
The Meeting with Puṣkala’s Wife
在《莲花往世书》地下界篇第11章(PP.5.11)中,罗摩马祭(Rāmāśvamedha)的叙事在宫廷筹划、祭仪法度与家庭温情之间转换。罗摩与大臣苏曼特罗商议,为祭马遴选能干的护卫;文中列举诸王与勇士,连同其军旅与对诸“阿斯特拉”(神圣武器法)的精熟。 本章强调正法王道:罗摩告诫不可攻击无武之人——孩童、妇女,以及疏忽未备者。祭礼开启之际,叙述向师长与祭司所行的典范布施(dāna)。婆悉吒以真言与触礼放出祭马,军队在吉祥征兆中启程。 题旨所指的高潮,是普什迦罗归家与其虔敬的妻子相会。二人言行中彰显职责、家宅之法(gṛhastha-dharma)与敬长之道,并与即将承担的护马征行相互映照。
Verse 1
शेष उवाच । एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः । वीरानालोकयन्भूयो जगाद शुभया गिरा
舍沙(Śeṣa)说道:如是下达命令后,世尊罗摩(Rāma),摧伏仇敌者,再次环视诸勇士,以吉祥之言而告之。
Verse 2
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै । को गंता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः
我兄弟设多卢诃那(Śatrughna)确是护马之人;谁将随行其后,守护此马,并忠实奉行他的指令?
Verse 3
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसंघैः । गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम्
凡能以连绵兵刃击中要害,正面战胜一切迎战之勇士者——就让他取我之卡拉维塔卡(Karavīṭaka),并在那片土地上广布自身名声。
Verse 4
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः । जग्राह वीटकं तस्माद्रघुराजकरांबुजात्
罗摩如此说罢,婆罗多之子普什迦罗,便从那位罗瞿王族之王莲华般的手中接过了 vīṭaka。
Verse 5
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम् । सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो
主啊,我将出发,室多卢伽那啊,我日日为你守护后方。披甲备具诸般兵器与飞射之具,执弓持箭,吾主。
Verse 6
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते । एते निमित्तभूता वै रामचंद्र महामते
今日凭你英勇之威,整个大地之面必将被征服。大慧的罗摩旃陀罗啊,这些不过是真正的助缘与器因而已。
Verse 7
भवत्कृपातः सकलं ससुरासुरमानुषम् । उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम्
承你慈恩,诸众——天神、阿修罗与人类——尽皆集结,备战而立;然而我确能制止并阻断这场争斗。
Verse 8
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात् । एष गंतास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः
“主见我之勇,自会明了一切。室多卢伽那啊,我将前往——你当承担守护我军后方之责。”
Verse 9
एवं ब्रुवंतं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः । शशंस सर्वान्कपिवीरमुख्यान्प्रभंजनोद्भूतमुखान्हरिः प्रभुः
当婆罗多之子如此陈说时,主神诃利赞叹他,以“善哉”之言表示认可。随后,这位至上之主称扬诸猴族勇士中的翘楚,尤以风神之子所率者为最。
Verse 10
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः । त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकंटकम्
噢,哈奴曼,大勇士,请恭敬专注地聆听我的话。因你之恩,我得此国度,无有荆棘,远离障碍与仇敌。
Verse 11
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन । पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः
至此,《圣莲花往世书》地下界篇(Pātālakhaṇḍa)中,舍沙与瓦茨亚耶那之对话里,关于罗摩马祭(Aśvamedha)及放释神马之段落,题为“与普什迦罗之妻相会”的第十一章圆满结束。
Verse 12
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया । शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा
你且前去,在我正当的命令之下,作我军队的守护者。沙特鲁伽那——我的亲兄弟——当由你护持,如同护持我一般。
Verse 13
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते । तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते
无论何处何时,若沙特鲁伽那生起判断迷乱,便应当即在彼处唤醒他,使其复归明澈;噢,广大心智者。
Verse 14
इति श्रुत्वा महद्वाक्यं रामचंद्रस्य धीमतः । शिरसा तत्समाधाय प्रणाममकरोत्तदा
听闻睿智的罗摩旃陀罗之崇高言辞后,他将其顶戴于首,当下便恭敬礼拜俯伏。
Verse 15
अथादिशन्महाराजो जांबवंतं कपीश्वरम् । रघुनाथस्य सेवायै कपिषूत्तमतेजसम्
随后,大王命令猴王阇摩婆梵——诸般婆那罗中最为光辉者——前去奉事罗伽胡那他(圣罗摩)。
Verse 16
अंगदो गवयो मैंदस्तथा दधिमुखः कपिः । सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी
安伽陀、伽婆耶、迈因陀,以及猴将达提穆迦;又有苏格利婆——群猴之主;并有两猴沙多婆梨与阿叉迦,皆被提及。
Verse 17
नीलो नलो मनोवेगोऽधिगंता वानरांगजः । इत्येवमादयो यूयं सज्जीभूता भवंतु भोः
“尼罗、那罗、摩奴韦伽、阿地伽摩他、婆那罗昂伽阇等诸位——你们都请整装待命,速速准备!”
Verse 18
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः । कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः
率同诸象与良马,佩以炽炼黄金之饰,又以铠甲与头盔庄严,他们迅速动手为她装点。
Verse 19
शेष उवाच । सुमंत्रमाहूय सुमंत्रिणं तदा जगाद रामो बलवीर्यशोभनः । अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः
舍沙说道:其时罗摩光耀于力量与英勇,召来大臣苏曼特罗而言:“诸臣之首啊,请告我:此处当任命哪些人,方能胜任守护圣马?”
Verse 20
तदुक्तमेवमाकर्ण्य जगाद परवीरहा । हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान्
闻此言后,那位诛灭敌方勇士者宣告:“此处有强盛诸王,皆堪当此任,足以护卫此马。”
Verse 21
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान् । धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान्
罗伽胡那陀啊,请听这九位勇士,训练精严、纪律齐整;皆为神弓手,具深奥之学,通晓一切兵器与飞射之器。
Verse 22
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम् । रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम्
“(他见到/列举)名为普拉塔帕阿格里亚之王,又有尼罗罗怛那,以及名为拉克什弥尼地之王;同样还有里普塔帕,并有欧伽罗哈耶;以及那位以通晓兵器而著称的国王。”
Verse 23
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः । स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः
那位王族战士,名曰尼罗罗怛那,乃大英雄,为战车之首。唯他一人,能护十万之众,亦能无畏与十万之敌交战。
Verse 24
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे । दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः
愿他率十支阿刹乌希尼军去守护那座山;而我举起双臂,头盔甲胄紧系在身,安然无惧。
Verse 25
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत् । सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः
此人勇烈为最,已摧折诸敌之傲;他通晓一切兵器,为放箭之宗师,左手右手皆能发矢。
Verse 26
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने । सन्नद्धो रिपुनाशाय युवाको दंडदंडभृत्
“让这位青年——手执双杖者——率二十支阿刹乌希尼军前往名为‘祭马’的森林Yajñahayā;披坚执锐,为灭敌而行。”
Verse 27
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः । यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत्
同样,王中至上者啊,愿此人拉克什弥尼地出征:他以苦行悦服了沙塔德里提(因陀罗),并且修习掌握诸天神兵。
Verse 28
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितम् । मायूरं नाकुलं रौद्रं वैष्णवं मेघसंज्ञितम्
梵天神兵(Brahmāstra)、帕舒帕塔神兵(Pāśupata)、迦楼罗神兵(Gāruḍa),亦名“那伽”(Nāga);孔雀神兵(Māyūra)、猫鼬神兵(Nākula)、罗陀罗神兵(Raudra),以及毗湿奴神兵(Vaiṣṇava),亦名“云”(Megha)。
Verse 29
वज्रं पार्वतसंज्ञं च तथा वायव्यसंज्ञितम् । इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित्
他通晓诸般神兵的施用与放出,如金刚杵(Vajra)、名为帕尔瓦塔(Pārvatā)者,以及称为瓦耶维亚(Vāyavya)者等。
Verse 30
स एष निजसैन्यानामक्षौहिण्यैकया युतः । प्रयातु शूरमुकुटः सर्ववैरिप्रभंजनः
愿这位英雄之冠冕宝珠启程,率领本军一支阿叉乌希尼(akṣauhiṇī)之师——他能摧碎一切敌众。
Verse 31
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम् । सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः
愿这位敌军之苦恼者今日出征——弓手之最上者,精通一切兵器与神射之器,如烈焰野火焚尽敌族。
Verse 32
गच्छतात्सेनया बह्व्या चतुरंगसमेतया । शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः
愿他们今日率大军而行,具足四部(车、象、马、步)。愿这些勇力雄健之士顶戴舍特鲁格纳(Śatrughna)之命,至诚奉行。
Verse 33
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च । सर्वे यांतु सुसंनद्धास्तव वाहस्य पालकाः
愿大王乌格拉什瓦(Ugrāśva)亦同往,并诸位通晓兵器者;愿守护你坐骑(乘具)之众皆严整披甲,整装前行。
Verse 34
इति भाषितमाकर्ण्य मंत्रिणः प्रजहर्ष च । आज्ञापयामास च तान्सुमंत्रकथितान्भटान्
诸臣闻此言辞,皆大欢喜;随后他便向苏曼特罗所提及的那些士兵下达了命令。
Verse 35
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे । चिरकालं सांपरायं वांच्छंतो युद्धदुर्मदाः
得蒙罗伽胡那陀的许可,他们心生欢悦——那些恃勇好战之人,久已渴望那决定命运的终极一战。
Verse 36
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः । ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः
他们披甲整装,熟谙兵刃与飞矢之用,奉悉多之夫的催促,启程前往室多卢格那的居所。
Verse 37
शेष उवाच । अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात् । आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः
舍沙说道:随后罗摩依圣仙所嘱,按次第如法供敬——诸师与一切仙贤——并依所规定,赐予上妙供养与达克希那(酬礼)。
Verse 38
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम् । हयमेकं मनोवेगं रत्नमालाविभूषितम्
罗摩献与师长一头六十岁之象,又赐一匹迅捷如意念之马,饰以宝珠花鬘。
Verse 39
पौरटं रथमेकं च मणिरत्नविभूषितम् । चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम्
又有一乘上妙宝车,以珠玉宝石庄严——驾以四马,具足一切器具资具。
Verse 40
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम् । विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम्
分明可见:珍珠有百秤(tulā)之量,宝石有一“洛叉”(lakh)之数,光辉灿然的珊瑚又有千秤。
Verse 41
ग्राममेकं सुसंपन्नं नानाजनसमाकुलम् । विचित्रसस्यनिष्पन्नं विविधैर्मंदिरैर्वृतम्
他见到一座村落,富足兴盛,人众杂沓——五谷繁成,四周环以种种居舍。
Verse 42
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ । ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः
他亦如是施与婆罗门祭司(Brahman),并赐予诵祭者Hotṛ与行祭者Adhvaryu。向诸位主祭祭司广施厚赠之后,罗阇之杰拉古俯首礼敬。
Verse 43
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः । चिरंजीव महाराज रामचन्द्र रघूद्वह
众人以种种言辞与祝福向你致敬:“愿你长寿,伟大的罗摩旃陀罗王,拉古族之最胜者!”
Verse 44
कन्यादानं भूमिदानं गजदानं तथैव च । अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम्
施嫁女之礼、施地、施象,亦施马;施金、施芝麻,并施珍珠之供养。
Verse 45
अन्नदानं पयोदानमभयं दानमुत्तमम् । रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान्
施食、施乳,以及施无畏,被宣说为最上布施;而那位伟者亦教示:一切宝石之施,当奉献于婆罗门。
Verse 46
देहि देहि धनं देहि मानेति ब्रूहि कस्यचित् । ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम्
对某人可说:“给吧,给吧——给我财物;赐我尊荣。”然而你当施食——施食——具足诸般受用与供给。
Verse 47
इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः । सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः
如是,睿智的罗睺族之主的祭祀仪轨便开启了——具足应施的达克希那(祭资),由上等婆罗门充满其会,并伴随一切吉祥行仪。
Verse 48
अथ रामानुजो गत्वा मातरं प्रणनाम ह । आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने
于是,罗摩的幼弟前往母亲跟前,俯首礼拜,说:“美善者啊,请赐允准;我将前去守护那匹祭马。”
Verse 49
त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः । आयास्यामि महाराजैर्हयवर्यसमन्वितः
承蒙你的恩典,我将战胜诸敌之众,身披光辉而归来——与诸大王同返,并有良驹随侍。
Verse 50
मातोवाच । पुत्र गच्छ महावीर शिवाः पंथान एव ते । सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते
母亲说道:“孩子,去吧,大勇士——你的道路皆为吉祥。战胜一切敌军之众后,再归来吧,心地高贵者。”
Verse 51
पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम् । महाबलिनमद्यापि बालकं लीलयायुतम्
护持普什卡拉——你亲兄弟之子——最敬奉正法、通达法义;虽具大力,如今仍是孩童,带着天真的嬉戏之性。
Verse 52
पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः । तदा मम प्रमोदः स्यादन्यथा शोकभागहम्
孩子啊,若你整备周全、与普什卡拉同归,并具足诸般吉祥,我便欢喜;否则,我也将分担忧伤。
Verse 53
इति संभाष्यमाणां स्वां मातरं प्रत्युवाच सः । त्वदीयचरणद्वंद्वं स्मरन्प्राप्स्यामि शोभनम्
当母亲如此叮咛之时,他答道:“忆念你双足,我必得吉祥与美善。”
Verse 54
पुष्कलं पालयित्वाहं निजांगमिव शोभने । स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान्
美丽者啊,我已护持普什卡拉如护自身,并使之配得上我的名号;我将再度归来,心中欢喜。
Verse 55
इत्युक्त्वा प्रययौ वीरो रामं स मखमंडपे । आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम्
说罢,那位英雄前往罗摩所在的祭祀殿帐;彼时尊者端坐其间,群贤环侍,身着行祭者之衣。
Verse 56
उवाच मतिमान्वीरः सर्वशोभासमन्वितः । रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव
那位智勇兼备、光辉具足者说道:“罗摩啊,请命我守护;得你许可,我将为护持此马而行。”
Verse 57
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत् । बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम्
罗伽胡那陀听后答道:“愿一切吉祥。”又说:“不可持兵击伤无兵之人:孩童、女子,或疏忽不觉者。”
Verse 58
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः । प्रहस्य किंचिन्नयने नर्तयन्राममब्रवीत्
这时,吉祥藏(Lakṣmīnidhi)——阇那姬(悉多)、即阇那迦之女的兄长——含笑微动双眸,似带戏意,对罗摩说道。
Verse 59
लक्ष्मीनिधिरुवाच । रामचंद्र महाबाहो सर्वधर्मपरायण । शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत्
拉克什弥尼迪说道:“噢,臂力无双的罗摩旃陀罗,噢,奉行一切达摩者——请如此教导沙特鲁格那,使他在人间成为楷模。”
Verse 60
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा । गच्छेत्स परमं धाम तेजोबलसमन्वितम्
履行与自身家族相称的本分,并同样遵循长辈的行持之道,人便能到达至上的住处——具足光辉与灵力。
Verse 61
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत् । पित्रा तव हतो विप्रः पितृभक्तिपरायणः
大王啊,你亲口说过:婆罗门不可受辱。然而,一位婆罗门——至诚奉事其父者——却被你的父亲所杀。
Verse 62
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम् । अवध्यां महिलां यस्त्वं हतवान्नियतं ततः
你也做下了极其重大的罪业——为世人所谴责——因为你确实杀害了一位本不应被杀的女子。
Verse 63
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम् । सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम्
大王啊,他的长兄曾行一桩英勇之举:往昔,圣者萨那迦曾割下罗刹女的双耳。
Verse 64
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव । यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत्
沙特鲁格那王必将依汝教诲而行;若不如是行事,便将有辱其家族血脉,失其本分。
Verse 65
इत्युक्तवंतं तं रामः प्रत्युवाच हसन्निव । मेघगंभीरया वाचा सर्ववाक्यविशारदः
他如此说罢,罗摩——通晓一切言辞之道者——仿佛含笑答之,声如雷云,深沉浑厚。
Verse 66
शृण्वंतु योगिनः शांताः समदुःखसुखाः पुनः । जानंत्यपारसंसारनिस्तारतरणादिकम्
愿寂静之瑜伽行者——于苦乐等观者——再度聆听;他们知晓渡越之法,以及从无边轮回(samsāra)得解脱的一切方便。
Verse 67
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः । ते च जानंति युद्धस्य वार्त्तां न तु भवादृशाः
唯有真正的勇士——弓术齐备,通晓诸般兵器与飞射之具者——方知战争之实情;并非如你这般之人。
Verse 68
परोपतापिनो ये वै ये चोत्पथविसारिणः । ते हंतव्या नृपैः सर्वैः सर्वलोकहितैषिभिः
凡迫害他人者,及引众生趋入邪道者,皆当为一切求诸世界安宁福祉之王所镇伏诛除。
Verse 69
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिंदमस्य । कुंभोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि
众人听罢此言,满座会众皆对那位降伏仇敌者含笑。随后,那位“壶生”圣贤依礼恭敬供奉之后,放行了那匹装饰华美、光彩夺目的骏马。
Verse 70
इमं मंत्रं समुच्चार्य वसिष्ठः कलशोद्भवः । कराग्रेण स्पृशन्नश्वं मुमोच जयकांक्षया
诵毕此咒,瓦西什塔——出自圣罐者——以手指尖轻触骏马,怀着求胜之愿,将其放行。
Verse 71
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले । यागार्थे मोचितो येन पुनरागच्छ सत्वरः
骏马啊,随心所欲,自由驰行于大地四方。为祭祀之故而放你远行,务必速速归来。
Verse 72
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः । परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः
于是,众多精通兵器与飞矢的武士一齐放行那马;在他们环护之下,它向东方进发,疾如风驰。
Verse 73
प्रचचार बलं सर्वं कंपयद्धरणीतलम् । शेषोऽपि किंचिन्न तया फणया धृतवान्भुवम्
那整支军势奔涌而出,震得大地表面颤动;甚至以巨盖承世的舍沙,也几乎难以凭其蛇冠托住世界。
Verse 74
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम् । वायवस्तं तु शत्रुघ्नं पृष्ठतो मंदगामिनः
四方皆归宁静,周遭大地光辉焕然、庄严美好。微风徐徐,轻缓而行,随在舍特鲁格那(Śatrughna)身后。
Verse 75
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत् । दक्षिणः शुभमाशंसी जयाय च बभूव ह
当舍特鲁格那(Śatrughna)起身欲启程时,他的右臂忽然跳动——吉祥之兆,预示善瑞,并确然许以胜利。
Verse 76
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत् । वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम्
普什卡拉(Puṣkala)步入自己那可喜的宅邸,富足昌盛;淡白的柱廊装点其间,宝石砌成的坛台更添庄严华美。
Verse 77
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम् । किंचित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम्
在那里,他看见自己的妻子,专心守持贞顺之誓;因见到他而微微欢悦,满怀渴望只为再睹夫君容颜。
Verse 78
मुखारविंदेन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती । नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकंकणे
她以莲华般的口含嚼槟榔叶,和以细妙龙脑香;鼻端佩一颗水中所生的珍珠,真为大宝;双臂纤柔如莲茎,其上环钏清丽可爱。
Verse 79
कुचौ तु मालूरफलोपमौ वरौ नितंबबिंबं वरनीवि शोभितम् । पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम्
她那双丰美的乳房如同mālūra之果;圆润的臀胯以殊胜的腰带庄严。她的双足极其柔软,仿佛承载无量天平;于是她凝望着自己那位高贵的夫君。
Verse 80
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम् । तदुरोजपरीरंभनिर्भरीकृतदेहकाम्
他拥抱着心爱之人,那自持的男子见她以哽咽之声低语;因乳房紧贴相压,她的身与欲皆被充满,愈发炽烈。
Verse 81
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः । रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः
他说:“贤淑的夫人啊,我将启程,奉命为Śatrughna守护后阵。依罗摩之令,我乘车护持祭祀(yajña)之马。”
Verse 82
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः । तदुच्छिष्टं हि भुंजाना तत्कर्मकरणादरा
由你来恭敬我的诸位母亲(长辈妇人):以按摩其足等诸般侍奉。诚然,当食其余馔,并以殷勤之心承办她们的事务,以示敬礼。
Verse 83
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः । नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः
一切吉祥的贞顺之妻——以罗波慕陀罗(Lopāmudrā)等为首——皆以自身苦行(tapas)之力而光辉。怯弱者啊,切莫轻慢侮辱她们。