Adhyaya 220
Brahma KhandaAdhyaya 22010 Verses

Adhyaya 220

Sapiṇḍīkaraṇa-Śrāddha Vidhi (One-Year Concluding Rite)

承接 śrāddha-vidhi 的脉络,梵天(Brahmā)详说一年期满之 sapiṇḍīkaraṇa-śrāddha,以圆成亡者趋入 Pitṛ-loka(祖灵界)的转化。其时定在午后,并规定邀请代表父系的婆罗门次第、座次安排与诸天(deva)之召请。又备三只祖先供器,置 kuśa 草与覆帛,并判定 acchidra(无缺漏之相)。核心仪轨为:依次开启供器,诵“合一”真言,将祖父与曾祖父之水/精粹融入父亲之 Pitṛ 供器,以建立 sapiṇḍa(同一供团)之连续。随后行 arghya、apośāna、vikirana,询问是否满足;以“preta”名义先供父亲 piṇḍa,再分置诸 piṇḍa 入祖先供器,并行 piṇḍa-cālana。终以 anujñā、面南洒水成流、施 dakṣiṇā、祝福、visarjana 与正式送别作结,并宣示 śrāddha 的究竟体性即为毗湿奴(Viṣṇu),为后续仪轨与神学申说搭起教义之桥。

Shlokas

Verse 1

ऽध्यायः ब्रह्मोवाच / सपिण्डीकरणं वक्ष्ये पूर्णे ऽब्दे तत्क्षये ऽहनि / कृतं सम्यग्यथाकाले प्रेतादेः पितृलोकदम्

梵天说:“我将解释sapiṇḍīkaraṇa(合灵)的仪式。当满一年时,在那结束之日,若能在适当的时间正确执行,它将赋予逝者(preta)进入祖灵(Pitṛs)世界的资格。”

Verse 2

सपिण्डीकरणं कुर्यादपराह्ने तु पूर्ववत् / पितामहादिब्राह्मणनिमन्त्रणम् / ॐ पुरूरवार्द्रवसंज्ञकेभ्यो देवेभ्य एतदासनं नमः / वामपार्श्वे चासनदानम् / आवाहनम् / ततः पितामहप्रपितामहवृद्धप्रपितामहानां सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहणं-पात्रत्रयकरणं-पात्रोपरि कुशं दत्त्वा पात्रान्तरेण पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव पितुरपि सपत्नीकस्य प्रेतपदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्राच्छिद्रावधारणम्

应在下午按照先前的规定举行合灵祭(Sapiṇḍīkaraṇa)。应邀请婆罗门,首先是代表祖父和其他祖先的婆罗门。(向神灵献座时,应说:)“Om——顶礼;此座是献给名为Purūrava和Ārdrava的诸天神(Devas)的。”随后应在左侧设座,并祈请诸神降临。

Verse 3

तत्परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामहक्रमेण पात्राणां मनाक् चालनम् / उद्धाटनं कृत्वा--ॐ ये समानाः समनसः पितरो यमराज्ये / तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् / ॐ ये समानाः समनसो जीवा जीवेषु मामकाः / तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः / एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपितामहपात्रे वृद्धप्रपितामहपात्रं परित्यज्य पितामहप्रपितामहयोरुदकं पवित्रञ्च पितृपात्रे क्षिपेत्

完成之后,应按顺序轻轻移动并打开供奉祖父、曾祖父和高祖父的器皿。然后应念诵:“Om——那些在阎摩(Yama)国度中同类且同心的祖先们:愿他们的世界得以确立;Svadhā(供养)归于他们,致敬——愿祭祀在诸神中得以圆满。”

Verse 4

ततः पितृब्राह्मणहस्ते पात्रस्थपवित्रदानम् / पात्रस्थपुष्पेण शिरसः करपादार्चनं ब्राह्मणहस्ते ऽन्य जलदानं--हस्ताभ्यां पात्रमुत्थाप्य ॐ या दिव्येति पठित्वा ॐ अमुकगोत्र मत्पितामह अमुकदेवशर्मन् सपत्नीक एष ते अर्घ्यः स्वधा / पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं सपवित्रङ्गृहीत्वास्तोकमुदकं पिण्डसेचनार्थं पात्रान्तरेण पिधाय पितृब्राह्मणवामपार्श्व दक्षिणाग्रकुशोपरि पितृभ्यः स्तानमसीति अधोमुखपात्रस्थपनम्

然后,应将置于器皿上的Pavitra(吉祥草指环)放入代表祖灵(Pitṛs)的婆罗门手中。双手举起器皿,念诵“Oṃ yā divyā...”,并说:“Om——某某氏族(Gotra)的祖父,名为某某Devaśarman,与您的妻子一起——这Arghya(供水)是献给您的;Svadhā。”

Verse 5

पितामहप्रपितामहवृद्धप्रपितामहेभ्यो गन्धादिदानमग्नौकरणम् / अवशिष्टान्नं प्रपितामहादिपात्रे क्षिपेत् / पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम् / अङ्गुष्ठनिवेशनं तिलविकरणं कृत्वा अमुकगोत्र एतत्ते अन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र त्वा मनुयाश्च त्वामनु तस्मै ते स्वधा इति

对于祖父、曾祖父和高祖父,应供奉香料等物,并在火中进行供养。剩余的食物应放入供奉曾祖父和其他人的器皿中。按顺序完成直到祖父器皿的加持(祈请)后,也应加持婆罗门的器皿。

Verse 6

ततो देवप्रभृतिभ्य अपोशानं दद्यात् / अतिथिप्राप्तौ अतिधिश्राद्धं कुर्यात् / अस्मिन्नवसरे विकिरणम् / पितामाहदौ प्रश्रं कृत्वा पितृब्राह्मणम् ॐ स्वदितं भवद्भिरिति प्रश्रः / ॐ अमुकगोत्र मत्पितः अमुकशर्मन् सपत्नीक एष ते पिण्डो ये चात्रत्वामनुयाश्च त्वामनु तस्मै स्वधेति पिण्डपात्रमच्छिद्रमस्तु / ततः सङ्कल्प सिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा ये समानाः सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्धप्रपितामहपात्रेषु क्षिपेत् / पिण्डेषु गन्धादिकं दत्त्वा पिण्डचालनम् / अतिथिब्राह्मणे स्वदितादिप्रश्रः / ब्राह्मणानामाचमनम् / भुक्तिक्रमेण ताम्बूलदानम् / सुप्रोक्षितमस्तु शिवा आपः सन्तु--वृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानम् / गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपतिष्टतामिति सतिजलदानम्

然后应从诸神(Devas)开始献水(Apośāna)。如果有客人到来,应举行“客祭”(Atithi-śrāddha)。此时,也应进行撒祭(Vikiraṇa)。在从祖父开始进行正式询问后,向代表祖灵的婆罗门问道:“Om——您吃得满意了吗?”

Verse 7

अघोराः पितरः सन्तु अस्त्वित्युक्ते स्वधां वाचयिण्य इति पितामाहदिब्राह्मणानुज्ञापनम्

说完“愿诸祖灵(Pitṛ)无怖无惧(aghorāḥ),如是成就”之后,应当启请诵出“svadhā”;此即向以毗多摩诃(最尊长者)为首的婆罗门正式请求许可(anujñā)。

Verse 8

ॐ वाच्यतां इत्युक्ते ॐ पितामहादिभ्यः स्वधोच्यताम् / अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्यः स्वधोच्यतामिति / अस्तु स्वधेत्युक्ते ॐ ऊर्जं वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः / ॐ विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते ॐ यवोदकदानम् / ॐ देवताभ्य इति त्रिर्जपः

当说“当诵‘唵(Oṃ)’”时,应答:“愿为毗多摩诃等诸祖灵诵出‘svadhā’。”当说“成就——svadhā”时,应答:“愿为诸祖灵及主持祖祭之婆罗门诵出‘svadhā’。”当再次说“成就——svadhā”时,诵“oṃ ūrjaṃ vahantīḥ”,面向南方倾注一缕水流。又说“愿毗湿维天众(Viśvedevas)于此祭中欢喜”,将大麦水(yava-udaka)置于天神婆罗门之手。随后以“oṃ devatābhyaḥ”三遍复诵。

Verse 9

पिण्डपात्राणि चालयित्वा आचम्य पितामहादिभ्यो दक्षिणां दत्त्वा ततः पितृ ब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशीः प्रार्थनम् / प्रतिगृह्यतामित्युक्ते दातारो नो ऽभिवर्धन्तामिति पात्रमुत्तानं कृत्वा वाजे वाजेदृविसर्जनम् / अभिरण्यतामिति पितृब्राह्मणविसर्जनम्

轻轻摇动盛有供团(piṇḍa)的器皿后,当行阿遮摩那(ācamana,啜水净身)。继而自毗多摩诃等祖先起奉上达克希那(dakṣiṇā),并向祖祭婆罗门祈请祝福:“愿赐我吉祥之祝。”当说“请受纳”时,施主应答:“愿我等施主增盛”,并将器皿翻转向上,以“vāje vāje”作结行遣送(visarjana)。随后以“abhiraṇyatām”之语,正式辞送祖祭婆罗门。

Verse 10

सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव / श्राद्धं विष्णुः श्राद्धकर्ता फलं श्राद्धादिकं हरिः

我已依毗耶娑(Vyāsa)所宣说,教你萨毗ṇḍī迦罗那(sapiṇḍīkaraṇa)施罗陀(śrāddha)之法。实则施罗陀即是毗湿奴(Viṣṇu);行施罗陀者亦是毗湿奴;而施罗陀及一切相应仪轨之果,唯是哈利(Hari)一者。

Frequently Asked Questions

After affirming fulfillment of the saṅkalpa, the chapter directs the piṇḍa to be divided and, with the ‘ye samānāḥ sumanasaḥ’ mantra-pair, placed into specific ancestor vessels in sequence. This functions as the ritual mechanism of integration—redistributing the offering so the departed is ritually aligned within the established ancestral chain.

Anujñā is the formal request for permission/assent from the brāhmaṇas representing the Pitṛs, culminating in prompting ‘svadhā.’ In śrāddha grammar, this assent seals the offering’s acceptance and marks the transition from offering-actions to concluding rites such as south-facing water-stream, dakṣiṇā, blessings, and visarjana.