
Means of Liberation in Kali-yuga: Satsanga, Hearing Kṛṣṇa-kathā, and the Marks of a Vaiṣṇava
圣者绍那迦问苏多:在迦利时代,众生以何得解脱。苏多称赞其问,并引述往昔阇弥尼向毗耶娑请问同一要义的对话。 毗耶娑开示救度次第:亲近善士(satsanga)则得闻经典;由闻法而生对诃利(Hari)的奉爱(bhakti);奉爱成熟为真实智慧;智慧终至解脱(mokṣa)。 本章进一步彰显诃利—克里希纳事迹之讲述(Hari-kathā)的神圣与威力:凡诵说克里希纳功行之处,主即临在;阻挠或讥诮《往世书》宣讲者,必招重报;即便仅起欲闻之心,亦能焚除积罪。末后列举毗湿奴信徒(Vaiṣṇava)之相:不害、真实、慈悲、守持爱迦达希(Ekādaśī)斋日、敬奉图拉西(tulasī)与舍罗伽罗摩(Śālagrāma)、远离毁谤、以服务为净行,并以果报偈宣示:虔诚听闻者必得解脱。
Verse 1
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे व्यासजैमिनिसंवादे प्रथमोऽध्यायः
至此,光辉的《莲华大往世书》之《梵天品》(Brahma-khaṇḍa),毗耶娑与阇弥尼对话中的第一章圆满终结。
Verse 2
सूत उवाच । साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् । सर्वेषां च जनानां च शुभवाञ्छो निरंतरम्
苏多说道:“善哉,善哉,最胜牟尼!你为诸善人之首,恒常为一切众生祈愿吉祥。”
Verse 3
एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः । पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव
往昔,圣贤毗耶娑——全知且为众人所敬——被阇弥尼请问。听吧,毗湿奴的奉行者啊,他当时如何作答。
Verse 4
दंडवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम् । गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुंगवः
他以五体投地礼拜后,那位最胜牟尼请问毗耶娑——其师、萨蒂雅伐蒂之子——已通达万事万义者。
Verse 5
जैमिनिरुवाच । कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे । अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः
阇弥尼说道:“在迦利时代,人们凭何得解脱(mokṣa)?请实告于我。众生寿命短促,如何以少许福德亦能得度?”
Verse 6
व्यास उवाच । साधुसंगाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो । हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः
毗耶娑说道:“婆罗门啊,尊者啊——由亲近善士而生闻听圣典(śāstra)。由此生起对哈利(Hari)的奉爱(bhakti);由奉爱得真知,由真知而至究竟归趣——解脱。”
Verse 7
न रोचते कथा भूमौ पापिष्ठाय जनाय वै । वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः
当圣洁的讲述在世间被献给最罪恶之人时,他并不以此为乐。那位婆罗门应当被认作毗湿奴的奉信者(外师那瓦),实为远离罪业者之最上。
Verse 8
श्रीकृष्णस्य कथां श्रुत्वाऽऽनंदी भवति वैष्णवः । असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः
听闻圣主室利·奎师那的神圣事迹,外师那瓦便生欢喜;但若有人以虚妄之言讲说此事,当知他是罪人之师。
Verse 9
यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा । तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित्
婆罗门啊,无论在何处宣说奎师那的圣谈,宇宙之主阇甘那陀便亲临其处,并且从不在任何时候舍离。
Verse 10
कृष्णस्य यः कथारंभे कुर्याद्विघ्नं नराधमः । नरकान्निष्कृतिर्नास्ति मन्वंतरशतावधि
那最卑劣之人,若在讲述奎师那圣事的开端便制造障碍,则纵经百个摩奴劫(Manvantara),亦无从自地狱得解脱。
Verse 11
ये पुराणकथां श्रुत्वा निंदंत्युपहसंति वै । तेषां करस्था नरका बहुक्लेशकराः सदा
凡听过《往世书》圣传之后却加以诋毁并讥笑者,等待他们的是如同握于掌中的诸地狱,恒常带来无量苦恼。
Verse 12
जन्मांतरार्जितं पापं तत्क्षणादेव नश्यति । श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि
累世所积之罪,于当下即刻消灭;即便只是生起愿意聆听圣主圣奎师那(Śrī Kṛṣṇa)神圣行传之心者,亦复如是。
Verse 13
भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा । न जाने श्रवणे तस्य का गतिर्वा भविष्यति
若有人以虔敬之心撰述或诵说圣主圣奎师那(Śrī Kṛṣṇa)的神圣行传,我亦难以言尽:聆听者将得何等崇高归趣。
Verse 14
ब्रह्महत्यादिकं पापं अकालमरणं तथा । सुरापानं तथास्तेयं सर्वं नश्यति पापिनः
即便如杀害婆罗门等重罪,以及夭亡之厄、饮酒之罪与盗窃之过——罪人之诸罪,悉皆灭尽。
Verse 15
पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत् । तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत्
若凡人作罪之后复能回心离罪,则其罪必至消亡,如棉堆遇火,顷刻焚尽。
Verse 16
श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे । तस्य गृहसमीपं हि नायांति यमकिंकराः
婆罗门啊,若家中安置载有圣主圣奎师那(Śrī Kṛṣṇa)行传之书,则阎摩(Yama)之使者连那宅邸近旁也不敢来。
Verse 17
जैमिनिरुवाच । वदंति वैष्णवान्कांश्च वांच्छा ब्रूहि गुरो मम । इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम्
阇弥尼说道:噢,师尊,请告诉我毗湿奴信徒(Vaiṣṇava)所宣说的诸般志愿与旨趣。如今我愿明了知之,并体悟其至上伟大。
Verse 18
व्यास उवाच । यो नरो मस्तके भक्त्या वैष्णवांघ्रिजलं द्विज । करोति सेचनं पापी तीर्थस्नानेन तस्य किम्
毗耶娑说道:噢,二次生者啊,若那罪人以虔敬将洗过毗湿奴信徒(Vaiṣṇava)足的净水倾洒于顶,他又何必再去圣地渡口沐浴呢?
Verse 19
साधुसंगं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज । तस्य नश्यंति पापानि ब्रह्महत्यामुखानि च
噢,二次生者啊,凡与圣贤相伴,哪怕仅一瞬,甚至半瞬,其罪业皆得消灭,乃至杀婆罗门等重罪亦然。
Verse 20
यत्रयत्र कुले चैव एको भवति वैष्णवः । कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै
无论哪一个家族,只要其中诞生哪怕一位毗湿奴信徒(Vaiṣṇava),纵使家族为罪垢所染,也必因他而趋向解脱(mokṣa)。
Verse 21
हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः । लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज
噢,婆罗门啊,那些远离暴害、虚伪、欲染与嗔怒,并舍弃贪欲与迷妄之人——当知他们即是毗湿奴信徒(Vaiṣṇava)。
Verse 22
पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः । अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः
应当认知为真正的毗湿奴信徒(Vaiṣṇava)者:敬奉祖先,具足慈悲,乐于利益一切众生,远离嫉妒,言语真实。
Verse 23
विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः । एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः
凡乐于奉事婆罗门(brāhmaṇa),对他人之妻全然禁欲不犯,并专心守持爱迦达希(Ekādaśī)斋戒之誓者,当知其为毗湿奴信徒(Vaiṣṇava)。
Verse 24
गायंति हरिनामानि तुलसीमाल्यधारकाः । हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः
凡歌咏哈利(Hari)圣名,佩戴图拉西(tulasī)花鬘,并以洗礼主足之水(足洗水)洒净者,当知其确为毗湿奴信徒(Vaiṣṇava)。
Verse 25
श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् । कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः
婆罗门啊,凡其耳畔或头顶于任何时刻可见殊胜的图拉西(tulasī)叶者,当知其确为毗湿奴信徒(Vaiṣṇava)。
Verse 26
पाखंडसंगरहिता विप्रद्वेषविवर्जिताः । सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः
凡远离邪见伪道之交,心中不憎恨婆罗门(brāhmaṇa),并浇灌图拉西(tulasī)圣株者,应当知其为毗湿奴信徒(Vaiṣṇava)。
Verse 27
पूजयंति हरिं ये च तुलस्या चार्चयंति ये । कन्यादानरता ये च ये वै ह्यतिथिपूजकाः
凡礼敬哈利者,供奉圣洁的图拉西者,乐行“女施”(以婚嫁为圣礼之布施)者,以及敬待宾客者——此等之人,实为安住于正法。
Verse 28
शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः । यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च
凡聆听毗湿奴圣行者,当知为毗湿奴派(Vaiṣṇava);又凡其家中如法安奉舍拉伽罗摩圣石者,亦复如是。
Verse 29
मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः । जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः
凡拂拭清净哈利圣所者,弘行祖先祭(pitṛ-yajña)者,并以慈悲怜悯贫弱卑下之人者——当知彼等亦是真正的毗湿奴信众。
Verse 30
परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये । हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः
凡视他人财物——尤以婆罗门之资财——如同毒药者;又唯食奉献于哈利之供品(naivedya)者,当知其为真正的毗湿奴信众。
Verse 31
वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः । राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः
凡笃信吠陀与诸圣论(śāstra)者,护持图拉西林苑者,并坚守罗陀阿湿达弥(Rādhāṣṭamī)誓戒者——当知彼等为毗湿奴信众。
Verse 32
श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया । परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः
凡以信心在圣克里希纳(Śrī Kṛṣṇa)前供奉明灯,且不诽谤他人者,当知他们确是真正的毗湿奴信徒(Vaiṣṇava)。
Verse 33
सूत उवाच । पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् । मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम्
苏多(Sūta)说道:当阇弥尼(Jaimini)发问时,毗耶娑(Vyāsa)依次第如实作答。噢婆罗门啊,我今将那段因缘之说,正如我在叙述中从师尊处所闻,转述于你。
Verse 34
अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः । सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्
凡人中至善者,以信心聆听此章,便得脱离一切罪垢,往至毗湿奴(Viṣṇu)的至上圣境。