
Yuga-Vibhāga and Kāla-Pramāṇa (Measures of Time and the Four Yugas)
本章开端,一位圣仙(ṛṣi)请求详闻与斯瓦扬布瓦(Svāyambhuva)摩奴劫(manvantara)相关的四时代循环(caturyuga),尤其是其生成之式(nisarga)与内在原理(tattva)。苏多(Sūta)将此题与先前的宇宙论讨论相连,并宣示将作系统阐述。随后以技术性枚举说明:从最细微可觉的时间单位(nimeṣa、kāṣṭhā、kalā、muhūrta)逐级计量,并以太阳所调御的人间昼夜(mānuṣa/laukika)为基准。继而提出尺度换算:祖灵(pitṛ)之时,以人间一月为一昼夜(黑半月 kṛṣṇapakṣa 为“昼”,白半月 śuklapakṣa 为“夜”);以及天神(deva)之时,以北行(udagayana)与南行(dakṣiṇāyana)为天界之昼夜。由此奠定本章主旨:以清晰数目陈述诸时代(yuga)、时代差别(yuga-bheda)、时代之法(yuga-dharma)及其交界(yuga-sandhyā、sandhyāṃśa、sandhi),建立可计算的《往世书》年代体系。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे अमावस्याश्राद्धे पितृविचयोनामाष्टाविंशति तमो ऽध्यायः ऋषिरुवाच चतुर्युगानि यान्यासन्पूर्वं स्वायंभुवे ऽन्तरे / तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात्
如是,在《圣梵卵大摩诃往世书》中,风神(Vāyu)所宣说的前分、第二“随续品”,论及阿摩婆娑(新月)施罗达(śrāddha)之“择祖章”(Pitṛvicaya)第二十八章。仙人曰:在斯瓦扬布瓦(Svāyambhuva)摩奴劫期中先前出现的四时代(caturyuga),其生成与真义,我愿详闻。
Verse 2
सूत उवाच पृथिव्यादिप्रसंगेन यन्मया प्रागुदीरितम् / तेषां चतुर्युगं ह्येतत्तद्वक्ष्यामि निबोधत
苏多曰:我先前因大地等事而略述者,即是彼等之四时代(caturyuga);今当宣说,汝等谛听。
Verse 3
संख्ययेह प्रसंख्याय विस्तराच्चैव सर्वशः / युगं च युगभेदश्च युगधर्मस्तथैव च
在此我将依数目之量,广泛而周全地阐明:诸劫(yuga)、诸劫之差别,以及各劫之法(dharma)。
Verse 4
युगसंध्यांशकश्चैव युगसंधानमेव च / षट्प्रकाशयुगाख्यैषा ता प्रवक्ष्यामि तत्त्वतः
亦当说明诸劫之暮晓分(sandhyā)及其连接(sandhāna);此六类名为“六显(ṣaṭ-prakāśa)”,我将如实宣说。
Verse 5
लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् / तेनाब्देन प्रसंख्यायै वक्ष्यामीह वतुर्युगम् / निमेषकाल तुल्यं हि विद्याल्लघ्वक्षरं च यत्
依世间的度量先确立人间一年;以此年为单位来计数,我将在此宣说四劫(caturyuga)。并当知所谓“轻字(laghvakṣara)”等同于一瞬(nimeṣa)之时。
Verse 6
काष्ठा निमेषा दश पञ्च चैव त्रिशच्च काष्ठा गणयेत्कलां तु / त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तै स्त्रिंशता रात्र्यहनी समे ते
十五瞬(nimeṣa)为一刹(kāṣṭhā);三十刹为一分(kalā);三十分为一时(muhūrta);三十时合成昼夜,二者等量。
Verse 7
अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ
太阳为人间世俗之昼与夜作分判。
Verse 8
तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्पते / पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
在那里,白昼用于行持诸业之勤作,夜晚用于睡眠与梦境。在祖灵(Pitṛ)之界,夜与昼合为一月;其二者的分段亦复说明。
Verse 9
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी / त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः
对他们而言,黑半月(kṛṣṇa-pakṣa)如同白昼,白半月(śukla-pakṣa)如同梦之夜。人间三十个月,被记为祖灵(Pitṛ)的一月。
Verse 10
शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै / पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते
三百个月再加六十个月——共三百六十个月——以人间的计数来理解,即为祖灵(Pitṛ)的一年。
Verse 11
मानुषे णैव मानेन वर्षाणां यच्छतं भवेत् / पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै
按人间的尺度,一百年,在此被计为祖灵(Pitṛ)的三年。
Verse 12
दश चैवाधिका मासाः पितृसंख्येह संज्ञिताः / लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः
在祖灵(Pitṛ)的计数中,说有十个月并另有增添之月;而所谓“人间之时”之通行尺度,则仅依世俗度量而立。
Verse 13
एतद्दिव्यमहोरात्रं शास्त्रे स्यान्निश्चयो गतः / दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः
经论中已确立此“天界昼夜”的定则;依彼天界之夜与日,复次判定诸年的分配。
Verse 14
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् / ये ते रात्र्यहनी दिव्ये प्रसंख्यानं तयोः पुनः
彼处以昼为“北行”(Uttarāyaṇa),以夜为“南行”(Dakṣiṇāyaṇa);至于天界之夜与昼,其数目复次宣说。
Verse 15
त्रिंशद्यानि तु वर्षाणि दिप्यो मासस्तु स स्मृतः / यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते
三十年被记为一“天界之月”;当知人间一百年,等同于三个月的天界之月。
Verse 16
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः / त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु / दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः
如是十个(天界)日,乃所称天界之法;而人间三百六十年,被宣说为一“天界之年”(saṃvatsara)。
Verse 17
त्रीणि वर्ष सहस्राणि मानुषाणि प्रमाणतः / त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः
依其度量,人间三千年,再加三十年,被认为是“七仙之年”(Saptarṣi-vatsara)。
Verse 18
नव यानि सहस्राणि वर्षाणां मानुषाणि तु / अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः
以人间年计,九千年又加九十年;此被称为“德鲁瓦(Dhruva)岁次”。
Verse 19
षड्विंशतिसहस्राणि वर्षाणि मानुषाणि तु / वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः
以人间年计为二万六千年;其中一百年当知为天界之度量——此为神圣法则所记。
Verse 20
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु
以人间年计,正是三“尼由他”(即三十万年)——如是所说。
Verse 21
षष्टिश्चैव सहस्राणि संख्यातानि तु संख्याया / दिव्यवर्षसहस्र तु प्राहुः संख्याविदो जनाः
按数目计算为六万;通晓数理者说,这相当于一千个天界之年。
Verse 22
इत्येवमृषिभिर्गीतं दिव्यया संख्याया त्विह / दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम्
如是,诸仙在此以天界之数而歌;并以天界之量度,建立诸劫(yuga)的数目安排。
Verse 23
चत्वारि भारते वर्षे युगानि कवयो ऽबुवन् / कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम्
在婆罗多国土(Bharata-varsha),贤哲诗人说有四个劫期:克利多、特雷塔、德瓦帕拉与迦梨,合为四时。
Verse 24
पूर्व कृतयुकं नाम ततस्त्रेती विधीयते / द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत्
先称为克利多纪(Kṛta-yuga),继而定为特雷塔纪;随后是德瓦帕拉纪与迦梨纪——诸纪次第如是。
Verse 25
चत्वार्याहुः सहस्राणि वर्षाणां च कृत युगम् / तस्य तावच्छती संध्या संध्यांशः संध्याया समः
据说克利多纪长四千年;其“曙暮期”(saṃdhyā)为一百年,“曙暮余分”(saṃdhyāṃśa)亦与之相等。
Verse 26
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु / एकन्यायेन वर्तन्ते सहस्राणि शतानि च
其余三纪亦然,连同曙暮期与其余分,千与百的数目皆依同一法则而行。
Verse 27
त्रीणि द्वे च सहस्राणि त्रेताद्वापरयोः क्रमात् / त्रिशती द्विशती संध्ये संध्यांशौ चापि तत्समौ
依次而言,特雷塔纪为三千年,德瓦帕拉纪为两千年;其曙暮期分别为三百与二百年,曙暮余分亦同等。
Verse 28
कलिं वर्षसरस्रं तु युगमाहुर्द्विजोत्तमाः / तस्यैकशतिका संध्या संध्यांशः संध्यया समः
至上的婆罗门说:迦梨纪为一千年;其“暮光”(交界期)为一百年,而暮光之分亦与暮光等同。
Verse 29
तेषां द्वादशसाहस्री युगसंख्या प्रकीर्त्तिता / कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम्
这些诸纪的总数被称为一万二千:克利多、特雷塔、德瓦帕拉与迦梨——四纪合为一组。
Verse 30
अत्र संवत्सरा दृष्टा मानुषेण प्रमाणतः / कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत
此处所说的年数,皆以人间尺度为准。现在我将宣说克利多纪的年数;汝等当谛听领受。
Verse 31
सहस्राणां शतान्याहुश्चतुर्दश हि संख्याया / चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्
在以千为单位的百数中,其数称为十四;又加上四万及其余诸年,便成就克利多纪。
Verse 32
तथा शतसहस्राणि वर्षाणि दशसंख्याया / अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः
同样地,十个十万年再加八万年——这便是特雷塔纪的时量。
Verse 33
सप्तैव नियुतान्याहुर्वर्षाणां मानुषेण तु / विंशतिश्च सहस्रामि कालः स द्वापरस्य च
按人间年数计算,所谓兜婆罗纪(Dvāpara-yuga)的时长为七个“尼由他”并加二万年。
Verse 34
तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया / षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु
同样,迦利纪(Kali-yuga)的时长被记为三十万年再加六万年,即三十六万年。
Verse 35
एवं चतुर्युगे काल ऋतैः संध्यांशकैः स्मृतः / नियुतान्येव षडिंशान्निरसानि युगानि वै
如是,四纪(caturyuga)的时长被记为包含劫初等诸纪的“曙暮”(sandhyā)与其分量(sandhyāṃśa);诸纪合计为十六个“尼由他”,圆满无余。
Verse 36
चत्वारिंशत्तथा त्रीणि नियुता नीह संख्यया / विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः
此处按数目为四十三个“尼由他”并加二万年;这被称为四纪的“曙暮分”(sandhyāṃśa)。
Verse 37
एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः / कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते
如是,由劫初纪、三纪等所组成的四纪,其数目超过七十一者,被称为一“摩奴期”(Manvantara)。
Verse 38
मन्वन्तरस्य संख्यां तु वर्षाग्रेण निबोधत / त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः
当以年数之尺度知晓一劫期(Manvantara)的数目;按人间计数,此为三十俱胝年。
Verse 39
सप्त षष्टिस्तथान्यानि नियुतान्यधिकानि तु / विशतिश्च सहस्राणि कालो ऽयं साधिकं विना
此外尚有六十七尼由他与二万相加;此即此时量,别无余增。
Verse 40
मन्वन्तरस्य संख्यैषा संख्या विद्भिर्द्विजैः स्मृता / मन्वन्तरस्य कालो ऽयं युगैः सार्द्धं च कीर्त्तितः
此即曼梵多罗之数,为博学婆罗门所传忆;此曼梵多罗之时量,亦与诸瑜伽(时代)并称。
Verse 41
चतुः साहस्रयुक्तं वै प्राकृतं तत्कृतं युगम् / त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च
本初的克利多时代(Kṛta-yuga)确由四千为量;今我将宣说其余:特雷塔、德瓦帕拉与迦梨。
Verse 42
युगपत्समयेनार्थो द्विधा वक्तुं न शक्यते / क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम्
同一时刻不可能以两种方式阐明其义;故我依次而说,并未对你同时宣说两种时代。
Verse 43
ऋषिवंशप्रसंगेन व्याकुलत्वात्तथैव च / अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये
由于谈及圣仙族系而心神纷扰;在此,于特雷塔纪元之初,摩奴以及当时的七圣仙(Saptarṣi)被提及。
Verse 44
श्रौत स्मार्त्त च ते धर्म ब्रह्मणानुप्रचौदितम् / दाराग्निहोत्रसंबन्धमृग्यजुः सामसंहितम्
他们的祭仪(śrauta)与传统法(smārta)皆由梵天所启示:关乎家室与阿耆尼火供(Agnihotra)的联系,并具《梨俱》《夜柔》《娑摩》诸本集(Saṃhitā)。
Verse 45
इत्यादिलक्षणं श्रौतं धर्म सप्तर्षयो ऽब्रुवन् / परंपरागतं धर्म स्मार्त्तं चाचारलक्षणम्
具此等特征的祭仪之法(śrauta-dharma)为七圣仙所宣说;而那由传承流布、以正行(ācāra)为标志的传统之法(smārta-dharma)亦被阐明。
Verse 46
वर्णाश्रमाचारयुतं मनुः स्वायंभुवो ऽब्रवीत् / सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै
自生之摩奴宣说了具足种姓与住期(varṇa-āśrama)行仪的法:以真实、梵行、圣闻(śruti,吠陀)与苦行(tapas)而成。
Verse 47
तेषां तु तप्ततपसा आर्षेणोपक्रमेण तु / सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा
依其炽热苦行与圣仙之道的开端之法,在特雷塔纪元之初,七圣仙与摩奴亦同样(如此而行/如此而起)。
Verse 48
अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च / अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः
他们的真言并非先由心智构作,也非先有行为而起;而是借由星辰等种种征相而显现。
Verse 49
आदिकल्पे तु देवानां प्रादुर्भूतास्तु याः स्वयम् / प्राणाशेष्वथ सिद्धीनामन्यासां च प्रवर्त्तनम्
在最初的劫中,诸天的成就(悉地)自然而现;当生命之气渐尽之时,其他诸悉地亦随之发动。
Verse 50
आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः / ते मन्त्रा वै पुनस्तेषां प्रतिभायामुपस्थिताः
那些在无数已逝之劫中存在的真言,正是这些真言再度在他们的灵感慧照中现前。
Verse 51
ऋचो यजूंषि सामानि मन्त्रश्चाथर्वणानि तु / सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्त्तं धर्मं मनुर्जगौ
《梨俱》《夜柔》《娑摩》以及《阿闼婆》诸真言,皆由七圣仙宣说;而“斯摩尔塔法”则由摩奴阐明。
Verse 52
त्रेतादौ संहिता वेदाः केवला धर्मसेतवः / संरोधादायुषश्चैव वर्त्स्यन्ते द्वापरेषु वै
在特雷塔纪之初,吠陀唯以本集(桑希塔)之形存在,纯为护持法的桥梁;因寿命缩短,至兜婆罗纪它们将(分化而)流行。
Verse 53
ऋषयस्तपसा वेदान्द्वापरादिष्वधीयते / अनादिनिधिना दिव्याः पूर्वं सृष्टाः स्वयंभुवा
诸仙人以苦行之力,于兜婆罗等诸劫研习吠陀;无始宝藏之自生者(Svayambhū)先前亲自创造了神圣的仙人。
Verse 54
सधर्माः सव्रताः सांगा यथाधर्मं युगेयुगे / विक्रियन्ते समानार्था वेदवादा यथायुगम्
含摄法度、誓戒与吠陀支分的吠陀教言,随劫而行,皆依正法而转。其义同一,而随时代之别呈现变化。
Verse 55
आरंभयज्ञाः क्षत्राश्च हविर्यज्ञा विशस्तथा / परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः
刹帝利行“开创祭”(ārambha-yajña),吠舍行“供酥祭”(havir-yajña)。首陀罗从事“侍奉祭”(paricāra-yajña),而最胜二生者行“持诵祭”(japa-yajña)。
Verse 56
तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः / क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा
当时在特雷塔劫,诸种姓为正法所护,皆欢喜悦:勤于仪轨,子嗣繁盛,富足昌隆,且安乐自在。
Verse 57
ब्राह्मणाननुर्त्तन्ते क्षत्रियाः क्षत्रियान्विशः / वैश्यानुवर्त्तिनः शुद्राः परस्परमनुव्रताः
刹帝利随顺婆罗门,吠舍随顺刹帝利;首陀罗随顺吠舍——众人彼此相依,互守其誓与本分。
Verse 58
शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा / संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा
他们的行持皆为吉祥;种姓与住期(梵行、家住等)的法亦复如是——由心中所立之愿、口中所宣之言,以及各自所行之业而成。
Verse 59
त्रेतायुगे च विफलः कर्मारंभः प्रसिद्ध्यति / आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता
在特雷塔时代,连无果之业的发起也广为人知;寿命、聪慧、力量、容貌、健康与守持正法之性皆增长。
Verse 60
सर्वसाधारणा ह्येते त्रेतायां वै भवं त्युत / वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तदाकरोत्
噢,婆伐(Bhava)!在特雷塔时代,这一切皆为众生所共;其时梵天为他们制定了种姓与住期(varṇāśrama)的秩序。
Verse 61
पुनः प्रजास्तु ता मोहाद्धर्मा स्तानप्यपालयन् / परस्परविरोधेन मनुं ताः पुनरभ्ययुः
随后众生因迷妄而不再守护那些法度;由于彼此相违相争,他们又一次前往摩奴(Manu)求助。
Verse 62
पुनः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः / ध्यात्वा तु शतरूपायां पुत्रौ स उदपादयत्
随后自生者(Svāyaṃbhuva)般的生主(Prajāpati)见到真实情状,便于舍多卢帕(Śatarūpā)中入定观想,生出两位 पुत्र子。
Verse 63
प्रियव्रतो त्तानपादौ प्रथमौ तौ मोहीक्षितौ / ततः प्रभृति राजान उत्पन्ना दण्डधारिणः
普利耶弗罗多与乌塔那跋陀被视为最初的两位君王;自此以来,执持“杖罚”(达ṇḍa)之王者相继而生。
Verse 64
प्रजानां रञ्जनाच्चैव राजानस्ते ऽभवन्नृपाः / प्रच्छन्न पापास्तैर्ये च न शक्यास्तु नराधिपैः
因能使众生欢悦,他们被称为“人王”(nṛpa);并且他们镇伏了连其他君主也无法制止的隐秘罪恶。
Verse 65
धर्मराजः स्मृतस्तेषां शास्ता वैवस्वतो यमः / वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्त्तिताः
对他们而言,毗婆斯瓦特之阎摩被忆为“法王”(Dharmarāja)、惩戒之主;而在特雷塔纪元,诸种姓的分判亦被宣说。
Verse 66
संभृताच्च तदा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः / यज्ञाः प्रवर्त्तिताश्चैव तदा ह्येव तु दैवतैः
其时,梵天之子诸仙汇集诸咒;同一时刻,诸天亦使祭祀(yajña)之行得以开展。
Verse 67
यामशुक्रार्जितैश्चैव सर्वसाधन संभृतैः / सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा
凭借阎摩与舒克罗所筹得的一切资具、诸般具足之法器,并与毗湿瓦布阇同在,又与大威力的天帝因陀罗一道(共同行事)。
Verse 68
स्वायंभुवेंऽतरे देवैर्यज्ञस्तैः प्राक्प्रवर्त्तितः / सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते
在斯瓦扬布瓦的摩奴期,诸天早先兴起祭祀(yajña);在特雷塔时代,真实、诵念、苦行与布施被称为达摩。
Verse 69
तदा धर्म्मसहस्रान्ते ऽहिंसाधर्मः प्रवर्त्तते / जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः
那时,在千重法度的终尽之际,不害之法(阿希姆萨)兴起;并且诞生勇士,寿命绵长,力大无比。
Verse 70
व्यस्तदण्डा महाभागा धर्मिष्ठा ब्रह्मवादिनः / पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः
他们放下刑杖,福德殊胜,笃守达摩,宣说梵(Brahman)之理;双目修长如莲叶,胸膛宽阔,身躯匀称坚实。
Verse 71
सिंहातङ्का महासत्त्वा मत्तमातङ्गगमिनः / महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः
他们如狮般无畏,具大雄健之质,行步似狂醉之象;执持巨弓,并在特雷塔时代成为转轮圣王(cakravartin)。
Verse 72
सर्वलक्षणसम्पूर्मा न्यग्रोधपरिमण्डलाः / न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते
他们具足一切祥相,身量为“尼耶格罗陀-周圆”(如榕树之围度);两臂被称为“尼耶格罗陀”,而一“维亚摩”(臂展之量)亦称“尼耶格罗陀”。
Verse 73
व्यामे नैवोछ्रयो यस्य सम ऊर्द्धं तु देहिनः / समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमण्डलः
其上部的宽广与高度与身躯相称,且高度与周围亦相等者,当知为“榕树轮相(Nyagrodha-maṇḍala)”。
Verse 74
चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा / सप्तैतानि च रत्नानि सर्वेषां चक्रवर्तिनाम
轮、车、宝珠、王后、宝藏、马与象——此七宝为一切转轮圣王所具。
Verse 75
चक्रं रथो मणिः खड्गश्चर्मरत्नं च पञ्चमम् / केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते
轮、车、宝珠、剑、第五为盾宝、幢旗(ketu)与宝藏——此七者被称为无生命之宝。
Verse 76
भार्या पुरोहितश्चैव सेनानी रथकृच्च यः / मन्त्र्यश्वः कलभश्चैव प्राणिनः सप्त कीर्त्तिताः
王后、祭司(purohita)、统帅、造车师、辅臣、马与幼象(kalabha)——此七者被称为有生命之宝。
Verse 77
रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम् / चतुर्दश विधेयानि सर्वेषां चक्रवर्त्तिनाम्
此等神圣之宝为大士所成就;对一切转轮圣王而言,它们被说为应具的十四种要素。
Verse 78
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्त्तिनः / मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह
由毗湿奴之分身,世间大地上转轮圣王得以诞生;在一切摩奴劫中,无论过去或未来,皆复如是。
Verse 79
भूतभव्यानि यानीह वर्त्तमानानि यानि च / त्रेतायुगे च तान्यत्र जायन्ते चक्रवर्त्तिनः
此间一切过去与未来之事,以及现前之事,皆于彼处在特雷塔纪中化生为转轮圣王。
Verse 80
भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम् / अत्यद्भुतानि चत्वारि बलं धर्मः सुखं धनम्
对于那些护持大地的君王,此处具足吉祥之德;四种殊胜奇妙:力量、法(达摩)、安乐与财富。
Verse 81
अन्योन्यस्याविरोधेन प्राप्यन्ते तु नृपैः समम् / अर्थो धर्मश्च कामश्च यशो विजय एव च
诸王彼此不相违逆,便能同时获得:利(阿尔塔)、法(达摩)、欲(迦摩)、名声与胜利。
Verse 82
ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च / श्रुतेन तपसा चैव मुनीनभिभवन्ति वै
凭借自在神通——如微细等诸悉地——与主宰之力,又以闻典之智与苦行之功,他们确实连诸牟尼亦能超越。
Verse 83
बलेन तपसा चैव देवदानवमानवान् / लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः
凭借力量与苦行,天神、达那婆与人类皆得出生,并具身中安住的超凡相征。
Verse 84
केशाःस्निग्धा ललाटोच्चा जिह्वा चास्य प्रमार्जिनी / ताम्रप्रभोष्टनेत्राश्च श्रीवत्साश्चैद्ध्वरोमशाः
其发润泽,额高隆起,舌能净秽;唇与目呈铜赤光辉,胸有“室利伐蹉”吉相,身毛丰密。
Verse 85
आजानुबाहवस्छैव तदाम्रहस्ताः कटौ कृशाः / न्यग्रोधपरिणाहाश्च सिंहस्कन्धास्तु मेहनाः
其臂长及膝,手呈铜赤色,腰身纤细;胸围如榕树般宽广,肩若雄狮,具大威力。
Verse 86
गजेद्रगतयश्चैव महाहनव एव च / पादयोश्चक्रमत्स्योन्तु शङ्खपद्मौ तुहस्तयोः
其步态如象王,颌骨宏大;足有轮与鱼之相,手有螺与莲之相。
Verse 87
पञ्चाशीतिसहस्राणि ते राजन्त्यजरा नृपाः / असंगगतयस्तेषां चतस्रश्चक्रवर्त्तिनाम्
那些不老的君王统治八万五千年;而转轮王则被说有四种“无碍之行”。
Verse 88
अन्तरिक्षे समुद्रि च पाताले पर्वतेषु च / इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते
在虚空、海洋、地下的帕塔拉与群山之中,特雷塔纪的法被称为:祭祀(yajña)、布施、苦行与真实。
Verse 89
तदा प्रवर्त्तते धर्मो वर्णाश्रमविभागशः / मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्त्तते
那时,正法依照种姓与人生阶段(varṇa-āśrama)的划分而运行;为建立纲纪,惩戒之政(daṇḍanīti)亦随之施行。
Verse 90
त्दृष्टपुष्टाः प्रजाः सर्वा अरोगाः पूर्णमानसाः / एको वेदश्चतुष्पादस्त्रेतायुगविधौस्मृतः
那时众生皆强健丰盛、无病、心意圆满;而在特雷塔纪的法度中,吠陀虽为一体,却被忆为具“四足”(四分)。
Verse 91
त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः / पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु
那时人类寿命三千年;在子孙环绕之中,依次按时而终。
Verse 92
एष त्रेतायुगे धर्मस्त्रेतासंध्यां निबोधत / त्रेतायुगस्वभावानां संध्या पादेन वर्त्तते / संध्यापादः स्वभावस्तु सोंऽशपदेन तिष्ठति
此乃特雷塔纪之法;当知“特雷塔之交时”(tretā-saṃdhyā)。特雷塔纪诸性之交时以一“足”而行;而此“交时之足”以一分(aṃśa)而安住。
It is a technical chapter on kāla-pramāṇa (time units) and yuga-vibhāga: defining measurable units from nimeṣa upward and using them to express caturyuga structure, yuga-dharma, and transitional junctions (sandhyā/sandhi).
It presents conversion models: for pitṛs, a human month functions as their day-night (kṛṣṇapakṣa as ‘day’ and śuklapakṣa as ‘night’); for devas, udagayana and dakṣiṇāyana function as day and night, enabling yuga-scale durations to be expressed across different ontological timelines.
No; the sampled verses indicate a cosmological-chronological focus rather than lineage cataloging. Its purpose is to establish the numerical and conceptual infrastructure needed before genealogies and dynastic histories can be chronologically situated.