Adhyaya 8
Prakriya PadaAdhyaya 866 Verses

Adhyaya 8

लोकज्ञान-वर्णन (Lokajñāna-varṇana) — Description of World-Knowledge / Cosmogonic Classification

本章由苏多(Sūta)在风神(Vāyu)所宣说的《梵卵往世书》框架中叙述,铺陈宇宙生成的次第:生主(Prajāpati)以心意(mānasa)与身相的流出,建立有秩序的众生类别。经文举示“知田者”kṣetrajña 随“田”kṣetra 而起,继而形成四类:天神(deva)、阿修罗(asura)、祖灵/祖先(pitṛ)与人类。随后论及为造化而依次取用的“所受之身”tanu:先是以昏暗性 tamas 为主的阶段,在阿修罗之后出生黑夜(rātri);继而以清明性 sattva 为主,诸天从口中出生(词源联系 divy,意为光耀/游戏),所舍弃的天身化为白昼(ahaḥ)。再一层清净的流出产生祖灵(pitṛ),所弃之身化为晨昏交界(saṃdhyā)。因此本章是一种技术性的宇宙论:分类众生,将生成与三德(guṇa)之相(tamas/sattva)相系,并把形上造化对应到可见的昼夜时分。

Shlokas

Verse 1

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषंगपादे लोकज्ञान वर्णनं नाम सप्तमो ऽध्यायः सूत उवाच ततोभिध्यायतस्तस्य मानस्यो जज्ञिरे प्रजाः / तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह

如是,在《圣梵卵大摩诃往世书》——由风神(Vāyu)宣说之先分、第二随续品中,有名为“世界之智的描述”的第七章。苏多曰:当他入于观想时,诸众生由其意念而生,并与从其身所出之作用与因缘俱起。

Verse 2

क्षेत्रज्ञाः समवर्त्तन्त क्षेत्रस्यैतस्य धीमतः / ततो देवासुरपितॄन्मनुष्यांश्च चतुषृयम्

在这位智者的“田”(kṣetra)中,诸“知田者”(kṣetrajña)出现;于是形成四类:天神、阿修罗、祖灵(Pitṛ)与人类。

Verse 3

सिसृक्षुरयुतातानि स चात्मानमयूयुजत् / युक्तात्मनस्ततस्तस्य तमोमात्रासमुद्भवः

欲造无量诸有,他令自身契入瑜伽;当其心神调御合一之时,由他生起“昏暗之量”(tamomātrā)。

Verse 4

तदाभिध्यायतः सर्गं प्रयत्नो ऽभूत्प्रजापतेः / ततो ऽस्य जघ नात्पूर्वमसुरा जज्ञिर सुताः

当时,生主(Prajāpati)观想造化,生起了为创世而作的大精进。随后,从他身后部位先出生了阿修罗之子。

Verse 5

असुः प्राणः स्मृतो विज्ञैस्तज्जन्मानस्ततो ऽसुराः / सृष्टा यया सुरास्तन्वा तां तनुं स व्यपोहत

智者说“asu”即普拉那(生命之息);因此由此而生者称为“阿修罗”。用以创造诸天(Deva)的那副身躯,生主将其弃置。

Verse 6

सापविद्धा तनुस्तेन सद्यो रात्रिरजायत / सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका

他所弃的那副身躯立刻化为“夜”(Rātri)。因其充满幽暗之性,故夜又称“三夜分”(Triyāmikā)。

Verse 7

आवृतास्तमसा रात्रौ प्रजा स्तस्मात्स्वयं पुनः / सृष्ट्वासुरांस्ततः सो ऽथ तनुमन्यामपद्यत

在夜中,众生为黑暗所覆,却又从其中自然而然再度显现。造出阿修罗之后,生主又取了另一副身相。

Verse 8

अव्यक्तां सत्त्वबहुलां ततस्तां सो ऽभ्ययुञ्जत / ततस्तां युञ्ज मानस्य प्रियमासीत्प्रभोः किल

随后他取了那不显现而充满清净之质(sattva)的身相。当主宰与之相应之时,据说其心甚为欢喜。

Verse 9

ततो मुखात्समुत्पन्ना दीव्यतस्तस्य देवताः / यतो ऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः

于是诸神从他光耀的面容中出生;因其由他的神圣光辉而生,故被称为“天神(Deva)”。

Verse 10

धातुर्दिव्येति यः प्रोक्तः क्रीडायां स विभाव्यते / तस्मात्तन्वास्तु दिव्याया जज्ञिरे तेन देवताः

被称为“神圣的造化主(Dhātā)”者,在其神圣游戏中显现;诸神正是从那神圣之身而生。

Verse 11

देवान् सृष्ट्वा ततः सो ऽथ तनुं दिव्यामपोहत / उत्सृष्टा सा तनुस्तेन अहः समभवत्तदा

创造诸神之后,他舍离了自己的神圣之身;那被舍弃的身形当时化为“阿诃(ahaḥ)”,即白昼。

Verse 12

तस्मादहःकर्मयुक्ता देवताः समुपासते / देवान्सृष्ट्वा ततः सो ऽथ तनुमन्यामपद्यत

因此,诸神以白昼之业为职而敬奉他;创造诸神之后,他又取了另一种身相。

Verse 13

सत्त्वमात्रात्मिकामेव ततो ऽन्यामभ्ययुङ्क्त वै / पितेव मन्यमानस्तान्पुत्रान्प्रध्याय स प्रभुः

随后他又取一具唯由“萨埵(sattva)”所成的身相;那位主宰将他们视作儿子,如父亲般观想护念。

Verse 14

पितरो ह्यभवंस्तस्या सध्ये रात्र्यहयोः पृथक् / तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम्

由那“桑迪亚”(暮晓交界)使夜与昼分离,祖灵(Pitṛ)遂得出生。因此他们被称为祖灵天(Pitṛ-deva),其父祖之性在他们之中被传记。

Verse 15

ययासृष्टास्तु पितरस्तां तनुं स व्यपोहत / सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत

用以创造祖灵的那一身形,他将其弃去;那被弃的身形立刻化生为“桑迪亚”(暮晓之神)。

Verse 16

तस्मादहर्देवतानां रात्रिर्या साऽसुरी स्मृता / तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी

因此,白昼属于诸天,而黑夜被记为阿修罗之分;在二者之间,那具属祖灵的身形最为尊贵。

Verse 17

तस्माद्देवासुराश्चैव ऋषयो मानवास्तथा / युक्तास्तनुमुपासंते उषाव्युष्ट्योर्यदन्तरम्

因此,诸天、阿修罗、仙圣与世人,皆以持守之心礼敬那处于乌莎与维尤什提之间的形相。

Verse 18

तस्माद्रात्र्यहयोः संधिमुपासंते तथा द्विजाः / ततो ऽन्यस्यां पुनर्ब्रह्मा स्वतन्वामुपपद्यत

因此,二生者亦礼敬夜与昼的交界;随后,梵天又再摄受另一具自身之形。

Verse 19

रजोमात्रात्मिका या तु मनसा सो ऽसृजत्प्रभुः / मनसा तु सुतास्तस्य प्रजनाज्जज्ञिरे प्रजाः

那具拉惹斯(激动之性)本质的创造,主以意念而生。由其意生之子因繁衍而令众生诸族出现。

Verse 20

मननाच्च मनुषयास्ते प्रजनात्प्रथिताः प्रजाः / सृष्ट्वा पुनः प्रजाः सो ऽथ स्वां तनुं स व्यपोहत

因思惟而称为“人”,因繁衍而成为著名的众生族类。复又创造诸生之后,他便舍离自身之躯。

Verse 21

सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत / तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः

由他所舍离之身,刹那间生出“月光”(Jyotsnā)。因此月光初现之时,众生皆欢喜。

Verse 22

इत्येतास्तनवस्तेन ह्यपविद्धा महात्मना / सद्यो रात्र्यहनी चैवसंध्या ज्योत्स्ना च जज्ञिरे

如是,那位大魂所舍弃的诸身,立刻化生为夜与昼,并生出昏晓之际与月光。

Verse 23

ज्योत्स्ना संध्याहनी चैव सत्त्वमात्रात्मकं त्रयम् / तमोमात्रात्मिका रात्रिः सा वै तस्मान्नियामिका

月光、昏晓与白昼三者皆具萨埵(清明)之性;而夜为惰性(tamas)所成,因此夜为其制御与统摄者。

Verse 24

तस्माद्देवा दिव्यतन्वा तुष्ट्या सृष्टा सुखात्तु वै / यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा

因此,诸天以神圣之身,在满足与安乐中被创造。由于他们生于白昼且具大力,故称为“divā”(昼生者)。

Verse 25

तन्वा यदसुरान्रत्र्या जघनादसृजत्प्रभुः / प्राणेभ्यो रात्रिजन्मानो ह्यजेया निशि तेन ते

当主宰在夜间以自身之形诛灭阿修罗之时,也就在那一刻使他们出生。彼等由气息(prāṇa)而生,为夜生者,夜中难以战胜;故如此称之。

Verse 26

एतान्येव भविष्याणां देवानामसुरैः सह / पितॄणां मानुषाणां च अतीताना गतेषु वै

这些正是未来诸天与阿修罗同在时的征兆;亦是祖灵(Pitṛ)与人类的征兆,即便在已逝的时代亦复如是。

Verse 27

मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि / ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि तानि वा

在一切摩奴劫(manvantara)中,确有这些征兆:月光(jyotsnā)、夜、昼与曙暮之际(saṃdhyā);此四者是也。

Verse 28

भान्ति यस्मात्ततो भाति भाशब्दो व्याप्तिदीप्तिषु / अंभांस्येतानि सृष्ट्वा तु देवदानवमानुषान्

由于它们发光,故“bhā”一词含有遍满与光辉之义。创造这些“ambhāṃsi”之后,(主宰)又生出诸天、达那婆与人类。

Verse 29

पितॄंश्चैव तथा चान्यान्विविधान्व्य सृजत्प्रजाः / तामुत्सृज्य ततो च्योत्स्नां ततो ऽन्यां प्राप्य स प्रभुः

主宰创造了祖灵(Pitṛ)以及种种不同的众生。随后舍离那一造化,证得“月光般的光明”(jyotsnā),继而又趋向另一番创造。

Verse 30

मूर्त्तिं रजस्तमोद्रिक्तां ततस्तां सो ऽभ्ययुञ्जत / ततो ऽन्याः सोंऽधकारे च क्षुधाविष्टाः प्रजाः सृजन्

随后他取了以激性与暗性(rajas、tamas)为盛的形相;在黑暗之中,他创造了被饥渴所驱使的众生。

Verse 31

ताः सृष्टास्तु क्षुधाविष्टा अम्भांस्यादातुमुद्यताः / अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये

那些被造出的众生为饥所迫,欲夺取诸水;其中有人说道:“让我们守护这些水。”

Verse 32

राक्षसास्ते स्मृतास्तस्मात्क्षुधात्मानो निशाचराः / ये ऽब्रुवन् क्षिणुमो ऽम्भांसि तेषां त्दृष्टाः परस्परम्

因说“守护吧”,他们便被称为罗刹(Rākṣasa)——以饥欲为性、夜行之众;而那些说“让我们耗尽诸水”的,则彼此相视。

Verse 33

तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः / रक्षेति पालने चापि धातुरेष विभाव्यते

由于那般作为,他们被称为夜叉(Yakṣa)与隐众(Guhyaka),行事刚猛。此处亦可领会词根“rakṣ”有“护持、守护”之义。

Verse 34

य एष क्षीतिधातुर्वै क्षपणे स निरुच्यते / रक्षणाद्रक्ष इत्युक्तं क्षपणाद्यक्ष उच्यत

此为“刹提( kṣiti )之界”,因“刹婆那( kṣapaṇa,消损)”而得此释义。由护持故称“罗叉(rakṣa)”,由消损故称“夜叉(yakṣa)”。

Verse 35

तान्दृष्ट्वा त्वप्रियेणास्य केशाः शीर्णाश्च धीमतः / ते शीर्णा व्युत्थिता ह्यूर्द्धमारो हन्तः पुनः पुनः

他以不悦之心见到他们,那位智者的发丝竟纷纷脱落。脱落之发又一次次向上竖起,仿佛欲加击杀。

Verse 36

हीना ये शिरसो बालाः पन्नाश्चैवापसर्पिणः / बालात्मना स्मृता व्याला हीनत्वादहयः स्मृताः

凡无首者称为“婆罗(bāla)”;凡坠落而匍匐退去者称为“般那(panna)”。以其稚性记为“毗耶罗(vyāla)”,以其卑劣又称“阿诃耶(ahaya)”。

Verse 37

पन्नत्वात्पन्नगाश्चापि व्यपसर्पाच्च सर्प्पता / तेषां लयः पृथिव्यां यः सूर्याचन्द्रमसौ घनाः

因其为“般那(panna)”故亦名“般那伽(pannaga)”;又因滑行退避故称“蛇(sarpa)”。他们在大地中的归融,显现为日月之浓盛光辉。

Verse 38

तस्य क्रोधोद्भवो यो ऽसावग्निगर्भः सुदारुणः / स तान्सर्प्पान् सहोत्पन्नानाविवेश विषात्मकः

由他的忿怒所生者,乃极其可怖的“火胎(Agnigarbha)”。它具毒之性,遂渗入那同时出生的诸蛇之中。

Verse 39

सर्प्पान्सृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्मिताः / वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः

造出诸蛇之后,由忿怒又化生出以怒为性的凶猛众生;彼等为褐色之“部多”(bhūta),以肉为食。

Verse 40

भूतत्वात्ते रमृता भूताः पिशाचा पिशिताशनात् / गायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः

因其具“部多”之性,故名为“部多”;因食肉,故名为“毗舍遮”(piśāca)。随后当他歌唱之时,甘达婆之子便由此而生。

Verse 41

धयेति धातुः कविभिः पानार्थे परिपठ्यते / पिबतो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः

诸诗人诵说词根“dhaye”有“饮”之义;当其饮时,圣言(vāc)由之而生,因此他们被称为甘达婆。

Verse 42

अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः / छन्दतश्चैव छन्दासि वयांसि वयसासृजत्

当八种天类(devayoni)既已造就,那位主宰便依于韵律而生诸“chandas”(圣诗格律),又依于年龄阶段而造诸鸟类。

Verse 43

पक्षिणस्तु स सृष्ट्वा वै ततः पशुगणान्सृजन् / मुखतोजाः सृजन्सो ऽथ वक्षसश्चाप्यवीः सृजन्

他先造诸鸟,继而造诸兽群;随后又从其口中生出山羊,从其胸前生出绵羊。

Verse 44

गावश्चैवोदराद्ब्रह्मा पाश्वीभ्यां च विनिर्ममे / पादतो ऽश्वान्समातङ्गान् रासभान् गवयान्मृगान्

梵天从自身腹中化生诸牛,又从两胁造作众生;并从双足生出马、象、驴、野牛(gavaya)与群鹿。

Verse 45

उष्ट्रांश्चैव वराहांश्च शुनो ऽन्यांश्चैव जातयः / ओषध्यः फल मूलिन्यो रोमभ्यस्तस्य जज्ञिरे

骆驼、野猪、犬类及其他诸种亦随之出生;而从他的毛孔中生起结实生根的药草。

Verse 46

एवं पञ्चौषधीः सृष्ट्वा व्ययुञ्जत्सो ऽध्वरेषु वै / अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखेपुरा

如是造出五类灵药之后,确实被用于诸祭祀(adhvara);而此事发生在此劫之初、古昔之时、特雷塔纪元的开端。

Verse 47

गौरजः पुरुषो ऽथाविरश्वाश्वतरगर्दभाः / एते ग्राम्याः समृताः सप्त आरण्याः सप्त चापरे

所谓“牛生者(gauraja)”、人类、avira、马、骡(aśvatara)与驴等,被合称为七类家畜;此外另有七类称为林野之兽。

Verse 48

श्वापदो द्वीपिनो हस्ती वानरः पक्षिपञ्चमः / औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः

猛兽(śvāpada)、虎类等(dvīpin)、大象、猿猴;第五为飞禽;第六为水生之兽;第七则为爬行之类(sarīsṛpa)。

Verse 49

महिषा गवयोष्ट्राश्च द्विखुराः शरभो द्विषः / मर्कटः सप्तमो ह्येषां चारण्याः पशवस्तु ते

野水牛、伽婆耶与骆驼;双蹄之兽、舍罗婆、德维沙,以及第七为猕猴——这些皆为林野之兽。

Verse 50

गायत्रीं च ऋचं चैव त्रिवृत्सतोमरथन्तरे / अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्

从第一张口中,他造出伽耶特丽、梨克、三重颂(trivṛt-stoma)、罗檀多罗(rathantara),并在诸祭中造出阿耆尼什托摩(Agniṣṭoma)。

Verse 51

यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा / बृहत्साम तथोक्तं च दक्षिणात्सो ऽसृजन्मुखात्

从南方之口,他生出《夜柔》、特赖什图布(traiṣṭubha)韵律、第十五颂(stoma),以及所称的“广大萨曼”(Bṛhat-sāman)。

Verse 52

सामानि जगतीं चैव स्तोमं सप्तदशं तथा / वैरूप्यमतिरात्रं च पश्चिमात्सो ऽसृजन्मखात्

从西方之口,他生出诸萨曼、阇伽提(jagatī)韵律、第十七颂(stoma)、“异形仪”(vairūpya)与“通宵祭”(Atirātra)。

Verse 53

एकविंशमथर्वाणमाप्तोर्यामं तथैव च / अनुष्टुभं सवैराजं चतुर्थादसृजन्मुखात्

从第四张口中,他造出二十一颂(ekaviṃśa-stoma)、《阿闼婆吠陀》、阿普托尔雅摩(āptoryāma)、阿努什图布(anuṣṭubh)韵律,以及“毗罗阇”(vairāja)。

Verse 54

विद्युतो ऽशनिमेघांश्व रोहितेद्रधनूंषि च / सृष्ट्वासौ भगवान्देवः पर्जन्यमितिविश्रुतम्

那位薄伽梵天神造作闪电、霹雳、云团与赤色虹霓,因此以“帕尔贾尼亚(Parjanya)”之名闻于世。

Verse 55

ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये / उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे

为成就祭祀,他制定《梨俱》《夜柔》《娑摩》之圣咒;又从他的肢体中生出种种众生。

Verse 56

ब्रह्मणास्तु प्रजासर्गं सृजतो हि प्रजापतेः / सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान्

当生主梵天开始众生之创生时,先造四类:天神、圣仙(ṛṣi)、祖灵(pitṛ)与人类。

Verse 57

ततो ऽसृजत भूतानि चराणि स्थावराणि च / सृष्ट्वा यक्षपिशाचांश्च गन्धर्वप्सरसस्तदा

随后他造出动与不动的众生;并在那时又造出夜叉、毗舍遮,以及乾闼婆与天女(阿普萨拉)。

Verse 58

नरकिन्नररक्षांसि वयःपशुमृगोरगान् / अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्

他又造人类、紧那罗、罗刹、飞鸟、牲畜、野兽与蛇类;并在静与动之中安立“不坏”与“可坏”这两相。

Verse 59

तेषां ये यानि कर्माणि प्राक् सृष्टानि प्रपेदिरे / तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनःपुनः

他们在先前创造中所承受的种种业行,众生一次又一次被造时,仍旧反复承受同样的业果。

Verse 60

हिंस्राहिंस्रे सृजन् क्रूरे धर्माधर्मावृतानृते / तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते

他创造暴与不暴、残酷,以及被法与非法所遮覆的真与伪;众生为其所熏习,便趋向其所成之性,因此那正合其心。

Verse 61

महाभूतेषु नानात्वमिन्द्रियार्तेषु मूर्तिषु / विनियोगं च भूतानां धातैव व्यदधात्स्वयम्

大种之中呈现差别,具诸根之形体各不相同,诸元素的分配安置——皆由造物主自为安排。

Verse 62

केचित्पुरुषकारं तु प्राहुः कर्म च मानवाः / दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः

有人说原因在于人的努力与业;另一些婆罗门称之为天命;思惟诸元素者则认为那是自性。

Verse 63

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः / न चैव तु पृथग्भावमधिकेन ततो विदुः

就果报流转之自性而言,人的努力、业与天命皆共同起作用;智者并不将其割裂而执一为胜。

Verse 64

एतदेवं च नैवं च न चोभे नानुभे न च / स्वकर्मविषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः

他们不说“唯如此”,也不说“并非如此”;非二者,亦非非二者。安住于萨埵、平等观者,只宣说自身业行之所系。

Verse 65

नानारूपं च भूतानां कृतानां च प्रपञ्चनम् / वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः

太自在天在最初唯依吠陀圣言,造作众生种种形相,并展开已成之世界万象。

Verse 66

आर्षाणि चैव नामानि याश्च देवेषु दृष्टयः / शर्वर्यन्ते प्रसूतानां पुनस्तेभ्यो दधात्यजः

诸仙所授之名,以及诸神中所见之观照——于夜尽之时,对新生众生,阿阇(梵天)复从彼处再加安立。

Frequently Asked Questions

The chapter’s sampled sequence foregrounds asuras first (from a tamas-linked phase), then devas (from a sattva-dominant ‘divine’ body), and then pitṛs (from a further sattvic emanation), alongside a fourfold classification that includes humans as a category in the overall grouping.

Each arises from a ‘discarded’ creative body (tanu): after producing asuras the rejected body becomes night (tamas-bahulā), after producing devas the rejected divine body becomes day, and after producing pitṛs the rejected body becomes twilight (saṃdhyā).

It signals a metaphysical framing in which beings (kṣetrajña-s, ‘knowers’) are related to the manifested field (kṣetra), allowing creation to be read not only as material production but also as the emergence of embodied consciousness within an ordered cosmos.