Adhyaya 25
Srishti KhandaAdhyaya 2537 Verses

Adhyaya 25

The Āditya-Śayana (Ravi-Śayana) Vow: Night-Meal Discipline, Nakṣatra Limb-Worship, and the Unity of Sūrya and Śiva

毗湿摩请问:若因疾病或体力不足而不能持斋,应当修何种誓愿?普罗萨提亚开示一项被认可的替代行持——夜间进食——作为“大誓行”Āditya-śayana(Ravi-śayana)的一部分,并须配合如法礼敬商羯罗(Śaṅkara)。 本章界定一项吉祥的历法会合:星期日、七日(Saptamī)、宿曜Hasta与太阳转入新宫(Sūrya-saṅkrānti)同临,名为Sārvakāmikī。并宣说仪轨同一:以太阳之名礼敬乌玛—摩诃湿伐罗(Umā–Maheśvara),即同时礼敬苏利耶(Sūrya)与湿婆林伽(Śiva-liṅga),因为乌玛之主与罗毗(Ravi)本无差别。 又以近似“安置”(nyāsa)的方式,将诸宿曜(nakṣatra)配属身体诸分而行支分礼拜;继而说明饮食禁制、布施与隆重供施(如金莲、床榻、饰以珍宝之乳牛)。末后以祈祷、守秘与受持资格之规,以及戒除欺诳的伦理告诫作结。

Shlokas

Verse 1

भीष्म उवाच । उपवासेष्वशक्तस्य तदेव फलमिच्छतः । अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुच्यताम्

毗湿摩说道:若有人无力持斋,却愿得同等功德——或因不习惯,或因疾病——当为其宣说何种最相宜的誓戒?

Verse 2

पुलस्त्य उवाच । उपवासेष्वशक्तानां नक्तं भोजनमिष्यते । यस्मिन्व्रते तदप्यत्र श्रूयतां वै व्रतं महत्

普罗娑底耶说道:对不能持斋者,允许夜间进食。凡在何种誓戒中如此规定者,请在此聆听那伟大之誓戒。

Verse 3

आदित्यशयनं नाम यथावच्छंकरार्चनम् । येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते

名为“阿底提耶安卧(Āditya-śayana)”之仪,以及如法礼敬商羯罗;通晓《往世书》者宣说:当于何等星宿(nakṣatra)与瑜伽(yoga)之合会中修行。

Verse 4

यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत् । सूर्यस्य चापि संक्रांतिस्तिथिस्सा सार्वकामिकी

当太阳之日(主日)恰逢第七月日(Saptamī),并与宿曜“Hasta”同会,且太阳的转节(saṅkrānti)亦同时发生时,此一月日称为“Sārvakāmikī”,能成就一切所愿。

Verse 5

उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः । सूर्यार्चां शिवलिगं च उभयं पूजयेद्यतः

应以太阳诸名来礼敬乌玛与大自在天(Maheśvara)之圣像;因为如此供奉时,便同时礼拜了苏利耶之像与湿婆林伽。

Verse 6

उमापते रवेश्चापि न भेदः क्वचिदिष्यते । यस्मात्तस्मान्नृपश्रेष्ठ गृहे भानुं समर्चयेत्

大王中之最胜者啊,乌玛之主(湿婆)与拉维(太阳)之间,从不许有分别;因此,当在自家之中礼拜太阳。

Verse 7

हस्तेन सूर्याय नमोस्तुपादावर्काय चित्रासु च गुल्फदेशं । स्वातीषु जंघे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम्

在宿曜“Hasta”中,向苏利耶致敬;向阿尔卡礼拜其足。于“Citrā”中礼敬踝部;于“Svātī”中礼敬胫部,并向至上之人Puruṣottama顶礼;于“Viśākhā”中向造物主Dhātṛ礼敬膝部之处。

Verse 8

तथानुराधासु नमोभि पूज्यमुरुद्द्वयं चैव सहस्रभानोः । ज्येष्ठास्वनंगाय नमोस्तु गुह्यमिन्द्रा यभीमाय कटिं च मूले

同样,在“Anurādhā”中,以顶礼供奉那应受礼敬者;并向千光之日的双鲁陀罗致敬。在“Jyeṣṭhā”中,向无身者Anaṅga致敬;并向秘神Guhya、因陀罗Indra、毗摩Bhīma致敬;亦礼敬主宰腰部与根基、在底座之处的摄持之力。

Verse 9

पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततुरंगमाय । तीक्ष्णांशवे श्रवणे चाथ कुक्षिं पृष्ठं धनिष्ठासु विकर्तनाय

在Pūrvāṣāḍhā与Uttarāṣāḍhā交会之时,应礼敬脐轮——向Tvaṣṭṛ致敬,彼乘七马者。于Śravaṇa礼敬双耳;继而礼敬腹部;于Dhaniṣṭhā礼敬背部——向Vikartana(太阳)致敬,锐光炽烈者。

Verse 10

वक्षस्थलं ध्वांतविनाशनाय जलाधिपर्क्षे प्रतिपूजनीयम् । पूर्वोत्तरा भाद्रपदद्वये च बाहूत्तमश्चंडकराय पूज्यौ

为摧破幽暗,应礼敬胸膛,尤以属“水之主”之月日(tithi)为宜。同样,在两次Bhādrapada之期——无论白半月或黑半月——当礼敬前臂与胜妙之臂,以奉事烈光之日神。

Verse 11

साम्नामधीशाय करद्वयं च संपूजनीयं नृप रेवतीषु । नखानि पूज्यानि तथाश्विनीषु नमोस्तु सप्ताश्वधुरंधराय

大王啊,于Revatī应如法礼敬“萨曼之主”的双手;同样,于Aśvinī当礼敬指甲。愿礼敬那承担七马重任者。

Verse 12

कठोरधाम्ने भरणीषु कंठं दिवाकरायेत्यभिपूजनीयम् । ग्रीवाग्निपर्क्षे धरसंपुटे तु संपूजयेद्भारत रोहिणीषु

于Bharaṇī,应礼敬Kaṇṭha——烈辉之主——作为Divākara(日神)。在名为Grīvāgni-parkṣa之处与Dhara-saṃpuṭa之境中,婆罗多啊,于Rohiṇī当圆满礼拜彼神。

Verse 13

मृगेर्चनीया रसना पुरारे रौद्रे तु दंता हरये नमस्ते । नमः सवित्रे इति शंकरस्य नासाभि पूज्या च पुनर्वसौ च

噢Purāri,毁城者:于Mṛga当礼敬舌;于Raudra当礼敬齿——向Hari致敬。复以真言“namaḥ savitre(敬礼萨维特ṛ)”,亦当礼敬Śaṅkara之鼻;于Punarvasu亦复如是。

Verse 14

ललाटमंभोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे । सार्पे च मौलिविबुधप्रियाय मघासु कर्णाविति पूजनीयौ

在普什耶(Puṣya)宿,应礼敬额头——为莲华之主所钟爱(指拉克希米/毗湿奴)——并礼敬髋部,承载吠陀如同其身。于萨尔帕(Sārpa)宿,应礼敬头顶,为诸天所喜;于摩伽(Maghā)宿,应礼敬双耳——如是皆当崇敬。

Verse 15

पूर्वासु गोब्राह्मणनंदनाय नेत्राणि संपूज्यतमानि शंभोः । अथोत्तराफाल्गुनि भे भ्रुवौ च विश्वेश्वरायेति च पूजनीये

在前阿沙陀(Pūrvāṣāḍhā)宿,应礼敬商布(Śambhu)最为可爱的双眼,并称祂为“牛与婆罗门之喜”。继而在后法尔古尼(Uttarāphālgunī)宿,应礼敬祂的双眉,奉祂为“毗湿维湿瓦罗(Viśveśvara),宇宙之主”。

Verse 16

नमोस्तु पाशांकुशपद्मशूल कपालसर्पेन्दुधनुर्धराय । गयासुरानङ्गपुरांधकादि विनाशमूलाय नमः शिवाय

顶礼湿婆(Śiva)——执持绳索、钩杖、莲华、三叉戟、骷髅、蛇、月与弓者;祂乃摧灭伽耶阿修罗(Gayāsura)、安陀迦(Andhaka)以及阿难伽之城等魔众的根本因。顶礼湿婆。

Verse 17

इत्यादिकांगानि च पूजयित्वा विश्वेश्वरायेति शिरोभिपूज्यम् । अत्रापि भोक्तव्यमतैलमन्नममांसमक्षारमभुक्तशेषम्

如是礼敬仪轨诸肢之后,当以首俯伏致敬,称念“礼敬毗湿维湿瓦罗(Viśveśvara)”。此处亦当食用无油、无肉、无碱盐等添加之食,并且只取先已供献后所余之物(供余)。

Verse 18

इत्येवं नृप नक्तानि कृत्वा दद्यात्पुनर्वसौ । शालेयतंडुलप्रस्थमौदुंबरमथो घृतम्

如是,国王啊,既依此守持夜间斋戒之法,于普那婆苏(Punarvasu)宿之日,应行布施:一普拉斯塔(prastha)量的上等沙利米(śāli)稻米,并奉施优昙婆罗(udumbara,无花果)之供与酥油(ghee)。

Verse 19

संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् । सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेत्

将其安置于器皿中,当连同黄金供奉给堪受供养的婆罗门。至第七日,应施与一对衣服;而在圆满解斋、结束誓行(pāraṇa)之时,布施更当加增。

Verse 20

चतुर्दशे तु संप्राप्ते पारणे भारतादिके । ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरघृतादिभिः

当第十四日到来——于圆满解斋、结束誓行(pāraṇa)之时,并以“婆罗多”仪轨为始——应以虔敬供养婆罗门,奉以红糖(jaggery)、牛乳、酥油(ghee)等诸物。

Verse 21

कृत्वा च कांचनं पद्ममष्टपत्रं सकर्णिकम् । शुद्धमष्टांगुलं तच्च पद्मरागदलान्वितम्

又铸成一朵金莲,具八瓣并有中央莲房;其体清净,量为八指(aṅgula),并以莲红宝(padmarāga,红宝石)之瓣加以庄严。

Verse 22

शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम् । सोपधानवितानां च स्वास्तरावरणाश्रयाम्

又备置一张善制吉祥之床榻,去除不平之结与凸起;并设枕褥与帷幔,覆以自备的寝具与盖被。

Verse 23

पादुकोपानहच्छत्र चामरासनदर्पणैः । भूपणैरपिसंयुक्तां फलवस्त्रानुलेपनैः

并同施以木屐与鞋履、伞盖、拂尘(chāmara)、座具与明镜;亦配以王者之饰物,并奉上果品、衣服与涂身香膏等。

Verse 24

तस्यां विधाय तत्पद्ममलंकृत्य गुणान्विताम् । कपिलां वस्त्रसंयुक्तामतिशीलां पयस्विनीम्

将那莲花安置其中并加以庄严,(他备办)一头黄褐色的母牛,具足诸德:披以衣饰,性情极其温良,乳汁丰盈。

Verse 25

रौप्यखुरां हेमशृंगीं सवत्सां कांस्यदोहनाम् । दद्यान्मंत्रेण तां धेनुं पूर्वाह्णं नातिलंघयेत्

应以相应真言布施一头母牛:蹄如白银,角如黄金,偕同其犊,并备青铜挤乳器;且不可令上午时分虚度而不施此供养。

Verse 26

यथैवादित्य शयनमशून्यं तव सर्वदा । कांत्या धृत्या श्रिया पुष्ट्या तथा मे संतु वृद्धयः

噢日神阿底提耶,正如你的安息之所恒常不空,愿我的诸般兴盛亦永不匮乏——具足光辉、坚忍、福瑞与滋养。

Verse 27

यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः । तथा मामुद्धराशेष दुःखसंसारसागरात्

正如诸天不知有谁比你更为施惠,噢无垢者;愿你也将我彻底救拔,脱离充满苦恼的轮回大海。

Verse 28

ततः प्रदक्षिणीकृत्य प्रणम्य च विसर्जयेत् । शय्यां गवादि तत्सर्वं द्विजस्य भवनं नयेत्

随后行右绕礼(普拉达克希那),俯首顶礼而辞退;继而将卧榻、母牛及其余一切,送至二次出生者(婆罗门)之家。

Verse 29

नैतद्विशीलाय न दांभिकाय प्रकाशनीयं व्रतमिंदुमौलेः । गोविप्रदेवर्षिविकर्मयोगिनां यश्चापि निंदामधिकां विधत्ते

此为月冠主(湿婆)之誓戒,不可向品行不端者、伪善者宣说;亦不可向诋毁诸牛、婆罗门、诸天、圣仙与行正法之瑜伽行者者宣说。

Verse 30

भक्ताय दांताय च गुह्यमेतदाख्येयमानंदकरं शिवञ्च । इदं महापातकिनां नराणां अघक्षयं वेदविदो वदंति

此秘密教诲当传与虔信且自制之人;宣说之时,能生欢喜与吉祥。通晓吠陀者宣称:它能灭除即便犯下大罪之人的诸恶。

Verse 31

न बंधुपुत्रैर्न धनैर्वियुक्तः पत्नीभिरानंदकरः सुराणां । नाभ्येति रोगं न च दुःखमोहं या चापि नारी कुरुतेथ भक्त्या

若女子以虔敬而行,则其夫不离亲族、子嗣与财宝,并令诸妻欢悦,如在天众中蒙福者;亦不陷于疾病,不堕忧苦与迷惑。

Verse 32

इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण । यत्कीर्तनादप्यखिलानि नाशमायांति पापानि न संशयोत्र

此赞颂由婆悉吒、普罗阿周那、俱毗罗与普兰达罗所作;仅凭诵念,诸罪尽灭,于此毫无疑惑。

Verse 33

इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् । अपि नरकगतान्पितॄनशेषानपि दिवमानयतीह यः करोति

如是诵持或聆听者,便为因陀罗所喜爱;而于此行“日神卧仪(Ravi-śayana)”者,即使其一切堕入地狱之祖先,也能被他引至天界。

Verse 34

अश्वत्थं च वटं चैवोदुंबरं वृक्षमेव च । नंदीशं जंबुवृक्षं च बिल्वं प्राहुर्महर्षयः

大圣仙宣说这些为圣树:阿湿婆他(圣榕)、婆吒(榕树)、优昙婆罗(聚果榕)、难提沙树、阎浮树,以及毗罗树(毕瓦)。

Verse 35

मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामथ क्रमात् । एकैकं दंतधवनं वृक्षेष्वेतेषु कारयेत्

从摩伽尸罗月开始,按次第每两个月为一段,依其顺序,应当从这些树中各取一枝作洁齿之用。

Verse 36

दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् । द्विजानामुदकुंभांश्च पंचरत्नसमन्वितान्

仪式圆满之时,应施赠酪饭,并奉上华盖、幢旗与拂尘(chāmara);又当布施给二次生者盛水之罐,内具五宝。

Verse 37

न वित्तशाठ्यं कुर्वीत कुर्वन्दोषानवाप्नुयात्

不可在财物上行欺诈;如此作为,必招诸过罪。