Adhyaya 25
Brahma KhandaAdhyaya 2537 Verses

Adhyaya 25

The Glory of the Divine Name and the Doctrine of Name-Offenses (Nāma-aparādha)

Śaunaka 赞叹 Śrīpada 与毗湿奴圣传(Viṣṇu-kathā)能灭罪,向 Sūta 请教如法称念神圣名号的方法。Sūta 引出内层对话:在亚穆那河岸,Nārada 询问 Sanatkumāra 何以正法(dharma)受扰,以及解脱之道。 教法推崇皈依 Govinda/Hari,尤其以称念神名为渡越轮回(saṃsāra)的决定性方便;同时警示“名号之罪”(nāma-aparādha)会招致灵性堕落。要害之过包括诽谤圣者、轻慢师长(guru)、讥毁经典(śāstra);伪善与贪欲亦能令诵念失其功德。 本章亦称扬聆听与诵读《普拉那》(Purāṇa)的功德:如同朝圣(tīrtha)之果、等同 kapilā-dāna 之施,并能得子嗣、财富、智慧与解脱(mokṣa)。并教人恭敬诵者、布施经书,此等善业由 Citragupta 记录。

Shlokas

Verse 1

शौनक उवाच । श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम् । सर्वपापक्षयकरं दुष्टग्रहनिवारणम्

绍那迦说道:“神圣的室利足迹(Śrīpada)——毗湿奴行传之殊胜功德——能灭除一切灾厄,消尽一切罪垢,并遮止凶恶诸‘伽罗诃’(不祥的星曜影响)。”

Verse 2

विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम् । यः शृणोति नरो भक्त्या चांते याति हरेर्गृहम्

此法能赐与亲近毗湿奴之福,并成就人生四大目标之果。若有人以虔敬聆听,终将往生哈利之居所。

Verse 3

नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम् । यदुच्चारणमात्रेण नरो यायात्परं पदम्

人们听闻称诵神圣圣名的广大奇妙功德;仅凭一声称名,凡人亦可到达至上的归宿。

Verse 4

तद्वदस्वाधुना सूत विधानं नामकीर्तने । सूत उवाच । शृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम्

“那么,苏多啊,请你如今宣说称诵圣名的正当仪轨。”苏多答曰:“听吧,绍那迦;我将叙述一段能成就解脱的对话。”

Verse 5

नारदः पृष्टवान्पूर्वं कुमारं तद्वदामि ते । एकदा यमुनातीरे निविष्टं शांतमानसम्

往昔那罗陀曾请问库玛罗;我如今为你转述此事。一次,他在亚穆那河岸端坐,心境寂然安定。

Verse 6

सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि । श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा

那罗陀合掌恭敬,向萨那特库玛罗请问;此前他已听闻种种法(dharma)以及法之杂乱交错。

Verse 7

श्रीनारद उवाच । योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम् । कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय

圣者那罗陀曰:“世人之中那由世尊所说的法之紊乱,如何方能消除?请宣说吧,世尊所钟爱者。”

Verse 8

श्रीसनत्कुमार उवाच । शृणु नारद गोविंद प्रिय गोविंदधर्मवित् । यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम्

圣·善那特库玛罗说道:听着,哦那罗陀——为戈文达所钟爱、通晓戈文达之法者——你所问的:那超越黑暗的至上实相,乃解脱世间轮回之因。

Verse 9

सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चकाः । दंभाहंकृतिपानपैशुनपराः पापाश्च ये निष्ठुराः

他们全然背离正行,心怀诡诈——如被弃的叛徒,欺骗世间——沉溺于伪善、傲慢、饮酒与诽谤;乃罪恶而残忍之人。

Verse 10

ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि । श्रीगोविंदपदारविंदशरणाः शुद्धा भवंति द्विज

即便那些沉迷于财富、妻室与子嗣之人——虽确被视为卑下——也会得以清净,婆罗门啊,只要他们归依圣·戈文达的莲华足。

Verse 11

तमपि देवकरं करुणाकरस्थविरजंगममुक्तिकरं परम् । अतिचरंत्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि

即便那至上者——诸天之施惠者、悲悯之海、赐予动与不动众生解脱者——也常被嗜罪之人严重冒犯。在此,确有名为“德鲁瓦”(Dhruva)者惩治此辈。

Verse 12

सर्वापराधकृदपि मुच्यते हरिसंश्रयः । हरेरप्यपराधान्यः कुर्याद्द्विपदपांसनः

纵使犯下种种过失之人,若归依哈利(Hari),亦得解脱;但那卑劣的“两足之徒”竟连哈利也加以冒犯——于他而言,便无此归依可言。

Verse 13

नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः

凡依止神圣圣名者——纵然只在一瞬——必定凭此圣名渡越彼岸;然若冒犯圣名(圣名为一切众生之友),则因其罪过而堕落下沉。

Verse 14

श्रीनारद उवाच । के तेऽपराधा विप्रेंद्र नाम्नो भगवतः कृताः । विनिघ्नंति नृणां कृत्यं प्राकृतं ह्यानयंति च

圣那罗陀曰:噢,婆罗门中之最胜者,众人对主之圣名所犯的过失有哪些?它们障碍人们的宗教本分,并确实将其拖入世俗而平常的行径。

Verse 15

श्रीसनत्कुमार उवाच । सतां निंदा नाम्नः परममपराधं वितनुते । यतः ख्यातिं यांतं कथमु सहते तद्विगर्हाम् । शुभस्य श्रीविष्णोर्य इह गुणनामादिसकलं । धियाभिन्नं पश्येत्स खलु हरिनामाहितकरः

圣萨那特库玛罗曰:“诋毁圣贤,是对神圣圣名的最大冒犯;因为怎能容忍对那些因圣名而得名望者的贬斥?确实,凡于此处以无分别之心观见吉祥的圣毗湿奴,以及祂的一切德性、名号等诸相者,实为以哈利之名利益众生之人。”

Verse 16

गुरोरवज्ञा श्रुतिशास्त्रनिंदनं तथार्थवादो हरिनाम्नि कल्पनम् । नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः

轻慢上师、诋毁吠陀与诸论典,以世俗理辩解说圣名,并对哈利之名妄加臆造义理——若犯此等名号之罪,便无真实的罪觉;因此,亦难以凭通常的制戒与赎罪(yama)而得清净。

Verse 17

धर्मव्रतत्याग हुतादि सर्वशुभक्रिया साम्यमपि प्रमादः । अश्रद्दधानो विमुखोऽप्यशृण्वन्यश्चोपदेशः शिवनामापराधः

舍弃自身之法与誓愿,怠慢供献与诸吉祥行——乃至因放逸而将其与奉爱等同——又将湿婆圣名之教示授与无信、敌对或不肯聆听之人:此皆为对湿婆圣名的冒犯。

Verse 18

श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः । अहं ममादि परमो नाम्नि सोऽप्यपराधकृत्

即使听闻了圣名的伟大,那最卑下之人若仍无爱乐之喜,并在圣名上执著“我”“我所”,自以为至上,他也同样造作对圣名的罪过。

Verse 19

एवं नारद शंकरेण कृपया मह्यं मुनीनां परं । प्रोक्तं नामसुखावहं भगवतो वर्ज्यं सदा यत्नतः । ये ज्ञात्वापि न वर्जयंति सहसा नाम्नोऽपराधान्दश । क्रुद्धा मातरमप्यभोजनपराः खिद्यंति ते बालवत्

因此,噢那罗陀,出于慈悲,商羯罗向我宣说了诸牟尼之最上教诲:主之圣名能赐安乐——并且应当恒常谨慎地远离对圣名的十种罪过。那些明知却不立刻止息十种圣名罪过的人,将如孩童般受苦:因嗔怒而连母亲也拒绝,一味执意不食。

Verse 20

अपराधविमुक्तो हि नाम्नि जप्तं सदा चर । नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः

所以,当远离罪过时,应恒常修持圣名的持诵(japa)。噢天仙圣者(devarṣi),唯凭圣名,一切都将为你成就——别无他途。

Verse 21

श्रीनारद उवाच । सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम् । देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवंति नः कथम्

圣那罗陀说:亲爱的善达库玛罗啊,我们既易于鲁莽,缺乏辨别与离欲,又执著于身体、所爱之物、财物与自我中心的目的,如何才能免于罪过呢?

Verse 22

श्रीसनत्कुमार उवाच । जाते नामापराधे तु प्रमादे तु कथंचन । सदा संकीर्तयन्नाम तदेकशरणो भवेत्

圣善达库玛罗说:即便因疏忽或以任何方式已犯下对圣名的罪过,也应不断唱诵圣名,并唯以圣名为归依。

Verse 23

नामापराधयुक्तानां नामान्येव हरंत्यघम् । अविश्रांति प्रयुक्तानि तान्येवार्थ कराणि यत्

即使背负冒犯圣名之罪者,唯有神圣之名能除罪;若不间断地称念,这些圣名本身便能成就所求之果。

Verse 24

नामैकं यस्य चिह्नं स्मरणपथगतं श्रोत्रमूलं गतं वा । शुद्धं वाऽशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् । तच्चेद्देहद्रविणजनितालोभपाखण्ड मध्ये । निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र

纵然只是一个名号——其标记本身——或入于忆念之途,或达于耳根;无论音节清净或不净,只要不间断地称诵,确能渡人越过生死。然若将此名抛入由身与财所生的贪欲与伪善之中,则在此处,婆罗门啊,它很快便不生果报。

Verse 25

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे । पंचविंशतितमोऽध्यायः

如是,在神圣《莲华大摩诃往世书》之梵天部中,于苏多与绍那迦之对话里,第二十五章至此结束。

Verse 26

विदुर्विष्ण्वभिधानं ये ह्यपराधपरा नराः । तेषामपि भवेन्मुक्तिः पठनादेव नारद

即便那些知晓毗湿奴之名却仍执著于罪行的人,也能仅凭诵读(此教言)而得解脱,哦那罗陀。

Verse 27

नाम्नो माहात्म्यमखिलं पुराणे परिगीयते । ततः पुराणमखिलं श्रोतुमर्हसि मानद

在《往世书》中,圣名的一切伟大都被歌咏。故而,赐荣者啊,你应当聆听整部《往世书》。

Verse 28

पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रातरन्वहम् । तस्य साक्षात्प्रसन्नः स्याच्छिवो विष्णुश्च सानुगः

兄弟啊,若有人日日以信心聆听诸《普拉那》,湿婆与毗湿奴——连同其眷属随从——便会亲自圆满欢喜。

Verse 29

यत्स्नात्वा पुष्करे तीर्थे प्रयागे सिंधुसंगमे । तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः

凡在圣地普什迦罗的朝圣渡口、在普拉亚伽、以及在信度河汇合处沐浴所得之功德;以信心聆听此法者,得其加倍之果。

Verse 30

ये पठंति पुराणानि शृण्वंति च समाहिताः । प्रत्यक्षरं लभंत्येते कपिलादानजं फलम्

凡专心诵读诸《普拉那》、或凝神聆听者,皆能就每一音节获得如同施赠黄褐色母牛(kapilā-dāna)所生之功德。

Verse 31

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात्

无子者得子;求财者得财。求学者得智慧,求解脱者得证解脱(mokṣa)。

Verse 32

ये शृण्वंति पुराणानि कोटिजन्मार्जितं खलु । पापजालं तु ते हत्वा गच्छंति हरिमंदिरम्

凡聆听诸《普拉那》者,确能摧毁千万生所积之罪网,并得往诣哈利(Hari)之居所。

Verse 33

पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः । गोभूहिरण्यवस्त्रैश्च गंधपुष्पादिभिर्मुने

圣者啊,应以虔敬之心礼敬诵读《往世书》的婆罗门,供养牛、土地、黄金、衣服,并献上香料、花朵等诸供品。

Verse 34

कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः । कर्णकुंडलकं चैव मुद्रिकां स्वर्णनिर्मिताम्

他欢喜地供献一只青铜器皿——盛水之壶——又献上金制耳饰与金戒指。

Verse 35

आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन । वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः

苦行之富者啊,也应供奉座席与花鬘;切莫在财物上行欺诈,因为带着欺诳的布施只结微薄之果。

Verse 36

पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये । सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चंदनम्

婆罗门啊,为成就一切所愿,应请人诵读《往世书》;并供养黄金、白银、衣服、花鬘与檀香。

Verse 37

दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमंदिरम् । कुर्वंति विधिनानेन संपूर्णं पुस्तकं च ये । तेषां नामानि लिंपेत चित्रगुप्तोऽर्चनाद्द्विज

凡以虔敬之心布施经典之书者,必往诃利之圣殿(居所)。而那些依此仪轨制备并奉献完整之书者——二次生者啊——因这礼拜之功,持簿神吉多罗古普塔将记录他们的名字。