
The Tārakāmaya War: Divine Mustering, Māyā Countermeasures, Aurva Fire, and Viṣṇu’s Slaying of Kālanemi
第41章描绘诸天为“塔拉迦摩耶之战”集结:因陀罗率队出征,诸方守护神(Lokapāla)分镇四维,日、月、风、火与伐楼那等宇宙之力亦投入战阵。阿修罗借由摩耶(Maya)施展幻力(māyā),诸天则以苏摩之霜与伐楼那之绳索(pāśa)破除迷幻,使真相重现。 其后插入教义性的长段,赞叹梵行(brahmacarya)与“意生之创化”,并以奥尔瓦(Aurva)及奥尔瓦之火的诞生为归结。此火被安置于大海之中,名为“巴达瓦穆卡”(Baḍavāmukha),作为末劫时将显现的潜藏烈焰。 战事再度升级,卡兰涅弥(Kālanemi)崛起并一度压制宇宙;终至毗湿奴——持杵者(Gadādhara)、三步遍行者(Trivikrama)——威力扩展,挥动神轮(cakra)斩杀卡兰涅弥。随后秩序复归:诸方守护重新就位,祭仪法度得以重申,毗湿奴与梵天同返梵天界(Brahmaloka)。
Verse 1
पुलस्त्य उवाच । आदित्या वसवो रुद्रा अश्विनौ च महाबलौ । सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम्
普拉斯提亚说道:阿底提耶众、婆苏众、鲁陀罗众,以及大力的阿湿毗尼双神——连同其军旅与随从——依次整装披甲,各各按其次第而备。
Verse 2
पुरुहूतश्च पुरतो लोकपालः सहस्रदृक् । ग्रामणीः सर्वदेवानामारुरोह वरद्विपम्
行列之前是普鲁呼多(因陀罗),护世之主,千眼之神,诸天之统领;他登上那赐福施愿的殊胜神象。
Verse 3
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरकेतनः । सुरारुचक्रचरणो हैमच्छत्रपरिष्कृतः
在他左侧立着他的战车,车上悬挂着群鸟之最的徽记;其轮辐与饰件放射天界光辉,并以金色华盖庄严装点。
Verse 4
देवगंधर्वयक्षौघैरनुयातः सहस्रशः । दीप्तिमद्भिश्च स्वर्गस्थैर्ब्रह्मर्षिभिरभिष्टुतः
成千上万的天神、乾闼婆与夜叉之众随行其后;居于天界、光辉炽盛的梵仙们亦以赞颂礼敬他。
Verse 5
वज्रविस्फारितोद्भूतैर्विद्युदिंद्रायुधप्रभैः । युक्तं बलाहकगणैः पर्वतैरिव कामगैः
其中充满成簇的雨云,光耀如闪电与因陀罗金刚之辉;它们随意而行,宛若能任意游走的群山。
Verse 6
यमारूढः स भगवान्पर्येति सकलं जगत् । हविर्दानेषु गायंति विप्रा मखमुखेस्थिताः
那位可敬的主乘于阎摩之上,周行遍历整个世界;在献供酥油等供品之时,立于祭祀之口的婆罗门吟诵赞歌,颂扬其德。
Verse 7
स्वर्गसंग्रामयातेषु देवतूर्यनिनादिषु । सेंद्रं तमुपनृत्यंति शतशो ह्यप्सरोगणाः
当天界的战阵行进,诸天乐器之声轰然回荡之时,成百的阿普萨拉众环绕起舞——帝释天因陀罗亦与其随从同在。
Verse 8
केतुना नागराजेन राजमानो यथा रविः । युक्तो हयसहस्रेण मनोमारुतरंहसा
他与蛇王计都同辉,灿然如日;驾驭千马,疾驰如心念与风之迅速。
Verse 9
सम्यग्रथवरो भाति युक्तो मातलिना तदा । कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा
那时,妙车由摩多利妥善驾驭而熠熠生辉;须弥山被其光辉完全环绕,炽然如同太阳自身的威光。
Verse 10
यमस्तु दंडमुद्यम्य कालयुक्तं च मुद्गरं । तस्थौ सुरगणानीके दैत्यानां चैव दर्शयन्
然而阎摩举起刑杖,又擎起被“时”之威力加持的钉锤,立于诸天军阵之中,指示那些达伊提耶众。
Verse 11
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः । शंखमुक्तांगदधरो बिभ्रत्तोयमयं वपुः
他具足四大海洋,又有舔舐水面的诸蛇相随;佩持海螺、珍珠与臂钏,承载着由水所成的圣身。
Verse 12
कालपाशान्समाविध्य हयैः शशिकरोपमैः । वाय्वीरितजलाकारैः कुर्वन्लीलाः सहस्रशः
他以如月光般辉耀的骏马刺破时之绳索;又化作被风驱动的水之形态,演现千千万万种神圣戏游。
Verse 13
पांडुरोद्धूतवसनः प्रवालरुचिरांगदः । मणिश्यामोत्तमवपुर्हारकेणार्चितोदरः
他身披淡白、被风扬起的衣裳;臂钏灿然,如珊瑚之光。其胜妙之身深黛若蓝宝石,腰间又以华美项链庄严。
Verse 14
वरुणः पाशधृङ्मध्ये देवानीकस्य तस्थिवान् । युद्धवेलामभिलषन्भिन्नवेल इवार्णवः
执持绳索的伐楼那立于诸天军阵之中;他渴望战斗的潮汐,如大海冲破海岸之时。
Verse 15
यक्षराक्षससैन्येन गुह्यकानां गणैरपि । युक्तश्च शंखपद्माभ्यां निधीनामधिपः प्रभुः
他由夜叉与罗刹的军队护从,又有古希耶迦众相随;这位主宰——诸宝之王——并与两位宝藏神祇商佉与莲华(Padma)同在。
Verse 16
राजराजेश्वरःश्रीमान्गदापाणिरदृश्यत । विमानयोधी धनदो विमाने पुष्पके स्थितः
那位尊贵的万王之王显现,手执金刚杵般的钺槌。赐财之神俱毗罗(Kubera),空中战车的勇士,端坐于普什帕迦(Puṣpaka)天舟之中。
Verse 17
स राजराजः शुशुभे यक्षेशो नरवाहनः । पूर्वपक्षे सहस्राक्षः पितृराजश्च दक्षिणे
那位万王之王光辉灿然:俱毗罗(Kubera),夜叉之主,乘于人形坐骑。东方立着千眼者(因陀罗 Indra),南方则是祖灵之王阎摩(Yama)。
Verse 18
वरुणः पश्चिमे पक्ष उत्तरे नरवाहनः । चतुःपक्षाश्च चत्त्वारो लोकपाला महाबलाः
伐楼那(Varuṇa)镇守西方,北方则为那罗婆诃那(Naravāhana)。于是四方之中,四位大力的护世者巍然安立。
Verse 19
आत्मदिक्षुचरंतश्चतस्यदेवबलस्यते । सूर्यः सप्ताश्वयुक्तेन रथेनानिलगामिना
凭借那神圣威力,各自循其方位而行。太阳乘七马所驾之车前进,疾如风行。
Verse 20
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः । उदयास्तमयौ चक्रे मेरुपर्यन्तगामिना
它以光辉炽盛,万缕光芒照耀,遂成日出与日没;其行至须弥山(Meru)之境而往复。
Verse 21
त्रिदिव द्वारचक्रेण तपसा लोकमव्ययम् । सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा
凭借苦行,以天门之轮为凭,他抵达不坏之境——以具千道光芒的威光灿然辉耀。
Verse 22
चचार मध्ये देवानां द्वादशात्मा दिवाकरः । सोमः श्वेतहयो भाति स्यंदने शीतरश्मिमान्
在诸天神众之中,太阳以十二重本性运行;而月亮——清凉之光——在白马所牵之车上熠熠生辉。
Verse 23
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् । तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम्
以充盈雪凉与清润之辉光,他令世界欢悦——那随月宿合行、清凉放光的“二生者之主”月神。
Verse 24
शशच्छायांकिततनुं नैशस्य तमसः क्षयम् । ज्योतिषामीश्वरं व्योम्नि रसदं प्रभुमव्ययम्
其身带月辉之印,能灭尽夜之黑暗;为苍穹诸光明之主——赐甘悦者——不坏的至尊主宰。
Verse 25
ओषधीनां पवित्राणां निधानममृतस्य च । जगतः परमं भागं सौम्यं सर्वमयं रसम्
他是圣药草与甘露(amṛta)之宝藏;是世间至上而柔和的一分,是遍满万有的生命之汁。
Verse 26
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् । यः प्राणः सर्वभूतानां पंचधा भिद्यते नृषु
达那婆众看见苏摩,立于彼处,如霜寒之兵。彼为一切众生之命息,而在人中分为五种。
Verse 27
सप्तस्कंधगतो लोकांस्त्रीन्दधार चकार च । यमाहुरग्निकर्त्तारं सर्वप्रभवमीश्वरम्
入于七处境界之中,彼既扶持又造作三界;人称其为造火者、自在之主、万有之本源。
Verse 28
सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते । यं वदंति चलं भूतं यं वदंत्यशरीरिणम्
其本源由圣言宣说,遍满七音;人称之为动者之灵,亦称之为无身者。
Verse 29
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् । स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा
人称其为婆由(风):行于虚空,迅疾无比,由声而生;它是一切众生之寿命气息,为自身本有之力所驱。
Verse 30
ववौ प्रव्यथयन्दैत्यान्प्रतिलोमं सतोयदः । मारुतो देवगंधर्वैर्विद्याधरगणैः सह
于是风逆流而吹,极大地折磨诸代底耶;并与诸天、乾闼婆及持明者众同在。
Verse 31
चिक्रीड रश्मिभिश्शुभ्रैर्निर्मुक्तैरिव पन्नगैः । सृजंतः सर्पपतयस्तीव्रं रोषमयं विषम्
他们嬉戏于皎洁的光芒,如同被放出的群蛇;而诸蛇之主在吐出之时,释放出由忿怒所生的猛烈毒液。
Verse 32
शरभूता विलग्नाश्च चेरुर्व्यात्तानना दिवि । पर्वताश्च शिलाशृंगैः शतशाखैश्च पादपैः
他们如沙罗婆般攀附其上,张口大张,在天空中游走;连群山亦然——带着岩石的峰顶与百枝之树——都被驱动而动。
Verse 33
उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम् । यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः
达那婆之军整装待发,欲击诸天众。正是那位主宰——赫利湿计沙、莲脐者、三步遍行者——乃胜出而常在之神。
Verse 34
युगांते कृष्णवर्त्मा च विश्वस्य जगतः प्रभुः । सर्वयोनिः समधुहा हव्यभुक्क्रतुसंस्थितः
在劫末之时,宇宙与一切世界之主——其行迹幽暗而玄妙——为万有之源、诸胎之本;他采撷众生之蜜(精髓),享受祭祀供献,并安住于祭仪之中。
Verse 35
भूम्यम्बुव्योमभूतात्मा श्यामः शांतिकरोरिहा । अविघ्नममरादीनां चक्रे चक्रगदाधरः
那位黝黑之主——以大地、流水与苍穹为自性,赐予安宁——在此令诸天等众无有障碍;他执持神轮与神杵(钉锤)。
Verse 36
सव्येनालभ्य महतीं सर्वायुधविनाशिनीं । करेण कालीं वपुषा शत्रुकालप्रदां गदां
他以左手触及那柄伟大的钉锤——能毁灭一切兵器——形色幽黑,赐敌以死期;随即将其牢牢握于掌中。
Verse 37
शेषैर्भुजैः प्रदीप्ताभैर्भुजगारिध्वजः प्रभुः । दधारायुधजालानि शार्ङ्गादीनि महाबलः
以其余诸臂炽然放光,主宰——以蛇为旗徽——凭大力执持众多兵器,自圣弓Śārṅga起,诸般具足。
Verse 38
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम् । भुजगेंद्रेण वदने निविष्टेन विराजितम्
他是迦叶波之子,属“再生者”的婆罗门,亦为食蛇者;而当蛇中王者安住其口中时,他更显辉耀。
Verse 39
अमृतारंभसंयुक्तं मंदराद्रिमिवोच्छितम् । देवासुरविमर्देषु बहुशो दृष्टविक्रमम्
它与搅乳海求甘露之事相连,高耸如曼陀罗山;在天神与阿修罗的冲突中,它的威力已屡次为人所见。
Verse 40
महेंद्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् । विचित्रपत्रवसनं धातुमंतमिवाचलम्
为求甘露,摩诃因陀罗(因陀罗)以金刚杵为其作记;它宛如矿藏丰饶之山,披覆着斑斓奇妙、如叶纹般的色彩外衣。
Verse 41
स्फीतक्रोधावलंबेन शीतांशुसमतेजसा । भोगिभोगावसक्तेन मणिरत्नेन भास्वता
凭借汹涌之怒而支撑,具与月光等同的辉耀,又以宝珠宝石而灿然——光明夺目,依附于巨蛇的盘绕之中。
Verse 42
पक्षाभ्यां चारुपत्राभ्यामावृतं दिवि लीलया । युगांते सेंद्रचापाभ्यां तोयदाभ्यामिवांबरम्
以两翼如美叶,嬉然遮覆天穹;至劫末之时,苍穹仿佛被两团携带因陀罗虹弓的雨云所裹。
Verse 43
नीललोहितपीताभिः पताकाभिरलंकृतम् । अरुणावरजं श्रीमानारुह्य समरे प्रभुः
以蓝、红、黄诸旗幡庄严装饰,吉祥光耀的主乘上阿鲁那之弟,步入战阵。
Verse 44
सुवर्णवर्णवपुषं सुपर्णं खेचरोत्तमम् । तमन्वयुः सुरगणा मुनयश्च समाहिताः
诸天与诸牟尼心神安住,随从其后——其身金色,具翼飞翔,为诸空行者之最胜。
Verse 45
गीर्भिः परममंत्राभिस्तुष्टुवुश्च गदाधरम् । तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम्
他们以圣言与最上妙咒赞颂持杵者伽达陀罗(毗湿奴);其侧有毗舍罗伐那(俱毗罗)相随,前有毗婆斯伐多(阎摩)为先导。
Verse 46
वारिराजपरिक्षिप्तं देवराजविराजितम् । पवनाबद्धनिर्घोषं संप्रदीप्त हुताशनम्
为王者之水所环绕,因天帝之光辉而灿然;随风激荡而轰鸣,火焰炽盛,彻底燃起。
Verse 47
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसावृतम् । बलं बलवदुद्रिक्ते युद्धाय समवर्तत
于是那雄浑之力——被毗湿奴(胜者、忍者、光耀者)的辉煌所覆——全然奋起,整装待战。
Verse 48
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत । स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे
布里哈斯帕提宣言:“愿诸天安泰。”乌沙那(舒克罗阿阇梨)随即答曰:“愿诸代提耶安泰。”
Verse 49
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तथा । सुराणामसुराणां च परस्परजयैषिणाम्
由双方之力,亦生起猛烈喧腾的争战——天众与阿修罗之间——彼此皆求胜过对方。
Verse 50
दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यमाः । समीयुर्युध्यमाना वै पर्वता इव पर्वतैः
诸达那婆挥舞种种兵器,与诸天交战相撞——宛如群山与群山相击。
Verse 51
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ । धर्माधर्मसमायुक्तं दर्पेण विनयेन च
那场由天神与阿修罗交织而起的战斗,显得极其奇妙;其中掺杂着正法与非法,也同样带着傲慢与谦卑的气息。
Verse 52
ततो हयैः प्रजवितैर्वारणैश्च प्रचोदितैः । उत्पतद्भिश्च गगने सासिहस्तैः समंततः
随后,战马被催驰,战象被驱进;四面八方,执剑的勇士腾跃上空,战势便在周遭汹涌翻卷。
Verse 53
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः । चापैर्विस्फार्यमाणैश्च पात्यमानैः सुदारुणैः
棍棒被掷出,箭矢成阵飞落;弓弦震响,弓身回拉;凶猛兵刃接连击倒众人——战斗愈发狂烈。
Verse 54
तद्युद्धमभवद्घोरं देवदानवसंकुलम् । जगतस्त्रासजननं युगसंवर्तकोपमम्
那场战斗变得骇人,天神与达那婆充塞其间;它令世间万有生惧,宛如一劫终末宇宙坏灭时的狂怒。
Verse 55
स्वहस्तमुक्तैः परिघैर्मुद्गरैश्चैव पर्वतैः । दानवास्समरे जघ्नुर्देवानिंद्रपुरोगमान्
在战场上,达那婆以亲手掷出的铁杵与铁棒,又以巨槌,甚至以山岳为器,击倒了诸天——以因陀罗为首。
Verse 56
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः । विषण्णवदना देवा जग्मुरार्तिं परां मृधे
众神被征服了迦尸城的强大达纳瓦人击倒,面带绝望,在战斗中陷入了极度的痛苦之中。
Verse 57
ते चास्त्रशूलमथिताः परिघैर्भिन्नमस्तकाः । भिन्नोरस्का दितिसुतैः स्रवद्रक्ता रणे बहु
他们被武器和三叉戟震慑,头颅被铁棒击碎,胸膛被迪蒂之子撕裂,在战场上流血不止。
Verse 58
सूदिताः शरजालैश्च निर्यत्नाश्च शरैः कृताः । प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितम्
他们被箭雨折磨,因箭矢而变得无助,陷入了恶魔的幻象之中,完全无法行动或动弹。
Verse 59
उत्तंभितमिवाभाति निष्प्राण सदृशाकृति । बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम्
众神的大军仿佛被支撑着一般,形同死尸,因为阿修罗毫不费力地使众神的武器失效了。
Verse 60
दैत्यचापच्युतान्घोरांश्छित्वा वज्रेण तान्शरान् । शक्रो दैत्यबलं घोरं विवेश बहुलोचनः
因陀罗(千眼者)用金刚杵斩断了恶魔弓箭射出的可怕箭矢,冲入了可怕的恶魔大军之中。
Verse 61
स दैत्यप्रमुखान्सर्वान्हत्वा दैत्यबलं महत् । तामसेनास्त्रजालेन तमोभूतमथाकरोत्
他诛灭诸位达伊提耶的首领与强大的阿修罗军势,继而以“昏暗(Tāmāsa)”之兵网,将他们尽皆沉入黑暗之中。
Verse 62
तेऽन्योन्यं नान्वबुध्यंत दैत्यानां वाहनानि च । घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा
他们彼此不能相认——连达伊提耶的坐骑也辨不清——因普鲁胡塔(因陀罗)的光辉使他们陷入可怖的黑暗之中。
Verse 63
मायापाशैर्विमुक्तास्तु यत्नवंतः सुरोत्तमाः । शिरांसि दैत्यसंघानां तमोभूतान्यपातयन्
诸天中最卓越者既脱离幻力(māyā)之缚,奋力而战,使那已陷入黑暗的阿修罗众军之首级纷纷坠落。
Verse 64
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा । पेतुस्ते दानवास्सद्यश्छिन्नपक्षा इवाद्रयः
那些达那婆被那带着青蓝光泽的黑暗击倒而昏迷,立刻坠落,宛如被斩断双翼的群山。
Verse 65
तत्राभिभूतदैत्यैंद्रमंधकारमिवांतरं । दानवं देहसदनं तमोभूतमिवाभवत्
在那里,当达那婆之主被压制时,他内在的空域仿佛为黑暗所覆;而那达那婆的身体——这具身之居处——也似乎化作黑暗本身。
Verse 66
तथाऽसृजन्महामायां मयस्तां तामसीं दहन् । युगांतोद्योतजननीं सृष्टा मौर्वेण वह्निना
于是,摩耶生出大摩耶;他以由穆尔瓦所生之火焚尽那昏暗的惰性之力(tāmasī),并显现出在劫末照耀的烈焰之母。
Verse 67
स ददाह च तां शाक्रीं माया मयविकल्पिता । दैत्याश्चादित्यवपुषा सद्य उत्तस्थुराहवे
他焚毁了那幻相——由幻术所造、宛如因陀罗的显现;而诸达那婆化作阿底提耶诸神之形,立刻起身投入战阵。
Verse 68
मायां मौर्वीं समासाद्य दह्यमाना दिवौकसः । भेजिरे चंद्रविषयं शीतांशुसलिलह्रदम्
诸天被灼热所逼,遭遇名为摩尔维的摩耶时,便奔向月界——那清凉光辉者之水所盈满的湖泊。
Verse 69
ते दह्यमाना और्वेण वह्निना नष्टचेतसः । शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः
诸天在奥尔瓦之火中灼烧,心神失措;他们受苦求庇,便赞颂金刚持者瓦吉林(因陀罗)。
Verse 70
संतप्ते मायया सैन्ये हन्यमाने च दानवैः । चोदितो देवराजेन वरुणो वाक्यमब्रवीत्
当军队被摩耶所灼、又被达那婆击杀之时,伐楼那在天众之王的催促下,说出了这些话。
Verse 71
पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् । उर्वः स पूर्वं तेजस्वी सदृशो ब्रह्मणो गुणैः
在远古之时,噢释迦罗(Śakra),一位梵仙(Brahmarṣi)之子修行了极其严酷的苦行(tapas)。昔日,那光辉的乌尔瓦(Urva)在德性上可与梵天(Brahmā)相类。
Verse 72
तं तपंतमिवादित्यं तपसा जगदव्ययं । उपतस्थुर्मुनिगणा देवा देवर्षिभिः सह
当他以苦行(tapas)如太阳般炽燃,并以此护持不朽的世界时,众多牟尼圣者与诸天(deva),连同天仙(devarṣi),前来侍奉于他。
Verse 73
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः । ॠषिं विज्ञापयामास पुरा परमतेजसम्
而希兰尼亚迦湿布(Hiraṇyakaśipu)亦然——那位达那婆(Dānava)之王、众达那婆之主——昔日曾向一位光辉至极的圣仙(ṛṣi)陈请。
Verse 74
ऊचुर्ब्रह्मर्षयस्ते तु वचनं धर्मसंहितम् । ॠषिवंशेषु भगवंश्छिन्नमूलमिदं कुलं
于是那些梵仙(Brahmarṣi)说出契合正法(dharma)之语:“噢有福者,在诸圣仙(ṛṣi)的族系之中,此家族的根脉已被斩断。”
Verse 75
एकस्त्वमनपत्यश्च गोत्रा याऽन्यो न विद्यते । कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे
你孤身一人,且无子嗣;你的氏族(gotra)再无他人。然而你却持守童贞之誓(kaumāra-vrata),只是一味随行于艰苦之中。
Verse 76
बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठंति विविक्तानि विना प्रजाः
许多婆罗门圣贤的族系——其心已被调御——仍如“单一之身”的群体般独住幽寂,离群而无子嗣。
Verse 77
एवंभूतेषु सर्वेषु पुत्रैर्मे नास्ति कारणम् । भवांश्च तापसश्रेष्ठः प्रजापति समद्युतिः
既然我的诸子皆如此,我在他们之中并无足够的依凭。唯有你——苦行中最胜者——乃是般若波罗蜜之主(Prajāpati),光辉与我等同。
Verse 78
तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना । समाधत्स्वोर्जितं तेजो द्वितीयां कुरु वै तनुं
因此,令你的族系运转兴起;以自身之力扩展自身。收摄并凝聚你那雄浑的威光,确然造就第二之身。
Verse 79
स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः । जगर्ह तानृषिगणान्वचनं चेदमब्रवीत्
诸圣仙如此劝说之后,那位圣者心中受击,便呵责那群仙人,并说出如下言辞。
Verse 80
यथा हि विहितो धर्मो मुनीनां शाश्वतः पुरा । आर्षं हि केवलं कर्म वन्यमूलफलाशिनः
因为诸牟尼的永恒法则在远古已被制定:他们唯行圣仙之业,只以林中根与果为食。
Verse 81
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः । ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत्
出自梵天本源、能自制的婆罗门,若善修梵行(brahmacarya),其清净誓愿甚至能感动梵天自身。
Verse 82
जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः । अस्माकं च वने वृत्तिर्वनाश्रमनिवासिनां
居于家住期(gṛhastha-āśrama)者,据说有三种生计之道;而我们住于林栖期(vanāśrama)者,生计便在森林之中。
Verse 83
अब्भक्षा वायुभक्षाश्च दंतोलूखलिनस्तथा । अश्मकुट्टादयो यत्र पंचाग्नितपसश्च ये
有的苦行者唯以水为食,有的唯以风为食;亦有以齿为臼而行苦行者,有以石捣食者;并有修行“五火苦行”(pañcāgni-tapas)者。
Verse 84
एते तपसि तिष्ठंतो व्रतैरपि सुदुश्चरैः । ब्रह्मचर्यं पुरस्कृत्य प्रार्थयंति परां गतिम्
他们安住于苦行,亦守持极难之誓;以梵行为先,祈求至上的归趣与境界。
Verse 85
ब्रह्मचर्याद्ब्रह्मणस्य ब्राह्मणत्वं विधीयते । एवमाहुः परे लोके ब्राह्मचर्यविदो जनाः
由梵行(brahmacarya),方能确立一人之婆罗门身份;在更高的世界中,真正通达梵行者如是宣说。
Verse 86
ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि ते स्थिताः
法(Dharma)安住于梵行(brahmacarya);苦行(tapas)亦立于梵行。凡安住梵行的婆罗门,亦得安住于天界。
Verse 87
नास्ति योगं विना सिद्धिर्नास्ति योगं विना यशः । नास्ति लोके यशोमूलं ब्रह्मचर्यात्परंतपः
离开瑜伽便无成就(siddhi),离开瑜伽便无名望。在此世间,真正声名之根本乃是梵行(brahmacarya),噬敌者啊。
Verse 88
यो निगृह्येंद्रियग्रामं भूतग्रामं च पंचकम् । ब्रह्मचर्यं समाधत्ते किमतः परमं तपः
能制御诸根之群,又摄持五大之聚,并坚定奉行梵行者——还有何种苦行能高于此?
Verse 89
अयोगकेशधरणमसंकल्प व्रत क्रिया । अब्रह्मचर्या चर्या च त्रयं स्याद्दंभसंज्ञितं
无真实瑜伽而披结发,无真诚意愿而行誓戒与仪轨,以及违犯梵行的行径——此三者名为伪善(dambha)。
Verse 90
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः । नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा
妻室何在?夫妇之合何在?情感又何来颠倒?诚然,此乃意生之众——由梵天(Brahmā)以心念所造。
Verse 91
यद्यस्ति तपसो वीर्यं युष्माकं विजितात्मनाम् । सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा
若你们这些已克胜自心者确具苦行之威力,就当依普罗阇波提(Prajāpati)的生化之业,创造由意念所生的诸子。
Verse 92
मनसा निर्मिता योनिराधातव्या तपस्विभिः । नो दारयोगं बीजं च व्रतमुक्तं तपस्विनां
对苦行者而言,当安立的“胎藏”乃由心意所造;对修苦行者,并未宣说与妻合一或播下种子为其誓戒。
Verse 93
यदिदं लुप्तधर्माख्यं युष्माभिरिह निर्भयैः । व्याहृतं सद्भिरत्यर्थमसद्भिरिव संमतं
此教法名为“失落之法”(失传的达摩),你们在此无畏宣说;虽为善者再三郑重阐明,如今却仿佛被恶人所认可一般。
Verse 94
वपुर्दीप्तांतरात्मानमेष कृत्वा मनोमयं । दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहं
既已塑成此具光辉之身、内里明耀、由意念所生的存在,我将不与妻合而生——创造一子,乃我自身之芽蘖。
Verse 95
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति । प्राजापत्येन विधिना दिधक्षंतमिव प्रजाः
如是,我之自性将生出第二自性——依普罗阇波提所立之法——令众生出现,宛如点燃而使其入于存在。
Verse 96
वरुण उवाच । उर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने । ममंथैकेन दर्भेण पुत्रस्य प्रसवारणिं
伐楼那说:“乌尔瓦希沉浸于苦行(tapas)之中,将大腿置于祭火(yajña)之上;又以一茎达尔婆草(darbha)搅转生子之火钻(arani)。”
Verse 97
तस्योरुं सहसा भित्वा वरोऽसौ ह्यग्निरुत्थितः । जगतो दहनाकांक्षी पुत्रोग्निस्समपद्यत
他的大腿骤然裂开,那卓绝之火果然跃然而出;渴望焚烧世界,他遂成其子——阿耆尼(Agni)。
Verse 98
उर्वस्योरुं विनिर्भिद्य और्वो नामांतकोऽनलः । दिधक्षुरिव लोकांस्त्रीन्जज्ञे परमकोपनः
劈开乌尔瓦之腿,诞生了名为奥尔瓦(Aurva)的炽焰之灵,如毁灭之火;盛怒至极,仿佛要焚尽三界。
Verse 99
उत्पद्यमानश्चोवाच पितरं दीनया गिरा । क्षुधा मे बाधते तात जगद्भक्षेत्यजस्व मां
在被生出之际,他以凄楚之声对父亲说道:“父亲啊,饥饿折磨着我。放我去吧,让我吞噬诸世界。”
Verse 100
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश । निर्दहन्सर्वभूतानि ववृधे सोंतकोपमः
火焰直冲天界,向十方铺展,焚烧一切众生;他愈发增长,宛如宇宙劫灭之火的狂怒。
Verse 101
एतस्मिन्नंतरे ब्रह्मा मुनिमुर्वं समागतः । उवाच वार्यतां पुत्रो जगतस्त्वं दयां कुरु
其间,梵天走近圣贤乌尔瓦,说道:“约束你的儿子;对世间施以慈悲。”
Verse 102
अस्यापत्पस्यते विप्र करिष्ये साह्यमुत्तमं । तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर
婆罗门啊,见他遭此不幸,我将施以最上妙的援助。此言真实无妄,吾子——请听,善言者之最。
Verse 103
और्व उवाच । धन्योस्म्यनुगृहीतोस्मि यन्मे त्वं भगवन्शिशोः । मतिमेतां ददासीह परमात्मन्हिताय वै
奥尔瓦说道:“我真有福,我确已蒙恩,主啊;因为你在此赐我此等明悟,为至上真我之利益,并令我归敬于祂。”
Verse 104
प्रभातकाले संप्राप्ते कांक्षितव्ये समागमे । भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्
当黎明时分到来、所盼的相会临近之际,那儿子——以供献使主欢喜之后——将因凯尔哈维亚诸族而得安乐。
Verse 105
कुत्र चास्य निवासः स्याद्भोजनं तु किमात्मकम् । विधास्यतीह भगवान्वीर्यतुल्यं महौजसः
他的居处将在哪里?他的饮食又是何等性质?大有光辉的世尊,将如何在此安立一个与其自身威力相等的对等者?
Verse 106
ब्रह्मोवाच । बडवामुखे च वसतिः समुद्रे वै भविष्यति । ममयोनिर्जलं विप्र तच्चामेयं व्रजत्वयं
梵天说道:“在大海之中,确有一处居所,名为马口(Baḍavāmukha)。婆罗门啊,此水出自我的本源之胎,广大无量——你当携此而行,继续前往。”
Verse 107
तत्राऽयमास्ते नियतं पिबन्वारिमयं हविः । तद्वारिविस्तरं विप्र विसृजाम्यालयं च तम्
他便在彼处恒常安住,守持节制,以水为供而饮。婆罗门啊,我放开那一片水域的广大,也一并放舍那处居所。
Verse 108
ततो युगांते भूतानामेष चाहं च पुत्रक । सहितो विचरिष्यावो निष्पुराणकराविह
随后,在劫末之时,孩子啊,此者与我将同游于此,使世间不复存有诸《往世书》(Purāṇa)。
Verse 109
एषोग्निरंतकाले तु सलिलाशी मया कृतः । दहनः सर्वभूतानां सदेवासुररक्षसाम्
此火在坏灭之时,我令其吞饮诸水;它将成为焚烧一切众生者——诸天(deva)、阿修罗(asura)以及罗刹(rākṣasa)亦然。
Verse 110
एवमस्त्विति तं सोग्निः संवृतज्वालमंडलः । प्रविवेशार्णवमुखं नत्वोर्वं पितरं प्रभुम्
“愿如是。”那火说道,收敛其焰轮;并向其父主宰乌尔瓦(Urva)顶礼后,便进入大海之口。
Verse 111
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः । और्वस्याग्नेः प्रभावज्ञाः स्वांस्वां गतिमुपागताः
随后梵天离去,诸位大圣仙也都散去;他们深知奥尔瓦之火的威力,便各自回到自己的清净住处。
Verse 112
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् । उर्वं प्रणतसर्वांगो वाक्यमेतदुवाच ह
那时,希兰尼亚迦希布见到这伟大奇迹,便五体投地顶礼,随后说出如下言辞。
Verse 113
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् । तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः
噢,世尊,此乃举世为证的奇妙大事。噢,最胜牟尼,由于你的苦行,祖父梵天已彻底欢喜满足。
Verse 114
अहं तु तव पुत्रस्य तव चैव महाव्रत । भृत्य इत्यवगंतव्यः श्लाघ्यस्त्वमिह कर्मणा
至于我,当被视为你的仆从——既是你之子之仆,也是你之仆,噢,大誓者。你在此以其行持,实堪称赞。
Verse 115
तन्मां पश्य समापन्नं तवैवाराधने रतम् । यदि सीदेन्मुनिश्रेष्ठ तवै वस्यात्पराजयः
请看我如今前来,唯以奉事与礼拜你为乐。噢,最胜圣仙,若我遭难或失利,那败辱唯归于你。
Verse 116
उर्व उवाच । धन्योस्म्यनुगृहीतोस्मि यस्य तेऽहं गुरुर्मतः । नास्ति ते तपसानेन भयं चैवेह सुव्रत
乌尔瓦说道:“我真是有福,蒙受恩宠,因为你以我为师。凭你这般苦行,守誓者啊,在此你无所畏惧。”
Verse 117
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम् । निरिंधिनामग्निमयीं दुःस्पर्शां पावकैरपि
你当摄取那由我之子所造的同一幻力(māyā)——无须燃料而自成火性之威,难以触及,连火焰也不能触碰。
Verse 118
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे । रक्षिष्यत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति
她将成为制御之力,用以约束你自身的族系;她护持你这一方,并将敌对之方焚尽无余。
Verse 119
वरुण उवाच । एषा दुर्विषहा माया देवैरपि दुरासदा । और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना
伐楼那说道:“此幻力(māyā)极难承受,连诸天也难以降伏。久远以前,它由奥尔瓦所造,即由乌尔瓦苏之子帕瓦卡所成。”
Verse 120
तस्मिंस्तु व्यथिते दैत्ये निर्वीर्यैषा न संशयः । शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा
然而当那位阿修罗族(Daitya)受苦扰时,她便失却威能,毫无疑问;因为先前她曾被赐以诅咒,正是由创造她的那同一光辉所下。
Verse 121
यद्येषा प्रतिहंतव्या कर्तव्यो भगवान्सुखी । दीयतां मे सखो शक्र तोययोनिर्निशाकरः
若她确须被制止或击退,而要使那位至福的主欢喜,那么请赐予我吧,朋友释迦罗——那从大海而生的月神尼沙迦罗。
Verse 122
तेनाहं सहसं गम्य यादोभिश्च समावृतः । मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः
因此我将立刻前往,周围簇拥着水族众生;凭你的恩赐,我必摧毁此幻相——毫无疑虑。
Verse 123
एवमस्त्वितिसंहृष्टः शक्रस्त्रिदशवर्धनः । संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्
“如是便好。”释迦罗(因陀罗)欢喜地说道,增益诸天者;遂命苏摩先行赴战,执持寒冷之兵。
Verse 124
गच्छ सोम सहायन्त्वं कुरु पाशधरस्य वै । असुराणां विनाशाय जयार्थं त्रिदिवौकसाम्
去吧,苏摩啊——确为持索者之助力;为灭尽阿修罗,为天界住民之胜利。
Verse 125
त्वं मतः प्रतिवीर्यश्च ज्योतिषामपि चेश्वरः । त्वन्मयान्सर्वलोकेषु रसान्वेदविदो विदुः
你被视为制衡之力,亦实为诸光明体之主。通晓吠陀者了知:在一切世界中,诸味与精华(rasa)皆为你所遍满,皆具你的本性。
Verse 126
त्वया समो न लोकेस्मिन्विद्यते शिशिरायुधः । क्षयवृद्धीतवाव्यक्तेसागरेचैवचांबरे
噢,执持清凉之武者,此世无人能与你相比。在你这未显之体中,减与增同在,于大海亦于苍穹。
Verse 127
प्रवर्तयस्यहोरात्रात्कालं संमोहयन्जगत् । लोकच्छायामयं लक्ष्म तवांकः शशविग्रहः
你以昼与夜推动时轮,使世间迷醉。噢,吉祥之相,你的徽记乃世界之影,在月中显作兔形。
Verse 128
न विदुः सोम ते मायां ये च नक्षत्रयोनयः । त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरिस्थितः
噢,苏摩啊,即便出自诸宿(那刹多罗)者,也不识你神妙之力。你安住于日道之上,超越一切光明之体。
Verse 129
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत् । शीतभानुर्हिमतनुर्ज्योतिषामधिपः शशी
你猛然驱散黑暗,照耀遍满世界——噢,月亮,清凉之光者,霜雪般之身,众光明之主。
Verse 130
अपि तत्कालयोगात्मा इज्यो यज्ञरथोऽव्ययः । ओषधीशः क्रियायोनिरपां योनिरनुष्णगुः
他亦是应时瑜伽之真魂;堪受供奉者;祭祀(yajña)不坏之车;药草之主;圣行之胎源;诸水之本;以及其行或其辉并不炽热者。
Verse 131
शीतांशुरमृताधारश्चपलः श्वेतवाहनः । त्वं कांतिः कांतवपुषां त्वं सोमः सोमपायिनाम्
你是清凉之光者,是甘露(amṛta)的依止;迅疾而行,乘白色车辇。你是光辉之身者的光辉;你是饮苏摩者之苏摩。
Verse 132
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् । तद्गच्छ त्वं महासेन वरुणेन वरूथिना
你对一切众生温和;你能驱散黑暗,是群星之王。因此前行吧,摩诃军(Mahāsena)啊,与伐楼那(Varuṇa)同往,并由其军众善加护卫。
Verse 133
शमयस्वासुरीं मायां यया दह्यामहे रणे । सोम उवाच । यन्मां वदसि युद्धार्थं देवराजवरप्रद
“请平息那阿修罗的幻力(māyā),我们在战阵中正被其灼烧。”苏摩说道:“至于你对我所言——要我为战而出——噢,赐福于天神之王(因陀罗)者……”
Verse 134
एष वर्षामि शिशिरं दैत्यमायापकर्षणं । एतान्मे शीतनिर्दग्धान्पश्यस्व हिमवेष्टितान्
“看吧——我将降下这凛冽寒雨,剥除达伊提耶(Daitya)之魔幻。你且看他们:为霜寒所灼,周身裹以白雪。”
Verse 135
तथा हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः । वेष्टयंति च तान्दैत्यान्वायुर्मेघगणानिव
同样,月神所放出的雪雨——宛如绳索之套——缠裹住那些达伊提耶,正如清风包围成群的云团。
Verse 136
तौ पाशशीतांशुधरौ वरुणेंदू महाबलौ । जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान्
那两位大力者——伐楼那与因度,执索具、具清冷冰寒之威——以霜雪之雨与索具连发击倒诸达那婆。
Verse 137
द्वावंबुनाथौ समरे तौ पाशहिमयोधिनौ । मृधे चेरतुरंभोभिः क्षुब्धाविव महार्णवौ
那两位水之主宰,索具与寒霜般的战士,在战阵中往来;于厮杀里他们翻涌如浪,宛若两大海被搅动而沸腾。
Verse 138
ताभ्यामापूरितं सर्वं तद्दानवबलं महत् । जगत्संवर्त्तकांभोदैः प्रवर्षैरिव संवृतं
那庞大的达那婆军势被二者完全淹没,仿佛在劫末之时,被能令世界归于毁灭的巨云所倾注的暴雨尽数覆盖。
Verse 139
तावुद्यतावंबुनाथौ शशांकवरुणावुभौ । शमयामासतुस्तां तु मायां दैत्येन्द्रनिर्मितां
于是那两位——娑商迦(明月)与伐楼那,水之主——同时奋起,驱散了由达那婆之王所造的幻力(摩耶)。
Verse 140
शीतांशुजालनिर्दग्धाः पाशैश्चास्कंदिता रणे । न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः
被月华之网灼烧,又在战场上为索具所缚,诸代底耶竟不能稍动,宛如无首之山岳。
Verse 141
शीतांशु निहतास्ते तु दैत्यास्सर्वे निपातिताः । हिमप्लावित सर्वांगानिरूष्माण इवाग्नयः
被月神(Śītāṃśu)击中,那些阿修罗族的代提耶尽皆仆倒;其身被冰寒洪流浸没,宛如火焰失却热力而熄。
Verse 142
तेषां तु दिवि दैत्यानां निपतंति शुभानि वै । विमानानि विचित्राणि निपतंत्युत्पतंति च
然而在那些代提耶的天界,他们吉祥而奇妙的飞行宫车(vimāna)时而坠落——又时而再度腾起。
Verse 143
तान्पाशहस्तग्रथितान्छादितान्शीतरश्मिभिः । मयो ददर्श मायावी दानवान्दिवि दानवः
于是幻术师摩耶(Maya)——那位达那婆——在天界看见诸达那婆,被执缚者手中的绳索牢牢系住,又为寒冷的光线所覆。
Verse 144
सशैलजालां विततां खड्गपट्टसहासिनीम् । पादपोत्करकूटस्थां कंदराकीर्णकाननां
其地铺展如群山之网,剑刃铿锵之声回荡;立于嶙峋峭峰、树丛密聚之处,林野之中洞穴散布,幽谷遍满。
Verse 145
सिंहव्याघ्रगणाकीर्णां नदद्भिर्देवयूथपैः । ईहामृगगणाकीर्णां पवनाघूर्णितद्द्रुमाम्
其中群狮群虎充满,天众之首的吼声轰然回响;羚羊成群簇拥,林木为疾风所旋卷摇荡。
Verse 146
निर्मितां स्वेन पुत्रेण कूजंतीं दिविकामगां । प्रथितां पार्वतीं मायां ससृजे स समंततः
于是他在四方造出帕尔瓦蒂的幻相——由他自己的儿子所塑——轻声呢喃,如意游行于天界,名闻诸方。
Verse 147
सासिशब्दैश्शिलावर्षैः संपतद्भिश्च पादपैः । जघान देवसंघांस्ते दानवानभ्यजीवयत्
伴随刀剑铿锵之声、石雨倾落与树木掷下,他击溃诸神之众;并使达那婆众复苏。
Verse 148
नैशाकरी वारुणी च माये अंतर्हिते तदा । अभवद्घोरसंचारा पृथिवी पर्वतैरिव
当那时两种幻力——奈沙迦梨与伐楼尼——隐没之后,大地行走艰怖,仿佛尽是群山。
Verse 149
न चारुद्धो द्रुमगणैर्देवो दृश्यत कश्चन । तदपध्वस्तधनुषं भग्नप्रहरणाविलम्
然而竟不见任何一位天神,虽被成群树木围困;其弓已弃置,兵刃尽折,形貌凌乱。
Verse 150
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरं । स हि युद्धगतः श्रीमानीशो न स्म व्यकंपत
他避开几乎不作抵抗的天军,转而直面持钵者伽达陀罗;那位光辉的主宰身在战阵,竟毫不战栗。
Verse 151
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः । कालज्ञः कालमेघाभः समीक्षन्कालमाहवे
由于祂的忍辱,宇宙之主——持钵杵者伽达达罗——并未动怒。祂洞悉时机,黑如载雨之云,在战阵中审视并等待那恰当的一刻。
Verse 152
देवासुरविमर्दं च द्रष्टुकामस्तदा हरिः । ततो भगवतादिष्टौ रणे पावकमारुतौ
随后,哈利愿见诸天与阿修罗的冲突,便在战场上命令帕瓦卡(火)与玛鲁塔(风)奉行其旨。
Verse 153
चोदितौ विष्णुवाक्येन ततो मायां व्यकर्षतां । ताभ्यामुद्भ्रांतवेगाभ्यां प्रबुद्धाभ्यां महाहवे
在毗湿奴言辞的催动下,二者遂引出其幻力(摩耶);于那大决战中,他们皆被唤醒、势如奔雷,以令人迷乱的疾速冲涌而前。
Verse 154
दग्धा सा पार्वती माया भस्मीभूता ननाश ह । सोनिलोनलसंयुक्तस्सोनलश्चानिलाकुलः
那帕尔瓦蒂的幻相被焚烧,化为灰烬而消亡。火与风相合而狂乱翻腾,风亦因火势而激荡不宁。
Verse 155
दैत्यसेनां ददहतुर्युगांतेष्विव मूर्च्छितौ । वायुः प्रजवितस्तत्र पश्चादग्निश्च मारुतात्
他们焚烧了代提耶的军阵,狂烈如同劫末之时。彼处狂风骤起,继而火焰又从那风中迸发而出。
Verse 156
चेरतुर्दानवानीके क्रीडंतावनलानिलौ । भस्मीभूतेषु भूतेषु प्रपतत्सूत्पतत्सु च
火与风在檀那婆(Dānava)军阵中游走嬉戏;众生化为灰烬之时,或坠落,或复起,喧腾纷乱。
Verse 157
दानवानां विमानेषु निपतत्सु समंततः । वातस्कंधापविद्धेषु कृतकर्मणि पावके
当檀那婆的空中战车四面坠落,被狂烈风团击落之时,火——既已成就其业——仍然炽燃不息。
Verse 158
मायावधे प्रवृत्ते तु स्तूयमाने गदाधरे । निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबंधने
当诛灭摩耶(Māyā)之事正进行,而持钺者伽达陀罗(Gadādhara)受众赞颂之时,诸魔无力无为,三界之缚遂得解脱。
Verse 159
प्रहृष्टेषु च देवेषु साधुसाध्विति जल्पिषु । जये दशशताक्षस्य दैत्यानां च पराजये
当诸天欢欣踊跃,齐声称赞“善哉!善哉!”,十与百眼者得胜,而檀底耶(Dāitya)败北之时——
Verse 160
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मविस्तरे । अपावृते चंद्रपथे स्वस्थानस्थे दिवाकरे
当十方皆得清净,正法的广布开始展开;当月道无碍,太阳安住于其本位——
Verse 161
प्रवृत्तिस्थेषु भूतेषु नृषु चारित्रवत्सु च । अभिन्नबंधने मृत्यौ हूयमाने हुताशने
当众生沉浸于世间行事之时,乃至在品行端正之人中——当死亡在羁绊未断之际降临,当供品正倾注于祭祀之火(yajña)之中——(于是……)
Verse 162
यज्ञशोभिषु देवेषु स्वर्गमार्गं दिशत्सु च । लोकपालेषु सर्वेषु दिक्षु संधानवर्तिषु
当诸神因祭祀(yajña)之庄严而光辉,指示通往天界之路;当一切洛迦波罗(Lokapāla,方位守护神)驻守于诸方交会之处——
Verse 163
भावे तपसि सिद्धानामभावे पापकर्मणाम् । देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति
当正法(dharma)存在时,由苦行(tapas)而成就的悉地者(siddha)得获圆满;当正法缺失时,作恶之业者反而得势。当天神一方欢欣之际,阿修罗(daitya)一方沉入沮丧。
Verse 164
त्रिपादविग्रहे धर्मेऽधर्मे पादपरिग्रहे । अपावृत्ते महाद्वारे वर्तमाने च सत्पथे
当达摩(Dharma)以三足稳立,而非达摩(Adharma)仅夺其一足;当宏伟之门豁然开启,而真实正道正在运行流行——
Verse 165
लोकेषु धर्मवृत्तेषु प्रवृत्तेष्वाश्रमेषु च । प्रजारक्षणयुक्तेषु राजमानेषु राजसु
当诸世间之人奉行达摩之行,当四住期(āśrama,人生阶段)被积极遵守,当诸王以护民为责而显耀其治时,国土便真正光辉灿然。
Verse 166
प्रशांतेषु च लोकेषु शांते तमसि दानवे । अग्निमारुतयोस्तस्मिन्वृत्ते संग्रामकर्मणि
当诸世界归于宁静,黑暗之魔亦被安抚;当火与风之间的战斗之业止息之时,
Verse 167
तन्मया विमला लोकास्ताभ्यां जयकृतक्रियाः । तीव्रं दैत्यभयं श्रुत्वा मारुताग्निकृतं महत्
凭借那股威力,诸世界得以清净;又由那二者成就了求胜之仪。听闻诸达底耶因风与火所致的强烈恐惧——
Verse 168
कालनेमीति विख्यातो दानवः प्रत्यदृश्यत । भास्कराकारमुकुटः शिंजिताभरणांगदः
于是,名闻于世的达那婆迦兰涅弥现身——头戴如日之冠,身佩叮当作响的饰物与臂钏。
Verse 169
मंदराद्रिप्रतीकाशो महारजतसंवृतः । शतप्रहरणोदग्रः शतबाहुः शताननः
他光耀如曼陀罗山,披覆灿然白银;高耸而立,具百般兵器,百臂百面。
Verse 170
शतशीर्षः स्थितः श्रीमान्शतशृंग इवाचलः । कक्षे महति संवृद्धो निदाघ इव पावकः
他光辉赫然,立具百首,如百峰之山;在其雄浑的怀抱中愈发广大,炽燃如盛夏之火。
Verse 171
धूम्रकेशो हरिश्मश्रुर्दंतुरो विकटाननः । त्रैलोक्यांतरविस्तारं धारयन्विपुलं वपुः
他发如烟灰,须如黄褐;齿突面狰狞,身躯广大,仿佛撑持并充满三界之内的浩瀚空间。
Verse 172
बाहुभिस्तुलयन्व्योम क्षिपन्पद्भ्यां महीधरान् । ईरयन्मुखनिःश्वासैर्वृष्टिकारान्बलाहकान्
他以双臂仿佛衡量苍穹,以双足掷飞群山;又以口中呼出的劲风驱策那降雨之云。
Verse 173
तिर्यगायतरक्ताक्षं मंदरोदग्रवर्चसाम् । दिधक्षंतमिवायांतं सर्वान्देवगणान्मृधे
战阵之中,诸天众见他逼近:赤目斜睨,光辉高耸如曼陀罗山,来势仿佛要焚尽一切天众。
Verse 174
तर्जयंतं सुरगणांश्छादयंतं दिशो दश । संवर्तकाले हृषितं दृष्टं मृत्युमिवोत्थितम्
他们看见他:威吓诸天众,遮蔽十方;在劫末大毁灭之时欢然振奋,宛如死亡本身起身而立。
Verse 175
सुतलेनोच्छ्रयवता विपुलांगुलिपर्वणा । लंबाभरणपूर्णेन किंचिच्चलितकर्मणा
他足底隆起,指节宽大;长饰垂身满挂,而其举止行动间又略带摇晃不稳。
Verse 176
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता । दानवान्देवनिहतान्ब्रुवन्तं तिष्ठतेति च
他右手高举于前,威势凛然,对那些被诸天所诛的达那婆说道:“站住,正面迎我!”
Verse 177
तं कालनेमिं समरे द्विषतां कालनेमिनम् । वीक्षंते स्म सुराः सर्वे भयविह्वललोचनाः
战场之上,诸天都注视着那位迦罗内弥——迦罗内弥,诛敌者——他们的眼神因恐惧而颤动。
Verse 178
तं वीक्षंते स्म भूतानि ग्रसंतं कालनेमिनम् । त्रिविक्रमं विक्रमं तं नारायणमिवापरम्
众生看见他吞噬迦罗内弥——那位大能的三步者特里维克拉摩——其威力与步伐宛如另一位那罗延那。
Verse 179
सोभ्युच्छ्रयं पुनः प्राप्तो मारुताघूर्णितांबरः । प्रक्रामदसुरो योद्धुं त्रासयन्सर्वदेवताः
他再度腾起至高处,衣袍被风卷旋;那阿修罗迈步出战,使诸天尽皆惊惧。
Verse 180
समेयिवान्सुरेंद्रेण परिष्वक्तो भ्रमन्रणे । कालनेमिर्बभौ दैत्यः सविष्णुरिव मंदरः
他与因陀罗相遇,被其紧抱着在战阵中旋转;那魔族迦罗内弥显得如同承载毗湿奴的曼陀罗山。
Verse 181
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः । कालनेमिनमायांतं दृष्ट्वा कालमिवापरम्
于是诸天神众在释迦(因陀罗)率领下,见迦罗内弥逼近,皆为恐惧所震;他宛如时间之神——死亡本身的又一化身。
Verse 182
दानवाननुपिप्रीषुः कालनेमिर्महासुरः । व्यवर्धत महातेजास्तपांते जलदो यथा
迦罗内弥这位大阿修罗,为取悦达那婆众而心切,其威光愈发增长,犹如炎季将尽时膨胀的雨云。
Verse 183
तं त्रैलोक्यांतरगतं दृष्ट्वा ते दानवेश्वराः । उत्तस्थुरपरिश्रांताः पीत्वेवामृतमुत्तमम्
见他穿行于三界的广大之中,那些达那婆之主便精神振起、毫无疲惫,仿佛饮下了最上妙的甘露(阿蜜哩多)。
Verse 184
ते वीतभयसंत्रासा मयतारपुरोगमाः । तारकामयसंग्रामे सततं जितकाशिनः
他们无惧无惊,以摩耶与多罗为首,在多罗迦与摩耶之战中常得胜利,并不断征服迦尸(Kāśī)。
Verse 185
रेजुरायोधनगता दानवा युद्धकांक्षिणः । मंत्रमभ्यसतां तेषां व्यूहं च परिधावताम्
达那婆众渴望战斗,奔赴战场;他们在诵习咒语之时光彩夺目,又奔走环绕,结成并回旋于种种战阵。
Verse 186
प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम् । ये तु तत्र मयस्यासन्मुख्या युद्धपुरस्सराः
在旁观者之中,对达那婆迦罗内弥生起了爱慕之情。然而在摩耶一方的那些人却是最为杰出的首领,率先走在战阵之前。
Verse 187
ते तु सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः । मयस्तारो वराहश्च हयग्रीवश्च दानवः
于是他们众人抛却恐惧,心怀欢奋,列阵待战——摩耶斯塔罗、婆罗诃,以及达那婆海耶格利婆。
Verse 188
विप्रचित्तिसुतः श्वेतः खरलंबावुभावपि । अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च
毗波罗吉底之子室吠多,以及佉罗蓝婆(二者);又有阿利什塔;并有婆利之子吉绍罗——这些也都被提及。
Verse 189
सुर्भानुश्चामरप्रख्यश्चक्रयोधी महासुरः । एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः
苏尔婆奴,以及阿摩罗·普拉迦,以及轮战者——那大阿修罗:他们全都精通兵器之学,亦都安住于苦行之力。
Verse 190
दानवाः कृतिनो जग्मुः कालनेमिनमुद्धतम् । ते गदाभिस्सुगुर्वीभिश्चक्रैरथपरश्वधैः
那些能干的达那婆前往傲慢的迦罗内弥,手持极重的钉锤、轮刃之器(cakra)与战斧。
Verse 191
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः । अश्मभिश्चास्त्रसदृशैस्तथा शैलैश्च दारुणैः
以如同死神般可怖的杵,以可投掷的巨槌,以如兵器之石,并以凶猛的巨岩与山岳一同袭来。
Verse 192
पट्टिशैर्भिंडिपालैश्च परिघैश्चोत्तमायसैः । घातिनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च
以刀剑与标枪,以最上等精铁之铁棍,并以沉重致命的兵器,以及名为śataghnī的带刺攻城战具。
Verse 193
युगैर्यंत्रैश्च निर्मुक्तैर्लांगलैरुग्रताडितैः । दोर्भिरायतमानैश्च पाशैश्च परिघादिभिः
由轭与机巧所放出,被凶猛的犁刃击打,被臂力拉伸,又以套索与铁杠等诸般器具捆缚。
Verse 194
भुजंगवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः । वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः
以蛇口般的箭矢——吐舌游走——并以可击碎的金刚杵般兵器,以及燃烧的投枪。
Verse 195
विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः । दैत्यैः संदीप्यमानैश्च प्रगृहीतशरासनैः
为群魔挥舞出鞘如剃刀般锋利之剑,又持洁净闪耀之矛;为怒焰炽盛的底提耶,紧握其弓。
Verse 196
ततः पुरस्कृत्य तदा कालनेमिनमाहवे । सा दीप्तशस्त्रप्रवरा दैत्यानां रुरुचे चमूः
于是,他们在战阵中推举迦罗尼弥(Kālanemi)为先锋;那支阿修罗(Daitya)大军以炽燃兵刃为最,光辉灿然,赫然照耀。
Verse 197
यैर्निमीलितसर्वांगा वनालीवांबुदागमे । देवतानामपि चमूर्मुमुदे शक्रपालिता
因他们——其全身仿佛闭合,如雨云将至时林中蔓藤成行收敛——连诸天之军也欢欣鼓舞,在释迦(因陀罗,Śakra)护持之下。
Verse 198
उपेता शिशिरोष्णाभ्यां तेजोभ्यां चंद्रसूर्ययोः । वायुवेगवती सौम्या तारागणपताकिनी
她具足月之清凉与日之炽热两种光辉,疾如风行,性情柔和,并以群星为旌旗。
Verse 199
तोयदा बद्धवसना ग्रहनक्षत्रहासिनी । यमेंद्रधनदैर्गुप्ता वरुणेन च धीमता
身着束缚紧系之衣的托耶达(Toyadā)——令诸行星与群星宛然含笑——由阎摩、因陀罗与财主(俱毗罗,Dhanada),并由睿智的伐楼那(Varuṇa)共同守护。
Verse 200
सा प्रदीप्ताग्निपवना नारायणपरायणा । सासमुद्रौघसदृशी दीप्यमाना महाचमूः
那支大军如烈风鼓荡之火般炽燃;一心归依那罗延(Nārāyaṇa),其光辉如海潮洪流奔涌,灿然照耀。