
Amāvasyā-Pitṛtarpaṇa: Purūravas and the Soma-Based Ancestral Offering (अमावस्या-पितृतर्पण / सोमतर्पण-विधि)
本章以问答开篇:圣仙询问,阿伊拉王普鲁罗婆娑(Purūravas, Aila)为何被说在无月日(Amāvasyā)“月复一月升入天界”,以及他以何法令诸祖灵(Pitṛ)得满足。苏多答言将阐明与阿伊拉同日神(Āditya)与苏摩(Soma,月神)之关系相关的“威力/效验”(prabhāva),并由叙事转入关于月相的技术性宇宙论。经文说明月之内精与白分/黑分(śukla/kṛṣṇa pakṣa)之盈亏增减,又将苏摩所“滴落”的甘露不死液(sudhā-amṛta)与祖灵之滋养、满足相连。无月日被视为关键的合会时刻:日月同处一宿(nakṣatra),一夜之间如同一体之球,因而成为祖先仪轨的特殊通道。普鲁罗婆娑被描绘为为月度 śrāddha 而亲近苏摩,留意月度临界量度(Kuhū、Sinīvālī),并依 pitṛ-vidhi 以苏摩所出甘露行 tarpaṇa 供养。章末并分类诸 Pitṛ 群(如 Barhiṣad、Kāvyā、Agniṣvātta、Saumyā),并将此仪置于更宏阔的时间神学之中(ṛta/Agni 为一年),使仪式实践成为宇宙运行机制的延伸。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपाद दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमो ऽध्यायः ऋषिरुवाच अगात्कथममावस्यां मासि मासि दिवं नृपः / ऐलः पुरूरवाः सूत कथं वातर्पयत्पितॄन्
如是,在《圣梵卵大摩诃往世书》中,风神所宣说的前分第二部,第二十七章名为“附章:入达鲁林与圣灰沐浴之法”。仙人曰:“大王,他为何每逢无月日(amāvasyā)月月升天?苏多啊,艾拉·普鲁罗婆斯如何以供养(tarpaṇa)使祖灵(pitṛ)满足?”
Verse 2
सूत उवाच तस्य ते ऽहं प्रवक्ष्यामि प्रभावं शांशपायने / ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः
苏多曰:“商沙巴耶那啊,我将为你宣说其威德——艾拉与阿底提耶之相合,以及大魂苏摩之事。”
Verse 3
अन्तःसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः / ह्रासवृद्धी पिदृमतः पित्र्यस्य च विनिर्णयम्
此处阐明内蕴精华之月在白分与黑分两半月中的消长,并裁定有关祖灵界(Pitṛloka)与祭祖法(pitrya)之义。
Verse 4
सोमाच्चैवामृतप्राप्तिं पितॄणां तर्वणं तथा / काव्याग्निष्वात्तमौम्यानां पितॄणाञ्चैव दर्शनम्
又说由苏摩使祖灵得甘露,及为祖灵行供水祭(tarpaṇa),并得见名为Kāvya、Agniṣvātta与Saumya诸祖灵。
Verse 5
यथा पुरूरवाश्चैव तर्पयामास वै पितॄन् / एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम्
如同普鲁罗婆斯以供水祭使祖灵满足一般,我将宣说这一切,并按次第讲述诸个parva(节期)。
Verse 6
यदा तु चन्द्रसूर्यौं वै नक्षत्रेण समागतौ / अमावस्यां निवसत एकरात्रैकमण्डलौ
当月与日与星宿同会之时,于无月日(Amāvasyā)二者同处一轮之中,唯住一夜。
Verse 7
स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ / अमावस्याममावास्यां मातामहपितामहौ
于是于此无月日(Amāvasyā),他前往瞻礼昼作(太阳Divākara)与夜作(月亮Niśākara);在此无月日中,外祖与祖父二位祖灵亦同现。
Verse 8
अभिवाद्य स तौ तत्र कालापेक्षः प्रतीक्षते / प्रस्यन्दमानात्सोमात्तु पित्रर्थं तु परिश्रवान्
他在彼处礼敬二位,怀着对时机的等待而伫立。由流溢的苏摩中,为奉献祖灵(Pitṛ)而涌出清净的“遍流”(pariśrava)圣流。
Verse 9
ऐलः पुरूरवा विद्वान्मासश्राद्धचिकीर्षया / उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः
智者艾罗·普鲁罗婆为行月度施祭(śrāddha)之愿,在天界礼敬那与祖灵(Pitṛ)相应的苏摩。
Verse 10
द्विलवां कुहूमात्रां च ते उभे तु विचार्य सः / सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः
他权衡“二分”(dvilavā)与“库呼之量”(Kuhū-mātrā)二者;继而依循辛尼瓦丽(Sinīvālī)的法度与尺度,礼敬辛尼瓦丽。
Verse 11
कुहूमात्रः कलां चैव ज्ञात्वोपास्ते कुहूं तथा / स तदा तामुपासीनः कालापेक्षः प्रपश्यति
既知库呼之量与“分”(kalā),他便如法礼敬库呼。其时他端坐于供奉之中,怀着对时机的等待而凝视观照。
Verse 12
सुधामृतं तु तत्सोमात्स्रवद्वै मासतृप्तये / दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः
从那苏摩中,为月度满足而流出甘露(sudhā-amṛta);以十与五之数,化作甘露的清净流注。
Verse 13
कृष्णपक्षे भुजां प्रीत्या दह्यमानां तथांशुभिः / सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः
在黑半月时,他的臂膀被光芒灼烧;于是他以那柔和的甘蜜,立刻倾泻出涓涓甘露。
Verse 14
निर्वातेष्त्रथ पक्षेषु पित्र्येण विधिना दिवि / सुधामृतेन राजैन्द्रस्तर्प यामास वै पितॄन्
在无风的半月时分,于天界依照祭祖之法,王中之王以苏陀甘露使诸祖灵(Pitṛ)得以满足。
Verse 15
सौम्यान्बर्हिषदः काव्यानग्निष्वात्तांस्तथैव च / ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
苏弥耶、婆尔希沙达、迦毗耶与阿耆尼湿瓦塔——此等皆为祖灵诸族;而被称为“Ṛtam-agni(真理之火)”者,即被视为“Saṃvatsara(岁年)”。
Verse 16
जज्ञिरे ह्यृतवस्तस्माद्ध्यृतुभ्यश्चार्त्तवास्तथा / आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः
由彼而生诸季(ṛtu),由诸季又生“ārtava”;ārtava被称为“半月”,而这些祖灵乃为季节之子。
Verse 17
ऋतवः पितामहा मासा अयनाह्यब्दसूनवः / प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः
诸季为祖父(pitāmaha);诸月与诸行(ayana)为岁之子;而诸神为曾祖(prapitāmaha),名为“Pañcābda”,乃梵天之子。
Verse 18
सौम्यास्तु सोमजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः / उपहूताः स्मृता देवाः सोमजाः सोमपाः स्मृताः
名为“娑乌弥耶(Saumya)”者,当知为“苏摩生(Somaja)”之祖灵;名为“迦毗耶(Kāvya)”者,当知为圣贤迦毗(Kavi)之子。诸天亦称“优婆呼多(Upahūta)”;而苏摩生者亦被忆念为“苏摩饮者(Somapā)”。
Verse 19
आज्यपास्तु स्मृताः काव्यास्तिस्रस्ताः पितृजातयः / काव्या बर्हिषद श्चैव अग्निष्वात्ताश्च तास्त्रिधा
迦毗耶(Kāvya)祖灵亦被称为“酥油饮者(Ājyapā)”。祖灵共有三类:迦毗耶、婆尔希沙陀(Barhiṣad)与阿耆尼施瓦多(Agniṣvātta);故为三分。
Verse 20
गृहस्था ये च यज्वान ऋतुर्बर्हिषदो ध्रुवम् / गृहस्थाश्चाप्ययज्वान अग्निष्वात्तास्तथार्त्तवाः
凡居家而行祭祀(yajña)者,确然称为“律度(Ṛtu)”与“婆尔希沙陀(Barhiṣad)”。居家而不行祭祀者,则称为“阿耆尼施瓦多(Agniṣvātta)”与“阿尔塔瓦(Ārttava)”。
Verse 21
अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत / तेषां संवत्सरो ह्यग्निः सूयस्तु परिवत्सरः
迦毗耶(Kāvya)祖灵为“阿什塔迦之主(Aṣṭakāpati)”;当知他们为五种“年(abda)”。其中,“萨ṃ瓦特萨拉(Saṃvatsara)”为火神阿耆尼,“帕利瓦特萨拉(Parivatsara)”为日神苏利耶。
Verse 22
सोम इड्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः / रुद्रस्तु वत्सरस्तेषां पञ्चाब्दास्ते युगात्मकाः
苏摩(Soma)被称为“伊ḍ瓦特萨拉(Iḍvatsara)”,风神伐由(Vāyu)为“阿努瓦特萨拉(Anuvatsara)”。于他们之中,鲁陀罗(Rudra)为“瓦特萨拉(Vatsara)”;此五种“年(abda)”皆具“劫(yuga)”之体性。
Verse 23
काव्याश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः / ये ते पिबन्त्यमावस्यां मासिमासि सुधां दिवि
所谓迦毗耶、乌湿摩波与昼名闻者,即是那些在天界每月于无月日(amāvasyā)饮甘露苏陀(sudhā)者。
Verse 24
तांस्तेन तर्पयामास यावदासीत्पुरूरवाः / यस्मात्प्रस्रवते सोमान्मासि मासि धिनोति च
普鲁罗婆在世之时,便以此使他们得以满足;因为从那苏摩之中,月复一月流出甘液,并且还会增长。
Verse 25
तस्मात्सुधामृतं तद्वै पितॄणां सोमपायिनाम् / एवं तदमृतं सौम्यं सुधा च मदु चैव ह
因此,那苏陀甘露实为饮苏摩之祖灵(Pitṛ)所有;这温和的甘露亦称“苏陀”与“蜜露”(madhu)。
Verse 26
कृष्णपक्षे यथा वेन्दोः कलाः पञ्चदश क्रमात् / पिबन्त्यंबुमयं देवास्त्रयस्त्रिंशत्तु छन्दनाः
正如在黑半月中,月轮的十五分光(kalā)依次消减;同样,被称为“旃檀那”的三十三天神饮取那水性之分。
Verse 27
पीत्वार्द्धमासं गच्छन्ति चतुर्दश्यां सुधामृतम् / इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः
他们在十四日(caturdaśī)饮苏陀甘露,便延续至半月;如此被诸天尽饮之时,夜作之主(Niśākara,月亮)便渐渐亏减。
Verse 28
समागच्छत्यमावस्यां भागे पञ्चदशे स्थितः / सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम्
在无月日(阿摩婆娑)之第十五分位,月神苏摩会合而至;并由苏舒姆那脉依次滋养,于无月之时如法增长。
Verse 29
पिबन्ति द्विलवं कालं पितरस्ते सुधामृतम् / पीतक्षयं ततः सोमं सूर्यो ऽसावेकरश्मिना
诸祖灵(Pitṛ)饮用甘露苏陀之蜜达二“拉瓦”之时;其后被饮而亏减的苏摩,由太阳以一束光芒再度摄取。
Verse 30
आप्याययत्सुषुम्णातः पुनस्तान्सोमपायिनः / निः शेषायां कलायां तु सोममाप्याययत्पुनः
他又自苏舒姆那脉滋养那些饮苏摩者;当月分(kalā)尽耗之时,亦再度使苏摩充盈复盛。
Verse 31
सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात् / कलाः क्षीयन्ति ताः कृष्णाः शुक्ला चाप्याययन्ति तम्
当由苏舒姆那脉滋养之时,依日序一分一分地月分(kalā)消减——此为黑分;而白分则使之增盛充盈。
Verse 32
एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः / दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः
如是凭借太阳之威力,月神之身得以充盈;于满月日,皎白之圆轮圆满具足,分明可见。
Verse 33
संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः / इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः
如是,苏摩在白分与黑分两半月中得以圆成;与祖灵(Pitṛ)相应之苏摩,被忆念为具“伊德瓦特萨拉”之体性。
Verse 34
क्रान्तः पञ्चदशैः सार्द्धं सुधामृतपरिस्रवैः / अतः पर्वाणि वक्ष्यामि वर्वणां संधयश्च ये
苏摩携十五分光,伴随甘露与不死甘浆之流而行;因此我将宣说诸“节”(parva)及其连接处(saṃdhi)。
Verse 35
ग्रन्थिमन्ति यथा पर्वाणीक्षुवे ण्वोर्भवन्त्युत / तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि
如同甘蔗有节(parva)为结,半月的诸节亦然:正是白分与黑分两部分。
Verse 36
पूर्णामावस्ययोर्भेदौ ग्रन्थयः संधयश्च वै / अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु
满月与新月之别,实为结节与接合处;而半月的诸“节”,则是从第二日(dvitīyā)等诸日(tithi)开始。
Verse 37
अन्वाधानक्रिया यस्मात्क्रियते पर्वसंधिषु / तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसंधिषु
由于在诸节的接合处举行“安瓦达那”(anvādhāna)仪式,因此在一切接合处,诸节之始皆以初一(pratipadā)为标志。
Verse 38
सायाह्ने ऽह्यनुमत्यादौ कालो द्विलव उच्यते / लवौ द्वावेव राकायां कालो ज्ञेयो ऽपराह्णकः
在傍晚时分,于“阿努玛提”等月日之初,时间称为两“拉瓦”(lava)。而在“罗迦”(满月)之日,这两拉瓦应知为“阿帕罗诃那”(午后后段)之时。
Verse 39
प्रतिपत्कृष्णपक्षस्य काले ऽतीते ऽपराह्णके / सायाह्ने प्रतिपन्ने च स कालः पौर्णमासिकः
在黑半月的初一(pratipadā),当阿帕罗诃那时段已过、傍晚降临之际,那一刻即称为“波乌尔那玛西迦”(paurṇamāsika)之时。
Verse 40
व्यतीपाते स्थिते सूर्ये लेखार्द्धे तु युगान्तरे / युगान्तरोदिते चैव लेशार्द्धे शशिनः क्रमात्
在“维亚提帕塔”(vyatīpāta)之时,太阳停于“半线”(lekhārdha)处,则称为“劫间”(yugāntara);当“劫间”显现时,依次月亮亦至“半分”(leśārdha)之位。
Verse 41
पौर्णमासी व्यतीपाते यदीक्षेतां परस्परम् / यस्मिन्काले समौ स्यातां तौ व्यतीपात एव सः
在“维亚提帕塔”之中,若于满月之日太阳与月亮彼此相望;当二者等同之时,那一刻便正是“维亚提帕塔”。
Verse 42
तं कालं सूर्यनिर्द्देश्यं दृष्ट्वा संख्यां तु सर्पति / स वै वषटाक्रियाकालः सद्यः कालं विधीयते
观照由太阳所指示的那一时刻,计数便随之推进。此即为行“婆沙吒”(vaṣaṭ)祭辞之时;当下依仪则确定其时。
Verse 43
पूर्णन्दोः पूर्णपक्षे तु रात्रिसंधिश्च पूर्णिमा / ततो विरज्यते नक्तं पौर्णमास्यां निशाकरः
在明半月中,夜之交会时刻称为“满月日(Pūrṇimā)”;到了月圆之夜(Paurṇamāsī),夜之主宰——月亮格外皎洁辉耀。
Verse 44
यदीक्षेते व्यतीपाते दिवा पूर्णे परस्परम् / चन्द्रार्कावपराह्णे तु पूर्णात्मानौ तु पूर्णिमा
当在“交会(Vyatīpāta)”之时,于白昼圆满之际,月与日彼此相对而见;至午后两者皆呈圆满之相——此即满月日(Pūrṇimā)。
Verse 45
यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह / तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता
由于祖灵(Pitṛ)与诸天共同认可此一月日,因此它名为“随喜/许可(Anumati)”;在诸满月日中,被忆为第一。
Verse 46
अत्यर्थं भ्राजते यस्माद्व्योम्न्यस्यां वै निशाकरः / रञ्जनाच्चैव चन्द्रस्य राकेति कवयो ऽब्रुवन्
因为在此月日,夜之主宰月亮在苍穹中分外辉耀;又因月(Candra)之悦人光彩,诗人称其为“罗迦(Rākā)”。
Verse 47
अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ / राका पञ्चदशी रात्रिरमावास्या ततः स्मृता
在“无月(Amāvasyā)”之宿中,当月(Candra)与日(Divākara)相合之时;名为“罗迦(Rākā)”的第十五夜之后,此月日便被称忆为“无月日(Amāvasyā)”。
Verse 48
व्युच्छिद्य तममावस्यां पश्यतस्तौ समागतौ / अन्योन्यं चन्द्रसूर्यौं तौ यदा तद्वर्श उच्यते
穿破无月夜(阿摩婆娑)浓重的黑暗,在观者眼前二者相会;当月神与日神彼此交合之时,即称为“varṣa”。
Verse 49
द्वौ द्वौ लवावमावास्या स कालः पर्वसंधिषु / द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः
在无月日(阿摩婆娑)之际,于诸节期交界处有两两“lava”的时段;“dvyakṣara”与仅称“kuhū-mātra”者——此三种节期之时为《忆传》(smṛti)所记。
Verse 50
नष्टचन्द्रा त्वमावस्या या मध्याङ्नात्प्रवर्त्तते / दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चन्द्रमाः
月轮隐没之无月日(阿摩婆娑)自正午开始;月神行经半日与一段夜分,遂趋近太阳。
Verse 51
सूर्येण सह सामुद्रं गत्वा प्रातस्तनात्स वै / द्वौ कालौ संगमं चैव मध्याह्ने नियतं रविः
彼(月神)与太阳同往海域,自清晨起便停驻其处;两时之交会亦在彼处,而至正午,日神罗毗依其定则而住。
Verse 52
प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य मण्डलात् / विमुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै
在白半月初一(pratipadā)之时,月神开始从太阳轮中解脱;当两轮渐次分离之际,其轮与轮之间的间隙便显现出来。
Verse 53
स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया / एतदृतुमुखं ज्ञेयममा वास्यास्य पर्वणः
彼时为献供(āhuti)之时;于达尔沙祭(Darśa-yajña)行“vaṣaṭ”之仪。应知此为“季节之门”——即阿摩婆娑(Amāvāsyā)之节日。
Verse 54
दिवापर्व ह्यमावास्या क्षीणेन्दौ बहुले तु वै / तस्माद्दिवा ह्यमावास्यां गृह्यते ऽसौ दिवाकरः
在月亏之黑半月(bahula)中,阿摩婆娑(Amāvāsyā)被称为“白昼之节”。因此在阿摩婆娑之日,于白昼取定天日(Divākara,太阳)。
Verse 55
गृह्यते तु दिवा तस्मादमावास्यां दिवि क्षयाम् / कलानामपि चैतासां वृद्धिहान्या जलात्मनः
因此在阿摩婆娑之日,观其在天际之消减(kṣaya),便于白昼取定。并且这些分分(kalā)亦随具水性(jalātmā)之月而有增有减。
Verse 56
तिथीनां नामधेयानि विद्वद्भिः संज्ञितानि वै / दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ
诸“提提”(tithi)之名,已为智者所定。继而太阳与月亮二者,显现其自身之相。
Verse 57
निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् / द्विलवोनमहोरात्रं भास्करं स्पृशते शशी
继而依其序次,月亮渐次离出太阳之轮。于一昼夜减二“lava”之时,舍施(Śaśī,月)触及婆斯迦罗(Bhāskara,日)。
Verse 58
स तदा ह्याहुतेः कालोदर्शस्य तु वषट्क्रिया / कुहेति कोकिलेनोक्तो यः स कालः समाप्यते
当献供(āhuti)之时,于达尔沙祭中行“vaṣaṭ”圣呼;由鸪鸟(kokila)啼作“kuhe”所指示的那段时刻,即告终了。
Verse 59
तत्कालसंमिता यस्मादमावास्या कुहूः स्मृता / सिनीवालीप्रमाणस्तु क्षीणशेषो निशाकरः
由于与那一时量相契合,故无月之日(amāvāsyā)被称为“库胡(Kuhū)”;此时月神仅余微薄残光,约如“西尼瓦利(Sinīvālī)”之量。
Verse 60
आमावस्यां विशत्यर्कस्सिनी वालीततः स्मृता / अनुमत्याश्चराकायाः सिनीवाल्याः कुहूंविना
在无月日(amāvāsyā),太阳被视为进入其位,故称为“西尼瓦利(Sinīvālī)”;而形相奇妙的女神“阿努玛蒂(Anumatī)”,被说与西尼瓦利相关,却不与“库胡(Kuhū)”同列。
Verse 61
एतासां द्विलवः कालः कुहूमात्रङ्कुहूःस्मृताः / चन्द्रसूर्यव्यतीपाते संगते पूर्णिमान्तरे
此二者合计二“拉瓦(lava)”之时,称为“库胡之量”;当月与日于“vyatīpāta”(特殊交会)中相合,发生在两次满月之间的间隙时,那便名为库胡。
Verse 62
प्रतिपत्प्रतिपद्येत पर्वकालो द्विमात्रकः / कालः कहूसिनीवाल्योः सामुद्रस्य तु मध्यतः
从初一(pratipadā)至初一,节期之时(parva-kāla)为二“mātrā”;而库胡与西尼瓦利之时,被说安置在“sāmudra”(海法/海潮之算)之中段。
Verse 63
अर्काग्नि मण्डले सोमे पर्वकालः कलासमः / एवं स शुक्लपक्षे वै रजन्यां पर्वसंधिषु
在太阳火轮之中,就月神苏摩而言,节期(parva)的时量等同一分(kalā);同样在白半月(śuklapakṣa)里,夜间诸节交接之处亦复如是。
Verse 64
संपूर्ममण्डलः श्रीमांश्चन्द्रमा उपरज्यते / यस्मादा दाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा
具足圆轮、吉祥光辉的月亮显现而明耀;因为在第十五日(tithi),苏摩得以充盈圆满——此日即为满月(pūrṇimā)。
Verse 65
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् / तस्मात्कलाः पञ्चदश सोमेनास्य तु षोडशी
依日序推移,(月)以十与五分(kalā)而渐增;因此苏摩具十五分,而又有名为“十六分”(ṣoḍaśī)的第十六分,象征圆满。
Verse 66
तस्मात्सोमस्य भवति पञ्चदश्याप्रपां क्षयः / इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः
因此在第十五日(tithi),苏摩便出现亏减。如此这些祖灵(Pitṛ)具神性——饮苏摩者,亦为增益苏摩者。
Verse 67
आर्तवा ऋतवो ह्यृद्धा देवास्तान्भावयन्ति वै / अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये
依四时之轮转,这些季节(ṛtu)丰盛圆足;诸天确实令其滋长。故而我今将宣说那些享受月度施祖祭(māsa-śrāddha)的祖灵(Pitṛ)。
Verse 68
तेषां गतिं सतत्त्वां च प्राप्तिं श्राद्धस्य चैव हि / न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः
他们的归趣、真实本性以及施行祭祖施罗陀(śrāddha)所得之果,皆难以确知;亡者之去向不可得知,亦无再来之返还。
Verse 69
तपसापि प्रसिद्धेन किंपुनर्मासचक्षुषा / अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः
即便以苦行为名者亦不能知,何况凭肉眼?这些随从天界祖灵(deva-pitṛ)的祖灵,被称为“世间的祖灵”(laukika pitṛ)。
Verse 70
देवाः सौम्याश्च काव्याश्च अयज्वानो ह्यचोनिजाः / देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत
名为“苏摩耶”(Saumya)与“迦毗耶”(Kāvya)的诸天——不行祭祀、亦非由祭火所生——皆为天性之祖灵;诸天亦复称颂他们。
Verse 71
मनुष्यपितरश्चैव तेभ्यो ऽन्ये लौकिकाः स्मृताः / पिता पितामहश्चापि तथा यः प्रपितामहः
亦有人间之祖灵;此外另有被称为“世间祖灵”(laukika)的:父、祖父,以及曾祖父。
Verse 72
यज्वानो ये तु सामेन सोमवन्तस्तु ते स्मृताः / ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः
以《娑摩》圣歌行祭者,被称为“具苏摩者”(Somavant);以供品(havis)行哈维尔祭者,则称为“坐于祭草者”(Barhiṣad)。
Verse 73
अग्निष्वात्ताः स्मृतास्तेषां होमिनो ऽयाज्ययाजिनः / तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः
他们被称为“阿耆尼湿瓦多”(Agniṣvātta)祖灵:行火供(homa)者,甚至为不应受祭者亦行祭祀。由于法(dharma)相应,婆罗门(dvija)说他们趋入“萨尤吉亚”(sāyujya)的神圣合一。
Verse 74
ये चाप्याश्रमधर्माणां प्रस्थानेषु व्यवस्थिताः / अन्ते तु नावसीदन्ति श्रद्धायुक्तास्तु कर्मसु
凡安住于诸住期(āśrama)之法途者,终不沉沦;其一切行持皆具清净信(śraddhā)。
Verse 75
तपसा ब्रह्मचर्येण यज्ञेन प्रजया च वै / श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा
以苦行(tapas)、梵行(brahmacarya)、祭祀(yajña)、子嗣、施行祖祭(śrāddha)、学识(vidyā)与布施(pradāna)——共为七种。
Verse 76
कर्मस्वेतेषु ये युक्ता भवन्त्यादेहपातनात् / दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः
凡自始至身终皆勤修此等行者,将与彼诸天界祖灵同在——具微细身,行苏摩祭(Soma-yajña)者。
Verse 77
स्वर्गता दिवि मोदन्ते पितृवत्त उपासते / तेषां निवापे दत्ते तु तत्कुलीनैश्च बन्धुभिः
既至天界,他们在天中欢悦,并如祖灵般受供奉;当同族亲属为他们施行“尼瓦帕”(nivāpa,团食/供饼之施)时。
Verse 78
मासश्राद्धभुजस्तृप्तिं लभन्ते सोमलौकिकाः / एते मनुष्यपितरो मासश्राद्धभुजस्तु ये
享受每月施行的施罗陀(śrāddha)供食之苏摩界众,得以满足安泰。凡受月度施罗陀供养者,即称为人间之祖灵(Pitṛ)。
Verse 79
तेभ्यो ऽपरे तु ये ऽप्यन्ये संकीर्णाः कर्मयोनिषु / भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः
另有一些众生,因业而杂入诸种生类,已堕离四住期(āśrama)之法,亦不得受“svadh┓svāhā”之供献。
Verse 80
भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये / स्वकर्माण्य नुशोचन्तो यातनास्थानमागताः
那些恶心之众,身形离散,在阎摩之境化为饿鬼(preta);追悔自业而哀号,遂至受刑之处。
Verse 81
दीर्घायुषो ऽतिशुष्काश्च श्मश्रुलाश्च विवाससः / क्षुत्पिपासापरीताश्च विद्रवन्तस्ततस्ततः
他们虽寿命长,却极其枯槁,须发蓬乱,衣不蔽体;为饥渴所迫,四处奔走。
Verse 82
सरित्सरस्तडागानि वापीश्चाप्युपलिप्सवः / परान्नानि च लिप्संतः काल्यमानास्ततस्ततः
他们渴求河流、湖泊、池塘与井泉;贪求他人之食,屡遭驱逐,遂在各处流离奔走。
Verse 83
स्थानेषु पात्यमानाश्च यातनाश्च पुनः पुनः / शाल्मले वैतरण्यां च कुंभीपाके तथैव च
他们一次又一次被抛入诸处,反复受苦受刑——亦在沙尔摩利、毗多罗尼与昆毗婆迦等地狱之中。
Verse 84
करंभवालुकायां च असिपत्रवने तथा / शिला संपेषणे चैव पात्यमानाः स्वकर्मभिः
在“稠沙地狱”、刀叶林与石磨碾压之处,他们也因自作之业而被抛掷受刑。
Verse 85
तत्रस्थानां हि तेषां वै दुः खितानामनाशिनाम् / तेषां लोकान्तरस्थानां बान्धवैर्नाम गोत्रतः
身在彼处者虽受苦却不灭;处于他界者,亲族以其名号与族系(gotra)而追念。
Verse 86
भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै / यान्ति तास्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठितान्
在地上达婆草上以“逆绕”(apasavya)所供的三团食饼,能到达安住于饿鬼境者,使其得以满足(tarpana)。
Verse 87
अप्राप्ता यातनास्थानं प्रभ्रष्टा य च पञ्चधा / पश्चाद्ये स्थावरान्ते वै जाता नीचैः स्वकर्मभिः
那些甚至未及到达受刑之处者,将以五种方式堕落;随后因其卑劣之业,乃至转生为不动之类(sthāvara)。
Verse 88
नानारूपासु जायन्ते तिर्यग्योनिष्वयोनिषु / यदाहारा भवन्त्येते तासु तास्विह योनिषु
众生以种种形相出生于畜生等诸类胎生之中;在此各各生类里,随其所具之食,便成其所食之众生。
Verse 89
तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तं प्रतिष्ठते / काले न्यायागतं पात्रे विधिना प्रतिपादितम्
在彼彼食类中所施之祭祖供养(śrāddha)便得安立;若于适时、依法得之之受者,依仪轨奉献,则其功德确立。
Verse 90
प्राप्नोत्यन्नं यथादत्तं जन्तुर्यत्रावतिष्ठते / यथा गोषु प्रनष्टामु वत्सो विन्दति मातरम्
众生无论安住何处,皆能如所施而得其食;犹如牛群中走失之犊,终能寻得其母。
Verse 91
तथा श्राद्धेषु दत्तान्नं मन्त्रः प्रापयते पितॄन् / एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः
同样,祭祖(śrāddha)中所施之食,由真言送达诸祖灵(Pitṛ)。因此,以信心并依真言而施之祭祖供养,必不徒然。
Verse 92
तत्तत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा / गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह
彼彼童子以天眼观见而宣说;他了知诸饿鬼(preta)之往来,并知其与之同得祭祖供养(śrāddha)之情形。
Verse 93
बाह्लीकाश्चोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः / कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी
他们被称为巴赫利迦、乌什摩帕与迪瓦吉尔提耶。对他们而言,白昼为黑半月(Kṛṣṇapakṣa),夜晚为白半月(Śuklapakṣa),以成就梦境。
Verse 94
इत्येते पितरो देवा देवाश्च पितरश्च वै / ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः
由此可知,祖灵(Pitṛ)即诸天,诸天亦实为祖灵。诸季(ṛtu)、季节周期(artava)与半月(arddhamāsa)彼此相互被忆念为祖灵。
Verse 95
इत्येत पितरो देवा मनुष्यपितरश्च ये / प्रीतेषु तेषु प्रीयन्ते श्राद्धयुक्तेषु कर्मसु
如是,诸祖灵之神与人间祖先:当他们欢喜时,便在具足施行“施罗陀”(Śrāddha)的仪轨中生起喜悦。
Verse 96
इत्येष विचयः प्रोक्तः पितॄणां सोमपायिनाम् / एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम्
此即对饮苏摩之祖灵的分辨阐述。如此,祖灵之真实本性在《普罗那》中已得确定无疑。
Verse 97
इत्यर्कपितृसोमानामैलस्य च समागमः / सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम्
如是,阿尔迦(Arka)、祖灵与苏摩的会合,以及艾拉(Aila,普鲁罗婆斯)之相会;并得甘露苏陀(Sudhā-amṛta),且为祖灵行作“塔尔帕那”(tarpaṇa)供养。
Verse 98
पूर्णा मावास्ययोः कालो यातनास्थानमेव च / समासात्कीर्तितस्तुभ्यमेष सर्गः मनातनः
满月与新月之时,以及受苦之处——我已为你略说。此一创生(sarga)古老无始。
Verse 99
वैश्वरूप्यं तु सर्गस्य कथितं ह्येकदैशिकम् / न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता
此创生之“普遍形相”我仅说其一隅;无法尽数计量。求福德者当以信敬受持。
Verse 100
स्वायंभुवस्य हि ह्येष सर्गः क्रान्तो मया तु वै / विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम्
斯瓦扬布瓦·摩奴之此创生我已述及;若再详尽按次第铺陈,我还能再说什么呢?
He is identified as Aila (of the Ilā lineage), signaling a dynastic anchor (vaṃśa-marker) while the chapter uses his practice as an exemplar for monthly ancestral rites rather than narrating a full genealogy.
Amāvasyā is described as the Sun and Moon meeting in the same nakṣatra and residing as a single sphere for one night; this junction is treated as the optimal temporal gateway for pitṛ-oriented offerings and tarpaṇa.
No. Its focus is śrāddha/pitṛ-tarpaṇa theology grounded in lunar cosmology—Soma’s amṛta, pakṣa dynamics, and Pitṛ classifications—rather than Śākta vidyā/yantra narratives of Lalitopākhyāna.