Adhyaya 10
Patala KhandaAdhyaya 1074 Verses

Adhyaya 10

Instruction to Śatrughna and the Mobilization for Rāma’s Aśvamedha

春季来临,正是吉祥的祭祀时节,婆悉吒(Vasiṣṭha)宣告:放出受尊崇的马祭(Aśvamedha)之马的时刻已到。他吩咐备齐仪轨所需之物,延请德高望重的婆罗门,施行慈悲布施,并守持如誓的节制:卧地而眠、守梵行、行离欲之戒。 圣罗摩(Śrī Rāma)命罗什曼那(Lakṣmaṇa)取得祭马;罗什曼那随即下令全军动员,设立严密护卫。经文描绘祭马华丽的出行队列、震天的武备仪仗,以及祭坛与祭亭的建立;诸贤担任主祭与护持:婆悉吒、阿伽斯提耶(Agastya)、瓦尔弥基(Vālmīki)为adhvaryu,迦ṇva(Kaṇva)为门卫,并由具名仙人守护诸门。 章末罗摩训诫设多卢伽那(Śatrughna):护持祭马,克制杀伐,奉行正法,尤当饶恕无兵者、恐惧者、熟睡者与已投降者。继而展开毗湿奴派(Vaiṣṇava)的伦理神学:敬重奉主之人,以不二之心礼敬一切圣者与神圣。

Shlokas

Verse 1

शेष उवाच । इत्थं संशृण्वतो धर्मान्वसंतः समुपस्थितः । यत्र यज्ञ क्रियादीनां प्रारंभः सुमहात्मनाम्

舍沙(Śeṣa)说道:“当他如此聆听诸般法教之时,春季已至——正是大德之士开始举行祭祀(yajña)等诸圣仪的时节。”

Verse 2

दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः । रामचंद्रं महाराजं प्रत्युवाच यथोचितम्

见此时机恰当,智者婆悉吒(Vasiṣṭha)——由水罐而生者——便以合乎礼法之辞,向罗摩旃陀罗王(Rāmacandra)进言。

Verse 3

वसिष्ठ उवाच । रामचंद्र महाबाहो समयः पर्यभूत्तव । हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः

瓦西什塔说道:“噢,罗摩旃陀罗,臂力无双者,你的既定时刻已至——那为祭祀(yajña)而如法受敬的马,应在所指定之处放行。”

Verse 4

सामग्री क्रियतां तत्र आहूयंतां द्विजोत्तमाः । करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम्

“当在彼处备办所需的祭仪资具,并召请最上等的二次生者(dvija)。愿那位尊者依正法如仪礼敬诸婆罗门(brāhmaṇa)。”

Verse 5

दीनांधकृपणानां च दानं स्वांते समुत्थितम् । ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च

愿他施与布施——由自心慈悲所生——给贫者、盲者与困乏之人;并当依仪轨如法施与,以恭敬与崇重之心加以礼待。

Verse 6

भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर । भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः

你既由贤德之妻迦那迦(Kanakā)在此为你行灌顶启誓,当修持此誓愿:卧地而眠,守梵行(brahmacarya),舍离财富与安乐之享受。

Verse 7

मृगशृंगधरः कट्यां मेखलाजिनदंडभृत् । करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम्

愿那持鹿角者——腰系带绳,手执杖与鹿皮——备办祭祀(yajña)之诸般供具,使一切所需资粮悉皆具足。

Verse 8

इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् । उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम्

如是听闻婆悉吒真实不虚的宏大言辞后,那位智者以蕴含多重义理的话语对罗什曼那说道。

Verse 9

श्रीराम उवाच । शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् । हयमानय यत्नेन वाजिमेधक्रियोचितम्

圣罗摩说道:“罗什曼那,听我之言;听毕即刻去办。务必谨慎,将适合阿湿婆美陀祭仪的骏马牵来。”

Verse 10

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे । शत्रुघ्नशिक्षाकथनंनाम दशमोऽध्यायः

至此,在神圣《莲华往世书》之《地下篇》中,于舍沙与婆蹉耶那的对话里,在“罗摩阿湿婆美陀马祭”一段,名为《教诲奢多卢伽那记》的第十章圆满结束。

Verse 11

लक्ष्मण उवाच । वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः । कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टांघ्रि रामाज्ञया । सेनां कालबलप्रभंजनबलप्रोद्यत्समर्थांगिनीं । सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम्

罗什曼那说道:“勇士啊,请听我甘美之言;听毕当再速行。奉罗摩之命——诸王冠冕在其足下摩拭以致敬——整备大军,使其肢体皆能任事,奋起如时劫之威与暴风之力:令其齐备,具良车、战象、步卒与善骑,依次严整,装备周全。”

Verse 12

सज्जीयतां वायुजवास्तुरंगास्तरंगमाला ललितांघ्रिपाताः । सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः

愿那疾如风的骏马尽皆备妥,蹄落轻妙,宛若波浪连缀成的花鬘;并令善骑者乘之,持多般兵刃,整装待发,以击溃敌军之势。

Verse 13

संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुंताग्रहस्तैः । शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः

且看那些大象,形如群山:执持象钩,手握长矛与投枪;又有披甲勇士随侍,满载丰厚供献与供养。它们正值发情之盛,诸般兵器与飞射之具皆已备足。

Verse 14

विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः । विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृंदैः

愿我的战车——辉耀着广阔而丰盛的荣光,套以疾如风行之骏马——配备宣示多敌覆灭的兵器与飞矢,并具足粮秣与分配得当的军需,由众御者齐集牵引,送至此处。

Verse 15

पत्तयः शतशो मह्यमायांत्वस्त्राग्न्यपाणयः । हयमेधार्हवाहस्य रक्षणे विततोद्यमाः

“数以百计的步兵前来援助我,手执兵刃与火焰,竭尽全力守护那堪当马祭(阿湿婆美陀,Aśvamedha)之圣马。”

Verse 16

इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः । सेनानी कालजिन्नामा कारयामास सज्जताम्

听闻大心的罗叉摩那(Lakṣmaṇa)之言,名为迦罗金(Kālajin)的统帅便下令诸军整备待发。

Verse 17

दशध्रुवकमंडितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकंठको शेमणिः मुखे विशदकांतिधृत्त्वसितकांतिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः

他以十种坚固的饰物庄严,细柔的毫毛增其秀美;喉间佩一颗分明的明珠,颈项修长舒展,那光耀之宝遂大放辉光。澄澈的神采照亮其面,幽黑而润泽的耳饰在双耳间闪耀;于是他开口言说,指尖所持之光束流辉四射。

Verse 18

कलासंशोभितमुखः स्फुरद्रत्नविशोभितः । मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः

其面容以巧饰庄严,宝石辉耀闪烁,又以珍珠花鬘增其华美;于是那骏马现身而出。

Verse 19

श्वेतातपत्ररचितः सितचामरशोभितः । बहुशोभापरीतांगो निर्ययौ हयराट्ततः

随后,马中王者出行,白伞高张,白牦牛尾拂尘相映;其身周遍,光华无量。

Verse 20

अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा । देवा हरिं यथापूर्वं सेवंते सेवनोचितम्

有的士卒列于前,有的居于中,有的在后;诸天如昔,依其所宜之礼,奉事哈利。

Verse 21

अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा । हस्त्यश्वरथपादातवृन्दैः सुबहुसंकुलम्

于是他召集全军,当时颁下号令;军阵稠密,象群、马队、战车与步兵之众,纷然充塞。

Verse 22

ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः । ततो दुंदुभिनादोऽभूत्तस्मिन्पुरवरे तदा

随后,四方会集之军声喧然可闻;当时在那华美之城,战鼓(dundubhi)轰鸣而起。

Verse 23

तन्निनादेन शूराणां प्रियेण महता तदा । कंपंति गिरिशृंगाणि प्रासादा विचलंति च

于是,因诸勇士那宏大而可亲的咆哮,群山之巅震颤,宫殿亦随之摇动。

Verse 24

हेषारवो महानासीद्वाजिनां मुह्यतां नृप । रथांगघातसंघुष्टा धरा संचलतीव सा

大王啊,当战马惊惶失措时,响起了震天的嘶鸣;大地因车轮相击之声而轰鸣,仿佛也在颤动。

Verse 25

चलितैर्गजयूथैश्च पृथ्वी रुद्धा समंततः । रजस्तु प्रचलत्तत्र जनांतर्द्धानमादधात्

象群奔走,使大地四面受阻;那里扬起的尘土,仿佛为众人遮蔽了视线。

Verse 26

निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् । सेनान्याकालजिन्नाम्ना प्रेरितं जनसंकुलम्

一支浩大的军队出征,伞盖如同遮蔽了太阳;在名为Ākālajin的统帅催动下,队伍人众拥挤。

Verse 27

गर्जंतस्तलवीराग्र्याः कुर्वंतो रणसंभ्रमम् । रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा

诸位顶尖勇士高声咆哮,激起战阵喧腾,欢喜出发,已为罗伽胡那陀(罗摩)的祭祀(yajña)备办周全。

Verse 28

मृगमदमयमंगेष्वंगरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमांगाः । मुकुटकटकभूषाभूषितांगाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे

他们四肢涂抹芬芳麝香膏,尊贵的头顶以洁净花鬘庄严,通身又以王冠、臂钏与诸宝饰点缀;于是众人皆在大地之主——国王的催促下启程前行。

Verse 29

इत्येवं ते महाराजं ययुः सेनाचरा वराः । धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः

就这样,那些精锐军士前往大王:有的执弓,有的持索套(pāśa),有的挥剑;步伐分明,行列井然。

Verse 30

एवं शनैःशनैः प्राप्तो मंडपं यागचिह्नितम् । हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन्

就这样,马儿渐渐来到标记为祭祀(yajña)之用的曼荼帕;它行进时蹄击大地使地面受创,却又仿佛凌空滑行。

Verse 31

रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः । वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति

罗摩见到已得哈利(Hari),心中大为欢喜,便催请婆悉吒(Vasiṣṭha)指示当行之正当仪轨。

Verse 32

वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम् । प्रयोगं कारयामास ब्रह्महत्यापनोदनम्

婆悉吒召来罗摩,并与其“金色圣妃”同在,令他施行一法,旨在消除“梵杀罪”(brahma-hatyā)——杀害婆罗门之罪。

Verse 33

ब्रह्मचर्यव्रतधरो मृगशृंगपरिग्रहः । तत्कर्म कारयामास रामः परपुरंजयः

罗摩守持梵行之誓,以鹿角为徽记;这位征服敌城者,命人完成那一神圣仪式。

Verse 34

प्रारेभे यागकर्मार्थं कुंडं मण्डपसंमितम् । तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित्

他开始为祭祀(yajña)准备火坛(kuṇḍa),其尺寸与曼荼罗殿(maṇḍapa)相称;其处有一位主祭阿阇梨,睿智而通达吠陀与诸论典(śāstra)。

Verse 35

वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः । ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः

婆悉吒(Vasiṣṭha)——罗伽那陀的族系先师圣仙——在彼处奉行梵天之仪;而阿伽斯底耶(Agastya),苦行(tapas)之宝藏,也同样履行诸圣业。

Verse 36

वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः । अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै

在那里,圣仙婆罗米基(Vālmīki)担任阿德瓦律优(adhvaryu)祭官,圣仙迦ṇ婆(Kaṇva)为守门者。其处共有八门,皆饰以吉祥门楼(toraṇa)。

Verse 37

द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमंत्रवित् । पूर्वद्वारि मुनिश्रेष्ठौ देवलासित संज्ञितौ

婆罗门啊,每一门前皆有两位侍从,通晓婆罗门所持之上妙真言。东门处立着两位最胜圣仙,名为提婆罗(Devala)与阿悉多(Asita)。

Verse 38

दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी । पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः

南门有 Bhūmāna、Kaśyapa 与 Ātrī——皆为苦行之宝藏;西门有 Ṛṣabha、Jātūkarṇya,以及随后之 Jājali。

Verse 39

उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ । एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः

北门则有两位牟尼:Dvita 与 Ekata,二者皆为苦行者。如此安置诸门守护之法后,罐生者 Vasiṣṭha 便继续前行。

Verse 40

हयवर्यस्य सत्पूजां कर्तुमारभत द्विज । सुवासिन्यः स्त्रियस्तत्र वासोलंकारभूषिताः

婆罗门啊,他遂开始为 Hayavarya 行正当的供奉礼。其处有已婚妇女,衣饰华美,佩戴诸般庄严。

Verse 41

हरिद्राक्षतगंधाद्यैः पूजयामासुरर्चितम् । नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः

他们以姜黄、未碎之米(akṣata)、香料等供品礼敬所奉之神。继而行完 āratī(摇灯礼),又以细碎沉香木(agaru)熏香供养。

Verse 42

वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया । एवं संपूज्य विमले भाले चंदनचर्चिते

随后依 Vāḍavā 之命,歌伎们行作庆贺之仪(vardhāpana)。如是供奉 Vimalā——其清净额间涂抹檀香膏而庄严。

Verse 43

कुंकुमादिकगंधाढ्ये सर्वशोभासमन्विते । बबंध भास्वरं पत्रं तप्तहाटकनिर्मितम्

其上芬芳馥郁,具藏红花等诸香,并具一切庄严之美;他系上一件光辉灿然的饰物,乃以火炼精金所成。

Verse 44

तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम् । सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः

在那里,他描绘了达沙罗陀之子罗摩那充满威势与力量的英勇:太阳王族之旌旗,执弓的英雄,弓术戒律之师,亦为诸师之师。

Verse 45

यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः । तस्यात्मजो वीरबलदर्पहारी रघूद्वहः

诸天与阿修罗众,皆以宝冠俯首礼敬于彼;其子名罗古杜瓦哈,能摧除由英雄之力而生的傲慢。

Verse 46

रामचंद्रो महाभागः सर्वशूरशिरोमणिः । तन्माता कोसलनृपपत्नीगर्भसमुद्भवा

罗摩旃陀至为有福,乃诸勇士之冠冕宝珠;其母出自憍萨罗王后之胎。

Verse 47

तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः । करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः

由她腹中诞生一颗宝珠——罗摩,能灭诸敌者;在婆罗门善加教导之下,他确实举行阿湿婆梅陀(马祀)大祭。

Verse 48

रावणाभिधविप्रेंद्र वधपापापनुत्तये । मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः

噢,名为罗婆那的最上婆罗门,为了消除因杀戮所招之罪,他释放了那匹殊胜之马——诸乘之首、骏马之最。

Verse 49

महाबलपरीवार परिखाभिः सुरक्षितः । तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणांतकः

四周壕堑护卫,强军环绕;守护它的是他的兄弟——室怛卢伽那,诛灭罗婆那之敌拉瓦那者。

Verse 50

हस्त्यश्वरथपादात सेनासंघसमन्वितः । यस्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात्

若一国之王拥有象军、马军、战车与步兵之众,便可能因自军之力而沉醉,生起“我为王者”的傲慢自尊。

Verse 51

वयं धनुर्धराः शूराः श्रेष्ठा वयमिहोत्कटाः । ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम्

“我们是持弓的勇士,实为此间最强最猛者。让他们以武力夺取那匹坐骑——其身饰以宝石花鬘。”

Verse 52

मनोवेगं कामजवं सर्वगत्यधिभास्वरम् । ततो मोचयिता भ्राता शत्रुघ्नो लीलया हयम्

那匹马——疾如心念,迅如欲求,光耀超越一切行走之相——遂被其兄室怛卢伽那从容解放。

Verse 53

शरासनविनिर्मुक्त वत्सदंतैः शिखाशितैः

箭自弓上放出,箭镞以犊齿为尖,并磨砺成锋利之端。

Verse 54

इत्येवमादि विलिलेख महामुनींद्रः । श्रीरामचंद्र भुजवीर्यलसत्प्रतापम् । शोभानिधानमतिचंचलवायुवेगं । पातालभूतलविशेषगतिं मुमोच

如是等种种方式,大牟尼之主撰写了圣罗摩旃陀罗之事迹——其臂力与英勇光耀赫然;此篇为美之宝藏,疾如不息之风;并将其宣示为帕塔拉界中别具一格的行程与轨迹。

Verse 55

शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः । याहि वाहस्य रक्षार्थं पृष्ठतः स्वैरगामिनः

于是罗摩——诸持兵者之最——吩咐舍多卢伽那:“去吧,在后方护卫车乘,使其自在前行。”

Verse 56

शत्रुघ्न गच्छ वाहस्य मार्गं भद्रं भवेत्तव । भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ

“舍多卢伽那啊,循你坐骑之路前行,愿吉祥属于你。降伏仇敌者啊,愿你的双臂战胜群敌,将其拉下而败。”

Verse 57

ये योद्धारः प्रतिरणगतास्ते त्वया वारणीया । वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोर्व्याम् । सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतांस्तु नम्रां । स्तान्मा हन्याः सुकृतकृतिनो येन शंसंति कर्म

“凡冲入战阵之中的战士,皆当由你阻遏。贤者啊,以你自身诸德之众护持我的坐骑,于此大地之上行其正。至于沉睡者、倒地者、衣被剥夺者、惊惧战栗者,以及谦卑俯首者——切莫击杀;他们行有功德,其所作之业为人称赞。”

Verse 58

विरथा भयसंत्रस्ता ये वदंति वयं तव । ते त्वया न हि हंतव्याः शत्रुघ्न सुकृतैषिणा

那些失去战车、因恐惧而战栗并宣称“我们归属于你”的人,你不可杀害他们,哦,舍多罗伽那——你这追求正法功德者。

Verse 59

यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम् । तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम्

凡杀害无武之人,或醉者,或睡者,或溺者,或因恐惧而痛苦者——以及那说“我属于你”、求庇护者——必堕入最下劣的境地。

Verse 60

परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके । नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः

不可令心趋向他人之财,亦不可染念他人之妻。莫喜卑劣之行;当具足一切高贵善德。

Verse 61

वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय । पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः

哦,阇耶,不可先驱使长者赴战;慈悲者啊,也不可逾越对可敬之人的应有礼敬而成过失。

Verse 62

गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम् । अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः

当礼敬母牛、婆罗门,以及具足正法的毗湿奴信徒(Vaiṣṇava)。恭敬致礼之后,无论从此往何处去,皆得成就(悉地)。

Verse 63

विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत् । ये तदीया महाबाहो तद्रूपा विचरंति हि

毗湿奴为一切之主、见证者,其身遍满万有。噢大臂者,凡属乎彼者,确实行于世间,承载其同一圣相。

Verse 64

ये स्मरंति महाविष्णुं सर्वभूतहृदि स्थितम् । ते मंतव्या महाविष्णु समरूपा रघूद्वह

噢罗伽族之杰,凡忆念住于一切众生心中的大毗湿奴者,当知其应被视为与大毗湿奴同一圣形。

Verse 65

यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः । ते वैष्णवाः क्षणादेव पापिनं पावयंति हि

凡毗湿奴信众,视无人为“己人”或“外人”,连仇敌亦如友人;此等奉主者,顷刻之间便能净化罪人。

Verse 66

येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः । वैकुंठात्प्रेषितास्तेऽत्र लोकपावनहेतवे

凡珍爱《薄伽梵教义》与对薄伽梵之奉爱者,且真心敬爱婆罗门者,皆自毗昆塔被遣至此,为净化世间之缘故。

Verse 67

येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः । उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः

其唇常诵哈利之名,心中安住永恒毗湿奴,腹中唯纳供奉于毗湿奴之食者——纵为贱民弃者,亦真为毗湿奴信众。

Verse 68

येषां वेदाः प्रियतमा न च संसारजं सुखम् । स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान्

礼敬那些以吠陀为至爱、不贪恋世间生起之乐、安住于自身神圣本分者——自律而不懈怠的人。

Verse 69

शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः । तेषां पादरजः पूतं वहाम्यघविनाशनम्

湿婆与毗湿奴并无差别,梵天与大自在天亦无二致。我承载他们足下清净之尘,能灭除罪业。

Verse 70

गौरी गंगा महालक्ष्मीर्यस्य नास्ति पृथक्तया । ते मंतव्या नराः सर्वे स्वर्गलोकादिहागताः

凡认为高丽、恒河与大吉祥天女并非彼此分离者,应知此等众人皆如从天界而来。

Verse 71

शरणागतरक्षी च मानदानपरायणः । यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः

护持来投靠者,乐于敬人施舍,并随己力为哈利之欢喜而行者,当知其为最上毗湿奴信众(外士那瓦)。

Verse 72

यस्य नाम महापापराशिं दहति सत्वरम् । तदीय चरणद्वंद्वे भक्तिर्यस्य स वैष्णवः

其圣名能迅速焚尽无量重罪之堆;对那位主宰的双足怀有虔敬者,方是真正的毗湿奴信众(外士那瓦)。

Verse 73

इंद्रियाणि वशे येषां मनोऽपि हरिचिंतकम् । तान्नमस्कृत्य पूयात्सह्या जन्ममरणांतिकात्

那些能制伏诸根、其心亦沉浸于对哈利(Hari)的观想者——向他们顶礼之后,萨希亚(Sahyā)亦得净化,直至生死轮回的尽头。

Verse 74

परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः । एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम्

当弃他人之妻,如弃利剑;如此你将成为福泽之地、善名之饰。并且遵行我的命令,你将得至至上之境界,为善修瑜伽者所称赞。