Adhyaya 47
Skandha 9 - Devotion & Grace of the GoddessAdhyaya 4758 Verses

Adhyaya 47

Mangalachandi and Manasa Upakhyana

在本章中,那罗延主向那罗陀仙人讲述了曼加拉昌迪卡(Mangalachandika)和玛纳莎(Manasa)女神的神圣起源及其意义。曼加拉昌迪卡是原质(Mula Prakriti)的化身,最初由湿婆神在与强大恶魔的激战中祈求。因他的祈祷而喜悦,女神赋予了他取得胜利的力量。随后,湿婆确立了在周二使用神圣的二十一音节咒语和深奥的赞颂文(stotra)来崇拜她的传统,这能带来巨大的吉祥。叙述随后转向玛纳莎女神,她是迦叶波仙人的心生之女。作为克里希纳主的至高苦行者和信徒,她以包括维沙哈里(Vishahari)、纳格什瓦里(Nageshwari)和阿斯蒂卡玛塔(Astikamata)在内的十二个神圣名字而闻名。本章最后详细说明了诵念玛纳莎十二个名字的精神益处,特别是针对蛇咬伤的绝对保护、克服毒素以及获得最终的解脱。

Shlokas

Verse 1

मङ्‌गलचण्डीमनसयोरुपाख्यानवर्णनम् श्रीनारायण उवाच कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् । देवी मङ्‌गलचण्डी च तदाख्यानं निशामय

[曼加拉·昌迪与玛纳莎的故事描述]。室利·那罗延说:梵天之子(那罗陀)啊,沙什提的故事已根据经典叙述完毕。现在,请听关于曼加拉·昌迪女神的叙述。

Verse 2

तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् । श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि

关于她的崇拜和仪式,我从达摩(Dharma)口中听闻,皆符合吠陀经,且为所有智者所向往。

Verse 3

दक्षा या वर्तते चण्डी कल्याणेषु च मङ्‌गला । मङ्‌गलेषु च या दक्षा सा च मङ्‌गलचण्डिका

她在赐予福祉方面既精通(Daksha)又勇猛(Chandi),且是吉祥的(Mangala);她在一切吉祥事务中皆表现卓越,故被称为曼加拉·昌迪卡(Mangala Chandika)。

Verse 4

पूज्या या वर्तते चण्डी मङ्‌गलोऽपि महीसुतः । मङ्‌गलाभीष्टदेवी या सा वा मङ्‌गलचण्डिका

她是凶猛的女神(昌迪),甚至受到曼加拉(火星,大地之子)的崇拜,并且是曼加拉所向往的神灵,因此被称为曼加拉·昌迪卡。

Verse 5

मङ्‌गलो मनुवंश्यश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेवी तेन मङ्‌गलचण्डिका

在摩奴的后裔中有一位名叫曼加拉的国王,他是拥有七个岛屿的大地的统治者。她是其向往和崇拜的神灵,因此她是曼加拉·昌迪卡。

Verse 6

मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी । कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता

通过形式的分化,她是杜尔迦,即原初自然(Mula Prakriti),至高无上的自在天女(Ishwari)。她是慈悲的化身,显而易见,是女性所选择的神灵。

Verse 7

प्रथमे पूजिता सा च शङ्‌करेण परात्परा । त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च

首先,那位至高无上的女神受到商羯罗(湿婆)的崇拜,当时他在毗湿奴的促使下,正处于毁灭恶魔特里普拉苏拉的可怕战斗中。

Verse 8

ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्‌कटे । आकाशात्पतिते याने दैत्येन पातिते रुषा

噢,婆罗门(那罗陀),根据梵天的建议,当湿婆处于危急境地和痛苦之中时,他的战车从天而降,被愤怒的恶魔击落。

Verse 9

ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्‌करः । सा च मङ्‌गलचण्डी या बभूव रूपभेदतः

在梵天和毗湿奴的建议下,商羯罗赞颂了杜尔迦。她通过形式的变化,化身为曼加拉·昌迪。

Verse 10

उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो । भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति

她出现在商菩面前说道:“主啊,不要害怕!至高无上的主(毗湿奴)将化作一头公牛来支持你。”

Verse 11

युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः । मायात्मना च हरिणा सहायेन वृषध्वज

“我无疑将成为你战斗力量的化身。噢,以牛为旗者(湿婆),以诃利(毗湿奴)的幻象形式作为你的助手……”

Verse 12

जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् । इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा

“……杀死那个破坏众神地位的敌人——恶魔。”说完这话,女神消失了,化作了商菩的能量(沙克提)。

Verse 13

विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः । मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः

乌玛之夫(湿婆)用毗湿奴赠送的武器杀死了他。噢,伟大的圣哲,当恶魔倒下时,所有的神灵和伟大的圣哲们……

Verse 14

तुष्टुवुः शङ्‌करं देवं भक्तिनम्रात्मकन्धराः । सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह

他们虔诚地低头赞颂商羯罗神。刹那间,鲜花如雨般落在商菩的头上。

Verse 15

ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् । ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्‌करस्तथा

梵天与毗湿奴心生欢喜,赐予他吉祥的祝福。随后,在梵天与毗湿奴的指引下,商羯罗进行了净身沐浴。

Verse 16

पूजयामास तां भक्त्या देवीं मङ्‌गलचण्डिकाम् । पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि

随后,他虔诚地礼拜曼加拉·昌迪卡女神,供奉了洗脚水、供养水、漱口水以及各种服饰。

Verse 17

पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने । छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा

圣者啊,他虔诚地供奉了鲜花、檀香膏和各种食物,还有山羊、绵羊、水牛、犀牛和飞禽。

Verse 18

वस्त्रालङ्‌कारमाल्यैश्च पायसैः पिष्टकैरपि । मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि

……以及衣服、饰品、花环、甜米粥(帕亚萨姆)、糕点、蜂蜜、如甘露般的甜食和各种水果。

Verse 19

सङ्‌गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः । ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम्

伴随着音乐、舞者、乐器、庆典和名号的诵念,他按照马迪安迪纳分支所描述的禅定法虔诚地冥想。

Verse 20

ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद । ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्‌गलचण्डिके

那拉达啊,他使用根本咒语供奉了这些物品:“唵 诃利姆 师利姆 克利姆 萨瓦普杰 德维 曼加拉昌迪凯……”

Verse 21

हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः । पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः

“……吽 吽 帕特 娑婆诃”——这二十一个音节的咒语值得礼拜,如如意树(迦勒波塔鲁)般,满足信徒的一切愿望。

Verse 22

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद्‌ ध्रुवम् । ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम्

诵念一百万遍(十洛克),必能获得咒语成就(Mantra-siddhi)。婆罗门啊,现在请听她的冥想(Dhyana),这是吠陀经所载且众人公认的。

Verse 23

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्

我恒常礼拜这位女神,她显现为十六岁的少女,拥有永恒稳固的青春,双唇红润如宾巴果,牙齿洁美,形体纯净,面容宛若秋日的莲花。

Verse 24

श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् । जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम्

肤色如白瞻波迦花般闪耀,双目如深蓝色莲花。她是宇宙的抚育者,是众生财富的赐予者。

Verse 25

संसारसागरे घोरे ज्योतीरूपां सदा भजे । देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने

我恒常崇拜她,她是这可怕尘世苦海中的光明化身。这就是女神的冥想;噢,圣者,现在请听对她的赞歌。

Verse 26

महादेव उवाच रक्ष रक्ष जगन्मातर्देवि मङ्‌गलचण्डिके । हारिके विपदां राशेर्हर्षमङ्‌गलकारिके

大天(Mahadeva)说:保护我,保护我,噢,宇宙之母,吉祥昌迪迦女神!噢,灾难堆积的毁灭者,喜悦与吉祥的创造者!

Verse 27

हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके । शुभे मङ्गलदक्षे च शुभे मङ्‌गलचण्डिके

噢,擅长赋予喜悦与吉祥的女神,赐予幸福与繁荣者!噢,吉祥者,擅长一切吉祥之事者!噢,吉祥的昌迪迦!

Verse 28

मङ्‌गले मङ्‌गलार्हे च सर्वमङ्‌गलमङ्‌गले । सतां मङ्‌गदे देवि सर्वेषां मङ्गलालये

噢,吉祥者,值得一切吉祥,是一切吉祥事物的本质!噢,向德行高尚者赐予繁荣的女神,众生吉祥的居所!

Verse 29

पूज्ये मङ्‌गलवारे च मङ्‌गलाभीष्टदेवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम्

噢,在星期二(Mangalavara)受崇拜的女神,吉祥的挚爱神灵!你不断受到曼格拉国王和摩奴后裔的崇拜。

Verse 30

मङ्‌गलाधिष्ठातृदेवि मङ्‌गलानां च मङ्‌गले । संसारमङ्‌गलाधारे मोक्षमङ्‌गलदायिनि

噢,主宰吉祥的神灵,一切吉祥事物中最吉祥者!你是这世间吉祥的根基,是解脱(Moksha)之吉祥的赐予者。

Verse 31

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् । प्रतिमङ्‌गलवारे च पूज्ये मङ्गसुखप्रदे

噢,万物之精华,吉祥的支撑,带人跨越一切业力之海者!你在每个星期二受崇拜,赐予吉祥与快乐。

Verse 32

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्‌गलचण्डिकाम् । प्रतिमङ्‌गलवारे च पूजां दत्त्वा गतः शिवः

赞美了吉祥昌迪迦之后,商菩(Shambhu,即湿婆)主在每个星期二崇拜她,随后离去。

Verse 33

प्रथमे पूजिता देवी शिवेन सर्वमङ्‌गला । द्वितीये पूजिता सा च मङ्‌गलेन ग्रहेण च

萨瓦曼格拉(Sarvamangala)女神首先受到湿婆主的崇拜。其次,她受到火星(Mangala Graha)的崇拜。

Verse 34

तृतीते पूजिता भद्रा मङ्‌गलेन नृपेण च । चतुर्थे मङ्‌गले वारे सुन्दरीभिः प्रपूजिता

第三,吉祥的女神受到曼加拉国王的崇拜。第四,美丽的妇女在星期二崇拜她。

Verse 35

पञ्चमे मङ्‌गलाकाङ्‌क्षिनरैर्मङ्‌गलचण्डिका । पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा

第五,渴望吉祥的人们崇拜曼加拉·昌迪卡。因此,她在所有宇宙中并由宇宙之主不断地受到崇拜。

Verse 36

ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी । देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने

噢,圣者!从那时起,至高女神(至尊天女)开始受到天神、圣贤、人类和摩奴们的普遍崇拜。

Verse 37

देव्याश्च मङ्‌गस्तोत्रं यः शृणोति समाहितः । तन्मङ्‌गलं भवेत्तस्य न भवेत्तदमङ्‌गलम् । वर्धते पुत्रपौत्रैश्च मङ्‌गलं च दिने दिने

凡是以专注的心听闻女神这首吉祥颂歌的人,都会获得吉祥;任何不祥之事都不会降临到他们身上。他们的繁荣、子孙将与日俱增。

Verse 38

श्रीनारायण उवाच उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् । श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः

室利·那罗延说:噢,梵天之子(那罗陀)!关于两位女神的故事已根据经典讲述完毕。现在请听女神玛纳莎的故事,正如我从达摩之口亲耳所闻。

Verse 39

सा च कन्या भगवती कश्यपस्य च मानसी । तेनैव मनसा देवी मनसा या च दीव्यति

那位神圣的少女薄伽梵蒂是迦叶波仙人的意生女(manasi)。因为她游戏于心灵之中,且是由心灵创造的,所以被称为玛纳莎女神。

Verse 40

मनसा ध्यायते या च परमात्मानमीश्वरम् । तेन सा मनसा देवी तेन योगेन दीव्यति

她用心(manasa)冥想至高主(至尊我)。因此,她被称为玛纳莎女神,并通过那瑜伽散发出神圣的光辉。

Verse 41

आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः

那位女神在自性中喜悦(Atmarama),是毗湿奴的信徒(Vaishnavi),也是一位成就的瑜伽女(Siddha Yogini)。她为了冥想至尊灵魂奎师那主,进行了三个大劫(Yugas)的苦行。

Verse 42

जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः । गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः

看到她因苦行而消瘦(Jara)的身体,牧牛女之主(奎师那)赐予她“贾拉特卡鲁”(Jaratkaru)之名。

Verse 43

वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः । पूजां च कारयामास चकार च स्वयं प्रभुः

慈悲的主(奎师那)仁慈地满足了她所渴望的恩典。主亲自崇拜她,并让其他人也崇拜她。

Verse 45

स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः । भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४ जगद्‌गौरीति विख्याता तेन सा पूजिता सती । शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता

她在天界、龙界、人间和梵天界中是最美丽、最迷人的肤色白皙者(高里)。因此,这位贞洁的女神以“世间高里”(Jagadgauri)之名闻名并受人崇拜。作为湿婆的弟子,她也被尊称为“湿婆之女”(Shaivi)。

Verse 46

विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता । नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च

她深切且永恒地皈依毗湿奴勋爵,因此被称为“遍入天女”(Vaishnavi)。在国王蛇祭期间,她救了众蛇(纳迦)的性命。

Verse 47

नागेश्वरीति विख्याता सा नागभगिनीति च । विषं संहर्तुमीशा या तेन विषहरी स्मृता

她以“纳迦之主”(Nageshwari)和“纳迦之妹”(Nagabhagini)而闻名。由于她能消除毒素,她被称为“除毒者”(Vishahari)。

Verse 48

सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी । महाज्ञानं च योगं च मृतसज्जीवनीं पराम्

她从哈拉(湿婆)那里获得了“悉地瑜伽”,因此被称为“悉地瑜伽女”(Siddhayogini)。她获得了至高无上的知识、瑜伽以及起死回生的大法(Mritasanjivani)。

Verse 49

महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः । आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी

智者称她拥有伟大的知识(Mahajnanayuta)。这位伟大的苦行者也是大圣人阿斯提卡(Astika)的母亲。

Verse 50

आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता । प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः

她在世间享有盛誉,被称为“阿斯提卡之母”(Astikamata)。她是伟大圣人贾拉特卡鲁(Jaratkaru)心爱的妻子。

Verse 51

योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः । जरत्कारुर्जगद्‌गौरी मनसा सिद्धयोगिनी

因为她是举世尊敬的瑜伽士贾拉特卡鲁的妻子,所以被称为“贾拉特卡鲁之爱”(Jaratkarupriya)。她的名字有:贾拉特卡鲁、世间高里、摩那娑(Manasa)和悉地瑜伽女。

Verse 52

वैष्णवी नागभगिनी शैवी नागेश्वरी तथा । जरत्कारुप्रियास्तीकमाता विषहरेति च

她的其他名字还有:遍入天女、纳迦之妹、湿婆之女、纳迦之主、贾拉特卡鲁之爱、阿斯提卡之母和除毒者。

Verse 53

महाज्ञानयुता चैव सा देवी विश्वपूजिता । द्वादशैतानि नामानि पूजाकाले तु यः पठेत्

她拥有至高无上的知识,是受宇宙崇拜的“大智者”(Mahajnanayuta)。凡是在礼拜时诵读女神这十二个名字的人……

Verse 54

तस्य नागभयं नास्ति तस्य वंशोद्‍भवस्य च । नागभीते च शयने नागग्रस्ते च मन्दिरे

……将不再惧怕毒蛇,其后代亦然。即使睡在令人生畏的蛇地,或住在毒蛇出没的房屋里……

Verse 55

नागशोभे महादुर्गे नागवेष्टितविग्रहे । इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः

...或在充满毒蛇的巨大堡垒中,或当身体被蛇缠绕时,诵读此赞颂无疑会获得解脱。

Verse 56

नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते । दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्

见到每日诵读此经者,众蛇皆逃遁。持诵百万遍,人必得此赞颂之悉地(Siddhi)。

Verse 57

स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः । नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः

得此赞颂悉地者,能吞服毒药。以蛇为饰,甚至能以蛇为座驾。

Verse 58

नागासनो नागतल्पो महासिद्धो भवेन्नरः । अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम्

此人可以蛇为座、为床,成为大悉地者。最终,他将在毗湿奴主的陪伴下昼夜欢愉。

Verse 999

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे मङ्‌गलचण्डीमनसयोरुपाख्यानवर्णनं नाम सप्तचत्वारिंशोऽध्यायः

至此,《室利玛德·黛维·薄伽梵谭》第九品、一万八千颂之大往世书,那罗延与那罗陀对话中,名为“吉祥昌迪卡与摩那娑叙事”的第四十七章结束。

Frequently Asked Questions

Goddess Mangalachandika was first worshipped by Lord Shiva. When Shiva was in distress during a battle with a demon, he invoked her upon the advice of Brahma and Vishnu. She empowered him to win, and in gratitude, Shiva established her worship.

Reciting the twelve names of Goddess Manasa provides absolute protection from snake bites, neutralizes poison, removes fear, and ultimately grants liberation and proximity to Lord Vishnu.

Read Devi Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App