Adhyaya 31
Prakriya PadaAdhyaya 31127 Verses

Adhyaya 31

यज्ञप्रवर्तनम् (Yajña-pravartana) — The Institution/Commencement of Sacrifice in Dvāpara

本章在卷末题作“Yajñapravarttana(祭祀之兴起)”,由苏多(Sūta)叙述,宣示将阐明特雷塔纪终结、德瓦帕罗纪开始之际的修行法度(vidhi)。经文描绘德瓦帕罗纪充满罗阇与昏暗(rajas–tamas)的倾向,并出现社会职分的紊乱:种姓混杂(varṇa-saṃbheda)、职责颠倒(kārya-viparyaya),以及特雷塔纪所称圆满之德的衰弱。其关键主题是认识的分裂:天启圣典(śruti)与传统记忆(smṛti)变为“两分”,对法(dharma)的确定愈发困难,诸多相互竞争的见解滋生,致使论典(śāstra)纷繁杂沓。章节亦将此与吠陀传承史相连:古时一部吠陀被编排为四部,并因圣仙(ṛṣi)传承、咒语差异、诵本次第(mantra–brāhmaṇa vinayāsa)以及声调与字音之变(svara-varṇa viparyaya)而进一步分化。全章旨在说明:为何在德瓦帕罗纪必须建立祭祀(yajña)的组织与经典的分编,以及这些制度为何在趋向迦梨纪时更将衰落。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे यज्ञप्रवर्त्तनं नाम त्रिशत्तमो ऽध्यायः सूत उवाच अत ऊर्द्धं प्रवक्ष्यामि द्वापरस्य विधिं पुनः / तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते

如是,在《圣梵卵大摩诃往世书》之中,风神(Vāyu)所宣说的前分、第二随品里,为名“祭祀之开行”的第三十章。苏多曰:自此我将再宣说兜婆罗(Dvāpara)之法;当特雷塔(Tretā)劫衰尽时,便转入兜婆罗劫。

Verse 2

द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या / परिवृत्ते युगे तस्मिंस्ततस्ताभिः प्रणश्यति

在兜婆罗劫之初,众生于特雷塔劫所具之成就(siddhi);当彼劫更替之时,这些成就便随之渐趋消亡。

Verse 3

ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः / संभेदश्चैव वर्णानां कार्याणां च विपर्ययः

随后在二分纪(Dvāpara Yuga),众生的风行再度兴起;诸种姓相互混杂,诸职责亦发生颠倒。

Verse 4

यज्ञावधारणं दण्डो मदो दंभः क्षमा बलम् / एषा रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता

对祭祀只作外在裁定、刑罚、傲慢、虚伪,以及凭恃力量的“宽恕”——此即二分纪所称夹杂罗阇斯与昏暗(tamas)的风习。

Verse 5

आद्ये कृते यो धर्मो ऽस्ति स त्रेतायां प्रवर्त्तते / द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे

最初在圆满纪(Kṛta Yuga)存在的法,在三分纪(Tretā)仍得运行;到二分纪则纷扰而衰,至迦利纪终至灭没。

Verse 6

वर्णानां विपरिध्वंसः संकीयत तथाश्रमाः / द्वैविध्यं प्रतिपद्येतेयुगे तस्मिञ्छ्रुति स्मृती

又说诸种姓趋于崩坏,诸住期(āśrama)亦日益狭隘;在那一纪中,《闻传》(Śruti)与《忆传》(Smṛti)也呈现二分之相。

Verse 7

द्वैधात्तथा श्रुतिस्मृत्योर्निश्चयो नाधिगम्यते / अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते

由于《闻传》与《忆传》呈现二歧,便难以获得定论;陷于不定之中,便无从知晓法(dharma)的真实要义。

Verse 8

धर्मासत्त्वेन मित्राणां मतिभेदो भवेन्नृणाम् / परस्परविभिन्नैस्तैदृष्टीनां विभ्रमेण च

由于未能领悟达摩的真实本质,即使在朋友之间,人们也会产生见解分歧;又因彼此不同的观点而起迷乱。

Verse 9

अयं धर्मो ह्ययं नेति निश्चयो नाधिगम्यते / कारणानां च वैकल्प्यात्कार्याणां चाप्यनिश्चयात्

无法获得“这是达摩、这不是”的定论,因为诸因多有分歧选择,而诸果亦不确定。

Verse 10

मतिभेदेन तेषां वै दृष्टीनां विभ्रमो भवेत् / ततो दृष्टिविभन्नैस्तु कृतं शास्त्राकुलं त्विदम्

由于见解分歧,他们的观点便生迷乱;于是持不同见地者使此诸论典(śāstra)变得纷杂难明。

Verse 11

एको वेदश्चतुष्पाद्धि त्रेतास्विह विधीयते / संक्षयादायुपश्चैव व्यस्यते द्वापरेषु च

吠陀本为一体,但在特雷塔纪被立为“四足”(四分);因寿命渐减,于是到二婆罗纪便加以分编。

Verse 12

ऋषिमन्त्रात्पुनर्भेदाद्भिद्यते दृष्टिविभ्रमैः / मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः

由于圣仙(ṛṣi)与咒句(mantra)的差别,它又因见解迷乱而被分裂;并因咒句与梵书(brāhmaṇa)的编排,以及音调(svara)与字音(varṇa)的错置而更显纷歧。

Verse 13

संहिता ऋग्यजुःसाम्नां संपठ्यन्ते महर्षिभिः / सामान्या वैकृताश्चैव दृष्टिभिन्ने क्वचित्क्वचित्

《梨俱》《夜柔》《娑摩》诸吠陀的本集(Saṃhitā)为大圣仙共同诵读;然于某些处所,因见解差别,或呈常规,或现变异。

Verse 14

ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च / अन्ये ऽपि प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः

又有《婆罗门书》、诸《劫波经》(Kalpasūtra)及对真言的宣说;有人循此诸道而行,亦有人守持其义而安住。

Verse 15

द्वापरेषु प्रवर्त्तन्ते निवर्त्तन्ते कलौ युगे / एकमाध्वर्यवं त्वासीत्पुनर्द्वैधमजायत

在堕婆罗时代它们兴起流行,而至迦利时代则渐趋止息;原先“阿陀婆利耶婆”(Ādhvaryava)为一体,后来又生出二分。

Verse 16

सामान्यविपरीतार्थैः कृतशास्त्राकुलं त्विदम् / आध्वर्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतैः

由于诸论典以与通义相反之义而立说,此事遂成纷乱;又因阿陀婆利耶婆(Ādhvaryava)诸多传承门径纷呈,更使其多方扰动。

Verse 17

तथैवाथर्वऋक्साम्नां विकल्पैश्चापि संज्ञया / व्याकुलेद्वापरे नित्यं क्रियते भिन्न दर्शनैः

同样地,阿闼婆、梨俱与娑摩亦有诸多异本与名目;在堕婆罗时代,由于见解各异,常使其纷扰不宁。

Verse 18

तेषां भेदाः प्रतीभेदा विकल्पाश्चापि संख्याया / द्वापरे संप्रवर्त्तते विनश्यन्ति ततः कलौ

他们的差别、次差别以及数目上的诸多变体,在二劫(Dvāpara)中兴起;随后在末法劫(Kali)中消亡。

Verse 19

तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः / अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः

在二劫中,由于这种颠倒,又会生起无雨之旱、死亡,以及种种疾病的侵扰。

Verse 20

वाङ्मनः कर्मर्जेदुःखैर्निर्वेदो जायते पुनः / निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा

由言语、心念与行为所生的痛苦,再次引发厌离之心;由此厌离,便生起对离苦得解脱的思惟。

Verse 21

विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् / दोषदर्शनतस्चैव द्वापरे ऽज्ञानसंभवः

由思惟而生离欲,由离欲而见过失;而正由见过失,在二劫中无明得以滋生。

Verse 22

तेषाम ज्ञानिनां पूर्वमाद्ये स्वायंभुवे ऽन्तरे / उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः

对于那些无知之人,甚至在最初的自生者(Svāyambhuva)摩奴劫之前,于二劫中便会出现违逆圣典(śāstra)的异端之徒。

Verse 23

आयुर्वेदविकल्पश्च ह्यगानां ज्योतिषस्य च / अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम्

即使在《阿育吠陀》、占星学(Jyotiṣa)、《政财论》(Arthaśāstra)与因明(Hetuśāstra)之中,也会出现种种分支与异说。

Verse 24

प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् / स्मृतिशास्त्रप्रभेदश्च प्रस्थानानि पृथक्पृथक्

关于仪轨程序的迦尔波经(Kalpa-sūtra)与注疏之学(bhāṣya)亦分出多种说法;诸《忆念书》(Smṛti-śāstra)也各有支派,其传承体系(prasthāna)彼此分立。

Verse 25

द्वापरेष्वभिवर्त्तन्ते मतिभेदाश्रयान्नृणाम् / मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति

在兜婆罗时代,人们依凭见解分歧而纷争滋长;以心、以行、以言,连交谈也艰难方能成立。

Verse 26

द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता / लोभो वृत्तिर्वणिक्पूर्वा तत्त्वानामविनिश्चयः

在兜婆罗时代,众生的生计以身劳为先;贪欲如商贾之性,诸真理(tattva)亦难以定断。

Verse 27

वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा / वर्णाश्रमपरिध्वंसः कामक्रोधौ तथैव च

又有新的吠陀与论典被撰作,诸法(dharma)相互杂糅;种姓与人生阶段(varṇa-āśrama)之制崩坏,欲与怒亦随之增长。

Verse 28

द्वापरेषु प्रवर्त्तन्ते रागो लोभो वधस्तथा / वेदं व्यासश्चतुर्द्धा तु व्यस्यते द्वापरादिषु

在兜婆罗时代,贪爱、贪欲与杀害开始盛行;于兜婆罗等世,圣贤毗耶娑将吠陀分为四部。

Verse 29

निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु यादृशी / प्रतिष्ठते गुणैर्हीनो धर्मो ऽसौ द्वापरस्य तु

当兜婆罗时代完全终尽时,其黄昏期亦如是;兜婆罗之法虽仍立,却已失诸德。

Verse 30

तथैव संध्या पादेन ह्यङ्गः संध्या इतीष्यते / द्वापरस्यावशेषेण तिष्यस्य तु निबोधत

同样,黄昏期的四分之一称为“支分黄昏”。由兜婆罗的余分,当知提舍耶(迦梨)之相。

Verse 31

द्वापरस्याशसेषण प्रतिपत्तिः कलेरपि / हिंसासूयानृतं माया वधश्चैव तपस्विनाम्

由兜婆罗之余,亦可知迦梨之起:暴害、嫉妒、虚妄、幻诈,以及对苦行者的杀戮。

Verse 32

एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः / एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते

此等乃提舍耶(迦梨)之性,众生遂而行之。克利多时代之法本圆满,而今法则渐次衰减。

Verse 33

मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा न वा / कलौ प्रमारकी रोगः सततं क्षुद्भयानि च

凭借心念、行为与赞颂,事务或成或不成;在迦梨时代,毁灭性的疾病与恒常的饥馑恐惧并存。

Verse 34

अनावृष्टिभयं घोरं देशानां च विपर्ययः / न प्रमाणं स्मृतेरस्ति तिष्ये लोकेषु वै युगे

无雨之惧极其可怖,诸国亦多颠倒变乱;在提沙(迦梨)之世,诸界之中连《斯摩利提》也不再被奉为准则。

Verse 35

गर्भस्थो म्रियते कश्चिद्यौव नस्थस्तथापरः / स्थविराः के ऽपि कौमारे म्रियन्ते वै कलौ प्रजाः

有人尚在胎中便亡,有人在青春时夭折;亦有人虽至老年,却如幼时般早逝——迦梨时代众生多如此。

Verse 36

दुरिष्टैर्दुरधीतैश्च दुष्कृतैश्च दुरागमैः / विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम्

因邪祭、误学、恶行与败坏之教法;由婆罗门的这些业过,众民之中便生起恐惧。

Verse 37

हिंसा माया तथेर्ष्या च क्रोधो ऽसूया क्षमा नृषु / तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः

在提沙(迦梨)之世,人间充满杀害、诡诈、嫉妒、嗔怒、诋毁,而宽恕亦渐衰;一切众生处处皆被贪爱与贪欲所缠。

Verse 38

संक्षोभो जायते ऽत्यथै करिमासाद्य वै युगम् / पूर्णे वर्षसहस्रे वै परमायुस्तदा नृणाम्

在那一劫中将生起极大的动荡;当那“迦利之世”(Kari-kāla)到来时,人类的最高寿命圆满为一千年。

Verse 39

नाधीयते तदा वेदान्न यजं ते द्विजातयः / उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात्

那时不再诵习吠陀,二次生者也不行祭祀;人众以及刹帝利、吠舍等,依次衰败沉沦。

Verse 40

शूद्राणामन्त्ययोनेस्तु संबन्धा ब्राह्मणैः सह / भवन्तीह कलौ तस्मिञ्छयनासनभोजनैः

在那迦利时代,首陀罗与卑下出身者将以同寝、同坐、同食之事,与婆罗门结成往来。

Verse 41

राजानः शूद्रभूयिष्ठाः पाखण्डानां प्रवर्त्तकाः / गुणहीनाः प्रजाश्चैव तदा वै संप्रवर्त्तते

那时诸王多具首陀罗之性,成为异端邪说的倡行者;百姓亦无德行,此等风气遂广泛流行。

Verse 42

आयुर्मेधा बलं रूपं कुलं चैव प्रणश्यति / शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः

寿命、聪慧、力量、容貌与家族皆将毁坏;首陀罗行婆罗门之仪,而婆罗门反行首陀罗之俗。

Verse 43

राजवृत्ताः स्थिताश्चोरा श्चोराचाराश्च पार्थिवाः / भृत्या एते ह्यसुभृतो युगान्ते समवस्थिते

在时代(Yuga)终结之时,盗贼将行事如君王,君王将行事如盗贼。仆役们将只顾苟且偷生。

Verse 44

अशीलिन्यो ऽनृताश्चैव स्त्रियो मद्यामिषप्रियाः / मायाविन्यो भविष्यन्ति युगान्ते मुनिसत्तम

圣人啊,在时代终结之时,女子将变得不贞、虚伪、嗜好酒肉,且充满欺诈。

Verse 45

एकपत्न्यो न शिष्यन्ति युगान्ते मुनिसत्तम / श्वापदप्रबलत्वं च गवां चैव ह्युपक्षयः

圣人啊,在时代终结之时,忠贞的妻子将不复存在。猛兽将变得猖獗,而牛群将衰亡。

Verse 46

साधूनां विनिवृत्तिं च विद्यास्तस्मिन्युगक्षये / तदा धर्मो महोदर्के दुर्लभो दानमूलवान्

当知在该时代终结之时,圣贤将会隐没。届时正法(Dharma)难寻,唯以布施为根基。

Verse 47

चातुराश्रमशैथिल्यो धर्मः प्रविचरिष्यति / तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला

四种生命阶段(Ashrama)松弛的法(Dharma)将会流行。那时大地出产将很少,尽管在某些地方也可能丰收。

Verse 48

न रक्षितारो बोक्तारो बलिभागस्य पार्थिवाः / युगान्ते च भविष्यन्ति स्वरक्षणपरायणाः

在劫末之时,世间君王既不再护持百姓,也不再享受贡赋之分;他们只一心忙于自保。

Verse 49

अरक्षितारो राजानो विप्राः शूद्रोपजीविनः / शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः

在劫末之时,诸王不再护民;就连最上等的二生者也将依赖首陀罗谋生,并向首陀罗致礼。

Verse 50

अदृशूला जनपदाः शिवशूला द्विजास्तथा / प्रमदाः केशशूलाश्च युगान्ते समुपस्थिते

当劫末临近,诸国土将为“无形之矛”所刺;二生者亦为“湿婆之矛”所伤;妇女则为“发之矛”所扰而不安。

Verse 51

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः / यतयश्च भविष्यन्ति बहवो ऽस्मिन्कलौ युगे

在此迦利时代,将有许多出家行者;然而最上等的二生者却会沦为贩卖苦行与祭祀果报之人。

Verse 52

चित्रवर्षी यदा देवस्तदा प्राहुर्युगक्षयम् / सर्वे वाणिजकाश्चा पि भविष्यन्त्यधमे युगे

当神明降下奇异之雨,人们便称之为“劫尽”;在那卑劣之世,一切众生都将化为商贾。

Verse 53

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः / कुशीलचर्यापाखण्डैर्व्याधरूपैः समावृतम्

多数人将以欺诈的度量出售货物;世间将被恶行、伪善与装作病患之形的人所遮蔽。

Verse 54

पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते / बाहुयाचनको लोको भविष्यति परस्परम्

当劫末临近,男子稀少而女子众多;众生将彼此伸手乞求。

Verse 55

अव्याकर्ता क्रूरवाक्या नार्जवो नानसूयकः / न कृते प्रतिकर्त्ता च युगे क्षीणे भविष्यति

当时代衰竭之时,人们将不作回应、言语残酷、缺乏正直且充满嫉妒;对所受恩惠也无人回报。

Verse 56

अशङ्का चैव पतिते युगान्ते तस्य लक्षणम् / ततः शून्य वसुमती भविष्यति वसुन्धरा

劫末堕落之相,是无惧无疑;随后这位“富饶大地”——大地女神,将变得空寂荒凉。

Verse 57

गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शासकाः / हर्त्तारः पररत्नानां परदारविमर्शकाः

自称护民却不护民的统治者将兴起;他们掠夺他人珍宝,并亵渎他人妻室。

Verse 58

कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः / प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः

他们将被欲望驱使,心性邪恶卑劣,喜好鲁莽;作为尽失,狡黠诡诈,披散头发,手持三叉戟。

Verse 59

ऊनषोडशवर्षाश्च प्रजा यन्ते युगक्षये / शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः

在劫末之时,众生多未满十六岁;齿白,能制伏诸根,剃发,身着赭色袈裟。

Verse 60

शूद्रा धर्मं चरिष्यति युगान्ते समुपस्थिते / सस्यचोरा भविष्यन्ति तथा चैलापहारिणः

当劫末临近时,首陀罗也将行持法度;然而将有盗取庄稼者,以及掠夺衣物者。

Verse 61

चोराच्चोराश्च हर्त्तारो हर्तुर्हर्त्ता तथापरः / ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते

将有盗贼盗盗贼,掠夺者掠夺掠夺者,夺取者再夺取;当世间知识与行持止息,众生陷入无为惰怠之时。

Verse 62

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् / अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा

虫蚁、鼠类与蛇将侵扰人类;而安稳、无病与能力也将屡屡变得难得。

Verse 63

कौशिकान्प्रतिवत्स्यन्ति देशाः क्षुद्भयपीडिताः / दुःखेनाभिप्लुतानां च परमायुः शतं तदा

受饥馑与恐惧所逼迫的诸国,将转而归向考希迦之地;而沉没于苦难者,于彼时其最高寿命仅为百年。

Verse 64

दृश्यन्ते च न दृश्यन्ते वेदा कलियुगे ऽखिलाः / तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः

在迦利时代,一切吠陀时而可见、时而不可见;同样,祭祀亦将衰败,只因尽受非正法(阿达摩)所压迫。

Verse 65

काषायिणो ऽथ निर्ग्रन्था तथा कापालिकाश्च ह / वेदविक्रयिमश्चन्ये तीर्थविक्रयिणो ऽपरे

那时将有披赭衣者、离经者(尼尔格兰塔)以及持颅钵者(迦波利迦);有人贩卖吠陀,也有人贩卖圣地(提尔他)。

Verse 66

वर्णाश्रमाणां ये चान्ये पाखण्डाः परिपन्थिनः / उत्पद्यन्ते तदा ते वै संप्राप्ते तु कलौ युगे

当迦利时代到来之时,违逆种姓与住期(瓦尔那—阿湿罗摩)之秩序的诸般异端与对立之道,也将随之兴起。

Verse 67

अधीयते तदा वेदाञ्छूद्रा धर्मार्थ कोविदाः / यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः

那时,首陀罗亦将研习吠陀,通达法(达摩)与利(阿尔塔);而出自首陀罗胎系的国王,将举行马祀(阿湿瓦梅陀)祭。

Verse 68

स्त्रीबालगोवधं कृत्वा हत्वान्ये च परस्परम् / अपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः

杀害妇女、孩童与牛,又彼此相杀;并且互相掠夺,那时众生只求成就私利。

Verse 69

दुःखप्रवचनाल्पायुर्देहाल्पायुश्च रोगतः / अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम्

因宣说苦恼之言而寿命短促,因疾病而身命亦减;由于执著于非法,故迦梨时代被记为昏暗之行。

Verse 70

प्रजासु भ्रूणहत्या च तदा वैरात्प्रवर्त्तते / तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते

那时众生因怨仇而起胎杀之事;因此迦梨时代到来之际,寿命、力量与容色皆渐衰减。

Verse 71

तदा चाल्पेन कालेन सिद्धिं गच्छन्ति मानवाः / धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः

那时人们以短暂时日便得成就;噢最胜婆罗门,于劫末之际,福德之人将奉行正法。

Verse 72

श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः / त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः

凡无嫉妒而奉行《闻传》《忆传》所宣之法者:在特雷塔时代,法被记为一年一行;在德瓦帕拉时代,则记为一月一行。

Verse 73

यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ / एषा कलियुगावस्था संध्यांशं तु निबोधत

在迦梨时代,智者量力而行修持,便能于当日得其果报。这就是迦梨劫的境况;当了知其“黄昏分”(sandhyāṃśa)。

Verse 74

युगेयुगे तु हीयन्ते त्रित्रिपादास्तु सिद्धयः / युगस्वभावात्संध्यासु तिष्ठन्तीह तु यादृशः

一劫复一劫,诸种成就(悉地)渐次衰减;连具“三分之足”的悉地也会减弱。由于各劫自性,在sandhyā之际它们仍如其本然而住。

Verse 75

संध्यास्वभावाः स्वांशेषु पादशेषाः प्रतिष्ठिताः / एवं संध्यांशके काले संप्राप्ते तु युगान्तिके

在具“黄昏性”(sandhyā)的分段中,诸“足分”的残余得以安住。如此,当sandhyāṃśa之时到来,便是劫末将近。

Verse 76

तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः / गोत्रेण वै चन्द्र मसो नाम्ना प्रमतिरुच्यते

惩治那些不善的婆利古族者,将从他们的覆灭中兴起。他出自“月族”(Candramas gotra),名为“普罗摩提”(Pramati)。

Verse 77

माधवस्य तु सोंऽशेन पूर्वं स्वायंभुवे ऽन्तरे / समाः सविंशतिः पूर्णाः पर्यटन्वै वसुंधराम्

作为摩陀婆(Mādhava)的一分(aṃśa),在往昔的自生者(Svāyaṃbhuva)摩奴期中,他周游大地整整二十年。

Verse 78

अनुकर्षन्स वै सेनां सवाजिरथकुञ्जराम् / प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः

他牵引着配有战马、战车与战象的大军前行;执持兵器的婆罗门成百上千随行左右。

Verse 79

स तदा तैः परिवृतो म्लेच्छान्हन्ति स्मसर्वशः / सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान्

当时他被众人环绕,四方诛灭弥勒叉;又与国王同心,将那些出自首陀罗之族者亦尽数讨伐。

Verse 80

पारवण्डास्तु ततः सर्वान् निः शेषं कृतवान्विभुः / नात्यर्थ धार्मिका ये च तान्सर्वान्हन्ति सर्वशः

随后,威能的帕拉梵陀将众人尽皆剿灭,不留余类;凡不甚守法度者,也被他四方诛戮。

Verse 81

वर्णव्यत्यासजाताश्च ये च ताननुजीविनः / उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च

凡由种姓错杂而生者及其依附之人,又有北方之民、中土之民,以及帕瓦提亚之众,亦皆在列。

Verse 82

प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठचरानपि / तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह

又及东方之民、西方之民,以及行走于温陀耶山背之众;同样还有南方的达罗毗荼人,并与僧伽罗人一并。

Verse 83

गान्धारान्पारदांश्चैव पह्लवान्यव नाञ्शकान् / तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान्

他提及健陀罗、帕拉达、帕赫拉瓦、夜婆那与释迦诸族;又及吐霜罗、婆罗婆罗、中国、输利迦、达罗陀与佉沙等众。

Verse 84

लंपाकारान्सकतकान्किरातानां च जातयः / प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृत्प्रभुः

又及楞婆迦、娑迦多迦与诸多迦罗多族类;那大能主宰转动神轮,成为灭尽弥勒叉者。

Verse 85

अदृष्टः सर्वभूतानां चचाराथ वसुन्धराम् / माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान्

他对一切众生皆不可见,却周行于大地;人们得知,他在此乃由天神摩陀婆之一分而生。

Verse 86

पूर्वजन्मनि विख्यातः प्रमतिर्न्नाम वीर्यवान् / गोत्रतो वै चन्द्रमसः पूर्वे कलियुगे प्रभुः

在前世,他以“普罗摩提”之名闻名,英勇有力;其族系属月族(旃陀罗系),在早先的迦梨时代中如同主宰般威严。

Verse 87

द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतीः समाः / विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः

当第三十二年升起之时,他又进逼二十载;并在各处屠戮人类,仿佛灭尽一切众生,无所不至。

Verse 88

कृत्वा बीजावशेषं तु पृथ्व्यां कूरेण कर्मणा / परस्पर निमित्तेन कोपेनाकस्मिकेन तु

他在大地上行下残酷之业,连一丝种子余留也不存;因彼此为因缘,骤然的忿怒便爆发。

Verse 89

सुसाधयित्वा वृषलान्प्रायशस्तानधर्मिकान् / गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः

他善加制服多为不法的首陀罗恶徒,携随从在恒河与亚穆纳河之间的中土得以安住成就。

Verse 90

ततो व्यतीते कल्पे तु सामान्ये सहसैनिकः / उत्साद्य पार्थिवान्सर्वान्मलेच्छांश्चैव सहस्रशः

其后平常一劫既过,他率大军兴起,荡灭诸王,并屠尽成千上万的蛮夷。

Verse 91

तत्र संध्यांशके काले संप्राप्ते तु युगान्तके / स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित्

当彼处迎来劫末的黄昏时分,这里那里仅在少数地方还残存着些许众生。

Verse 92

अपग्रहास्ततस्ता वै लोभाविष्टास्तु वृन्दशः / उपहिसंति चान्योन्यं पोथयन्तः परस्परम्

于是,被贪欲所缠的诸群“夺取者”成群结队相互侵害,彼此践踏,互相摧折。

Verse 93

अराजके युगवशात्संक्षये समुपस्थिते / प्रजास्ता वै ततः सर्वाः परस्परभयार्द्दिताः

当因无王而时代之法衰败临近时,一切众生皆为彼此之恐惧所逼迫。

Verse 94

व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान्गृहाणि च / स्वान्प्रणाननपेक्षन्तो निष्कारणसुदुःखिताः

众人惶乱流离,舍弃妻室与家宅;不顾自身性命,无端陷入深重苦恼。

Verse 95

नष्टे श्रौते स्मृतौ धर्मे परस्परहतास्तदा / निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः

当圣传与忆传之法灭失之时,他们便相互残杀;无有界限,无有哀号,无有慈爱,亦无羞惭。

Verse 96

नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशतिम् / हित्वा पुत्रांश्च दारांश्च विषादव्याकुलेद्रियाः

当法度灭失之时,他们受挫而寿命短促,仅至二十五岁;舍弃子女与妻室,诸根为忧愁所扰乱。

Verse 97

अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः / प्रत्यन्तांस्ता निषेवन्ते हित्वा जनपदान्स्वकान्

又因久旱无雨而受创,他们悲苦地舍弃生计,离开本国乡土,转而依止边远之地。

Verse 98

सरितः सागरानूपान्सेवन्ते पर्वतांस्तथा / मांसैर्मूलफलैश्चैव वर्तयन्तः सुदुःखिताः

他们依傍江河、海滨与沼泽而居,也在群山间漂泊;以肉食、根茎与果实勉强度日,饱受深重苦楚。

Verse 99

चीरपत्राचिनधरा निष्क्रिया निष्परिग्रहाः / वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः / एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः

他们披着破布、树叶与树皮,既不修行也无所执取;背离了种姓与住期之法,堕入可怖的杂乱之道。于是众生走到这极端境地,所余者寥寥无几。

Verse 100

जराव्याधिक्षुधा विष्टा दुःखान्निर्वेदमागमन् / विचारणा तु निर्वेदात्साम्यावस्था विचारणात्

为衰老、疾病与饥饿所逼,他们由诸苦而生厌离(nirveda);由厌离而起省察,由省察而得平等安住之境。

Verse 101

साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता / तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम्

由平等安住之境而生觉知;由此觉醒而成持守正法之性。在劫末迦梨时代所余、具内心寂止(upashama)之众中,它自然而然地显现。

Verse 102

अहोरात्रं तदा तासां युगान्ते परिवर्त्तिनि / चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत्

当时在劫末、昼夜轮转之际,他们的心识被迷惑;于是宛如沉睡之人,或如醉者一般。

Verse 103

भाविनोर्ऽथस्य च बलात्ततः कृतमवर्त्तत / प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै

由于未来旨意之力,于是迦利之前的圆满时代——克利多瑜伽(Kṛtayuga)开始运转;当那清净的克利多瑜伽展开之时,确然得以安立。

Verse 104

उत्पन्नाः कलिशिष्टासु प्रजाः कार्तयुगास्तदा / तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च

那时,从迦利余波中出生的众生呈现出克利多瑜伽的品性;而此间的成就者(悉地者)或安住于此,或隐形游行。

Verse 105

सह सप्तर्षिभिश्चैव तत्र ते च व्यवस्थिताः / ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह

他们与七圣仙(Saptarṣi)一同安住于彼处;而婆罗门、刹帝利、吠舍、首陀罗,在此被忆念为延续世间的“种子”。

Verse 106

कलिजैः सह ते संति निर्विशेषास्तदाभवन् / तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च

他们也与迦利时代所生之人同处,于是彼此无有差别;在他们之中,七圣仙向其余众生宣说正法(dharma)。

Verse 107

वर्णाश्रमाचारयुक्तः श्रौतः स्मार्त्तो द्विधा तु सः / ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते

此法与四姓四住期(varṇa-āśrama)的行持相应,并分为两类:依吠陀祭仪的“施劳多”(śrauta)与依传统法典的“斯玛尔多”(smārta)。于是,在奉行诸行的众人之中,克利多瑜伽时代的众生确然依此而行。

Verse 108

श्रौतस्मार्त्ते कृतानां च धर्मे सप्तर्षिदर्शिते / केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीहायुगक्षयात्

在七仙(Saptarṣi)所示的吠陀与传承(śrauta‑smārta)之法中,有些圣贤为安立法度而住世,直至此劫(yuga)将尽。

Verse 109

मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै / यथा दावप्रदग्धेषु तृणेष्विह तपेन तु

在各个摩奴劫(manvantara)的主宰时期,诸牟尼确实安住;如同被林火烧尽的草木,在此凭苦行之力(tapas)而复生。

Verse 110

वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः / तथा कार्तयुगानां तु कलिजष्विह संभवः

森林最初因雨水而在其根部生起;同样,克利多时代(Kṛtayuga)的种子也在此于迦利时代(Kaliyuga)之中出现。

Verse 111

एवं युगो युगस्येह संतानस्तु परस्परम् / वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः

如是,诸劫(yuga)彼此相续、代代相承;此流无有间断,直至摩奴劫(manvantara)终尽。

Verse 112

सुखमायुर्बलं रूपन्धर्मोर्ऽथः काम एव च / युगेष्वेतानि हीयन्ते त्रित्रिपादाः क्रमेण च

安乐、寿命、力量、容色、法(dharma)、利(artha)与欲(kāma)——在诸劫中皆依次衰减,按次第三分三分地减少。

Verse 113

ससंध्याशेषु हीयन्ते युगानान्धर्मसिद्धयः / इत्येष प्रतिसंधिर्यः कीर्त्तितस्तु मया द्विजाः

在诸劫之暮色(sandhyā)余段中,达摩的成就渐渐衰减。诸婆罗门(dvija)啊,这便是我所宣说的“反合期”(pratisandhi)。

Verse 114

चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् / एषा चतुर्युगावृत्तिरासहस्रद्गुणीकृता

凭此便能成就一切四时代(caturyuga)的安排;此四时代之轮回被说为增至千倍。

Verse 115

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता / अत्रार्जवं जडीभावो भूतानामायुगक्षयात्

这被称为梵天(Brahmā)之“昼”,同等长度亦为其“夜”。在此,由于劫期将尽,众生生起质直与迟钝之性。

Verse 116

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् / एषा चतुर्युगानां च गुणिता ह्येकसप्ततिः

这便被忆为一切诸劫(yuga)的特征;而就四时代(caturyuga)而言,此数相乘则称为“伊迦萨普塔提”(71)。

Verse 117

क्रमेण परिवृत्ता तुमनोरन्तरमुच्यते / चतुर्युगे यथैकस्मिन्भवतीह यथा तु यत्

依次轮转者称为“摩奴期”(manvantara)。正如在一四时代(caturyuga)中此处如何发生种种事相,规律亦复如是。

Verse 118

तथा चान्येषु भवति पुनस्तद्वद्यथाक्रमम् / सर्गे सर्गे तथा भेदा उत्पद्यन्ते तथैव तु

同样地,在其他诸次创造中也会依次再度如此;在每一轮“萨尔伽”(创造)里,种种差别也如是生起。

Verse 119

पञ्चत्रिंशत्परिमिता न न्यूना नाधिकाः स्मृताः / तथा कल्पा युगैः मार्द्धं भवन्ति सह लक्षणैः / मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम्

其数被记为三十五:不多不少。同样,诸“劫”(kalpa)与诸“瑜伽时代”(yuga)并行,具足其相;此即一切“摩奴期”(manvantara)的标志。

Verse 120

यथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभावात् / तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः

正如诸瑜伽时代的更替因其本性而久远运行,众生之世亦不恒常;在毁灭与兴起之间不断转变。

Verse 121

इत्येत ल्लक्षणं प्रोक्तं युगानां वै समासतः

至此,诸瑜伽时代的特征已略说完毕。

Verse 122

अतीतानागतानां हि सर्वमन्वन्तरोष्विह / मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै

在此,于一切过去与未来的摩奴期之中,由一段摩奴期即可通晓其余一切间期。

Verse 123

ख्यातानीह विजानीध्वं कल्पं कल्पेन चैव ह / अनागतेषु तद्वच्च तर्कः कार्यो विजानता

当知此处所传扬者:以一劫观一劫而明了。于未来诸劫,智者亦当如是以理推察。

Verse 124

मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह / तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत

于一切摩奴劫中——过去与未来——众生之自我执取皆相似;唯以名与相之差别而显现。

Verse 125

देवा ह्यष्टविधा ये वा इह मन्वन्तरेश्वराः / ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः

此处为摩奴劫之主的诸天有八类;诸仙(ṛṣi)与诸摩奴亦然——在其使命与作用上皆为同等。

Verse 126

एवं वर्णाश्रमाणां तु प्रविभागं पुरा युगे / युगस्वभावांश्च तथा विधत्ते वै सदा प्रभुः

如是,主宰恒常于诸时代中,制定种姓与住期之分,并同样安立各劫各世之性相。

Verse 127

वर्णाश्रमविभागाश्च युगानि युगसिद्धयः / अनुषङ्गात्समाख्याताः सृष्टिसर्गं निबोधत / विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह

种姓住期之分、诸时代及其成就,皆因文势而略说。今当了知创世之生起;我将在此依次详说诸时代之住持情状。

Frequently Asked Questions

It explains the Dvāpara-yuga regime: how yajña and dharma are organized amid declining certainty, social-duty inversion, and the need to systematize Vedic transmission.

It states that śruti-smṛti become “twofold,” producing interpretive indecision; as certainty about dharma weakens, divergent views multiply and create śāstric complexity.

It indicates that the earlier unified Veda becomes arranged into a fourfold form and further diversified in Dvāpara through recensional differences, mantra–brāhmaṇa ordering, and phonetic variations.