Adhyaya 33
Srishti KhandaAdhyaya 33185 Verses

Adhyaya 33

Mārkaṇḍeya’s Birth and Boon; Puṣkara’s Glory; Rāma’s Śrāddha; Refuge-Hymn to Śiva

毗湿摩询问罗摩如何得见摩尔坎德耶并受其教诲。普罗诃斯提耶叙述:摩尔坎德耶生于牟利坎度,先知预言其寿命短促;因此举行入门礼(upanayana),七圣仙出面祈请,梵天遂下诏,赐摩尔坎德耶与梵天同等的长寿。 随后转入普什迦罗圣地的功德(Puṣkara-māhātmya)。罗摩前往普什迦罗,遇见阿特里与摩尔坎德耶,并依规定的时段(kutapa)与供品细则,为达沙罗陀举行祭祖仪式(śrāddha);梦中异象与祖灵(pitṛ)临在,彰显祖先信仰之义。 在玛利亚达山,罗摩献上长篇归依赞(śaraṇāgati stotra)礼敬湿婆。鲁陀罗垂应赐福,并授以神命,令罗摩完成诸天之事,将圣地、仪轨与化身使命融为一体。

Shlokas

Verse 1

भीष्म उवाच । मार्कंडेयेन वै रामः कथमत्र प्रबोधितः । कथं समागमो भूतः कस्मिन्काले कदा मुने

毗湿摩说道:“圣者啊,罗摩在此如何被摩尔甘底耶(Mārkaṇḍeya)教诲?他们的相会如何发生——在何时、何刻,牟尼啊?”

Verse 2

मार्कंडेयः कस्य सुतः कथं जातो महातपाः । नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने

大圣者啊,请如实告知:大苦行者摩尔甘德耶(Mārkaṇḍeya)是谁之子,他如何诞生?也请说明其名号的由来与词源,正如当时真实发生的一般。

Verse 3

पुलस्त्य उवाच । अथ ते संप्रवक्ष्यामि मार्कंडेयोद्भवं पुनः । पुराकल्पे मुनिः पूर्वं मृकंडुर्नाम विश्रुतः

普拉斯提耶(Pulastya)说道:如今我将再为你宣说摩尔甘德耶的出生缘起。在久远的古劫之中,曾有一位闻名的圣仙,名为弥利甘度(Mṛkaṇḍu)。

Verse 4

भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः । तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे

婆利古(Bhṛgu)之子,那位大福德者,与妻同修苦行(tapasyā)。当他们住在幽深的林野之间时,他便得一子诞生。

Verse 5

सपंचवार्षिको भूतो बाल एव गुणाधिकः । ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदांगणे

虽仅五岁,那童子已具足诸德。其时,一位智者见到他——那孩子在庭院中徘徊游走。

Verse 6

स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत । तस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे

他久立良久,便觉悟了未来将至之事。随后,其父问他:“我儿的寿命有多长?”

Verse 7

संख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वा । मृकंडुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत्

“请告诉我他寿命的年数——或少或多。”被摩利迦ṇḍu如此询问,那位智者便说出了这些话。

Verse 8

षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वर । नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्

噢,诸牟尼之主,造物主达特ṛ已注定你儿子的寿命仅有六个月。因此你不应忧伤;此言确为真实。

Verse 9

स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम् । अथोपनयनं चक्रे बालकस्य पिता तदा

噢,毗湿摩,听闻智者所宣说的那严峻之语后,孩童之父便为孩子举行了乌帕那耶那——授圣线的入门仪式。

Verse 10

आह चैनं पितापुत्रमृषींस्त्वमभिवादय । एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने

随后父亲对儿子说:“去向诸仙人致敬礼拜。”蒙父亲吩咐,儿子欢喜地俯身行礼。

Verse 11

न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनः । पंचमासास्त्वतिक्रांता दिवसाः पंचविंशतिः

他并不知晓种姓(varṇa)的分别,尽管各个种姓之人都向他致礼。五个月又二十五日已经过去。

Verse 12

मार्गेणाथ समायाता ऋषयस्तत्र सप्त वै । बालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः

于是,主啊,七位圣仙循道而至。那少年见到他们众人,便一一如法恭敬顶礼。

Verse 13

आयुष्मान्भव तैरुक्तः स बालो दंडमेखली । उक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम्

他们对他说:“愿你长寿。”那少年身佩杖与圣带,立于其前。然而话毕,他们又见那少年,生命之气已然耗尽。

Verse 14

दिनानि पंच तस्यायुर्ज्ञात्वा भीताश्च ते नृप । तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोंतिकम्

大王啊,得知他的寿命仅余五日,他们心生惶惧;遂携那孩童前往梵天(Brahmā)座前。

Verse 15

प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम् । अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः

大王啊,他们放开他后,便向祖父尊——梵天(Pitāmaha, Brahmā)俯伏顶礼。随后他们禀告缘由,那少年也依礼向梵天致敬礼拜。

Verse 16

चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ । ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात्

在诸圣仙面前,梵天宣告那少年必得长寿。听闻祖父尊(Pitāmaha)之言,诸牟尼皆心生欢喜。

Verse 17

पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितः । कार्येण येन चायातः कोयं बालो निवेद्यताम्

祖父(梵天)见到诸仙人,惊异而言:“你们为何而来?这孩子是谁?请为我说明。”

Verse 18

ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन् । पुत्रो मृकंडोः क्षीणायुः सायुषं कुरु बालकम्

于是诸仙人对他说尽一切,王啊:“摩利迦ṇḍu之子寿命短促——愿你使这孩子得享长寿。”

Verse 19

अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम् । यज्ञोपवीतं दंडं च दत्वा चैनमबोधयत्

见其寿命短促,那位牟尼为他系上腰带(mekhalā);又赐予圣线与杖,并加以教诲。

Verse 20

यं कंचित्पश्यसे बाल भ्रमंतं भूतले जनम् । तस्याभिवादः कर्तव्य एवमाह पिता वचः

“孩子啊,凡你见在大地上行走漂游之人,都当向他恭敬致礼。”父亲如是说道。

Verse 21

अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन् । तीर्थयात्राप्रसंगेन दैवयोगात्पितामह

祖父啊,此人谦恭有礼,我们见他在大地上行游;因朝礼诸圣渡处(tīrtha)之缘,并由天命机缘使然。

Verse 22

चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकः । कथं वचो भवेत्सत्यमस्माकं भवता सह

在那里,人们对那男孩说道:“愿你长寿,我儿。”但他问道:“与您相伴之时,我们的话语如何才能成真?”

Verse 23

एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः । ऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया

当他们那时如此禀告时,梵天——诸世界之祖父——宣示道:“此大地自Ṛtavākya起,已于四方安立,周遍无惧。”

Verse 24

ब्रह्मोवाच । मत्समश्चायुषा बालो मार्कंडेयो भविष्यति । कल्पस्यादौ तथाचांते मतो मे मुनिसत्तमः

梵天说道:“童子摩尔甘德耶将与我同寿。于一劫之初,亦于一劫之终,我皆认定他为诸牟尼中最胜者。”

Verse 25

एवं ते मुनयो बालं ब्रह्मलोके पितामहात् । संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम्

于是诸牟尼在梵天界中,藉由祖父梵天成就了关于那童子的所愿,便又将他遣回大地之上。

Verse 26

तीर्थयात्रां गता विप्रा मार्कंडेयो निजं गृहम् । जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्

当诸婆罗门已前往诸圣地渡口朝圣后,摩尔甘德耶回到自己的家中;待他们离去之后,他便对父亲开口说道。

Verse 27

ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः । दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः

我被宣说梵的圣贤带往梵天界(Brahmaloka);他们赐我长寿,并在施与诸般恩赐后,放我离去。

Verse 28

एतदन्यच्च मे दत्तं गतं चिंताकरं तव । कल्पस्यादौ तथा चांते भविष्ये समनंतरे

此外我也赐下此事;它已成你忧虑之因——在劫(kalpa)之初、亦在其终末,并且在紧随其后的将来亦然。

Verse 29

लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः । पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः

承蒙世界的造主梵天(Brahmā)——亦即其父之恩——我已立志前往普什卡罗(Puṣkara),以修行苦行(tapas)。

Verse 30

तत्राहं देवदेवेशमुपासिष्ये पितामहम् । सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्

在那里我将礼敬皮塔摩诃(Pitāmaha,梵天),诸神之主的主宰;他能成就一切所愿,并驱除一切怨敌。

Verse 31

सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम् । ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्

我将使梵天欢喜:赐予一切安乐的神明,因陀罗等诸天的至上归依处,诸世界的祖父(Pitāmaha)。

Verse 32

मार्कंडेयवचः श्रुत्वा मृकंडुर्मुनिसत्तमः । जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्

听闻马尔坎德耶的言语,至上圣者摩利坎度牟尼充满无上欢喜,刹那之间长舒一口气,心得宽慰。

Verse 33

धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत् । अद्य मे सफलं जन्म जीवितं च सुजीवितम्

于是达伊里耶心神澄明,安住不动,说道:“今日我之出生已得其果,我之生命亦真为善生。”

Verse 34

सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः । त्वया दायादवानस्मि पुत्रेण वंशधारिणा

因你之故,得以瞻见万界之造主、祖父梵天(Pitāmaha Brahmā);我亦因此成为有嗣之人,得一子承续家族血脉。

Verse 35

त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम् । दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च

你去吧,瞻礼住于普什卡拉的诸天之主——祖父梵天(Pitāmaha)。一旦得见这位世间之主,便无老迈,亦无死亡。

Verse 36

नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम् । त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च

于人间则生起安乐、富饶与无尽的苦行功德;(其地)有三座洁白光明之峰,亦有三处泉流奔涌。

Verse 37

पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम् । कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्

因此有三处普什迦罗(Puṣkara);其缘由于彼处我们不得而知——小普什迦罗、中普什迦罗,以及第三处:长老普什迦罗。

Verse 38

शृंगशब्दाभिधानानि शुभप्रस्रवणानि च । ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः

那里有以“Śṛṅga(角峰)”之名而称的诸处,也有吉祥的泉涌;并且在彼处,三位——梵天(Brahmā)、毗湿奴(Viṣṇu)与鲁陀罗(Rudra)——恒常临在。

Verse 39

पुष्करेषु महाराजा नातः पुण्यतमं भुवि । विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्

大王啊,在大地之上,没有比普什迦罗(Puṣkara)更为神圣者。其水无垢清净,名闻三界。

Verse 40

ब्रह्मलोकस्य पन्थानं धन्याः पश्यंति पुष्करं । यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते

得见普什迦罗者,实为有福——那是通往梵天界(Brahmaloka)之道。而若有人不间断地修行火供(Agnihotra)满一百年——(其功德亦以此作比)。

Verse 41

कार्तिकीं वा वसेदेकां पुष्करे सममेव च । कर्तुम्मया न शकितं कर्मणा नैव साधितम्

即便只在迦尔提迦月(Kārtikā)住上一月——或同样在普什迦罗居住——此事我亦未能做到;也并非仅凭仪式之业力便可成就。

Verse 42

तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः । तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः

亲爱的啊,不费你分毫之力,你已战胜那夺取一切的死亡。于彼处,你得见诸神之主梵天(Brahmā),乃诸世界之祖父与生主。

Verse 43

नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले । अहं वै तोषितो येन पञ्चवार्षिकजन्मना

在大地之上,再无凡人能与你比肩。诚然,我因你这五年的人身之生而心生欢喜。

Verse 44

वरेण त्वं मदीयेन उपमां चिरजीविनाम् । गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम

凭我所赐之恩愿,你将得至如长寿者之境,毫无疑虑;此乃我祝福之言。

Verse 45

एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान् । एवं लब्धप्रसादेन मृकण्डुतनयेन च

众人皆如是言毕,遂随其所愿前往弗罗阇(Vraja)诸界;而那得蒙恩宠者,亦与摩利坎度(Mṛkaṇḍu)之子同往。

Verse 46

आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युत । तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत्

他建立了一处道场(āśrama),名为“摩尔坎达道场”(Mārkaṇḍāśrama)。于彼处沐浴而得清净者,可获等同于婆阇佩耶(Vājapeya)祭祀之功德。

Verse 47

सर्वपापविशुद्धात्मा चिरायुर्जायते नरः । पुलस्त्य उवाच । तथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम्

凡身心净除一切罪垢之人,必得长寿而生。普拉斯提亚说道:“如今我将为你宣说另一则古老的传说。”

Verse 48

यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम् । चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च

正如罗摩确曾建立圣地普什迦罗之 tīrtha,同样在往昔,罗摩也曾离开吉多罗拘吒,与迈提利(悉多)及罗什曼那同行。

Verse 49

अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम् । राम उवाच । कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने

抵达阿特里仙人的住处后,罗摩请问最胜牟尼。罗摩说道:“大圣者啊,哪些是具功德的 tīrtha?又有何等神圣的 kṣetra?”

Verse 50

यत्र गत्वा नरो योगिन्वियोगं सह बंधुभिः । नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत

世尊啊,瑜伽行者啊——请你告知我,持善誓者:人若往至何处,便不再遭受与亲族离别之苦?

Verse 51

अनेन वनवासेन राज्ञस्तु मरणेन च । भरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः

因这林中流放,因国王之死,又因与婆罗多的离别——我确被这三重苦楚所煎熬。

Verse 52

तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा । ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत्

那位最尊贵的婆罗门听闻罗伽婆所说之言,便久加思惟,随后开口说道如下之语。

Verse 53

अत्रिरुवाच । साधु पृष्टं त्वया वीर रघूणां वंशवर्धन । मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम्

阿特利说道:“问得好,勇士啊,增盛罗瞿族裔者。我父曾建立一处圣地(tīrtha),以‘补湿迦罗’之名而闻名。”

Verse 54

पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ । कुंडत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम्

有两座著名的山:玛利耶达与祭山(Yajñaparvata)。在二山之间,有三处神圣水池(kuṇḍa):长者、中者与幼者。

Verse 55

तेषु गत्वा दशरथं पिंडदानेन तर्पय । तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम्

你当往彼处,以供献祭祖饭团(piṇḍa)来使达沙罗陀得以满足;此乃诸圣地(tīrtha)之最胜,亦为诸圣域(kṣetra)之上品。

Verse 56

अवियोगा च सुरसा वापी रघुकुलोद्वह । तथा सौभाग्यकूपोन्यः सुजलो रघुनंदन

罗瞿族之栋梁啊,彼处有名为阿毗瑜伽(Aviyogā)之井,亦有名为苏罗萨(Surasā)之井;又有另一口名为吉祥(Saubhāgya)之井,清水丰盈,罗瞿之欢悦啊。

Verse 57

तेषु पिंडप्रदानेन पितरो मोक्षमाप्नुयुः । आभूतसंप्लवं कालमेतदाह पितामहः

以供奉给他们的 piṇḍa(祭团),祖先得证解脱(mokṣa)。祖父梵天(Brahmā)宣说:此行持之功效,直至一切众生大劫溶灭之时仍然成立。

Verse 58

तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाः । तथेति चोक्त्वा रामोपि गमनाय मनो दधे

“去那里吧,罗伽婆(Rāghava);随后再筹备再次归来之事。”说了“如是”,罗摩(Rāma)也定意启程。

Verse 59

ऋक्षवंतमभिक्रम्य नगरं वैदिशं तथा । चर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम्

他行至 Ṛkṣavat,又到毗底沙城(Vidiśā);渡过 Carmaṇvatī 河后,便抵达 Yajñaparvata——“祭祀之山”。

Verse 60

तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितः । पितॄन्संतर्पयामास अद्भिर्देवांश्च सर्वशः

他迅速越过彼处,安住于中部普什迦罗(Middle Puṣkara);在那里以清水如法慰悦祖先,并以诸般方式礼敬众神。

Verse 61

स्नानावसाने रामेण मार्कंडो मुनिपुंगवः । आगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता

当罗摩(Rāma)沐浴毕,圣贤中最卓越的摩尔甘底耶(Mārkaṇḍa)携弟子而来,被这位智者当场看见。

Verse 62

गत्वा वै संमुखं तस्य प्रणिपत्य च सादरम् । पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो

他径直走到他面前,恭敬顶礼叩拜,问道:“主啊,名为阿毗约伽陀(Aviyogada)的井在何方?”

Verse 63

सुतो दशरथस्याहं रामो नाम जनैः स्मृतः । सौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात्

我是达沙罗陀之子,世人称我为罗摩。奉特里沙萨那(Triśāsana)之命,我来到此地,欲瞻礼那名为“善福之井”——娑婆伽耶·瓦毗(Saubhāgya-vāpī)。

Verse 64

तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मे । एवमुक्तश्च रामेण मार्कंडः प्रत्युवाच ह

“愿世尊为我开示那处所在,以及那两口井。”罗摩如此发问,马尔坎达(Mārkaṇḍa)便答道。

Verse 65

मार्कंडेय उवाच । साधु राघव भद्रं ते सुकृतं भवता कृतम् । तीर्थयात्राप्रसंगेन यत्प्राप्तोसीह सांप्रतम्

马尔坎德耶说道:“善哉,罗伽婆啊,愿吉祥临汝。你已成就功德;因朝礼诸圣地(tīrtha)之缘,你如今来到此处。”

Verse 66

एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम् । अवियोगश्च सर्वैश्च कूप एवात्र जायते

来吧,近前观看你自己的井——那赐予离别解脱者。在此井处,对一切众生而言,“不离”之境确实由此生起。

Verse 67

आमुष्मिके चैहिके च जीवतोपि मृतस्य वा । एतद्वाक्यं मुनींद्रस्य श्रुत्वा लक्ष्मणपूर्वजः

无论在彼世或此世——为生者,乃至为亡者——听闻这位诸牟尼之主的言语后,罗摩,即罗什曼那的长兄,遂作回应。

Verse 68

सस्मार रामो राजानं तदा दशरथं नृप । भरतं सह शत्रुघ्न्रंभातॄनन्यांश्चनागरान्

于是罗摩忆起那位国王——陀沙罗陀,噢君王——也忆起婆罗多与设多卢伽那,以及其余诸弟与城中百姓。

Verse 69

एवंचिंतयतस्तस्य संध्याकालो व्यजायत । उपास्य पश्चिमां संध्यां मुनिभिःसह राघवः

当他如此沉思之时,暮色时分已至。罗伽婆与诸圣者同在,礼敬西方的暮间(sandhyā),即晚霞黄昏。

Verse 70

सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितः । विभावर्यवसाने तु स्वप्नांते रघुनंदनः

他在那里安睡一夜,身旁有其兄之妻相伴。然而至夜尽之时——梦境将终之际——罗睺后裔罗摩……

Verse 71

पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल । विवाहमंगले वृत्ते बहुभिर्बांधवैः सह

相传他与父亲、母亲及众人同住于阿踰陀;待吉祥的婚礼仪式圆满举行后,他仍与众多亲族一同留在彼处。

Verse 72

समासीनः सभार्योऽसावृषिभिः परिवारितः । लक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा

他与妻子同坐其处,周围环绕诸圣仙;拉克什曼那亦如是见到他,悉多亦复如是。

Verse 73

प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम् । ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम

至黎明时分,诸牟尼尽皆述说此事;诸圣仙答曰:“诚然如此。” “此乃真实,噢罗瞿族之最胜者。”

Verse 74

मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम् । वृद्धिकामास्तु पितरस्तथा चैवान्नकांक्षिणः

经传记载:见到亡者之身,当必行施罗陀(śrāddha)之礼。盖祖灵(Pitṛ)希求福德增长,亦渴望食物供献。

Verse 75

ददंति दर्शनं स्वप्ने भक्तियुक्तस्य राघव । अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च

罗伽婆啊,凡具虔敬者,彼等于梦中赐其显现;而于汝,必无与兄弟、与父王、亦与婆罗多之离别。

Verse 76

चतुर्दशानां वर्षाणां भविता राघव ध्रुवम् । कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च

罗伽婆啊,十四年必定将尽。故勇士啊,也当为达沙罗陀王修行施罗陀(śrāddha)之仪。

Verse 77

अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः । अहं च जमदग्निश्च भारद्वाजश्च लोमशः

此处诸位圣仙皆为汝之奉献者,顷刻之间已备齐。吾亦与阇摩达伽尼、婆罗陀婆阇及罗摩舍同在,立于汝前。

Verse 78

देवरातः शमीकश्च षडेते वै द्विजोत्तमाः । श्राद्धे च ते महाबाहो संभारांस्त्वमुपाहर

提婆罗多与沙弥迦——此六人确为诸“再生者”中最上。为行施祖祭(śrāddha),大臂者啊,当备办并携来所需供具。

Verse 79

मुख्यं चेंगुदिपिण्याकं बदरामलकैः सह । श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु

尤以因古底(iṅgudī)之油饼为要,并佐以枣果(badara)与余甘子(āmalaka);又有熟椰子,以及种种根茎,多类多样。

Verse 80

मार्गेण चाथ मांसेन धान्येन विविधेन च । तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत

继而以佳肴、以肉食、以种种谷粮——善誓者啊——当以施行祖祭供养(śrāddha)使婆罗门众得满足。

Verse 81

पुष्करारण्यमासाद्य नियतो नियताशनः । पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्

抵达补湿迦罗(Puṣkara)之林,持戒自律、节制饮食者,若为祖先行供水祭(tarpaṇa),便得阿湿婆美陀(Aśvamedha)之功德。

Verse 82

स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम् । इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप

“噢,罗摩,我们将前往耶什塔—普什卡罗沐浴行净。”说罢,诸位牟尼尽皆离去,哦,国王,留下了罗伽婆(罗摩)。

Verse 83

लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम् । शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु

罗摩对罗什曼那说:“为我取来一只洁净、合乎仪轨的鹿;也带来一只相貌清净的野兔、黑色叶菜,以及蜂蜜。”

Verse 84

जंबीराणि च मुख्यानि मूलानि विविधानि च । पक्वानि च कपित्थानि फलान्यन्यानि यानि च

其中以香橼(jambīra)为上;又有种种根茎;并有成熟的木苹果(kapittha),以及其余一切果实。

Verse 85

तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण । तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः

“把这些带来用于施行祭祖的 śrāddha;务必迅速,哦,罗什曼那。”于是遵从罗摩之命,罗伽婆(罗什曼那)将一切办妥。

Verse 86

बदरेङ्गुदिशाकानि मूलानि विविधानि च । तत्राहृत्य च रामेण कूटाकारः कृतो महान्

将枣果(badara)与因古迪(ingudī)枝条,以及种种根茎带到那里后,罗摩筑起一座宏大的丘状堆坛。

Verse 87

परिपक्वं च जानक्या सिद्धं रामे निवेदितम् । स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन्

由阇那姬(Jānakī)精心备办、圆满成就的供品,奉献于罗摩(Rāma)。罗摩在瑜伽圣池(Yoga-vāpī)沐浴后,仍继续侍奉并护持诸位牟尼圣者。

Verse 88

मध्याह्नाच्चलिते सूर्ये काले कुतपके तथा । आयाता ऋषयः सर्वे ये रामेणानुमंत्रिताः

当太阳越过正午之时,于吉祥的库塔帕(kutapa)时分,凡被罗摩邀请的诸位圣仙(ṛṣi)悉皆到来。

Verse 89

तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजा । रामांतिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता

见诸位牟尼前来,毗提希(Vaidehī)——阇那迦之女——便离开罗摩身旁,怀着羞怯与端庄,立于别处。

Verse 90

विस्मयोत्फुल्लनयना चिंतयाना च वेपती । ब्राह्मणा नेह जानंति श्राद्धकाले ह्युपस्थिताः

她因惊异而双目圆睁,心中忧思翻涌,身躯微微战栗。那些为施行舍罗陀(śrāddha)而来的婆罗门,并未在此认出她。

Verse 91

रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधि । वैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः

罗摩依《斯摩利提》(Smṛti)之训、按正法仪轨供养诸位婆罗门(vipra);一切吠陀仪式与所宣示的善行净业,皆如法圆满成办。

Verse 92

पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः । भुक्तवत्सु च विप्रेषु दत्वा पिंडान्यथाक्रमम्

应依《普拉那》所说之仪轨而行,先作毗湿瓦提婆(Vaiśvadeva)供献;待婆罗门用毕食后,再按次第奉上皮ṇḍa(祭团)供品。

Verse 93

प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम् । गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम्

待恭敬送别诸人,并依己力施与礼物与达克希那(dakṣiṇā)之后,诸位上首婆罗门既已离去,罗摩便对其爱人说道如下之言。

Verse 94

किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान् । तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम्

为何啊,秀眉之人,你一见到来到此处的诸牟尼便隐去不见?速速告我这一切的真实缘由,莫要迟延。

Verse 95

भवितव्यं कारणेन तच्च गोप्यं न मे कुरु । शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते

凡应发生者,皆由因缘而必然发生——莫对我隐瞒。噢,清净微笑者,我以自身性命并以罗什曼那起誓:你已遭受诅咒。

Verse 96

एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिता । विमुंचंती साऽश्रुपातं राघवं वाक्यमब्रवीत्

被夫君如此问及,她因羞怯而垂首而立;泪如雨下之时,便对罗伽婆说出了这些话。

Verse 97

शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम् । राम त्वयाऽचिंत्यमानो राजेंद्रस्त्विह चागतः

请听,主啊,我在此所见的奇妙神迹。罗摩啊——当人正忆念你时,这位万王之王确已来到此处。

Verse 98

सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ । द्विजानां देहसंयुक्तास्त्रयस्ते रघुनंदन

另有两位佩戴一切饰物,又有两位亦复如是;而其中三位,噢罗睺族之欢喜者,乃以婆罗门之身示现。

Verse 99

पितरस्तु मया दृष्टा ब्राह्मणांगेषु राघव । दृष्ट्वा त्रपान्विता चाहमपक्रांता तवांतिकात्

罗伽婆啊,我见到诸祖灵(pitṛ)在婆罗门的身躯之中;见此景象,我心生惭愧,便从你面前退去。

Verse 100

त्वया वै भोजिता विप्राः कृतं श्राद्धं यथाविधि । वल्कलाजिनसंवीता कथं राज्ञः पुरःसरा

确是你供养了婆罗门,并依仪轨完成了施祖祭(śrāddha)。然而你身披树皮衣、鹿皮裘,怎会在国王之前作前导之人?

Verse 101

भवामि रिपुवीरघ्न सत्यमेतदुदाहृतम् । कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च

噢诛灭敌方勇士者,我必将前来——此言真实宣告。并且我也将带来丝绸衣裳,连同那被凯凯伊夺去的衣物。

Verse 102

ततः प्रभृति चैवाहं चीरिणी तु वनाश्रयम् । ज्ञात्वाहं न वदे किंचिन्मा ते दुःखं भवत्विति

自那时起,我居于林中,身披树皮之衣。虽知其真相,我却缄默不言,心念:“愿你不遭忧苦。”

Verse 103

नाहं स्मरामि वै मातुर्न पितुश्च परंतप । कदा भविष्यतीहांतो वनवासस्य राघव

我已不记得母亲,也不记得父亲,噬敌者啊。罗伽婆啊,这林居流放何时方得终了?

Verse 104

एतदेवानिशं राम चिंतयंत्याः पुनः पुनः । व्रजंति दिवसा नाथ तव पद्भ्यां शपाम्यहम्

罗摩啊,我昼夜唯念此事,反复不已;于是时日流逝,主啊。凭你圣足,我起誓。

Verse 105

स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदम् । दासानामपि यो दासो नोपभुंजीतयत्क्वचित्

“我怎能亲手将这食物奉给国王?纵是仆中之仆,也不应在任何时候享用那本为他所备之物。”

Verse 106

एतादृशी कथं त्वस्मै संप्रदातुं समुत्सहे । याहं राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता

我怎能鼓起勇气将自己交付于他?我本如此之人——昔日国王曾见我佩戴一切华饰。

Verse 107

बालव्यजनहस्ता च वीजयंती नराधिपम् । सा स्वेदमलदिग्धांगी कथं पश्यामि भूमिपम्

她手执孩童之扇,为人中王者轻摇送风;然而她肢体却沾满汗垢尘污——我怎能忍心再望那位国王?

Verse 108

व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारितः । दृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम्

诚然,我已得至显现之天——三十三天(Triviṣṭapa),并由你,我的儿子,而得救度。可你曾见我这悲苦的少女,在林中受困受折,明明无罪无过。

Verse 109

शोकः स्यात्पार्थिवस्यास्य तेन नष्टास्मि राघव । भवान्प्राणसमो राम न ते गोप्यं ममत्विह

此王必因此而陷于忧苦;故我已毁灭无依,噢罗伽婆。你于我如同生命之息,噢罗摩——因此在此我对你并无隐秘可藏。

Verse 110

सत्येन तेन चैवाथ स्पृशामि चरणौ तव । तच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम्

“凭此真实,我今触礼你的双足。”罗伽婆闻之心生欢喜,悦于其所爱——那位言辞柔美、语带深情的佳人。

Verse 111

अंकमानीय सुदृढं परिष्वज्य च सादरम् । भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी

他将她揽入膝上,恭敬而深情地紧紧拥抱。随后两位英雄享用备好的食物;其后,阇那姬(悉多)亦进食。

Verse 112

एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौ । उदिते च सहस्रांशौ गमनाय मनो दधुः

于是二位罗伽婆便在那般情状中留宿于彼处;及至千光之日升起,他们便定意启程而行。

Verse 113

प्रत्यङ्मुखं गतः क्रोशं ज्येष्ठं यावच्च पुष्करम् । पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः

他转面向西,行一拘舍至名为“耶什塔”的圣渡处(tīrtha),继而前往补湿迦罗(Puṣkara)——直至补湿迦罗之东部,罗伽婆所驻之处。

Verse 114

शुश्राव च ततो वाचं देवदूतेन भाषितम् । भो भो राघव भद्रं ते तीर्थमेतत्सुदुर्लभम्

随后他听见天使所言之声:“喂,喂,罗伽婆啊,愿你吉祥!此圣渡处(tīrtha)极其难得。”

Verse 115

अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुरु । देवकार्यं त्वया कार्यं हंतव्या देवशत्रवः

勇士啊,安住此地,当自修功德(puṇya)。诸天之事须由你成办;诸天之敌当被诛灭。

Verse 116

ततो हृष्टमना वीरो ह्यब्रवील्लक्ष्मणं वचः । सौमित्रेऽनुगृहीतोहं देवदेवेन ब्रह्मणा

于是那位勇者心怀欢喜,对罗什曼那说道:“苏弥多罗之子啊,我已蒙梵天——诸神之神——垂恩眷顾。”

Verse 117

अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मण । व्रतं चरितुमिच्छामि कायशोधनमुत्तमम्

噢,罗什曼那,我将在此建立一处修行林庵,愿守持一月之殊胜誓戒,以净化此身。

Verse 118

तथेति लक्ष्मणेनोक्ते व्रतं परिसमाप्यतु । पिंडदानादिभिर्दानैः श्राद्धैश्चैव पितामहान्

当罗什曼那答道“如是”之后,当圆满此誓;并以施献团食(piṇḍa-dāna)等诸布施,以及施行舍罗陀(śrāddha)仪轨,恭敬供养诸祖先。

Verse 119

पुष्करे तु तदा रामोऽतर्पयद्विधिवत्तदा । कनका सुप्रभा चैव नंदा प्राची सरस्वती

其时在补湿迦罗(Puṣkara),罗摩依正法仪轨如法行作供水礼(tarpana),并称念:Kanakā、Suprabhā、Nandā、Prācī与Sarasvatī。

Verse 120

पंचस्रोताः पुष्करेषु पितॄणां तुष्टिदायिनी । दैनंदिनीं पितॄणां तु पूजां तां पितृपूर्विकाम्

在补湿迦罗,五道圣流能令诸祖灵(pitṛ)得以满足;于彼处,当行每日供奉祖灵之礼——此乃由先祖相传的祖先仪轨。

Verse 121

रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीत् । एहि लक्ष्मण शीघ्रं त्वं पुष्कराज्जलमानय

备办既毕,罗摩对罗什曼那说道:“来吧,罗什曼那,速从补湿迦罗取水而来。”

Verse 122

पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरे । विभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशम्

洗净双足后,安卧于床榻。待长夜既尽、黎明初现,我们将启程向南方而行。

Verse 123

लक्ष्मणस्त्वब्रवीद्वाक्यं सीतयानीय तां पयः । नाहं राम सर्वकाले दासभावं करोमि ते

于是罗什曼那说道:“我与悉多一同取来了那水。噢,罗摩,我并非时时都以仆从之心对待你。”

Verse 124

इयंपुष्टाचसुभृशंपीवरीचममाप्युत । किं त्वं करिष्यस्यनया भार्यया वद सांप्रतम्

“她丰腴健美,体态极其圆满——而且确实也属于我。你要如何处置这位妻子?现在就告诉我。”

Verse 125

किं वा मृतस्य वै पृष्ठ इयं यास्यति ते प्रिया । रक्षसे त्वं सदा कालं सुपुष्टां चैव सर्वदा

“不然的话,死者的脊背又有何用?你的爱人岂会乘坐其上?你确实常常守持时机,而你也总是强健丰盛。”

Verse 126

हृष्टा चैषा क्लेशयति सततं मां रघूत्तम । त्वं च क्लेशयसे राम परत्र जायते क्षतिः

“噢,罗伽族中最卓越者,她——欢喜着——不断折磨我;你也一样,噢罗摩,使我受苦。由此将在来世招致损害。”

Verse 127

त्वत्कृते च सदा चाहं पिपासां क्षुधया सह । संसहामि न संदेहः परत्र च निशामय

为你之故,我常忍受口渴与饥饿,毫无疑虑;且听我说来世将发生之事。

Verse 128

मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते । भार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः

死者身后,不见有人随行——非妻、非子、亦非财;智者如是宣说。

Verse 129

मृतश्च ते पिता राम त्यक्त्वा राज्यमकंटकम् । विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया

罗摩啊,你的父王已逝;他舍弃无忧之国度,为遂凯凯伊之愿,将你放逐林野。

Verse 130

इहस्थिता सा कैकेयी धनं सर्वे च बांधवाः । महाराजो दशरथ एक एव गतो गतिम्

凯凯伊留在此处,连同财宝与诸亲眷;而大王达沙罗陀独自离去,走向其注定的归宿。

Verse 131

मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम् । करिष्यसे किमनया वद राघव सांप्रतम्

我想悉多必定不会随你而去。罗伽婆啊,如今告诉我:你将如何安置她?

Verse 132

श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम् । विमना राघवस्तस्थौ सीता चापि वरानना

听闻罗什伽婆从未听过的、由罗什曼那所说之语,罗什伽婆怅然伫立;悉多亦然,那容颜姝丽者同样忧惘。

Verse 133

यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह । स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ

主啊,悉多尽皆依罗什曼那之言而行。随后两位勇士——皆为莲华之眼——在补湿迦罗沐浴并用食。

Verse 134

नीत्वा विभावरीं तत्र गमनाय मनो दधुः । एह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम्

在彼处度过一夜后,他们定意启程:“来吧,起身吧,娑弥多罗;让我们前往南方之途。”

Verse 135

सौमित्रिरब्रवीद्राम नाहं यास्ये कथंचन । व्रज त्वमनया सार्धं भार्यया कमलेक्षण

娑弥多利说道:“噢,罗摩,我决不前往。你当与此妻同去,莲华眼者。”

Verse 136

नान्यद्वनं गमिष्यामि नैवायोध्यां च राघव । अस्मिन्वने वसिष्यामि वर्षाणीह चतुर्दश

“我不去别的林野,也不回阿踰陀,罗什伽婆啊;就在此林中,我将居住十四年。”

Verse 137

मया विना त्वयोध्यायां यदि त्वं न गमिष्यसि । अनेन वर्त्मना भूप आगंतव्यं त्वया विभो

若你不愿离我而独往阿踰陀(Ayodhyā),那么,噢大王、噢威德者,你就必须循此一路而来。

Verse 138

यदि जीवामि तत्कालं पुनर्यास्ये पितुः पुरम् । तपस्संभावयिष्यामि मया त्वं किं करिष्यसि

若我尚能苟活片刻,我必再返父王之城;我将修行苦行(tapas),那时你又能奈我何?

Verse 139

व्रज सौम्य शिवः पंथामा च ते परिपंथिनः । पश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणम्

去吧,温良者;愿你的道路吉祥,愿途中无有仇敌。今我见你再度归来,莲华眼者啊,并携妻同至。

Verse 140

पितृपैतामहं राज्यमयोध्यायां नराधिप । शत्रुघ्नभरतौ चोभौ त्वदाज्ञाकरणे स्थितौ

人中王啊,阿踰陀(Ayodhyā)之祖传王国今归于你;室利特鲁格那(Śatrughna)与婆罗多(Bharata)二人亦皆待命,奉行你的旨意。

Verse 141

अहं ते प्रतिकूलस्तु वनवासे विशेषतः । अनारतं दिवा चाहं रात्रौ चैव परंतप

我与你相违——尤其在这林居之事上。无有间断,白昼亦然,夜间亦然,噢焚敌者,我恒常如此。

Verse 142

कर्मकर्तुं न शक्रोमि व्रज सौम्य यथासुखम् । एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः

“此事我不能成办。温和者啊,你随意安然前去。”他如此说着,罗伽难陀那(罗摩)便对扫弥特利(罗什曼那)开口。

Verse 143

कथं पूर्वमयोध्याया निर्गतोसि मया सह । वने वत्स्याम्यहं राम नववर्षाणि पंच च

“先前你怎会与我一同离开阿踰陀?罗摩啊,我将在林中住满十四年。”

Verse 144

न तु त्वया विरहितः स्वर्गेपि निवसे क्वचित् । या गतिस्ते नरव्याघ्र मम सापि भविष्यति

“但我绝不在任何处——纵在天界——与你分离而住。人中之虎啊,你将至何等归宿,我亦同赴其途。”

Verse 145

प्रसादः क्रियतां मह्यं नय मामपि राघव । इदानीमर्धमार्गे त्वं कथं स्थास्यसि शत्रुहन्

“愿赐我恩许,也带我同去吧,罗伽婆。你既已行至半途,灭敌者啊,又怎能停留在此?”

Verse 146

लक्ष्मणस्त्वब्रवीद्रामं नाहं गंता वने पुनः । लक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीत्

然而罗什曼那对罗摩说:“我不再去林中。”罗摩知罗什曼那立意已定,便说出如下言辞。

Verse 147

मामनुव्रज सौमित्र एको यास्यामि काननम् । द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः

“随我来吧,萨乌密特罗;我将独自前往林野。让这位悉多在此作我的伴侣。”罗摩如此吩咐罗什曼那。

Verse 148

गृहीत्वाऽथ समुत्तस्थौ रामवाक्यं स लक्ष्मणः । मर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परंतपौ

随后罗什曼那领受罗摩之言而起身。二位英雄、焚灭仇敌者,抵达圣域的边界,来到名为“玛利亚达”的山。

Verse 149

अजगंधं च देवेशं देवदेवं पिनाकिनम् । अष्टांगप्रणिपातेन नत्वा रामस्त्रिलोचनम्

罗摩以八支投地之礼,顶礼三目主(特里洛恰那)——诸天之主、天中之天、执持毗那迦之神,远离一切世间气味与染污。

Verse 150

तुष्टाव प्रयतः स्थित्वा शंकरं पार्वतीप्रियम् । कृतांजलिपुटो भूत्वा रोमांचितशरीरकः

他端然肃立,称赞深爱帕尔瓦蒂的商羯罗;合掌恭敬,周身因虔敬的法喜而战栗起粟。

Verse 151

सात्विकं भावमापन्नो विनिर्धूतरजस्तमाः । लोकानां कारणं देवं बुबुधे विबुधाधिपम्

他证得萨埵之境,尽除罗阇与昏暗(惰性);遂悟知那位神圣的天众之主,正是诸世界之因。

Verse 152

राम उवाच । कृत्स्नस्य योऽस्य जगतः स चराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्च । संहारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि

罗摩说道:祂是此一切世界——动与不动——的造作者;亦依诸业所成而施与乐与苦;并于终末之时成为毁灭之因。我归依那位赐予庇护的商羯罗(Śaṅkara)。

Verse 153

योऽयं सकृद्विमलचारुविलोलतोयां गंगां महोर्मिविषमां गगनात्पतंतीम् । मूर्ध्ना दधेऽस्रजमिव प्रविलोलपुष्पां तं शंकरं शरणदं शरणं व्रजामि

我归依那位赐予庇护的商羯罗:祂曾以头顶承载恒河,水波清净而妍丽;自天穹奔泻而下,巨浪汹涌激荡,宛如花鬘,花朵摇曳飘动。

Verse 154

कैलासशैलशिखरं परिकम्प्यमानं कैलासशृंगसदृशेन दशाननेन । यत्पादपद्मविधृतं स्थिरतां दधार तं शंकरं शरणदं शरणं व्रजामि

我归依那位赐予庇护的商羯罗:当十面者(罗波那)如同另一座凯拉萨峰般震撼凯拉萨山巅时,祂以莲华之足托持,使其安住不动。

Verse 155

येनासकृद्दनुसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्रैः । संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि

我归依那位赐予庇护的商羯罗:由祂之力,檀奴之子屡次在战阵中被击退;持明众与龙众得受圆满恩赐;而以果与根为食的诸大牟尼,也被安置于正当的和合之中。

Verse 156

दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्च । तस्तंभयः कुलिशयुक्तमथेंद्रहस्तं तं शंकरं शरणदं शरणं व्रजामि

在达叉的祭祀中,祂击落其双目,也同样击落婆伽之目;又使普尚的齿列尽落;并令执金刚(vajra)之因陀罗之手麻痹不动。我归依那位赐予庇护的商羯罗。

Verse 157

एनःकृतोपिविषयेष्वपिसक्तचित्ताज्ञानान्वयश्रुतगुणैरपिनैवयुक्ताः । यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजामि

即使是造罪之人——心仍执著于诸境,且不具智慧、良族、闻学与德行——一旦依止于他,亦得安乐之享。于彼施与庇护之圣者商羯罗(Śaṅkara),我归命求依。

Verse 158

अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम् । यः कालकूटमपिबत्प्रसभं सुदीप्तं तं शंकरं शरणदं शरणं व्रजामि

我归依施与庇护之商羯罗——阿特里(Atri)所生,其光辉等同千万日轮,为诸天与阿修罗中最尊者所畏;他强饮炽燃的迦罗俱吒(Kālakūṭa)毒。

Verse 159

ब्रह्मेंद्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान्महेशः । नन्दिं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि

世尊大自在天(Maheśa)屡屡赐福于梵天、因陀罗、鲁陀罗、诸风神(Marut),乃至六面者(Ṣaṇmukha)。他又从死神之口再度救出难陀因(Nandin)。于彼施与庇护之商羯罗,我归命求依。

Verse 160

आराधितः सुतपसा हिमवन्निकुंजे धूमव्रतेन मनसापि परैरगम्ये । संजीवनीमकथयद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि

我归依施与庇护之商羯罗——他曾在喜马拉雅幽林中受烟誓者(Dhūmavrata)以严苦苦行而礼敬;彼处连他人之心念亦难至。此大心之主又向婆利古(Bhṛgu)宣说“苏命陀尼”(Saṃjīvanī)之复生妙法。

Verse 161

नानाविधैर्गजबिडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैंद्रैः । योभ्यर्चितोमरगणैश्च सलोकपालैस्तं शंकरं शरणदं शरणं व्रजामि

我归依施与庇护之商羯罗——诸天众与诸世界守护者皆礼敬于他;又有强力的伽那(Gaṇa)之主,曾摧毁达叉(Dakṣa)祭祀者,面貌多类,如象如猫,亦奉事于他。

Verse 162

शंखेंदुकुंदधवलं वृषभं प्रवीरमारुह्य यः क्षितिधरेंद्रसुतानुयातः । यात्यंबरं प्रलयमेघविभूषितं च तं शंकरं शरणदं शरणं व्रजामि

我皈依赐予庇护的商羯罗:他骑乘雄健之牛,洁白如海螺、明月与茉莉;又有山王之女随侍,行于苍穹,天际云霞如宇宙劫灭之云而为庄严。

Verse 163

शांतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम् । भक्त्यानतं स्तुतिपरं प्रसभं ररक्ष तं शंकरं शरणदं शरणं व्रजामि

我皈依赐予庇护的商羯罗:当那安寂的牟尼被奉行阎摩之令的可怖凶猛之众强行押走时,牟尼以信敬俯伏、专注赞颂;商羯罗以威力护持并救护了他。

Verse 164

यः सव्यपाणि कमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव पुरस्सुराणाम् । ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त्त तं शंकरं शरणदं शरणं व्रजामि

我皈依赐予庇护的商羯罗:他以左手指甲尖端如莲之妙相,在诸天面前强力斩落梵天的第五首;那梵首宛若初绽嫩莲。

Verse 165

यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतंद्रितात्मा । दीप्तस्तमांसि नुदते स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि

我以信敬顶礼赐福者之足,以清净之言不倦赞颂;他如炽盛之日以自身光芒驱散幽暗——我皈依那赐予庇护的商羯罗。

Verse 166

ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य । ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवंत्यविशुद्धचित्ताः

那些愚迷之人不知你——诸天之至上导师——乃此一切有情与无情世界之主;其后因恃权自傲、违逆吠陀而心不清净,终将受诸苦恼与刑罚。

Verse 167

तस्यैवं स्तुवतोऽवोचच्छूलपाणिर्वृषध्वजः । उवाच वचनं हृष्टो राघवं तुष्टमानसः

当他如此赞颂之时,执三叉戟、旗帜饰以神牛的主开口说道。祂心怀欢喜,欣然对罗伽婆发言,意念极为满足。

Verse 168

रुद्र उवाच । राम हृष्टोस्मि भद्रं ते जातस्त्वं निर्मले कुले । त्वं चापि जगतां वंद्यो देवो मानुषरूपधृत्

鲁陀罗说:“罗摩,我甚为欢喜——愿吉祥临于你。你生于清净的族系;你亦为世间所应礼敬,是取人身之神圣存在。”

Verse 169

त्वया नाथेन वै देवाः सुखिनः शाश्वतीः समा । सेविष्यंते चिरं कालं गते वर्षे चतुर्दशे

以你为主为护佑,诸天将于无尽岁月中常得安乐;待十四年过去之后,他们仍将长久侍奉于你。

Verse 170

अयोध्यामागतं त्वां ये द्रक्ष्यंति भुवि मानवाः । सुखं तेऽत्र भजिष्यंति स्वर्गे वासन्तथाक्षयम्

世间之人若在你归至阿踰陀时得以瞻见,便将在此世享受安乐,并将获得天界不坏的居处。

Verse 171

देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम् । राघवस्तु तथा देवं नत्वा शीघ्रं विनिर्गतः

“成就诸天的大业之后,你当再回此城。”于是罗伽婆礼拜神明,随即迅速离去。

Verse 172

इंद्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च । अब्रवील्लक्ष्मणं राम इदमर्पय मे धनुः

抵达名为因陀罗摩伽(Indramārgā)的河流后,罗摩束起纠结的发髻,对罗什曼那说道:“把我的弓递给我。”

Verse 173

रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीत् । किमर्थं देवि रामेण त्यक्तोहं कारणं विना

听到罗摩的话后,罗什曼那便对悉多说道:“女神啊,为何罗摩无缘无故将我弃置?”

Verse 174

अपराधं न जानामि कुपितो यन्महाभुजः । रामेणाहं परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम्

我不知自己犯了何过,竟使那位臂力无双者动怒。被罗摩遗弃,我必定舍弃此命,毫无疑问。

Verse 175

नैव मे जीवितेनार्थो धिग्धिङ्मां कुलपांसनम् । आर्यस्य येन वै मन्युर्जनितः पापकारिणा

我的生命于我已无所值;羞耻,羞耻于我,这家族的污垢!因我这作恶之人,竟引起那位正直圣者的忿怒。

Verse 176

कांस्तु लोकान्गमिष्यामि अपध्यातो महात्मना । उभौ हस्तौ मुखे कृत्वा साश्रुकंठोऽब्रवीदिदम्

“如今被那位大心者弃绝,我将往何等世界而去?”他以双手掩面,哽咽含泪,说出了这些话。

Verse 177

नापराध्यामि रामस्य कर्मणा मनसा गिरा । स्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत्

我未曾以行为、以心念、以言语冒犯罗摩。女神啊,我已触及你的莲足;于我而言,再无别的归依。

Verse 178

ततः सीताऽब्रवीद्रामं त्यक्तः किमनुजस्त्वया । वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने

于是悉多对罗摩说道:“你为何舍弃你的幼弟?孩子啊,对那增益吉祥的罗什曼那,应当放下偏私。”

Verse 179

राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् । न कदाचिदपि स्वप्ने लक्ष्मणस्य मतं प्रिये

罗伽婆对悉多说:“我不会舍弃罗什曼那。亲爱的,永不——即便在梦中——我也不会轻忽罗什曼那的劝言。”

Verse 180

श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् । अत्र क्षेत्रे जनास्सत्यं सर्वे हि स्वार्थतत्पराः

而且,纤腰美人啊,你早已听闻此圣地种种奇异之行。在这片圣域之中,确实,众人皆专注于自身之利。

Verse 181

परस्परं न पश्यंति स्वात्मनश्च हितं वचः । न शृण्वंति पितुः पुत्राः पुत्राणां पितरस्तथा

他们彼此不相顾念,也不听从对自身有益的言语。儿子不听父亲,父亲亦不听儿子。

Verse 182

न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः । अर्थानुबंधिनीप्रीतिर्न कश्चित्कस्यचित्प्रियः

弟子并非仅因师长之言就真正为师所爱;师长也并非仅因此就为弟子所爱。系于私利的情爱才是常态——无人真正为任何人所珍爱。

Verse 183

इत्येवं कथयन्नेव प्राप्तो रेवां महानदीम् । चक्रेभिषेकं काकुत्स्थः सानुजः सह सीतया

他如此言说之时,迦库特斯陀(罗摩)已抵达大河瑞瓦;并与幼弟及悉多一同,在那里行了阿毗湿迦(圣浴灌顶)之礼。

Verse 184

तर्पयित्वा च सलिलैः स्वान्पितॄन्दैवतान्यपि । उदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः

他以清水作供,向自身祖先并向诸天行塔尔帕那(奠水)之礼;又屡屡仰望太阳,并以摄心之定,观想诸神。

Verse 185

कृताभिषेकस्तु रराज रामः सीता द्वितीयः सह लक्ष्मणेन । कृताभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः

行过阿毗湿迦后,罗摩光辉灿然——与罗什曼那相随,悉多为其第二。又如是,主神湿婆亦经灌顶而辉耀——与山之女帕尔瓦蒂同在,并与古诃相伴。