभावाच्च मांडव्यो झिल्लिकायामभानतः । वस्तिदेशे तृणं दत्वा मोहात्स च मुमोच ताम्
诃利说道:“曼达维亚以孩童般的话语行事,击打那蟋蟀;继而在膀胱之处放上一叶草茎,迷乱之中便将她放走。”
Verse 3
तेनापवाददोषेण धर्मस्याज्ञातुरेव च । अहोरात्रं व्यथा कृच्छ्रा भुक्ता तेन द्विजन्मना
由于诽谤之过,又因不知正法(达摩),那位两次生者昼夜承受痛苦而严酷的折磨。
Verse 4
किंतु समाधिना तेन न ज्ञातं शूलसंभवम् । कृच्छ्रं च मुनिना कृत्स्नं योगाभ्यासाद्भृशादपि
然而,即便凭其三摩地,他也未能了知木桩之生起因缘;圣者所作的一切艰苦努力——纵经猛烈的瑜伽修习——终究徒然。
Verse 5
कुष्ठिनो ब्रह्मणो घातादजितेंद्रियकारणात् । पूतिगंधं तनौ कुष्ठं संजातं द्विजसत्तम
由于杀害婆罗门,又因诸根不制,他身上生起散发恶臭的麻风;噢,最胜的二生者。
Verse 6
पुरा विप्राय तेनैव दत्तं गौरीचतुष्टयम् । कन्यकात्रितयं विप्र तेन तस्य पतिव्रता
往昔,噢婆罗门,他亲自赠与那位婆罗门四位端丽的少女;又,噢婆罗门,他还给了他三位女儿,而她遂成为守贞奉夫的“帕提弗拉塔”。
Verse 7
अस्यास्तु कारणादेव स च मत्समतां व्रजेत् । अत्र ते विस्मयः कुत्र वेदकर्मपुरातनम्
确因这一缘故,他也将与我同等。你在此又何必惊异?此乃吠陀与圣仪之古老法则。
Verse 8
द्विज उवाच । कृत्या नारी न यस्यैव तस्य स्वर्गो भवेद्ध्रुवम् । यथैतच्चरितं नाथ सर्वेषां शिवमिष्यते
婆罗门说道:“无妻之人,确然注定得生天界。噢主宰,正如这段事迹一般,它被认为对众生皆为吉祥。”
Verse 9
हरिरुवाच । संति कृत्याः स्त्रियः काश्चित्पुंसः सर्वस्वदस्य च । तत्राप्यरक्षणीयां च मनसापि न धारयेत्
哈利说道:“有些女子如同‘克利提亚’般凶恶毁灭;也有男子能盗走他人全部财物。即便在这些之中,也不应在心中—哪怕只是意念—系念那不可护持者,即不堪交往之人。”
Verse 10
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयंति नवंनवम्
对女子而言,无人恒为所憎,亦无人恒为所爱;如林中之牛寻草一般,她们一次又一次地渴求新事物。
Verse 11
पुमांसं वित्तहीनं च विरूपं गुणवर्जितम् । अकुलीनं च भृत्यं च कामिनी भजते ध्रुवम्
被欲念驱使的女子,必定会依附于贫乏、丑陋、无德、出身卑微,甚至只是仆役的男子。
Verse 12
भर्तारं च गुणोपेतं कुलीनं च महाधनम् । सुंदरं रतिदक्षं च त्यक्त्वा नीचं भजेद्वधूः
纵然舍弃具德、出身高贵、富足、俊美且善于欢爱的丈夫,妻子仍可能转而依恋卑劣之人。
Verse 13
उमानारदसंवादमाख्यानं विद्धि भूसुर । येन विद्यास्त्रियाश्चेष्टा विविधाः कृत्स्नशो द्विज
圣洁的婆罗门啊,当知此传说乃乌玛与那罗陀之对话;凭此,二次生者啊,学识女子的种种行止与性情皆得以详尽阐明。
Verse 14
स्वभावान्नारदो विप्र विश्वजिज्ञासको मुनिः । स्वांते विमृश्याथ गतः कैलासं गिरिमुत्तमम्
婆罗门啊,那罗陀天性为求知遍世之牟尼,先在心中沉思,继而启程前往最胜之山——凯拉萨。
Verse 15
वृषकेतुसदाख्यान सप्रतिष्ठे हिमे गिरौ । प्रणिपत्य महात्मा वै पप्रच्छ पार्वतीं मुनिः
在喜马拉雅山上那处名为“弗利沙计都·萨达迦耶那”的神圣稳固之地,大圣仙顶礼后,便向帕尔瓦蒂发问。
Verse 16
देवि सीमंतिनीनांतु दुश्चेष्टां ज्ञातुमुत्सहे । कौतुकेन त्वया चर्या वधूनां संप्रयुज्यते
女神啊,我愿明了已婚妇女的不正之行。出于好奇,你在观察并试验新娘们的举止与行持。
Verse 17
सर्वासामपि नारीणां स्वान्तं जानासि तत्त्वतः । तन्मां कथय सर्वेषु विनीतमज्ञमत्र च
你真实地洞悉一切女子的内心。故请在此、当众告知我——我这谦卑而无知之人。
Verse 18
देव्युवाच । युवतीनां सदा चित्तं पुंसु तिष्ठत्यसंशयम् । अस्मिन्योनौ सुसंयोग्ये संगते वाप्यसंगते
女神说道:“少女之心无疑常系于男子——无论在此胎宫中有相应的结合,或有结合,乃至无结合。”
Verse 19
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् । योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद
女子见到装饰得体的男子——纵是其兄或其子——其阴部亦会湿润;此言真实,真实无疑,哦那罗陀。
Verse 20
स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते
既无处所,亦无片刻;更无人前来求诱。因此,哦那罗陀,女子的贞洁与忠贞便得以建立。
Verse 21
घृतकुंभसमा नारी तप्तांगारसमः पुमान् । तस्माद्घृतं च वह्निं च नैकस्थाने च धारयेत्
女子如同盛酥油之罐;男子如同炽热的火炭堆。因此,不可将酥油与火同置一处。
Verse 22
यथैवमत्तमातंगं सृणिमुद्गरयोगतः । स्ववशं कुरुते यंता तथा स्त्रीणां प्ररक्षकः
正如驯象者以象钩与棍棒使狂象归服,女子的守护者亦使她们安住于其管束之下。
Verse 23
पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे न स्त्री स्वातंत्र्यमर्हति
幼时父亲护持,青年时丈夫护持,年老时诸子护持;因此说,女子不被认为适合独立自主。
Verse 24
ततः स्वातंत्र्यभावाच्च स्वेच्छया च वरांगना । पुरुषेणार्थिता धीरा प्रेरणादिचरी भवेत्
因此,由于自主之心并随其自愿,贤淑的女子在男子相求之时,应当沉着自持,只随劝请等而行,不为强迫所动。
Verse 25
अरक्षणाद्यथा पाकः श्वकाकवशगो भवेत् । तथैव युवती नारी स्वच्छंदाद्दुष्टतां व्रजेत्
正如孩童若无人护持,或受犬与鸦之牵引;同样,年轻女子若任性放纵、无所节制,亦将渐趋于邪恶之途。
Verse 26
पुनरेव कुलं दुष्टं तस्यास्संसर्गतो भवेत् । परबीजेन यो जातः स च स्याद्वर्णसंकरः
复又因与她相交,家族遂致败坏;而由他人之种而生者,实被称为“瓦尔那杂染”(varṇa-saṃkara),即阶序之混杂。
Verse 27
जारजः संकरः पापो नरके नियतं वसेत् । कीटजातौ गता जाताः पुनः सर्वे महीतले
由通奸而生者——不净之杂染子嗣、具罪之身——必定居于地狱;既堕为虫类之境,复又皆在大地上再生。
Verse 28
ततो म्लेच्छमुपानीतं कुलं स्याद्द्विजनंदन । कुलक्षयो भवेद्यस्मात्तस्माद्दुष्टां न धारयेत्
于是家族被牵入与“弥勒叉”(mleccha,异俗之人)相杂之境,噢二生者之所爱;既因此而致宗族毁灭,故不当纳留败坏之女。
Verse 29
ज्ञात्वैव योषितां दोषं क्षमते यो नराधमः । स तिष्ठेन्निरये घोरे रौरवे पितृभिः सह
凡那最卑劣之人,明知女子之过而仍加纵容者,必与其祖先同住于名为“饶罗婆”(Raurava)之可怖地狱。
Verse 30
काचित्पातयते नारी काचिदुद्धरते कुलम् । तस्मात्सर्वप्रयत्नेन कुलजामुद्वहेद्बुधः
有的女子使家族败落,有的女子却能扶起并救赎宗族。因此,智者应竭尽所能,迎娶出身良族的女子。
Verse 31
कुलद्वयं समा नारी समयित्वा तु तिष्ठति । साध्वी तारयते वंशान्दुष्टा पातयति ध्रुवम्
女子一旦进入婚姻之约,便与娘家与夫家两族同等相系。贞善之女能度脱并兴隆诸族;邪恶之女必定使之衰败。
Verse 32
दारेष्वधीनं स्वर्गं च कुलं पंकं यशोऽयशः । पुत्रं दुहितरं मित्रं संसारे कथयंति च
人们说,在此世间,连天界之福也系于妻;家族或为泥淖,或为依托;名誉与耻辱、儿子与女儿,乃至友谊,也都与家室之道相连。
Verse 33
तस्मादेकां द्वितीयां वा वामामुद्वाहयेद्बुधः । संतानार्थात्तु कामाच्च बहुदोषाश्रिता च सा
因此,智者当娶一妻,至多再娶第二位;或为求子嗣,或因情欲。然而多娶则多过失相随。
Verse 34
रजस्वलां च वनितां नावगच्छति यः पतिः । ब्रह्महा भ्रूणहा सोपि दुर्गतिं चाधिगच्छति
若为夫者不知避离经期之女而与之亲近,他亦如同杀害婆罗门者、杀害胎儿者一般,终将堕入恶趣。
Verse 35
यो मोहाद्दुर्भगां कृत्वा साध्वीं त्यजति पापकृत् । तस्या वधेन यत्पापं तद्भुक्त्वा नरकं व्रजेत्
那罪人因迷妄而将贞善之妻视为不祥并弃舍她;他将承受如同杀害她所生之罪业,继而堕入地狱。
Verse 36
वनिताहरणं कृत्वा चांडलकुलतां व्रजेत् । तथैव वनिताहानात्पतितो जायते नरः
掳夺女子者,将堕为旃陀罗之族的境地;同样,弃舍女子者,男子亦成堕落之人。
Verse 37
रामां विन्यस्य स्कंधे च चिरं यमपुरे वसेत् । मलमूत्रं शिरोदेशे नित्यं तस्य च संपतेत्
将罗摩(Rāmā)置于肩上者,将久居阎摩之城;其头顶将不断落下尿与粪秽。
Verse 38
एवं वर्षसहस्राणि भारं वहति दुर्मतिः । पुनर्यावन्ति लोमानि तावत्स रौरवं व्रजेत्
如此,恶念之人负此重担达千年;并且只要他的毛发一次又一次再生,他便同样长久地堕入罗柔婆(Raurava)地狱。
Verse 39
पुनः कीटेषु संतीर्णस्तदा मानुषतां व्रजेत् । ततश्च कलहं शोकं प्राप्नोति पूर्वकल्मषात्
再度经历为虫蚁之身的诸生之后,方得人身;然而因往昔罪垢,他随后遭逢争斗与忧苦。
Verse 40
एवं जन्मत्रयं प्राप्य मुच्यते पातकान्नरः । तत्कालं नरकं भुक्त्वा सा तु काकी तु वञ्चकी
如此,经历三次转生之后,男子便从罪业中解脱;而那欺诳的女子——暂受地狱之苦后——转生为雌鸦(kākī)。
Verse 41
उच्छिष्टनरकं भुक्त्वा मानुषे विधवा भवेत् । यः पुनश्चांत्यजां गच्छेन्म्लेछां वा पुल्कसां नरः
受尽名为“Ucchiṣṭa”的地狱之苦后,她在人间转生为寡妇。同样,凡男子若再去亲近贱民女子,或亲近弥勒叉(Mleccha)女子,或亲近普尔卡沙(Pulkaśa)族女子,皆招致重罪。
Verse 42
द्वित्रिचतुर्गुणं भुक्त्वा तत्र संचीर्णवंचकः । मातरं गुरुभार्यां च ब्राह्मणीं महिषीं तथा
他在彼处以二倍、三倍、四倍之量纵享欲乐,遂成惯于欺诳之人——竟玷污自己的母亲、师长之妻、婆罗门女子,亦复玷污王后。
Verse 43
अन्यां वा प्रभुपत्नीं च गत्वा यात्यपुनर्भवं । भगिनीं तत्पुत्रभार्यां तथा दुहितरं स्नुषाम्
若亲近他人之妻——或亲近主君之妻——便堕入无复归返之境。亦复如是:玷污姊妹、子之妻、女儿或儿媳者。
Verse 44
पितृव्यां मातुलानीं तु तथैव च पितृष्वसाम् । मातृष्वस्रादिकामन्यां गत्वा नास्ति च निष्कृतिः
若与伯叔之妻、舅母、父之姊妹、母之姊妹等诸如此类的女亲属行不当之事,则无有可施之赎罪法。
Verse 45
ब्रह्महा स भवेदंधो वचसा जडतां व्रजेत् । कर्णयोर्बधिरो जातश्च्यवते नास्ति निष्कृतिः
杀害婆罗门者必成盲目;因其言语而堕于愚钝。又将双耳俱聋而生,被贬坠下,且无可赎罪之法。
Verse 46
उक्त्वा अश्लीलमत्यर्थमखिलं स्त्रीकृतेन हि । द्विज उवाच । एवं दुष्कृतमासाद्य कथं मोक्षो भवेत्पुनः
说出极其淫秽之语——皆因一女子之故——那婆罗门说道:“既已招致如此罪业,解脱又怎能再得?”
Verse 47
तत्समाचक्ष्व भगवन्श्रोतुमिच्छामि तत्त्वतः । श्रीभगवानुवाच । तासां च गमनं कृत्वा तप्तां लोहस्य पुत्तलद्यं
“请为我开示吧,世尊;我愿如实听闻其真义。”世尊说道:“前往她们那里之后,(又) (施行了) 与一尊烧热的铁像有关之事。”
Verse 48
समालिंग्य त्यजेत्प्राणं शुचिर्लोकांतरं व्रजेत् । यो वै गृहाश्रमं त्यक्त्वा मच्चित्तो जायते नरः
拥抱于我,便当舍弃其命息;清净之后,往生他界。诚然,凡舍离居家期(gṛhastha-āśrama)而令心住于我者——(即得此境)。
Verse 49
नित्यं स्मरति गोविंदं सर्वपापक्षयो भवेत् । ब्रह्महत्यायुतं तेन कृतं गुर्वंगनागमात्
若恒常忆念瞿文陀(Govinda),则一切罪业皆得消灭。即便因亲近师妻而招致的万次“杀婆罗门罪”(brahma-hatyā),亦为此忆念所除。
Verse 50
शतं शतसहस्रं च पैष्टीमद्यस्य भक्षणात् । स्वर्णादेर्हरणं कृत्वा तेषां संसर्गकं चिरं
因食用以面粉蒸馏之酒,招致百倍乃至十万倍之惩罚;又若盗取黄金等物,便将长久与此类罪人相系相伴。
Verse 51
एतान्यन्यानि पापानि महान्ति पातकानि च । अग्निं प्राप्य यथा तूलं तृणं शुष्कं प्रणश्यति
这些以及其他罪业,乃至重大可怖之罪,皆得消灭;正如干棉与枯草,一触火焰便尽成灰烬。
Verse 52
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्याने स्त्रीणामाख्यानंनाम । द्विपंचाशत्तमोऽध्यायः
如是,于《圣莲花往世书》第一部《创世品》(Sṛṣṭikhaṇḍa)第五叙事中,题为《妇女之记》的章节至此终了,为第五十二章。
Verse 53
कृत्वा च पूजयित्वा च स पापात्सन्तरो भवेत् । भागीरथी तटे रम्ये खगस्य ग्रहणे शिवे
既行此事并如法礼敬,他便成为超越罪垢之人——在美丽的婆伽罗提河(恒河)岸边,于“迦伽”(太阳)蚀之吉祥时刻。
Verse 54
गवां कोटिप्रदानेन यत्फलं लभते नरः । तत्फलं समवाप्नोति सहस्रं चाधिकं च यत्
人若以布施千万头牛而得何等功德,他亦得同等功德,并且更增一千之福。
Verse 55
गोविंदकीर्तने तात मत्पुरे चाक्षयं वसेत् । कामात्स भवने स्थित्वा सार्वभौमो भवेन्नृपः
亲爱的啊,称颂歌咏戈文达者,得以不朽地安住于我的城中;若有人因欲望而住在那居处,便成王者,统御四方的大帝。
Verse 56
पुराणेमत्कथां श्रुत्वा मत्सादृश्यं लभेन्नरः । कथयित्वा पुराणं च विष्णुसायुज्यतां व्रजेत्
聆听《普拉那》中我神圣的事迹者,得与我相似;而若又诵读并宣讲《普拉那》,便趋入与毗湿奴合一之境。
Verse 57
तस्मान्नित्यं च श्रोतव्यं पुराणं धर्मसंचयं । श्रावितव्यं प्रयत्नेन लोके विष्णुतनुं व्रजेत्
因此,这部《普拉那》乃法(Dharma)之积聚,应当恒常聆听;并当竭力为世人诵说。就在此世,亦能证得毗湿奴之境。
Verse 58
अन्यद्वा स्त्रीकृते दोषे यथायोगं भवेद्ध्रुवं । निशामय प्रवक्ष्यामि तत्वतो द्विजनंदन
又或者,若女子犯下过失,必将依其情形而受相应之果报。请聆听吧,二次生者之爱子,我将如实、依真理而宣说。
Verse 59
सर्वबीजस्य दानेन सांबुकुंभं महाफलम् । दद्याद्विप्राय पुण्याहे सद्यःपूतो भवेत्क्षणात्
布施诸种种子,便得名为“娑姆布库姆婆(Sāmbukuṃbha)”之大功德果。应于吉日施与婆罗门;其人刹那之间即得净化。
Verse 60
सर्वं धान्यादिकं बीजं काले दद्याद्द्विजातये । सर्वपापक्षयं कृत्वा अक्षयं स्वर्गमश्नुते
在适当之时,应将一切种子——谷物等——布施给二次生者(婆罗门)。由此灭尽诸罪,得证不坏之天界。
Verse 61
गुणं वक्ष्यामि विप्रर्षे सतीनां यादृशं दृढम् । शुद्धवंशो भवेत्तस्या नित्यं लक्ष्मीः प्रवर्तते
婆罗门中之最啊,我将宣说贤德妇女坚固不移的品性:因她而家族血脉得以清净,吉祥天女拉克什米之福泽恒常流转兴盛。
Verse 62
उभयोर्वंशयोः स्वर्गो भर्तुरात्मन एव च । पतिव्रतागुणो विप्र विस्मृतः पृच्छतस्तव
对两方家族皆有天界之果报,亦及于丈夫自身之灵魂。婆罗门啊,贞顺奉夫的“持夫戒者”(pativratā)之德,因你发问而显得久被遗忘。
Verse 63
पुनर्वक्ष्यामि योषाणां सर्वलोकहितं शुभम् । उषित्वा पूर्वकालं च पुण्यापुण्येन योषितः
我将再次宣说关于妇女之事,那对一切世界皆吉祥有益:在往昔时代,她们如何依善业与恶业而生活并受其果。
Verse 64
पश्चात्पतिव्रतायाश्च ताश्च गच्छंति मद्गतिम् । षण्मासं वाथ वर्षं वा अधिकं च प्रशस्यते
其后,那些持守贞顺的妻子(pativratā)亦得达于我的境界。此修持以六个月、或一年、乃至更久为善,为人所称赞。
Verse 65
पतिव्रता भवेद्या च यावत्पूता व्रजेद्दिवम् । सुरापं विप्रहंतारं सर्वपापयुतं पतिम्
女子若守持夫誓、为贞顺之“pativratā”,便得清净而升天——纵其夫嗜酒、杀害婆罗门,且具一切罪业亦然。
Verse 66
पंकात्पूतं नयेत्स्वर्गं भर्त्तांरं यानुगच्छति । कंदर्पसदृशो भर्ता सा रतीव मनोरमा
她若虔诚随夫,便能引领其夫——纵从泥淖亦得净化——趋向天界。其夫如甘达尔帕(爱神),而她自身亦如罗蒂般妩媚可爱。
Verse 67
जिष्णोरेवचिरं लोके भुंक्तेऽनंतमयं सुखम् । पतिव्रता बलाद्या च विदूरे स्वामिपातने
在此世间,守夫誓的贤妻——如巴拉等——长久享受属于吉什努(胜利之主)的无量安乐,即便在丈夫倾覆(亡故)之时她身在远方。
Verse 68
चिह्नं लब्ध्वामृता वह्नौ पापादुद्धरते पतिं । पतिव्रता च या नारी देशांतरमृते पतौ
得其吉祥之相,于火中成不死,她便从罪中救拔其夫。又,守夫誓之女,在夫尚在之时不往他乡异土。
Verse 69
सा भर्तुश्चिह्नमादाय वह्नौ सुप्त्वा दिवं व्रजेत् । या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत्
执取夫之信物,她当卧于火中而往生天界——此乃为婆罗门种姓之女,于夫亡后随夫而行之所规定的行持。
Verse 70
सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् । न म्रियेत समं गत्वा ब्राह्मणी ब्रह्मशासनात्
婆罗门女不应以自害求天界;亦不应令自身或其夫丧命。不可随夫同死,因为这是梵天(Brahmā)的法令。
Verse 71
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी । नरोत्तम उवाच । सर्वासामपि जातीनां ब्राह्मणः शस्य इष्यते
以自害而死者,得出家遁世之归趣;然而此死终是自毁。那罗多摩(Narottama)说:“在一切种姓与阶序之中,婆罗门被视为最可称赞者。”
Verse 72
पुण्यं च द्विजमुख्येन अत्र किंवा विपर्ययः । श्रीभगवानुवाच । ब्राह्मण्यास्साहसं कर्म नैव युक्तं कदाचन
对于最上婆罗门而言,此处又有何功德——又怎会有相反之理?世尊说道:“对守持婆罗门之道者,鲁莽或暴烈之行,任何时候都不相应。”
Verse 73
निःशेषेस्या वधं कृत्वा स नरो ब्रह्महा भवेत् । तस्माद्ब्राह्मणजातीया विप्रया च व्रतं चरेत्
若将她杀尽无余,那人便成婆罗门杀者(brahmahā)。因此,出身婆罗门之女,亦即婆罗门女,当奉行所规定的誓戒。
Verse 74
प्रवक्ष्यामि यथातथ्यं शृणु विप्र यथार्थतः । आपणांतरमामिष्यं भक्षयेन्न कदाचन
我将如实宣说其真义;请谛听,婆罗门啊,依正理而解:任何时候都不应食用经由买卖交易所得之肉。
Verse 75
अश्वमेधसहस्राणां हायने फलमाप्नुयात् । अर्हणं चेष्टदेवस्य हरेर्व्रतमनुत्तमम्
若奉行哈利(Hari)无上之誓,并如法礼敬自己所奉之本尊,则一人于一年之内所得功德,等同于千千阿湿婆梅陀(Aśvamedha)大祭。
Verse 76
स्वामिनोपि जलं पिंडं संप्रदद्यादमत्सरात् । युगकोटिसहस्राणि युगकोटिशतानि च
即便为家主,亦当无嫉无怨地供献清水与食团(piṇḍa);其功德延续千千万万俱胝之劫(yuga),亦复延续百千万万俱胝之劫。
Verse 77
पतिना सह सा साध्वी विष्णुलोके युता भवेत् । ततो महाव्रतं प्राप्य निरये ब्राह्मणी वधूः
彼贞洁之女与其夫同在,得以相依相合而住于毗湿奴之界。然婆罗门新妇既受大誓,随后却堕于地狱。
Verse 78
उद्धरेदुभयोर्वंशाञ्छतशोथ सहस्रशः । अतो बंधुजनैरेव पुत्रैर्भ्रात्रादिभिर्बुधैः
当救拔父母双方之族系,或以百计,乃至以千计。故此事当由自家亲族——诸子、诸兄弟及其他明智之亲属——来成就。
Verse 79
विनियम्य सदा तस्या व्रतलोपं न कारयेत् । हरेश्चेद्वासरं प्राप्य विधवा न व्रतं चरेत्
当常令其守持约束,不可使其誓戒毁缺。若逢哈利(Hari)之圣日,寡妇不应行此誓戒之修持。
Verse 80
पुनर्वैधव्यतामेति जन्मजन्मनि दुर्भगा । भोजनात्मत्स्यमांसस्य व्रतानां विप्रयोगतः
由于她食鱼食肉,又与神圣誓戒相离,这不幸的女子便在一生又一生中再度堕入寡居之苦。
Verse 81
चिरं निरयमासाद्य शुनी भवति निश्चितम् । दुष्टाया मैथुनं गच्छेद्विधवाकुलनाशिनी
久受地狱之苦之后,她必定转生为母狗。那邪恶之女若与他人行淫,便毁坏寡妇之家。
Verse 82
नरकाननुभूयाथ गृध्रिणी दशजन्मसु । द्विजन्मफेरवा भूत्वा ततो मानुषतां व्रजेत्
经历诸地狱之后,她在十次生命中转生为雌鹫;继而两生为蝙蝠,随后方得再获人身。
Verse 83
तथैव बालवैधव्या दासीत्वमुपगच्छति । द्विज उवाच । कन्यादानफलं ब्रूहि वद दास्याः फलं च यत्
同样,年少守寡的女子将堕入奴役之境。婆罗门说道:“请告诉我施嫁女(嫁女之施)的功德果报;也请说说施与女仆所获之果。”
Verse 84
विधानं च यथोक्तं च यदि मेनुग्रहः प्रभो । श्रीभगवानुवाच । रूपाढ्ये गुणसंपन्ने कुलीने यौवनान्विते
“若蒙主垂恩,愿此仪轨与次第皆如所说、如法而行。”世尊说道:“(她)容貌端丽,德行具足,出自高贵家族,正当青春盛年。”
Verse 85
समृद्धे वित्तसंपूर्णे कन्यादानफलं शृणु । सर्वाभरणसंयुक्तां कन्यकां यो ददाति च
当人富足昌盛之时,请聆听施行“嫁女之施”(kanyādāna)的果报:凡将佩戴一切饰物的少女奉献出嫁者,必得所说功德。
Verse 86
तेन दत्ता धरा सर्वा सशैलवनकानना । अर्द्धाभरणदानेन फलं दातुर्भवेद्ध्रुवम्
由此布施,等同于将整个大地——连同群山、森林与林苑——尽皆奉献;若再施舍自身饰物的一半,施主之果报必定稳固无疑。
Verse 87
अनाभरणकन्यायाः पादैकस्य फलं भवेत् । यः पुनः शुल्कमश्नाति स याति नरके नरः
对那接受者而言,其果报仅如“无饰少女之一足”的功德而已;但那再次受取嫁资(彩礼)之人,必堕地狱。
Verse 88
विक्रीय चात्मजां मूढो नरकान्न निवर्त्तते । लोभादसदृशे पुंसि कन्यां यस्तु प्रयच्छति
愚人若将亲生女儿卖作交易,便不再从地狱归返;又若因贪欲而将少女嫁与不相称、不中正、非其良配之人,同样招致此祸。
Verse 89
रौरवं नरकं प्राप्य चांडालत्वं च गच्छति । अतएव हि शुल्कं च जामातुर्न कदाचन
他将堕入罗楼婆(Raurava)地狱,并转生为旃荼罗(caṇḍāla);因此,任何时候都不应从女婿处收取嫁资(彩礼)。
Verse 90
गृह्णाति मनसा प्राज्ञो यद्दत्तं तस्य चाक्षयम् । भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम्
智者以心领受所施之物;对施主而言,此布施成不坏之福德——或土地、乳牛、黄金、财物、衣服,或谷粮。
Verse 91
जामातुर्यौतकं दत्वा सर्वं भवति चाक्षयम् । विवाहसमये वत्स सगोत्र परगोत्रजैः
施与新郎之婚礼赠礼(yautaka)后,一切皆成不坏之福德。于婚礼之时,孩子啊,同族与异族之人皆当如是行。
Verse 92
यौतकं दीयते किंचित्तत्सर्वं चाक्षयं भवेत् । दाता न स्मरते दानं प्रतिग्राही न याचते
无论所施之婚礼赠礼(yautaka)多么微少,皆成不坏、无尽之福德。施者不执念其施,受者亦不乞求索取。
Verse 93
उभौ तौ नरकं यातश्छिन्नरज्जुर्घटो यथा । अवश्यं यौतकं दानं दातव्यं सात्विकेन हि
二者皆堕地狱,如同系绳被断之罐必然坠落。故具萨埵之人必当以布施(dāna)之心奉献婚礼赠礼(yautaka)。
Verse 94
अदत्वा नरकं प्राप्य दासीत्वमुपगच्छति । अत्यासन्नेतिदूरस्थे चात्याढ्ये चाति दुर्गते
不施者先堕地狱,继而沦为奴役。是故当行布施:无论受者极近或极远,极富或极贫,皆应施与。
Verse 95
कुलहीने च मूर्खे च षट्सु कन्या न दीयते । अतिवृद्धे चातिदीने रोगिष्ठे देशवासिनि
不应将少女嫁给这六种人:出身卑微者、愚蠢者、极老者、极贫者、多病者或同乡居住者。
Verse 96
अतिक्रुद्धेप्यसन्तुष्टे षट्सु कन्या न दीयते । एतेभ्यः कन्यकां दत्वा नरकं चाधिगच्छति
即使求婚者极其愤怒或不满,也不应将少女嫁给这六类人。若将女孩嫁给这样的人,定会堕入地狱。
Verse 97
लोभात्संमानलाभाच्च कन्यका परिवर्तनात् । मुनीनां प्रेयसीं नारीं युवतीं रूपशालिनीम्
出于贪婪,为了获得荣誉和利益,并通过交换少女,人们得到了一位圣人所钟爱的女子——年轻且容貌美丽。
Verse 98
सालंकारां सशय्यां च दत्वाऽनंतफलं लभेत् । अनयोश्च फलं तुभ्यं युवती कन्ययोरपि
若将装饰着饰物并备有床榻的少女嫁出,便能获得无尽的果报。无论是年轻女子还是未婚少女,这些布施的功德也将归于你。
Verse 99
एका वराय दातव्या अपरा ब्राह्मणाय तु । क्रीता देवा यदातव्या धीरेणाकष्टकर्मणा
一份供品应给新郎,另一份给婆罗门。正当获得的礼物应由一位坚定且无需通过痛苦劳作谋生的人布施。
Verse 100
कल्पकालं भवेत्स्वर्गं नृपो वा कौ महाधनी । प्रतिजन्म लभेतैष सुपत्नीं वरवर्णिनीम्
对他而言,即使整整一劫也如同天界;他将成为国王或巨富之人。于每一世,他都得一位贤德之妻,容色殊胜,光彩端丽。
Verse 101
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् । सर्वपापक्षयस्तस्य सर्वशास्त्रार्थपारगः
凡恒常聆听此无上功德的圣传者,其一切罪业皆得消灭,并能通达诸部经论(śāstra)之义。
Verse 102
लभेत सोऽक्षयं स्वर्गं नारीणां वल्लभो भवेत् । क्षत्रियो विजयी चाथ लोकनाथो भवेद्ध्रुवम्
他将得不坏之天界,亦为众女所爱。若其为刹帝利(kṣatriya),则必得胜利,确然成为众民之主。
Verse 103
श्रुतं हरति पापानि जन्मजन्मकृतानि च । सौभाग्यं लभते लोके तथैव च वरांगना
聆听(此圣传)能除去累世所作之罪;在此世间,端雅的女子亦同样获得福泽与吉祥。