Adhyaya 1
Srishti KhandaAdhyaya 167 Verses

Adhyaya 1

Puṣkara Invocation, the Dharma-Wheel at Naimiṣa, and the Padma Purāṇa Prologue

本章先以吉祥赞颂开篇,礼赞普什卡拉(Puṣkara)净化众生的圣水,能除垢障、增长法德功德。继而转入多重传承的叙事:苏多(Sūta,乌格罗施罗婆 Ugraśravas)作为毗耶娑(Vyāsa)弟子系的继承者,被嘱咐前往诸圣贤处,解答他们关于达摩(dharma)的疑问。 在奈弥沙(Naimiṣa)林中,以“法轮”意象奠定圣地:主宰哈利/毗湿奴(Hari/Viṣṇu)开示,法轮轮缘磨损之处为最具福德之地;随后祂隐没不现,邵那迦(Śaunaka)领众仙人举行长久的祭祀。苏多到来受礼敬,众贤请求宣说《莲华往世书》(Padma Purāṇa),并提出创世之问:莲华与梵天(Brahmā)的出现。 序言亦确立苏多作为往世书诵者的身份,赞颂毗耶娑即那罗延那(Nārāyaṇa),并概述全书诸部(khaṇḍa)与要旨:创生、圣地(tīrtha)、王法、王族世系与解脱(mokṣa)。

Shlokas

Verse 1

स्वच्छं चंद्रावदातं करिकरमकरक्षोभसंजातफेनं । ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः । कारालंकृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं । संभोगाभोगरम्यं जलमशुभहरं पौष्करं वः पुनातु

愿普什迦罗(Puṣkara)之水净化汝等:澄澈如月、皎洁明亮,因象与鳄之搅动而起泡沫;为守戒持愿、勤修律仪、专注于梵天(Brahmā)显现的上首婆罗门所常来供奉;又蒙三界之师梵天的目光所加持而成清净,光辉庄严;既宜享受亦宜出离,能除不祥与垢染。

Verse 2

सूतमेकांतमासीनं व्यासशिष्यं महामतिः । लोमहर्षणनामा वा उग्रश्रवसमाह तत्

大圣见苏多(Sūta)——毗耶娑(Vyāsa)之弟子——独自端坐一隅,便对他说道:“汝名罗摩诃尔沙那(Lomaharṣaṇa),亦号乌格罗施罗婆斯(Ugraśravas)。”

Verse 3

ऋषीणामाश्रमांस्तात गत्वा धर्मान्समासतः । पृच्छतां विस्तराद्ब्रूहि यन्मत्तः श्रुतवानसि

亲爱的啊,你当往诸仙(ṛṣi)之林居(āśrama)而去,略问正法(dharma)之要;待他们发问时,便将你从我处所闻者,详尽为之宣说。

Verse 4

वेदव्यासान्मया पुत्र पुराणान्यखिलानि च । तवाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तरात्

我儿啊,我从吠陀毗耶娑(Vedavyāsa)处领受了一切《往世书》(Purāṇa);你既已如我所传而得之,如今当为诸牟尼(muni)广为宣说。

Verse 5

प्रयागे मुनिवर्यैश्च यथापृष्टः स्वयं प्रभुः । पृष्टेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः

在普罗耶伽(Prayāga),上首诸圣向主宰亲自发问,主便随问而答;而那些渴求正法(dharma)的仙人们,也依其所问而受教诲。

Verse 6

देशं पुण्यमभीप्संतो विभुना च हितैषिणा । सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमं

他们渴求一方圣地,在全能而慈悯的主引导下,遇见了苏那婆(Sunābha)——形相殊胜如天,行持真实,威德吉祥。

Verse 7

अनौपम्यमिदं चक्रं वर्तमानमतंद्रिताः । पृष्टतो यातनियमात्पदं प्राप्स्यथ यद्धितम्

此无比之轮正不断运转。你们当精勤不懈,从后随行,守持戒律与克制,便能证得有益之境——那是真正的安乐归依。

Verse 8

गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते । पुण्यः स देशो मंतव्य इत्युवाच स्वयं प्रभुः

“凡行进之法轮,其轮缘磨损之处,当知彼土至为福德殊胜。”——主亲自如是宣说。

Verse 9

उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमगात्पुनः । गंगावर्तसमाहारो नेमिर्यत्र व्यशीर्यत

他如此告诫诸仙后,复又隐没不见。彼处乃恒河回旋之水汇聚之地——法轮之轮缘(nemi)亦在此碎裂。

Verse 10

ईजिरे दीर्घसत्रेण ऋषयो नैमिषे तदा । तत्र गत्वा तु तान्ब्रूहि पृच्छतो धर्मसंशयान्

其时,诸仙在尼弥沙(Naimiṣa)举行了漫长的萨特拉祭会。你当往彼处对他们宣说,因为他们正发问,并对法(dharma)心存疑惑。

Verse 11

उग्रश्रवास्ततो गत्वा ज्ञानविन्मुनिपुंगवान् । अभिगम्योपसंगृह्य नमस्कृत्वा कृतांजलिः

随后,乌格罗施罗瓦前往诸位最尊胜、具足智慧的圣贤之前;他趋近礼敬,合掌致敬,俯身顶礼。

Verse 12

तोषयामास मेधावी प्रणिपातेन तानृषीन् । ते चापि सत्रिणः प्रीताः ससदस्या महात्मने

那位智者以恭敬顶礼使诸位圣仙欢喜;而主持祭仪的诸祭官,连同会众诸席,也都因这位大心者而欣悦。

Verse 13

तस्मै समेत्य पूजां च यथावत्प्रतिपेदिरे । ऋषय ऊचुः । कुतस्त्वमागतः सूत कस्माद्देशादिहागतः

他们走近他,依正法仪轨如法供养。诸圣仙说道:“噢,苏多啊,你从何处而来?你自哪一方国土来到此地?”

Verse 14

कारणं चागमे ब्रूहि वृंदारकसमद्युते । सूत उवाच । पित्राहं तु समादिष्टो व्यासशिष्येण धीमता

“也请说明你来此之因,噢,你光辉堪比天众者。”苏多答曰:“我奉父命而来;我父乃智者,为毗耶娑之弟子。”

Verse 15

शुश्रूषस्व मुनीन्गत्वा यत्ते पृच्छंति तद्वद । वदंतु भगवंतो मां कथयामि कथां तु यां

“你当往诸牟尼处侍奉;他们问你什么,你便如实作答。愿诸尊者向我发问,我将宣说我所知的神圣传记。”

Verse 16

पुराणं चेतिहासं वा धर्मानथ पृथग्विधान् । तां गिरं मधुरां तस्य शुश्रुवुरृषिसत्तमाः

无论那是《往世书》或《史诗传记》,无论所说是种种不同的法(dharma),诸最胜仙人皆聆听他甘美的言辞。

Verse 17

अथ तेषां पुराणस्य शुश्रूषा समपद्यत । दृष्ट्वा तमतिविश्वस्तं विद्वांसं लौमहर्षणिं

于是他们渴望恭敬聆听那部《往世书》;因见罗摩诃尔沙那之子,最可信赖而博学的圣者。

Verse 18

तस्मिन्सत्रे कुलपतिस्सर्वशास्त्राविशारदः । शौनको नाम मेधावी विज्ञानारण्यके गुरुः

在那场祭祀会中,主持的族长圣者通达一切经典(śāstra);他名为绍那迦(Śaunaka),睿智卓越,为毗智那阿兰尼亚(Vijñānāraṇya)会众所尊奉之师。

Verse 19

इत्थं तद्भावमालंब्य धर्माञ्छुश्रूषुराह तम् । त्वया सूत महाबुद्धे भगवान्ब्रह्मवित्तमः

于是他怀此心境,渴求聆闻正法(dharma),便对他说:“噢,苏多(Sūta),大慧者!藉由你,那位可敬者——最胜的梵知者(Brahman-vid)将宣说。”

Verse 20

इतिहासपुराणार्थं व्यासः सम्यगुपासितः । दुदोहिथमतिं तस्य त्वं पुराणाश्रयां शुभां

毗耶娑(Vyāsa)以正当的奉持,深究《史传》(Itihāsa)与《往世书》(Purāṇa)之义,已善事于你;而你亦如挤乳般汲取其智慧,使之化为依止《往世书》的吉祥领悟。

Verse 21

अमीषां विप्रमुख्यानां पुराणं प्रति सम्प्रति । शुश्रूषाऽस्ते महाबुद्धे तछ्रावयितुमर्हसि

如今,噢大慧者,我渴望聆听由诸婆罗门中最卓越者所传授的这部《普拉那》;因此请你为我宣诵。

Verse 22

सर्वे हीमे महात्मानो नानागोत्राः समागताः । स्वान्स्वानंशान्पुराणोक्ताञ्छृण्वन्तु ब्रह्मवादिनः

此处汇集了诸位大德,出自不同族系。愿这些宣说梵(Brahman)者,如今聆听《普拉那》中所宣示、各自应得的篇分。

Verse 23

संपूर्णे दीर्घसत्रेस्मिंस्तांस्त्वं श्रावय वै मुनीन् । पाद्मं पुराणं सर्वेषां कथयस्व महामते

待这场漫长的祭祀会期圆满之时,请你确实为诸牟尼宣诵;噢大慧者,为众人之益,讲述《莲华(Padma)普拉那》。

Verse 24

कथं पद्मं समुद्भूतं ब्रह्म तत्र कथं न्वभूत् । प्रोद्भूतेन कथं सृष्टिः कृता तां तु तथा वद

莲华如何生起?梵天(Brahmā)又如何确实在彼处出现?当他出现之后,创造又是如何完成的?请如实告知我其经过。

Verse 25

एवं पृष्टस्ततस्तांस्तु प्रत्युवाच शुभां गिरम् । सूक्ष्मं च न्यायसंयुक्तं प्राब्रवीद्रौमहर्षणिः

既被如此发问,他便以吉祥之语答复众人;罗摩诃尔沙尼(Raumaharṣaṇi)宣说了微妙之法,合乎理则与正当之道。

Verse 26

प्रीतोस्म्यनुगृहीतोस्मि भवद्भिरिह चोदनात् । पुराणार्थं पुराणज्ञैः सर्वधर्मपरायणैः

我心欢喜;因你们在此恳切劝请,我已蒙垂恩——当依诸位通晓《普拉那》、奉持一切法(dharma)者之所请,宣说《普拉那》的宗旨。

Verse 27

यथाश्रुतं सुविख्यातं तत्सर्वं कथयामि वः । धर्म एष तु सूतस्य सद्भिर्दृष्टः सनातनः

我将依我所闻、亦依其广为传扬之形,向你们尽皆叙说。这确是苏多(Sūta)之永恒法(dharma),为诸善人所认可。

Verse 28

देवतानामृषीणां च राज्ञां चामिततेजसाम् । वंशानां धारणं कार्यं स्तुतीनां च महात्मनाम्

当护持并传存诸天、诸仙(ṛṣi)以及光辉无量之诸王的世系;亦当保存赞颂大心者的颂歌。

Verse 29

इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः । न हि वेदेष्वधीकारः कश्चित्सूतस्य दृश्यते

在《伊提哈萨》与《普拉那》中,确可见被称为阐说梵(Brahman)者;然而在吠陀之中,全然不见苏多(Sūta)有任何资格(adhikāra)。

Verse 30

वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः । मागधश्चैव सूतश्च तमस्तौतां नरेश्वरम्

当伟大的普利图(Pṛthu),维那之子,正举行祭祀(yajña)之时,摩伽陀(Māgadha)与苏多(Sūta)两位颂诗者便赞颂那位人中王。

Verse 31

तुष्टेनाथ तयोर्द्दत्तो वरो राज्ञा महात्मना । सूताय सूतविषयो मगधो मागधाय च

于是,大心王因他们而欢喜,赐下恩愿:赐苏多(Sūta)以苏多之地,又赐摩伽陀(Māgadha)以摩伽陀国土。

Verse 32

तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते । ऐन्द्रे सत्रे प्रवृत्ते तु ग्रहयुक्ते बृहस्पतौ

在那里,苏蒂(Sūtī)生下一子,于此世被称为苏多(Sūta);其时因陀罗的祭会正进行,布里哈斯帕提(Bṛhaspati,木星)与诸星呈吉祥合相。

Verse 33

तमेवेंद्रं बार्हस्पत्ये तत्र सूतो व्यजायत । शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः

在那里,于与布里哈斯帕提相应的仪轨中,苏多(Sūta)竟由因陀罗自身而生——因为本属上师的供献之物,被弟子之手掺杂而压过其力。

Verse 34

अधरोत्तरधारेण जज्ञे तद्वर्णसंकरम् । येत्र क्षत्रात्समभवन्ब्राह्मण्याश्चैव योनितः

由下等与上等血脉相合,便生出那种种姓(varṇa)的杂合:其中有人出自刹帝利之父,而孕于婆罗门女子之胎。

Verse 35

पूर्वेणैव तु साधर्म्याद्वैधर्मास्ते प्रकीर्तिताः । मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः

正因与前者相近,故其差别之相已被宣说。此即苏多(Sūta)的中等之法:以侍奉诸圣地(kṣetra)而维生者之本分。

Verse 36

पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह । दृष्ट्वा धर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः

在此,婆罗门们授予我掌管诸《往世书》(Purāṇa)的权柄。见我守持正法(Dharma),诸位阐说梵(Brahman)者便向我发问。

Verse 37

तस्मात्सम्यग्भुवि ब्रूयां पुराणमृषिपूजितम् । पितॄणां मानसी कन्या वासवं समपद्यत

因此,我将在世间如实宣说这部为诸仙(ṛṣi)所敬奉的《往世书》。诸祖灵(Pitṛ)意生之女,遂与婆娑婆(Vāsava,因陀罗)结合。

Verse 38

अपध्याता च पितृभिर्मत्स्यगर्भे बभूव सा । अरणीव हुताशस्य निमित्तं पुण्यजन्मनः

她被诸祖灵(Pitṛ)弃置,遂入于鱼腹之胎;如同取火木(araṇi)引出火焰一般,她成为一场清净福德之诞生的因缘。

Verse 39

तस्यां बभूव पूतात्मा महर्षिस्तु पराशरात् । तस्मै भगवते कृत्वा नमः सत्याय वेधसे

由波罗舍罗(Parāśara)而生出一位清净心性的伟大仙人。向那位吉祥的至尊——真实而施设万有的造作者(Vedhas)——致敬顶礼,遂恭敬俯伏。

Verse 40

पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने । मानवच्छद्मरूपाय विष्णवे शंसितात्मने

礼敬毗湿奴(Viṣṇu)——至上之人(Puruṣa)、太古之主——随顺梵天(Brahmā)之言,示现人形为隐覆之相,其本性为智者所称颂。

Verse 41

जातमात्रं च यं वेद उपतस्थे ससंग्रहः । मतिमंथानमाविध्य येनासौ श्रुतिसागरात्

他一出生,吠陀连同诸汇编便前来侍奉;他以智慧为搅拌之杵,搅动心识,从圣启示(Śruti)之海中汲取出真知。

Verse 42

प्रकाशो जनितो लोके महाभारत चंद्रमाः । भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः

世间由此生光:摩诃婆罗多如月;而《婆罗多》如日,噢毗湿奴。若无此三者,世间便失其照耀。

Verse 43

ततोऽज्ञानतमोंधस्य कावस्था जगतो भवेत् । कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्

否则,此世将如何,沉沦于无明黑暗而目盲?当知毗耶娑——黑岛生者克利须那·德外帕耶那——即是主那罗延那本身。

Verse 44

को ह्यन्यः पुंडरीकाक्षान्महाभारतकृद्भवेत् । तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः

除莲眼之主外,谁还能成为《摩诃婆罗多》的作者?因此,我依从宣说梵(Brahman)之真义者的教导,恭敬聆听了这部《往世书》。

Verse 45

सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः । पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्

此《往世书》为全知者所知,在诸世界受敬礼,光辉炽盛;梵天忆持之,称其为一切经典之首。

Verse 46

उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम् । त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्

此为诸世界之至上,能成就一切智慧;为人生三大目标之清净法门,广大无边——广布至百俱胝之量。

Verse 47

निःशेषेषु च लोकेषु वाजिरूपेण केशवः । ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ

于是,凯沙瓦化作骏马,遍行无遗诸世界,依梵天之命取回诸吠陀。

Verse 48

अंगानि चतुरो वेदान्पुराणन्यायविस्तरम् । असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्

诸吠陀支分、四部吠陀、诸《往世书》以及广博的因明之学——乃至一切圣典之总集——皆为阿修罗所夺,并据为己有。

Verse 49

मत्स्यरूपेणाजहार कल्पादावुदकार्णवे । अशेषमेतदवददुदकांतर्गतो विभुः

于劫初,遍在之主化为鱼身,在水之大海中取回此一切;并在水中安住之时,将此诸事详尽宣说。

Verse 50

श्रुत्वा जगाद च मुनीन्प्रतिवेदांश्चतुर्मुखः । प्रवृत्तिस्सर्वशास्त्राणां पुराणस्याभवत्तदा

四面者(梵天)闻之,遂对诸牟尼及通达各部吠陀者宣说;于是,一切论典之传承——尤以《往世书》为要——于彼时建立。

Verse 51

कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः । व्यासरूपस्तदा ब्रह्मा संग्रहार्थं युगे युगे

至上者见到随着时光流逝,普拉那已难以如实传持,便由梵天化现为毗耶娑,为了在每一时代护持保存而加以编纂。

Verse 52

चतुर्लक्षप्रमाणेन द्वापरे द्वापरे जगौ । तदाष्टादशधा कृत्वा भूलोकेस्मिन्प्रकाशितं

在每一个兜婆罗时代,它以四十万(偈颂)的规模被诵出;随后分为十八部,使之在此人间世界得以显现流布。

Verse 53

अद्यापि देवलोकेषु शतकोटिप्रविस्तरम् । तदेवात्र चतुर्लक्षं संक्षेपेण निवेशितम्

即便如今,在诸天世界中它仍广至百俱胝之详尽;而同一部圣教在此则以略本呈现,凝缩为四十万(偈颂)。

Verse 54

प्रवक्ष्यामि महापुण्यं पुराणं पाद्मसञ्ज्ञितम् । सहस्रं पञ्चपञ्चाशत्पंचखण्डैस्समन्वितम्

我将宣说那至为功德无量、名为《莲华普拉那》(Padma Purāṇa)的圣典:共五万五千偈,分为五部(khaṇḍa)。

Verse 55

तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परम् । स्वर्गखण्डं ततः पश्चात्ततः पातालखण्डकम्

其中首先称为“创世部”(Sṛṣṭi-khaṇḍa),其次为“大地部”(Bhūmi-khaṇḍa);其后是“天界部”(Svarga-khaṇḍa),再后为“地下界部”(Pātāla-khaṇḍa)。

Verse 56

पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम् । एतदेव महापद्ममुद्भूतं यन्मयं जगत्

其后,第五部被称为最胜的“后分”(Uttara-khaṇḍa)。正由此“大莲华”(Mahāpadma)而生此宇宙,宇宙亦由其所成。

Verse 57

तद्वृत्तान्ताश्रयं यस्मात्पाद्ममित्युच्यते ततः । एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम्

由于它依止于那段事迹,故名为《莲华》(Padma)《往世书》。此往世书清净无垢,以赞颂毗湿奴(Viṣṇu)的威德而纯净。

Verse 58

देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा । ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये

凡诸天之天、哈利(Hari)昔日对梵天(Brahmā)所宣说者,梵天先前也仅将其如是之量传与摩利支(Marīci)。

Verse 59

एतदेव च वै ब्रह्मा पाद्मं लोके जगाद वै । सर्वभूताश्रयं तच्च पाद्ममित्युच्यते बुधैः

诚然,梵天(Brahmā)亲自于世间宣说此为“莲华”(Pādma);又因它是诸有情之所依,智者亦称之为“莲华”。

Verse 60

पाद्मं तत्पंचपंचाशत्सहस्राणीह पठ्यते । पंचभिः पर्वभिः प्रोक्तं संक्षेपाद्व्यासकारितात्

此《莲华往世书》(Padma Purāṇa)在此诵读为五万五千颂;由毗耶娑(Vyāsa)编排,以略说之体分为五部而宣示。

Verse 61

पौष्करं प्रथमं पर्व यत्रोत्पन्नः स्वयं विराट् । द्वितीयं तीर्थपर्व स्यात्सर्वग्रहगणाश्रयम्

普什迦罗为第一圣分,因为宇宙之毗罗阇(Virāṭ)于彼自现。第二为诸圣渡处(tīrtha)之分,乃一切行星众宿之所依所归。

Verse 62

तृतीयपर्वग्रहणा राजानो भूरिदक्षिणाः । वंशानुचरितं चैव चतुर्थे परिकीर्तितम्

第三分中记述奉行圣仪并广施布施(dāna)的诸王;第四分则宣说诸王族世系及其行传史事。

Verse 63

पंचमे मोक्षतत्वं च सर्वतत्वं निगद्यते । पौष्करे नवधा सृष्टिः सर्वेषां ब्रह्मकारिता

第五分宣说解脱(mokṣa)之真理(tattva)与一切实相之真理。于普什迦罗,造化被说为九重,由梵天(Brahmā)为一切众生而成就。

Verse 64

देवतानां मुनीनां च पितृसर्गस्तथापरः । द्वितीये पर्वताश्चैव द्वीपाः सप्त ससागराः

亦有诸天(deva)、诸牟尼(muni)与祖灵(Pitṛ)之创造。第二分中又叙述诸山,并说七大洲(dvīpa)及其环绕之海。

Verse 65

तृतीये रुद्रसर्गस्तु दक्षशापस्तथैव च । चतुर्थे संभवो राज्ञां सर्ववंशानुकीर्त्तनम्

第三分叙述与鲁陀罗(Rudra)相关之创造,并及达叉(Dakṣa)之诅咒。第四分则说诸王之起源,并总述一切王族世系。

Verse 66

अन्त्येपवर्गसंस्थानं मोक्षशास्त्रानुकीर्त्तनम् । सर्वमेतत्पुराणेऽस्मित्कथयिष्यामि वो द्विजाः

诸位二次生者,我将在此《往世书》中为你们宣说一切:究竟解脱如何安立,以及解脱(mokṣa)诸论典的开示。

Verse 67

इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात् इदं च देवस्य सुखाय नित्यमिदं महापातकभिच्च पुंसाम्

此乃清净神圣,为善名之宝藏;亦为祖先所极爱。此恒为神明之喜悦,且能为世人摧灭重罪。