Adhyaya 42
Srishti KhandaAdhyaya 42111 Verses

Adhyaya 42

The Birth of Tāraka and the Prelude to the Deva–Asura War (Topic-based Title)

毗湿摩向普罗阿斯提耶请求简述湿婆的伟大与古诃(Guha)的来历。叙事由底提一系展开:预言金刚肢体的阿修罗王伐阇罗昂伽(Vajrāṅga)将诞生;他初显威势便擒获因陀罗。 梵天与迦叶出面调停;伐阇罗昂伽释放因陀罗,并受教当修苦行(tapas)。梵天赐他以瓦罗昂吉(Varāṅgī)为妻,夫妻二人长期精进。因陀罗化现可怖形相欲扰乱瓦罗昂吉,然其誓愿坚固不移。 梵天遂赐诸福;瓦罗昂吉求得一子——塔罗迦(Tāraka),其诞生震动宇宙。塔罗迦成为阿修罗之主,复修苦行,得“唯七日婴儿能杀”之有条件死劫恩赐。他集结大军击败诸天;因陀罗请教布里哈斯帕提四策,战事仍起,护世诸神(Lokapāla)被缚,为迦尔蒂凯亚(Kārttikeya)注定的出场铺垫。

Shlokas

Verse 1

भीष्म उवाच । श्रुतः पद्मोद्भवो ब्रह्मन्विस्तरेण त्वयेरितः । समासाद्भवमाहात्म्यमुत्पत्तिं च गुहस्य च

毗湿摩说道:“婆罗门啊,我已从你处详闻莲华所生的梵天(Brahmā)。如今请你略说婆婆(Bhava,即湿婆Śiva)的伟大,并述说古诃(Guha,即迦尔蒂凯亚Kārttikeya)的起源。”

Verse 2

श्रोतुमिच्छामि ते ब्रह्मन्यथाभूतः कृतं च यत् । तारकश्च कथं भूतो दानवो बलवत्तरः

婆罗门啊,我愿从你处听闻事情如何真实发生、又做了什么;并且塔罗迦(Tāraka)这位强盛有力的达那婆(Dānava)是如何出现的。

Verse 3

कार्त्तिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः । कथं रुद्रेण मुनयः प्रेषिता मंदरं गिरिम्

婆罗门啊,那大阿修罗如何被迦尔蒂凯亚(Kārttikeya)所灭?又如何由鲁陀罗(Rudra)差遣诸牟尼前往曼陀罗山(Mandara)?

Verse 4

कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना । एतदाख्याहि मे सर्वं यथाभूतं महामुने

至上之主鲁陀罗(Rudra)在那里如何得到了乌玛(Umā)?大圣者啊,请将这一切如实为我宣说。

Verse 5

पुलस्त्य उवाच । कश्यपेन पुरा प्रोक्ता दितिर्दैत्यारणिः शुभा । वज्रसारमयैश्चांगैः पुत्रो देवि भविष्यति

普罗娑底耶(Pulastya)说道:“往昔迦叶波(Kaśyapa)曾宣告:底蒂(Diti)——吉祥的提提耶族(Daitya)之母——将生一子,女神啊,其肢体由金刚(vajra)之精髓所成,坚不可摧。”

Verse 6

वज्रांगो नाम पुत्रस्तु भविता धर्मवत्सलः । सा च लब्धवरा देवी सुषुवे वज्रदुश्छिदम्

将诞生一子,名为金刚肢(Vajrāṅga),笃爱正法。彼女神既得恩赐,遂生金刚不坏者(Vajraduśchida),坚不可摧,如金刚雷杵。

Verse 7

स जातमात्र एवाभूत्सर्वशास्त्रार्थपारगः । उवाच मातरं भक्त्या मातः किं करवाण्यहम्

他方才降生,便通达一切经论(śāstra)之义。怀着虔敬对母亲说道:“母亲,我当作何事?”

Verse 8

तस्योवाच ततो हृष्टा दितिर्दैत्याधिपस्य तु । बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक

于是底提(Diti)欢喜,对代提耶之主说道:“我的孩子啊,我许多儿子都被千眼者(Sahasrākṣa,因陀罗)所杀。”

Verse 9

तेषामपचितिं कर्तुं गच्छ शक्रवधाय तु । बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बलात्

“去为他们雪耻;是的,去诛杀释迦罗(Śakra,因陀罗)。”他答道“如是”,便以威力奔赴三天界(Tridiva,天界)。

Verse 10

बध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा । मातुरंतिकमागच्छद्व्याधः क्षुद्रमृगं यथा

随后他以威光不失的绳索缚住千眼者(Sahasrākṣa),来到母亲近前,宛如猎人携来所获的小兽一般。

Verse 11

एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः । आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ

其间,梵天与大苦行者迦叶波来到那里,正是那无畏的母子所居之处。

Verse 12

दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च । मुंचैनं पुत्र देवेंद्रं किमनेन प्रयोजनम्

见到他们,梵天开口说道,迦叶波亦同声言:“放了他吧,我儿,因陀罗啊,此举有何所用?”

Verse 13

अवमानो वधः प्रोक्तः पुत्र संभावितस्य तु । अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः

凡被尊为子者,受辱即被宣称等同于死亡。纵使因我之言而获释,若落入你手,他也等同已死。

Verse 14

परस्य गौरवान्मुक्तः शत्रूणां शत्रुराहवे । सजीवन्नेव हि मृतो दिवसे दिवसे पुनः

既不再依赖他人恩宠,他在战阵中便成诸敌之敌;然而虽仍生存,却如同已死,日日复日日地再度死去。

Verse 15

एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत् । न मे कृत्यमनेनास्ति मातुराज्ञा कृता हि मे

闻此,金刚肢(Vajrāṅga)俯首而答:“此事与我已无所系,因为我已奉行母命。”

Verse 16

त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः । करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः

你确是诸天与阿修罗之主,亦是可敬的曾祖。神圣者啊,我将遵从你的言语——此释多迦罗图(因陀罗)已获释放。

Verse 17

तपसेमेरतिर्देवनिर्विघ्नंतच्चमेभवेत् । त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम ह

“神啊,愿我对苦行(tapas)的奉持坚定无碍;愿凭你的恩典,世尊啊,此愿于我成就。”言毕,他便默然。

Verse 18

तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः । ब्रह्मोवाच । तपस्त्वं कुरु मापन्नः सोस्मच्छासनसंस्थितः

当那魔族默然伫立时,祖父梵天说道:“阿修罗啊,当修苦行(tapas);莫要沮丧。安住于我的教令之中。”

Verse 19

अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम् । इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्

“确然,凭此心之净化,便圆满获得此生之果。”说罢,莲华所生的梵天创造了一位眼眸修长而明阔的少女。

Verse 20

तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसंभवः । वरांगीति च नामास्याः कृत्वा यातः पितापहः

莲华所生的神梵天将她赐予他为妻;并为她立名“婆罗昂吉(Varāṅgī)”后,这位父神——灭罪者——便离去。

Verse 21

वज्रांगोपि तया सार्द्धं जगाम तपसे वनम् । ऊर्द्ध्वबाहुस्स दैत्येंद्रो चरद्वर्षसहस्रकम्

金刚臂(Vajrāṅga)也与她一同入林修行苦行(tapas)。那位阿修罗族(Daitya)之主高举双臂,行持苦行整整一千年。

Verse 22

कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः । तावच्चाधोमुखः कालं तावत्पंचाग्निमध्यगः

长久以来,那位莲华眼的大苦行者,心智清净,俯面而住;同样长久的时日里,他又处于“五火”之中而修行。

Verse 23

निराहारो घोरतपास्तपोराशिरजायत । ततः सोंतर्जले चक्रे वासं वर्षसहस्रकम्

他断食而行可怖的苦行,仿佛化作一座严酷苦行的聚积;其后,他在水中安住,历经一千年。

Verse 24

जलांतरं प्रविष्टस्य तस्य पत्नी महाव्रता । तस्यैव तीरे सरसः स्थिताऽसौ मौनमाश्रिता

当他进入水的深处时,他的妻子——坚守大誓愿者——就立于那同一湖泊之岸,依止沉默而住。

Verse 25

निराहारं तपो घोरं प्रविवेश महाद्युतिः । तस्यां तपसि वर्तंत्यामिंद्रश्चक्रे विभीषिकाम्

那位光辉者开始了无食的严酷苦行;当她安住于此苦行之时,因陀罗(Indra)制造恐怖之相,欲加阻挠。

Verse 26

गत्वा तु मर्कटाकारस्तदाश्रमपदं महत् । ब्रसीं चकर्ष बलवान्गंधाद्यर्चाकरंडकम्

于是他化作猿猴之形,前往那宏大的隐修道场;那有大力者拖走了盛着香料等供奉之物的供具篮。

Verse 27

ततस्तु सिंहरूपेण भीषयामास भामिनीम् । ततो भुजंगरूपेणाप्यदशच्चरणद्वयम्

随后他化作狮子之形,惊吓那美丽的女子;继而又化作毒蛇,咬了她的双足。

Verse 28

तपोबलवशात्सा तु नवध्यत्वं जगाम ह । भीषिकाभिरनेकाभिः क्लेशयन्पाकशासनः

然而凭借苦行之力,她确已成就不受伤害之身;而降伏帕迦者的天帝因陀罗(Pākaśāsana)折磨她,以种种恐怖加以侵扰。

Verse 29

विरराम यदा नैव वज्रांगमहिषी तदा । शैलस्यदुष्टतां मत्वा शापं दातुं समुद्यता

当金刚肢(Vajrāṅga)之妻仍不退却之时,她认定此山怀有恶意,便起身准备降下诅咒。

Verse 30

तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषविग्रहः । उवाच तां वरारोहां वरांगीं भीतलोचनः

见她直面将发之诅咒,山神Śaila化为人形,目含惧色,对那步履端雅、肢体姝丽的高贵女子开口说道。

Verse 31

शैल उवाच । नाहं महाव्रते दुष्टः सेव्योहं सर्वदेहिनाम् । विप्रियं ते करोत्येष रुषितः पाकशासनः

Śaila 说道:“大誓者啊,我并非邪恶;一切有身众生皆当敬我。是那愤怒的 Pākaśāsana(因陀罗)在做令你不悦之事。”

Verse 32

एतस्मिन्नंतरे जातः कालो वर्षसहस्रकः । तस्मिन्ज्ञात्वा तु भगवान्काले कमलसंभवः

其间,千年之期已然流逝。觉知此时已至,那位吉祥者——莲华所生者——便随时而行。

Verse 33

तुष्टः प्रोवाच वज्रांगं तदागत्य जलाशयम् । ब्रह्मोवाच । ददामि सर्वकामं त उत्तिष्ठ दितिनंदन

他心生欢喜,待 Vajrāṅga 来到水畔,便对他说。梵天曰:“我赐你一切所愿皆得圆满;起身吧,狄提之子。”

Verse 34

एवमुक्तस्तदोत्थाय स दैत्येंद्रस्तपोनिधिः । उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्

蒙此宣告,那位达伊提亚之主——苦行之海——起身合掌,对诸世界之祖父(梵天)说道。

Verse 35

वज्रांग उवाच । आसुरो मास्तु मे भावः संतु लोका ममाक्षयाः । तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य वर्तनम्

Vajrāṅga 说道:“愿我不具阿修罗之恶性;愿我之诸世界永不毁坏。愿我乐于苦行,愿此身得以长久支撑。”

Verse 36

एवमस्त्विति तं देवो जगाम स्वकमालयम् । वज्रांगोपि समाप्ते तु तपसि स्थिरसंयमः

“就如此吧,”天神说道,遂回归自己的圣所。金刚臂亦然——苦行既毕——仍安住不动,坚守自制之戒。

Verse 37

संगंतुमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके । क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह

他欲与自己的妻子相见,却在自家精舍中不见其人。饥饿所逼,他便进入那山中幽深的密林。

Verse 38

आदातुं फलमूलानि स च तस्मिन्व्यलोकयत् । रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्

当他去采集果实与根茎时,便在那儿看见自己的爱妻——凄苦啼泣——面容被树木遮掩。

Verse 39

तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन् । वज्रांग उवाच । केन तेऽपकृतं भद्रे यमलोकं यियासुना

见到她后,那位阿修罗为安慰她而开口。金刚臂说道:“贤淑的女子啊,是谁加害于你,使你竟欲前往阎摩之界?”

Verse 40

कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि । वरांग्युवाच । त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च

“你要我赐你何愿?快说吧,傲然的女子。”那肢体娴美的女子答道:“我曾受惊恐,被弃置,被击打,也被折磨。”

Verse 41

रौद्रेण देवराजेन नष्टनाथेव भूरिशः । दुःखस्यांतमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता

她被凶烈的天界之王所折磨,宛如失去庇护者一般;见悲苦无有尽头,便决意舍弃生命之息。

Verse 42

पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात् । एवमुक्तस्तु दैत्येंद्रः कोपव्याकुललोचनः

“赐我一子——塔罗迦(Tāraka)——使我得以脱离这无边的忧苦大海。”他如此被请求时,代底耶之主怒目颤动,(作答)。

Verse 43

शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः । तप एव पुनश्चर्तुं व्यवस्यत महाबलः

虽有能力报复天界之王,那位大力的大阿修罗却转而决意再度修行苦行(tapas)。

Verse 44

ज्ञात्वा तस्य तु संकल्पं ब्रह्मा क्रूरतरं पुनः । आजगाम त्वरायुक्तो यत्रासौ दितिनंदनः

婆罗摩知晓他的决意后,神情更为严峻,急速前往那位底提之子所在之处。

Verse 45

ब्रह्मोवाच । किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः । तदहं ते पुनर्दद्मि कांक्षितं पुत्रमोजसा

婆罗摩说道:“我儿,你为何又要准备行持戒律与圣行?因此,我将以我的威力,再次赐你所渴望的儿子。”

Verse 46

वज्रांग उवाच । उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया । त्रासितेंद्रेण मामाह सा वरांगी सुतार्थिनी

金刚臂(Vajrāṅga)说道:“我起身之时,遵汝之命,自禅定三昧中出而见到她。那位肢体端严的女子,渴求得子,因被因陀罗所惊惧,便向我诉说。”

Verse 47

पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह । ब्रह्मोवाच । अलं ते तपसा वीर मा क्लेशे दुस्तरे विश

“赐我一子,名为多罗迦(Tāraka);噢祖父梵天(Brahmā),你已悦纳于我。”梵天说道:“勇士啊,你的苦行已足;莫再投入那难以承受的艰苦。”

Verse 48

पुत्रस्तु तारको नाम भविष्यति महाबलः । देवसीमंतिनीनां तु धम्मिल्लक विमोक्षकः

并将诞生一子,名多罗迦(Tāraka),力大无比;他将成为诸天女发辫髻结(dhammillaka)之解脱者。

Verse 49

इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम् । गत्वा तां नंदयामास महिषीं कर्शितांतराम्

既蒙如此告谕,阿修罗族(Daitya)之主便向其曾祖父顶礼;随后前往,使那位内心为忧苦所耗的王后得以欢悦。

Verse 50

तौ दंपती कृतार्थौ तु जग्मतुः स्वाश्रमं तदा । आहितं तु तदा गर्भं वरांगी वरवर्णिनी

于是夫妻二人,所愿既遂,便回到自己的修行林庵(āśrama)。就在那时,那位肢体端美、容色姝丽的女子怀上了胎儿。

Verse 51

पूर्णं वर्षसहस्रं तु दधारोदर एव हि । ततो वर्षसहस्रांते वरांगी सा प्रसूयत

确实,她在腹中怀胎整整一千年;待千年期满,那位肢体秀美的女子便诞下了孩子。

Verse 52

जायमाने तु दैत्ये तु तस्मिन्लोकभयंकरे । चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः

然而当那令诸界恐惧的达伊提亚降生之时,大地尽皆震动,浩瀚大海也翻涌而起。

Verse 53

चेलुर्धराधराश्चापि ववुर्वाताश्च भीषणाः । जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि

连群山也震颤,凛冽可怖的狂风呼啸而起。最上乘的牟尼仍继续诵持圣咒,而蛇类与野兽也发出哀号。

Verse 54

जहौ कांतिश्चंद्रसूर्यौ नीहारच्छादिता दिशः । जाते महासुरे तस्मिन्सर्वे चापि महासुराः

月与日都失却光辉,四方被薄雾遮蔽。当那大阿修罗诞生之时,诸多强大的阿修罗也一并聚集而起。

Verse 55

आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः । जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः

那时,阿修罗的妻子们也欢欣而至。她们沉浸于喜悦而歌唱,众多天女(阿普萨拉)亦成群起舞。

Verse 56

ततो महोत्सवे जाते दानवानां महाद्युते । विषण्णमनसो देवाः सहेंद्रा अभवंस्तदा

当那罗刹族(Dānava)的盛大庆典举行之时,噢,光辉无比者,诸天神祇——连同因陀罗——心中皆黯然忧惧。

Verse 57

वरांगी तु सुतं दृष्ट्वा हर्षेणापूरिता तदा । बहुमेने च दैत्येंद्रो विजातं तं तदा तया

于是,瓦兰吉(Varāṅgī)见到自己的儿子,便欢喜充满。那位代提耶之主也极为珍重她所诞下的孩子。

Verse 58

जातमात्रस्तु दैत्येंद्रस्तारकश्चोग्रविक्रमः । अभिषिक्तो सुरैर्मुख्यैः कुजंभमहिषादिभिः

他方才降生,塔罗迦(Tāraka)——代提耶之主、勇力凶猛者——便由诸首领为其灌顶立王,如库詹婆(Kujambha)、摩希沙(Mahiṣa)等。

Verse 59

सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे । स तु प्राप्तमहाराज्यस्तारको नृपसत्तम

在一切阿修罗的广大帝国之中——其势足以与大地相抗衡——塔罗迦,噢,诸王之最,确已获得至高的王权。

Verse 60

उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः । तारक उवाच । शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः

那位最尊贵的达那婆(Dānava)说出了合乎谋略之言。塔罗迦说道:“诸位阿修罗啊,请聆听——听我之语,噢,强力者们!”

Verse 61

वंशक्षयकरा देवाः सर्वेषामेव दानवाः । अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्

诸天(Deva)乃我族血脉的毁灭者——确乎是一切达那婆(Dānava)的毁灭者。依我族之法,彼此之间滋长了不灭的仇怨。

Verse 62

वयं तपश्चरिष्यामः सुराणां निग्रहाय तु । स्वबाहुबलमाश्रित्य सर्व एव न संशयः

“我们将修行苦行(tapas),为的是制伏诸天;倚仗自身臂力,我们众人必将如此——毫无疑虑。”

Verse 63

तच्छ्रुत्वा संमतं कृत्वा पारियात्रं ययौ गिरिं । निराहारः पंचतपाः पत्रभुग्वारिभोजनः

闻此言而允诺后,他前往帕里亚特拉(Pāriyātra)山。修持严酷苦行,长时断食,以叶为食,唯以清水为养。

Verse 64

शतंशतं समानां तु तपांस्येतान्यथाकरोत् । एवं तु कर्शिते देहे तपोराशित्वमागते

他如法修行这些苦行,历经百百千年。如此令身形枯槁之后,便证得“tap as之大藏”之境,成为苦行威力的浩瀚宝库。

Verse 65

ब्रह्मागत्याह दैत्येंद्रं वरं वरय सुव्रत । स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति

梵天(Brahmā)前来,对代底耶之王说道:“善守誓戒者啊,择取一愿。”他所求曰:“愿我不为任何众生所致死。”

Verse 66

तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम् । यतस्ततोपि वरय मृत्युं यस्मान्न शंकसे

于是梵天对他说:“凡有形之众生,死亡必定到来。因此你既不畏惧,就选择一种死亡作为恩赐吧。”

Verse 67

ततः संचिंत्य दैत्येंद्रः शिशोर्वै सप्तवासरात् । वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः

随后,魔族达底耶之主沉思片刻,因傲慢而迷惑,便求得在七日之后死于那孩童之手。

Verse 68

जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम् । अथाह मंत्रिणस्तूर्णं बलं मे संप्रयुज्यताम्

他口诵“唵,我将离去”,名为梵天的达底耶便回到自己的宫舍。继而对大臣们说:“速速调集我的军势!”

Verse 69

यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः । निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः

若你们愿行我所喜悦之事,噢诸天中最胜者,就当制伏阿修罗;当他们被降伏时,我心中便生起无比的欢喜。

Verse 70

तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः । सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्

听闻塔罗迦之言,名为格罗萨那的达那婆——达底耶王的统帅——立刻整备军队,令其待命出征。

Verse 71

आहत्य भेरीं गंभीरां दैत्यानाहूय सत्वरः । दशकोटीश्वरा दैत्या दैत्यानां चंडविक्रमाः

他击响低沉雄浑的战鼓,迅速召集诸达底耶(Daitya)——统御十俱胝之众的强大君主;在达底耶之中,他们皆以凶猛勇武著称。

Verse 72

तेषामग्रेसरो जंभः कुजंभोनंतरोऽसुरः । महिषः कुंजरो मेघः कालनेमिर्निमिस्तथा

在他们之中,最为首领者是阇婆(Jambha);其后是阿修罗俱阇婆(Kujambha)。又有摩醯沙(Mahiṣa)、昆阇罗(Kuñjara)、梅伽(Megha)、迦罗内弥(Kālanemi)以及尼弥(Nimi)。

Verse 73

मंथनो जंभकः शुम्भो दैत्येंद्रा दशनायकाः । अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः

又有曼陀那(Manthana)、阇婆迦(Jambhaka)、商婆(Śumbha)等达底耶之王——共为十位统帅;此外尚有成百上千者,力能与大地相匹。

Verse 74

गरुडानां सहस्रेण चक्राष्टकविभूषितः । सकूबरपरीवारश्चतुर्योजनविस्तृतः

其上饰以八重轮盘,又有一千迦楼罗(Garuḍa)随侍,并伴以俱婆罗(Kūbara)之眷从,广延四由旬之地。

Verse 75

स्यंदनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः । युक्ता रथास्तु ग्रसन जंभकौ जंभकुंभिनां

塔罗迦(Tāraka)的战车以虎、狮、驴与骆驼为轭而行;而阇婆与昆婆两魔,则各有战车,所驾之乘名为格罗萨那(Grasana)与阇婆迦(Jambhaka)。

Verse 76

मेघस्य द्वीपिभिर्युक्तः कूष्मांडैः कालनेमिनः । पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः

梅伽(Megha)随行有豹;迦罗尼弥(Kālanemi)则有库什曼达(Kūṣmāṇḍa)相伴。四牙者(Caturdaṃṣṭra)形如山岳,而尼弥沙(Nimeśa)确是一头雄伟巨象。

Verse 77

शतहस्ततुरंगस्थो मंथनो नाम दैत्यराट् । जंभकस्तूष्ट्रमारूढो गिरींद्राभं महाबलः

名为曼塔那(Manthana)的阿修罗王骑乘骏马,迅疾而强健;而强力的詹婆迦(Jambhaka),形如山王般雄伟,则骑乘骆驼。

Verse 78

शुंभो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः । प्रचंडाश्चित्रवर्माणः कुंडलोष्णीषभूषिताः

顺婆(Śumbha)骑乘公羊;其余诸众亦然,乘坐奇异坐骑。他们凶猛无比,披着斑斓甲胄,并以耳环与头巾为饰。

Verse 79

तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत । प्रमत्तमत्तमातंगतुरंगरथसंकुलम्

于是,那位阿修罗之狮的军势以可怖之相涌现——其中挤满狂乱如醉的巨象、骏马与战车。

Verse 80

प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम् । एतस्मिन्नंतरे वायुर्देवदूतोऽसुरालये

他启程与不死诸天(Amara)交战,军中队伍繁多、旌旗林立。其间,风神伐由(Vāyu)作为诸天的使者,来到阿修罗的居处。

Verse 81

दृष्ट्वा तद्दानवबलं जगामेंद्रस्य शंसितुं । स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः

见到那群达那婆(Dānava)的军势,他便前去禀告因陀罗。到达后,他进入大魂摩诃因陀罗(因陀罗)的神圣议会殿堂。

Verse 82

शशंस मध्ये देवानां तत्कार्यं समुपस्थितम् । तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः

在诸天众神之间,他禀告说所需之事已然临近。天帝闻之,仍合目不睁。

Verse 83

बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः । इंद्र उवाच । संप्राप्नोति विमर्दोयं देवानां दानवैः सह

在适当之时,臂力无双的因陀罗对布里哈斯帕提说道:“噢,布里哈斯帕提,诸天与达那婆之间的冲突如今已迫近。”

Verse 84

कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम् । एतच्छ्रुत्वा तु वचनं महेंद्रस्य गिरां पतिः

“此处当行何事?请以正当之策与可行之法告我。”听闻摩诃因陀罗之言,语主(布里哈斯帕提)……

Verse 85

इत्युवाच महाभागो बृहस्पतिरुदारधीः । बृहस्पतिरुवाच । सामपूर्वा श्रुता नीतिश्चतुरंगापताकिनी

于是福德具足、慧思高远的布里哈斯帕提开口说道。布里哈斯帕提曰:“以和解(sāma)为先的治国之道,我已习得——如四部军阵般列布,并高举其旌旗。”

Verse 86

जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी । सामभेदस्तथा दानं दंडश्चांगचतुष्टयम्

噢,诸天之最胜者,此乃欲求征服者之永恒方略:和解与离间,以及施赠与惩罚——此四者为成事之四支。

Verse 87

न सांत्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः । न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्

贪婪之人不受安抚;执著于一途(自利)者难以转变。于此,施赠亦难奏效于以强夺取者——那等公然掠夺的盗徒。

Verse 88

एकोभ्युपायो दंडोऽत्र भवतां यदि रोचते । एवमुक्तः सहस्राक्ष एवमेतदुवाच ह

“此处唯有一策——惩罚——若诸君以为可。”如是被陈述后,千眼者萨哈斯拉克沙(因陀罗)确实说出了这些话。

Verse 89

कर्त्तव्यतां च संचिंत्य प्रोवाचामरसंसदि । इंद्र उवाच । अवधानेन मे वाचं शृणुध्वं नाकवासिनः

他思量当行之事,便在诸天会中发言。因陀罗说道:“天界诸住者啊,请专心聆听我之言。”

Verse 90

भवंतो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः । स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः

诸君实为祭祀(yajña)之受享者——具神圣之灵,承自正当之族系。恒住于自身威光之中,常勤于护持并治理此世间。

Verse 91

क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम । आह्रियंतां च शस्त्राणि पूज्यंतां शस्त्रदेवताः

当备战启行,集结我的军队。取出诸般兵器,并礼敬守护兵器之神明。

Verse 92

वाहनानि विमानानि योजयद्ध्वं ममेश्वराः । यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः

“诸天之主啊,为我驾驭诸车与天行飞辇;立阎摩为军之统帅,速速出发,诸天居者!”

Verse 93

इत्युक्तास्समनह्यंत देवानां ये प्रधानतः । वाजिनामयुतेनाजौ हेमघंटा परिष्कृतम्

如是受命,诸神中最尊者皆整装待发;战场之上,万马列阵,金铃辉映。

Verse 94

नानाश्चर्यगुणोपेतं संप्राप्तं देवदानवैः । रथं मातलिना युक्तं देवराजस्य दुर्जयम्

具足种种奇妙功德者到来——由诸神与达那婆共携而至——乃帝释之战车,摩多梨所驾,威不可当,难以战胜。

Verse 95

यमो महिषमास्थाय सेनाग्रे समवर्त्तत । चंडकिंकरवृंदेन सर्वतः परिवारितः

阎摩乘水牛而立于军前,四面为凶猛的使者之众所环绕。

Verse 96

कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः । हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः

他燃起劫末所生的烈焰,充满整个天穹;火神护塔沙那端然而立,骑于山羊之上,手执长枪。

Verse 97

पवनोऽङकुशहस्तश्च विस्तारित महाजवः । भुजगेंद्रसमारूढो जलेशो भगवान्स्वयम्

婆伐那手持钩杖(安库沙),具广大迅疾之力,乘于蛇王之上;他自身即是水之主、神圣的阇勒沙。

Verse 98

नरयुक्ते रथे देवो राक्षसेशो वियच्चरः । तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः

罗刹之主威猛无比,行于虚空;他立于由人牵引的战车上,备战而待,令人战栗,手执锋利之剑。

Verse 99

महासिंहरथे देवो धनाध्यक्षो गदायुधः । चंद्रादित्यावश्विनौ च चतुरंगबलान्विताः

掌财之神执持钉锤,乘于巨大的狮车;月与日并诸阿湿毗尼亦在其侧,随行者具四部军阵。

Verse 100

सेनान्यो देवराजस्य दुर्जया भुवनत्रये । कोटयस्तास्त्रयस्त्रिंशद्देवदेवनिकायिनाम्

天帝因陀罗之诸将,三界之中不可征服;其所属诸天众部之军,合计达三十三俱胝。

Verse 101

हिमाचलाभे सितचारुचामरे सुवर्णपद्मामलसुंदरस्रजि । कृताभिरामो ज्वलकुंकुमांकुरे कपोललीलालिकदंबसंकुले

他光辉灿然——洁白如喜马拉雅——手执可爱的白色牦牛尾拂;颈佩清净华美的金莲花鬘;双颊点染炽亮的藏红花印记,芬芳引来蜂群嬉戏环绕。

Verse 102

स्थितस्तदैरावणनाम कुंजरे महामनाश्चित्रविभूषणांबरः । विशालवज्रः सुवितानभूषितः प्रकीर्णकेयूरभुजंगमंडलः

随后他立于名为爱罗婆那(Airāvaṇa)的神象之上——心志高贵,身着缀满奇妙宝饰的华服——手持巨大的金刚杵(vajra);上有华丽宝盖荫覆,周身环以散列的臂钏与如蛇般的饰环。

Verse 103

सहस्रदृग्वंदितपादपल्लवस्त्रिविष्टपे शोभत पाकशासनः । तुरंग मातंग कुलौघसंकुला सितातपत्त्रद्ध्वजशालिनी च

在三十三天(Triviṣṭapa)中,帕迦沙娑那(因陀罗)光耀显现——其莲芽般的足被“千眼者”礼敬。周围马群象众汇聚成海,白色华盖与旌旗使景象更显庄严。

Verse 104

बभूव सा दुर्जयपत्तिसंतता विभाति नानायुधयोधदुस्तरा । ततोश्विनौ च मरुतः ससाध्याः सपुरंदराः

随即出现一支不可战胜的军阵相续而生,光辉夺目、难以攻破,尽是执持种种兵器的勇士。其后,阿湿毗尼双神与摩鲁特众风神显现,并有萨陀耶诸神及普兰达罗(因陀罗,破城者)同来。

Verse 105

यक्षराक्षसगंधर्वा दिव्य नानास्त्रपाणयः । जघ्नुर्दैत्येश्वरं सर्वे संभूय तु महाबलाः

夜叉、罗刹与乾闼婆诸众——手持种种天界神兵——齐心会合;这些大力者同聚一处,诛杀了代提耶之主。

Verse 106

न चैवास्त्राण्यसज्जंत गात्रे वज्राचलोपमे । अथो रथादवप्लुत्य तारको दानवाधिपः

诸般兵器全然不能伤及其身;其躯如金刚之山。于是,达那婆之主塔罗迦从战车上一跃而下。

Verse 107

जघान कोटिशो देवान्करपार्ष्णिभिरेव च । हतशेषाणि सैन्यानि देवानां विप्र दुद्रुवुः

他仅以掌跟便击杀诸天,数以亿计。婆罗门啊,天众残军——屠戮之后所余者——惊惶溃散而逃。

Verse 108

दिशो भीतानि संत्यज्य रणोपकरणानि च । दृष्ट्वा तान्विद्रुतान्देवांस्तारको वाक्यमब्रवीत्

见诸天惧怖四散,弃却战具而奔逃,塔罗迦便开口说道。

Verse 109

मा वधिष्ठ सुरान्दैत्या वज्रांगाय च मंदिरे । शीघ्रमानीय दर्श्यंतां बद्धान्पश्यत्वयं सुरान्

“莫在金刚臂之神殿中杀害诸天,哦代底耶!速速将他们带来示之,使金刚臂得见这些被缚之天。”

Verse 110

लोकपालांस्ततो दैत्यो बद्ध्वा चेंद्रमुखान्रणे । सरुद्रान्सुदृढैः पाशैः पशुपालः पशूनिव

于是那代底耶在战场上缚住护世者——因陀罗等诸神;又以极坚牢的绳索,连鲁陀罗众亦尽缚之,如牧者系缚群畜。

Verse 111

स भूयो रथमास्थाय जगाम स्वकमालयं । सिद्धगंधर्वसंघुष्टं विपुलाचलमस्तकम्

随后他再次登上战车,前往自己的居所——在广阔山巅之上,回响着悉达与乾闼婆的歌声与呼唤。