
Glory of Nīla Mountain and the Prelude to King Ratnagrīva’s Legend
本章先写舍多卢伽那(Śatrughna)惊叹于贤者遮瓦那(Cyavana)以苦行之力成就的瑜伽神迹,继而再度追逐阿湿婆美陀(Aśvamedha)祭马。行程之中,毗摩罗王(Vimala)以礼相迎,使追寻在正法之道上继续推进。 随后叙事转入圣地地理:舍多卢伽那望见一座光辉灿然的山,名为尼罗山(Nīla),乃普鲁绍多摩(Puruṣottama)之居处;唯有具德行、心向哈利(Hari)者方能得见。文中插入训诫:诸罪业与违越礼法之行,会遮蔽清净,令圣境难以显现。 普罗陀斯提亚(Pulastya)进一步确立教义:尼罗山上的普鲁绍多摩为至上所礼敬者。并引出“古老传说”——建支(Kāñcī)之王宝峰(Ratnagrīva)治国以义,晚年渴求至高的朝圣圣地(tīrtha),遇一苦行婆罗门赞颂罗摩旃陀罗(Rāmacandra),并综述迦尸(Kāśī)、俱卢之野(Kurukṣetra)、堕罗迦(Dvārakā)等大圣地,终以尼罗山所见奇瑞作结。
Verse 1
शेष उवाच । शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम् । प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम्
舍沙说道:于是,沙特鲁格那见到恰瓦那由苦行所生、不可思议的威力,便赞叹那婆罗门的苦修——为诸世界所共敬共颂。
Verse 2
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे । यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत्
“啊!婆罗门中最胜者啊,请看瑜伽的成就:仅在刹那之间,他便令那难得的天车造成。”
Verse 3
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम् । क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम्
无垢自性的牟尼圣者,何处有那崇高的真乐成就?而缺乏苦行之力的人类之魂,又何处只有贪求享乐的欲望?
Verse 4
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे । क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान्
他如此自语而心生满足,沙特鲁格那在恰瓦那的精舍停留片刻;饮了清水,便得安乐舒泰之境。
Verse 5
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः । पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान्
那匹骏马饮了名为“Payoṣṇī”的圣河之水,清净如乳;饮毕便继续上路,疾行如风,迅猛非常。
Verse 6
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा । हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः
众武士见他离去,便从后追赶:有的乘象,有的步行为兵,有的驾战车,有的骑马疾追。
Verse 7
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः । पृष्ठतोऽनुजगामाशु रथेन हयशोभिना
沙特鲁格那与名为苏摩提的贤良大臣同行,乘着骏马辉映的华美战车,迅速从后追随。
Verse 8
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः । रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम्
行旅之间,他抵达毗摩罗王之城——瓦吉普拉;又见“宝岸”之地(Ratnātaṭa),人群熙攘,欢欣而富足。
Verse 9
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम् । पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम्
他从侍者处听闻:罗伽胡那陀那匹最上良马确已来到近前,并随同诸军武士;于是他便依此作出应对。
Verse 10
तदा गजानां सप्तत्या चंद्रवर्णसमानया । अश्वानामयुतैः सार्धं रथानां कांचनत्विषाम्
于是他们前行,带着七十头色如明月的象,又有一万匹骏马相随,并有金辉灿然的战车同行。
Verse 11
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान् । शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान्
他率领一千人前往室多罗伽那(Śatrughna)处;向室多罗伽那顶礼后,又礼敬所有已至的伟大战车勇士。
Verse 12
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च । किं करोमीति राजा तं जगाद पुरतः स्थितः
他将宝库与一切财宝,乃至王国都奉献给他;国王立于其前说道:“我当作何行?”
Verse 13
राजापि तं स्वीयपदे प्रणम्रं । दोर्भ्यां दृढं संपरिषस्वजे महान् । जगाम साकं तनये स्वराज्यं । निक्षिप्य सर्वं बहुधन्विभिर्वृतः
国王见他俯伏在自己足下,那位伟大者便以双臂坚实拥抱。随后在众多弓箭手环卫之下,他与其子同往本国,诸事安置妥当。
Verse 14
रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम् । सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम्
听闻“罗摩旃陀罗(Rāmacandra)”之名——令一切聆听圣典者心悦——众人皆俯首顶礼;并献与他(亦及于我等)丰厚财宝与大富。
Verse 15
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा । सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा
他礼敬国王之后,舍特鲁格那满怀大喜,率军启程;其时那匹马在后随行。
Verse 16
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह । स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः
他就这样沿路前行,望见一座群山之冠;其台地与山脊辉耀夺目,缀以水晶、黄金与白银的光带。
Verse 17
जलनिर्झरसंह्रादं नानाधातुकभूतलम् । गैरिकादिकसद्धातु लाक्षारंगविराजितम्
瀑泉奔泻之声轰然回荡;其地表由多种矿质构成,并以赤赭与似紫胶之色等上等矿彩熠熠生辉。
Verse 18
यत्र सिद्धांगनाः सिद्धैः संक्रीडंत्यकुतोभयाः । गंधर्वाप्सरसो नागा यत्र क्रीडंति लीलया
在那里,悉达仙女与悉达众自在嬉戏,毫无怖畏;甘达婆、阿普萨拉与那伽亦在彼处从容游乐。
Verse 19
गंगातरंगसंस्पर्श शीतवायुनिषेवितम् । वीणारणद्धंसशुकक्वणसुंदरशोभितम्
它被圣恒河粼粼波涛轻拂,又受清凉微风滋养;并以悦耳之音增辉——维那琴的回响,以及天鹅与鹦鹉的甜美鸣唱。
Verse 20
पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम् । तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः
一见那座山,舍特鲁格那便对苏玛蒂说道;仅凭此一瞥所生的惊奇,使他的心神尽为震撼。
Verse 21
कोऽयं महागिरिवरो विस्मापयति मे मनः । महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः
这是谁——群山之最,竟令我心惊叹?它以如上好白银般的广阔山体,在道路旁奇异地辉耀。
Verse 22
अत्र किं देवतावासो देवानां क्रीडनस्थलम् । यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः
此处莫非是诸神的居所、天众(deva)的游乐之地?因为这里汇聚的荣光,竟使人心中起伏不宁。
Verse 23
इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा । वक्ष्यमाणगुणागार रामचंद्र पदाब्जधीः
听罢此言,苏玛蒂随即开口;她的心念安住于罗摩旃陀罗的莲足——那即将被赞颂的德藏之所。
Verse 24
नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप । मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समंततः
大王啊,这座青蓝之山在你面前熠熠生辉,地上之主啊;四面环绕着悦目的高峰,其峰顶皆如水晶。
Verse 25
एनं पश्यंति नो पापाः परदाररता नराः । विष्णोर्गुणगणान्ये वै न मन्यंते नराधमाः
罪人——沉迷于他人妻室者——不能瞻见祂;而那些不敬奉毗湿奴无量德行的卑劣之人,也同样不得见祂。
Verse 26
श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम् । न मन्यंते स्वबुद्धिस्थ हेतुवादविचारणाः
那些只凭自智、沉溺于诡辩推论的人,不肯接受由《闻》(Śruti)与《忆》(Smṛti)所生、并为贤善之士善加确立的正法。
Verse 27
नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः । यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः
贩卖靛青者、经营紫胶者,以及那出售酥油等物的婆罗门——此等人皆应视同饮酒者。
Verse 28
कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिने । विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः
父亲不应将一位少女——纵然容貌出众——嫁与无良族、无善行之人。若因贪恋财物而为之,则那被罪所迷的父亲,实乃将她出卖。
Verse 29
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः । स्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः
那人若诋毁其妻——虽具良族与德行——又独自享用甘美之食而不分与亲族,实为可责。
Verse 30
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः । कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः
凡为供养婆罗门而备食时却在烹调上分出高下者,此等愚人不应把哪怕一碗克利萨拉(米粥)或帕耶萨(甜乳饭)施与求乞之人。
Verse 31
अतिथीनवमन्यंते सूर्यतापादितापितान् । अंतरिक्षभुजो ये च ये च विश्वासघातकाः
凡轻慢宾客者——尤其是被烈日灼烤、受其煎迫者——以及以掠夺他人而活者,又有背信弃义者,皆堕于重罪。
Verse 32
न पश्यंति महाराज रघुनाथ पराङ्मुखाः । असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः
大王啊,那些背离罗古那陀者并不觉知:那至圣的群山之最,因普鲁绍塔摩而光辉灿然。
Verse 33
पवित्रयति सर्वान्नो दर्शनेन मनोहरः । अत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः
其相悦目,仅以一见便净化众生。祂安住于此——诸天以冠冕礼敬其足。
Verse 34
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः । श्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम्
普鲁绍塔摩——至上之人——唯有具德者堪得瞻仰;祂赐予功德。即便诸吠陀以“非此、非此”来称说祂,也未能尽知其本体。
Verse 35
यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम् । वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः
连因陀罗与诸天也寻求祂足下之尘,而此尘极难得;智者凭借《吠檀多》及相关教义中无瑕的圣言而知晓祂。
Verse 36
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः । आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना
在此,至上之人普鲁绍塔玛(Puruṣottama)光辉显赫,居于尼罗山。登临其上,当向祂顶礼、致敬,并以功德之供品等而奉祀。
Verse 37
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः । अत्राप्युदाहरंतीममितिहासं पुरातनम्
大王啊,他食用了供奉的圣食(naivedya)之后,便成了四臂之身。就此事,人们也援引这则古老传说。
Verse 38
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम् । रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः
大王啊,请聆听这段充满种种奇妙的记述:即宝颈王(Ratnagrīva)及其一家所遭遇之事。
Verse 39
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् । आसीत्कांची महाराज पुरी लोकेषु विश्रुता
大王啊,建志城(Kāñcī)闻名诸界;它得具神圣之相,以四臂之主的形相为始,此等殊胜,连诸天与阿修罗亦难得。
Verse 40
महाजनपरीवारसमृद्धबलवाहना । यस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम्
此地众人随从云集,力势与车乘具足;其中居住着最上等的婆罗门,极其专注于六种规定的本分之业。
Verse 41
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः । क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः
他们致力于一切众生之福祉,渴慕对罗摩的奉爱;刹帝利善于兴师作战,即在战阵之中亦从不退逃。
Verse 42
परदार परद्रव्य परद्रोहपराङ्मुखाः । वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः
吠舍之人远离他人妻、他人财物与对他人的怨害;其吉祥生业为放贷、耕作与贸易等诸般行业。
Verse 43
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा । शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः
以恒常侍奉婆罗门,昼夜皆在此中流转;即便首陀罗也常常在罗伽胡那陀(罗摩)的莲足前培育深情的奉爱。
Verse 44
कुर्वंति कथनं रामरामेति रसनाग्रतः । प्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै
有些平常之人,常令“罗摩、罗摩”停驻舌尖而诵;诚然,他们不造罪业——不在行为上,乃至心念中亦然。
Verse 45
दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशः । वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः
在那里,布施、慈悲、克己与真实恒常安住;无过之人不说伤害他人的言语。
Verse 46
न पारक्ये धने लोभं कुर्वंति न हि पातकम् । एवं प्रजा महाराज रत्नग्रीवेण पाल्यते
他们不贪恋他人之财,也不造罪业。如此,伟大的君王啊,众民由宝颈者罗怛那吉利婆(Ratnagrīva)治理并护持。
Verse 47
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः । एवं पालयमानस्य प्रजाधर्मेण भूपतेः
他远离贪欲,在那里只取六分之一而别无所取。如此,君王啊,乃是依人民之法度与本分而施政者。
Verse 48
गतानि बहुवर्षाणि सर्वभोगविलासिनः । विशालाक्षीं महाराज एकदा ह्यूचिवानिदम्
多年过去——他们尽享诸般受用与逸乐之时——大王有一天对毗舍罗迦希(Viśālākṣī)说道:
Verse 49
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम् । पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः
从那位贞敬的法妻(dharmapatnī)——守持夫妇之贞誓(pativrata)、专志于妻道之正法者,广目者啊——诞生了诸子,皆能担负护民之重任。
Verse 50
परीवारो महान्मह्यं वर्तते विगतज्वरः । हस्तिनो मम शैलाभा वाजिनः पवनोपमाः
宏大的随从侍立于我,远离忧苦。我的大象如山岳,我的骏马似疾风。
Verse 51
रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशः । महाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न
我的战车以良驹驾轭,恒常听我差遣;承大毗湿奴之恩,我毫无所缺。
Verse 52
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम । परं तीर्थं मया नाद्य कृतं परमशोभने
因此,我心中唯有一愿坚定不移:啊,至美者,我尚未启行那至上的朝圣,前往最高的圣地(tīrtha)。
Verse 53
गर्भवासविरामाय क्षमं गोविंदशोभितम् । वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान्
那时我已成老者——身躯布满皱纹,鬓发斑白——然而仍堪求脱离再入胎藏之苦,并蒙戈文达的恩辉而庄严。
Verse 54
करिष्यामि मनोहारि तीर्थसेवनमादृतः । यो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः
啊,令人倾心者,我将恭敬奉行朝礼诸圣地之行;因为那人若终其一生只知填满自己的肚腹……
Verse 55
न करोति हरेः पूजां स नरो गोवृषः स्मृतः । तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये
不敬拜哈利(Hari)的人,被视为牛群中的一头公牛而已。因此,吉祥的爱人啊,我将前往诸圣地(tīrtha)朝圣。
Verse 56
सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम् । इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे
他携同家眷,将王国的全部重担安然托付给儿子。既已如此决意,黄昏时分便在夜的寂静中观想哈利(Hari)。
Verse 57
अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम् । प्रातरुत्थाय राजासौ कृत्वा संध्यादिकाः क्रियाः
他在梦中见到一位卓越的婆罗门苦行者。黎明起身后,那位国王行诸仪轨,先从桑迪亚(Sandhyā)祈祷开始。
Verse 58
सभां मंत्रिजनैः सार्द्धं सुखमासेदिवान्महान् । तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम्
那位伟大者与群臣同坐王廷,安然就座;就在此时,他看见一位婆罗门——形体消瘦的苦行者。
Verse 59
जटावल्कलकौपीनधारिणं दंडपाणिनम् । अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम्
他披散结发,身着树皮衣与兜裆布,手执杖;因奉事无数圣地(tīrtha),其身躯本身已成福德之器。
Verse 60
राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः । अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः
见到他,那位臂力雄伟的国王俯首顶礼。国土之主心怀欢喜,随即备办迎宾之供:奉上阿尔吉亚(迎请之水)与帕迪亚(洗足之水)等礼仪。
Verse 61
सुखोपविष्टं विश्रांतं पप्रच्छ विदितं द्विजम् । स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम्
见那位博学的婆罗门安坐舒适、已得歇息,国王便问道:“大师,今日得见尊颜,我身所系之罪已然消散。”
Verse 62
महांतः कृपणान्पातुं यांति तद्गेहमादरात् । तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति
“大德之士为护佑困苦之人,恭敬前往其家。故此,婆罗门啊,请你如今告知我这老者——当行何事。”
Verse 63
को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत् । यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः
“为防止流产,当祈请哪位天神?又哪一处圣地渡口(提尔塔)最为相宜?诸位至善者,遍在如一,恒住三摩地与禅观。”
Verse 64
सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः । यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात्
“诸位无垢者,因遍浴诸提尔塔而功德圆成;请如法聆听我言。我将为具信之人,详尽开示。”
Verse 65
कथयस्व प्रसादेन सर्वतीर्थविचक्षण । ब्राह्मण उवाच । शृणु राजेंद्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम्
“请以慈恩开示,噢通晓一切圣地(tīrtha)者。”婆罗门说道:“请听,诸王之主;我将依你所问,宣说亲近与奉行圣地 tīrtha 的修持。”
Verse 66
कस्य देवस्य कृपया गर्भनिर्वारणं भवेत् । सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः
凭哪位神祇的恩典,方能解除胎中之阻?唯有圣罗摩旃陀(Śrī Rāmacandra)当受礼敬;他能灭除轮回世间(saṃsāra)之热恼。
Verse 67
पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकः । नाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः
唯有他——名为“至上之人”Puruṣottama 的世尊(Bhagavān)——才真正堪受礼敬。我曾见过许多圣城,皆能灭尽诸罪。
Verse 68
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम् । अवंती विमला कांची रेवा सागरगामिनी
阿踰陀(Ayodhyā)、萨罗瑜河(Sarayū)、塔毗河(Tāpi),以及哈利(Hari)至上的圣门;阿槃提(Avantī)、毗摩罗(Vimalā)、建支(Kāñcī),与奔向大海的瑞瓦河(Revā)——皆被宣说为圣。
Verse 69
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम् । मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम्
瞿迦耳那(Gokarṇa)与名为哈塔迦(Hāṭaka)之地,能毁灭乃至亿万(crores)之罪。名为摩利迦(Mallikā)的大山,赐予见之者解脱(mokṣa)。
Verse 70
यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत् । पातकस्यापहारीदं मया दृष्टं तु तीर्थकम्
此处圣地(tīrtha)中,水触及众人肢体时,或呈黝黑,或澄澈如晶;我亲眼见过这神圣渡口,能除灭罪业。
Verse 71
मया द्वारवती दृष्टा सुरासुर निषेविता । गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा
我曾见到天门城(Dvāravatī),为诸天与阿修罗所往来;彼处戈摩提河(Gomati)流淌,吉祥无比,实为梵(Brahman)之水。
Verse 72
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः । यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित्
彼处,睡眠被称为归于消融;死亡依圣传即为解脱。居于其地之人,迦梨(Kali)之力永不逞势。
Verse 73
चक्रांका यत्र पाषाणा मानवा अपि चक्रिणः । पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः
彼处,连石块也印有法轮(cakra)之记;人亦为持轮者。兽类、虫类、鸟类等一切众生,皆具轮印之身。
Verse 74
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः । सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता
那座城中,三步神(Trivikrama)——诸世界唯一的守护者——安住其间;凭借大功德之力,我得以亲见此圣城。
Verse 75
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम् । स्यमंतपंचकं यत्र महापातकनाशनम्
我已瞻礼俱卢之野(Kurukṣetra),能除一切杀业之垢;彼处有善曼多五池(Syamantapañcaka),能灭除重大罪障。
Verse 76
वाराणसी मया दृष्टा विश्वनाथकृतालया । यत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम्
我已瞻礼婆罗奈西(Vārāṇasī),乃毗湿瓦那他(Viśvanātha)所立之圣居;彼处传授名为梵(Brahman)的度脱真言——塔罗迦(Tāraka)咒。
Verse 77
यस्यां मृताः कीटपतंगभृंगाः । पश्वादयो वा सुरयोनयो वा । स्वकर्मसंभोगसुखं विहाय । गच्छंति कैलासमतीतदुःखाः
在那圣地,凡于彼处命终者——即便是虫蚁、飞蛾与蜜蜂,或诸兽等类,乃至生于天界之众——舍离由自业受用而生之乐,皆往诣凯拉萨(Kailāsa),超越诸苦。
Verse 78
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी । करोति संसृतेर्बंधच्छेदं पापकृतामपि
彼处有名为摩尼迦耳尼(Maṇikarṇī)的圣渡口;其河水北流,能断轮回之缚,纵使造罪之人亦然。
Verse 79
कपर्दिनः कुंडलिनः सर्पभूषाधरावराः । गजचर्मपरीधाना वसंति गतदुःखकाः
他们发结盘顶,佩戴耳环,以蛇为最胜庄严,身披象皮而住;诸苦已离,安然居止。
Verse 80
कालभैरवनामात्र करोति यमशासनम् । न करोति नृणां वार्तां यमो दंडधरः प्रभुः
仅仅称念“迦罗婆罗婆”(Kālabhairava)之名,阎摩的惩戒便不再生效;执罚杖之主阎摩,甚至不再顾视此等之人。
Verse 81
एतादृशी मया दृष्टा काशी विश्वेश्वरांकिता । अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप
我所见的迦尸(Kāśī)正是如此——以毗湿维湿伐罗(Viśveśvara)为印记。我也见过许多其他神圣的渡口圣地(tīrtha),大王啊。
Verse 82
परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते । पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम्
在尼罗山(Nīla)上,我见到一件至极奇妙的神迹;然而即便在普鲁绍塔摩(Puruṣottama)亲临之处,它也无处落入眼界。