Adhyaya 24
Prakriya PadaAdhyaya 24152 Verses

Adhyaya 24

ध्रुवचर्याकीर्तनं / Dhruva-caryā-kīrtana (Account of Dhruva’s Course and Related Cosmological Ordering)

本章开端,苏多(Lomaharṣaṇa)回应诸仙贤者:众人听闻前文后仍有疑惑,恳请更为详尽的开示。问答转而聚焦于“devagṛhāṇi”(天神居处/星宿之宫)以及“jyotīṃṣi”(诸光体、天上发光者)的分类与判定。答复(依归于风神Vāyu之教流)先引出太阳与月亮的起源叙事,继而以较为技术性的方式说明火之三分:神圣/太阳之火、空际/雷电之火、地界/物质之火,并列举如jāṭhara(消化之火)与vaidyuta(电火/雷火)等支类。全章以“未分之暗”通向“功能原则”的显现(光、热与天界调御者)为脉络,呈现既描写现象又加以命名归类的宇宙论秩序。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महादृवायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे ध्रुवचर्याकीर्त्तनं नाम त्रयोविंशतितमो ऽध्यायः सूत उवाच एतच्छ्रुत्वा तु सुनयः पुनस्ते संशयान्विताः / पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम्

如是,在《圣梵卵往世书》前分第二随附品中,为名“称扬德鲁瓦行迹”的第二十三章。苏多曰:闻此之后,苏那耶诸人仍怀疑惑,复又向罗摩哈尔沙那请问更详之答。

Verse 2

यदेतदुक्तं भवतागृहाणीत्येव विस्तृतम् / कथं देवगृहाणि स्युः कथं ज्योतींषिवर्णय

你已详尽地说过“当受诸‘宫位’”;那么诸天之宫殿如何成立?又当如何描绘天上的光曜诸星?

Verse 3

एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निर्णयम् / वायुरुवाच श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः

请将这一切详说,并作诸光曜之判定。风神(Vāyu)说道:听了他们的话,那时苏多(Sūta)心神专一。

Verse 4

उवाच परमं वाक्यं तेषां संशयनिर्णयम् / अस्मिन्नर्थे माहाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः

于是他宣说至上之语,断除他们的疑惑——正如大智者以知慧在此义中所说。

Verse 5

एतद्वो ऽहं प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम् / यथा देवगृहाणीह सूर्यचन्द्रग्रहाः स्मृताः

现在我将为你们宣说日与月的起源——以及在此处日月二曜如何被忆念为诸神之“宫位”。

Verse 6

ततः परं च त्रिविधस्याग्नेर्वक्ष्ये समुद्भवम् / दिव्यस्य भौतिकस्याग्नेरब्योनेः पार्थि वस्य तु

其后我将宣说三种火(阿耆尼)的起源:天界之火、物质之火,以及无胎而生之火与地界之火。

Verse 7

व्युष्टायां तु रजन्यां वै ब्रह्मणो ऽव्यक्तजन्मनः / अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम्

当长夜既尽之时,在那无显生起的梵天之际,此一切仍未分化,尽为夜之幽暗所覆。

Verse 8

सर्वभूतावशिष्टे ऽस्मिंल्लोके नष्टविशेषणे / स्वयंभूर्भगवांस्तत्र लोकतन्त्रार्थसाधकः

当此世间万类消融、诸相差别尽灭之时,世尊自生者(斯瓦扬布)于彼显现,以成就世间之法度。

Verse 9

खद्योतवत्स व्यचरदाविर्भावचिकीर्षया / सो ऽग्निं दृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितम्

为欲显现,他如萤火般游行;遂见世界初起之时,火寄于地与水之中。

Verse 10

संवृत्य तं प्रकाशार्थं त्रिधा व्यमजदीश्वरः / पवनो यस्तु लोके ऽस्मिन्पार्थिवः सो ऽग्निरुच्यते

为成光明,主宰收摄彼火而分为三;而此世间具地性之风(粗重者),亦称为“火”。

Verse 11

यश्चासौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः / वैद्युतो ऽब्जस्तु विज्ञेयस्तेषां वक्ष्ये ऽथ लक्षमम्

凡在太阳中炽燃者,称为“净火(Śuci-Agni)”;而具电光之性、住于水中的亦当了知——今我将说其相状。

Verse 12

वैद्युतो जाठरः सौरो ह्यपां गर्भास्त्रयो ऽग्रयः / तस्मादपः पिबन्सूर्यो गोभिर्दीप्यत्यसौ दिवि

电光、腹中之火与太阳之辉,乃水之胎藏所生的三种最胜光明。因此太阳饮水,以其光线在天穹中炽然照耀。

Verse 13

वैद्युतेन समाविष्टो वार्ष्यो नाद्भिः प्रशाम्यति / मानवा नां च कुक्षिस्थो नाद्भिः शास्यति पावकः

被电力所充满、以雨相显的火,不为水所息;而住于人腹中的圣火,也不为水所制。

Verse 14

तस्मात्सौरो वैद्युतश्च जाठरश्चप्यनिन्धनः / किञ्चिदप्सु मतं तेजः किञ्चिद्दृष्टमबिं धनम्

因此,太阳之光、电光与腹火,皆为不依燃料之威光。其中有些威光被认为潜藏于水中,有些则可见其无燃而自显。

Verse 15

काष्ठेन्धनस्तु निर्मथ्यः सो ऽद्भिः शाम्यति पावकः / अर्चिष्मान्पवमानो ऽग्निर्निष्प्रभो जाठरः स्मृतः

以木为薪、摩擦而生之火,为水所息。焰舌炽盛的净化之火(pavamāna)光辉灿然;而腹火(jāṭhara)被称为外无光相。

Verse 16

यश्चायं मण्डले शुक्लो निरूष्मा संप्रकाशकः / प्रभा सौरी तु पादेन ह्यस्तं याति देवाकरे

而此轮中那洁白、无热而能照明的光辉,即为太阳之光(saurī prabhā);它以一“足”(pāda)之分归入天光之源——太阳而没。

Verse 17

अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते / उद्यन्तं च पुनः सूर्यमौष्णमयमाग्नेयमाविशत्

夜入于火,故自远处亦见其光;而当太阳再度升起时,具火性之热亦入于日轮。

Verse 18

पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ / प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी

凭借地界之火的一分,此火方能炽热;而在日火之光中,明与热二者俱存。

Verse 19

परस्परानुप्रवेशादाप्यायेते परस्परम् / उत्तरे चैव भूम्यर्द्धे तथा ह्यग्निश्च दक्षिणे

由于彼此相入,二者互相滋养;在大地北半(其一所在),而火亦如是居于南方。

Verse 20

उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्यपः / तस्मात्तप्ता भवन्त्यापो दिवारत्रिप्रवेशनात्

当太阳再度升起时,夜入于水;因此由于昼夜交入,诸水便变得温热。

Verse 21

अस्तं याति पुन सूर्ये अहर्वै प्रविशत्यपः / तस्मान्नक्तं पुनः शुक्ला आपो ऽदृश्यन्त भास्वराः

当太阳再度西沉时,昼入于水;因此夜间诸水复现洁白而辉耀。

Verse 22

एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे / उदयास्तमने नित्यमहोरात्रं विशत्यपः

依此循序之法,水恒常进入大地南北两半,随日出日落而行,昼夜不息。

Verse 23

यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः / पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः

那炽热的太阳以光线饮取诸水;虽与世间之火相杂,仍被忆念为神圣而清净。

Verse 24

सहस्रपादसौ वह्निर्घृतकुंभनिभः शुचिः / आदत्ते स तु नाडीनां सहस्रेण समन्ततः

那清净之火如具千足,光辉似酥油之罐;它以千条脉道从四方摄取诸水。

Verse 25

नादेयीश्चैव सामुद्रीः कौप्याश्चैव समन्ततः / स्थावरा जङ्गमाश्चैव याश्च कुल्यादिका अपः

河水、海水与四方井水;存在于不动与有动之中者,以及沟渠等处的诸水——皆在其中。

Verse 26

तस्य रश्मिसहस्रं तु शीतवर्षोष्णनिःस्तवम् / तासां चतुःशता नाड्यो वर्षन्ते चित्र मूर्त्तयः

他的千道光芒显现寒凉、降雨与炎热;其中四百条脉道以种种形相降下甘霖。

Verse 27

चन्दनाश्चैव साध्यश्च कूतनाकूतनास्तथा / अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः

名为“旃檀那、萨提耶、库塔那与阿库塔那”的诸光线,统称“甘露(Amṛtā)”,能生起降雨。

Verse 28

हिमोद्गताश्च ताभ्यो ऽन्या रश्मयस्त्रिशताः पुनः / दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः

由这些又生出另外三百道由寒冰而起的光线,名为“可见、云、阎摩方、湖泽”,它们能生成霜雪。

Verse 29

चन्द्रास्ता नामतः प्रोक्ता मिताभास्तु गभस्तयः / शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा

这些被称为“月光(Candrā)”;其光辉(gabhasti)柔和适度。又有名为“白、幻、牛群、负持世界(Viśvabhṛt)”者。

Verse 30

शुक्लास्ता नामतः सर्वस्त्रिशता धर्मसर्जनाः / समं विभज्य नाडीस्तु मनुष्टपितृदेवताः

名为“白(Śuklā)”的三百道光线皆能生起法(Dharma);它们平均分配诸脉(nāḍī),流向人类、祖灵(Pitṛ)与诸天。

Verse 31

मनुष्यानौषधेनेह स्वधया तु पितॄनपि / अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ

他以灵药滋养人类,以“斯瓦达(svadhā)”祭供祖灵(Pitṛ),以甘露(amṛta)饱足诸天——以三种供养令三类众生得满足。

Verse 32

वसंते चैव ग्रीष्मे च शतैः स तपति त्रिभिः / वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति

在春季与夏季,他以三百道光焰炽热照灼;在雨季与秋季,他以四百道光辉降下甘霖。

Verse 33

हेमन्ते शिशिरे चैव हिम मुत्सृजते त्रिभिः / इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणोर्ऽयमा

在寒季与严冬之时,他以三百道光辉散布霜雪;(作为阿底提耶之相)为因陀罗、达塔、婆伽、普沙、密多罗、伐楼那与阿梨耶摩。

Verse 34

अंशुर्विवस्वास्त्वष्टा च सविता विष्णुरेव च / माघमासे तु वरुणः पूषा चैव तु फलाल्गुने

安舒、毗婆斯梵、特瓦什特里、娑毗多与毗湿奴——皆为(阿底提耶之相);在摩伽月为伐楼那,在颇罗窭那月为普沙。

Verse 35

चैत्रे मासि तु देतोंशुर्धाता वैशाखतापनः / ज्येष्ठमासे भवेदिन्द्रश्चाषाढे सविता रविः

在制多罗月为“德多姆舒”;在毗舍佉月为“达塔”(赐热者);在阇耶什吒月为因陀罗;在阿沙陀月为娑毗多—罗毗。

Verse 36

विवस्वाञ्छ्रावणे मासि प्रोष्ठे मासे भागः स्मृतः / पर्जन्यो ऽश्वयुजे मासि त्वष्टा च कार्तिके रविः

在室罗伐那月为毗婆斯梵;在普罗什陀跋陀月称为婆伽;在阿湿婆瑜阇月为波阇尼耶;在迦尔提迦月为特瓦什特里与罗毗。

Verse 37

मार्गशीर्षे भवेन्मित्रः पौषेविष्णुः सनातनः / पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि

在摩伽尸罗月,太阳显为“密多罗”;在报沙月,则为永恒的“毗湿奴”。于伐楼那之日轮职事中,有五千道光线运行。

Verse 38

षड्भिः सहस्रैः पूषा तु देवो ऽशुसप्तभिस्तथा / धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः

以六千道光线者为普沙天;以七千者为阿输。以八千者为达塔;以九千道光线者为“百祭主”(因陀罗)行其职分。

Verse 39

सविता दशभिर्याति यात्येकादशभिर्भगः / सप्तभिस्तपते सित्रस्त्वष्टा चैवाष्टभिस्तपेत्

萨维塔以十(千)道光线行进;薄伽以十一道行进。西特拉以七道光线炽热;工巧神特瓦什塔亦以八(千)道光线炽照。

Verse 40

अर्यमा दशाभिर्याति पर्जन्यो नवभिस्तपेत् / षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम्

阿利耶摩以十(千)道光线行进;帕尔迦尼亚以九道光线炽热。毗舍努以六千道光线炽照大地(梅地尼)。

Verse 41

वसंते कपिलः सूर्यो ग्रीष्मेर्ऽकः कनकप्रभः / श्वेतवर्णस्तु वर्षासु पाण्डुः शरदि भास्करः

春时太阳呈“迦毗罗”之色(赤金);夏时日轮如黄金辉耀。雨季则显白色;秋时光明者呈淡雅之色。

Verse 42

हेमन्ते ताम्रवर्णस्तु शैशिरे लोहितो रविः / इति वर्णाः समा ख्याताः सूर्यस्यर्तुसमुद्भवाः

在寒季(hemanta),太阳呈铜色;在严冬(śaiśira),日神呈赤红。如此,太阳随季节而生的诸般色相,世所共知。

Verse 43

औषधीषु बलं धत्ते स्वधया च पिदृष्वपि / सूर्यो ऽमरेष्वप्यमृतं त्रयं त्रिषु न यच्छति

太阳将力量注入诸药草,又以“斯瓦达”(svadhā)使诸祖灵得饱足;在天神中,他亦为甘露(amṛta)之因。然而这三种赐予,并不混同施与三者。

Verse 44

एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् / भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम्

如此,成就世间利益的太阳千道光芒,随季节而分化,在水中引发寒与热的流注。

Verse 45

इत्येतन्मण्डलं शुक्लं भास्वरं सूर्य संज्ञितम् / नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च

由是,此洁白辉耀之圆轮名为“苏利耶”(太阳)。它乃众星宿、诸行星与苏摩(月神)之依止,亦为其本源之胎藏。

Verse 46

चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः / नक्षत्राधिपतिः सोमो ग्रह राजो दिवाकरः

月亮、星宿与一切行星,皆当知为由太阳所生。星宿之主为苏摩(月神),诸行星之王为昼作(太阳)。

Verse 47

शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः / पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः

其余五曜当知为自在天之相,随欲而行。诵文中说:火(阿耆尼)称为阿底提耶,水则被忆念为月神(旃陀罗)。

Verse 48

शेषाणा प्रकृतीः स्मयग्वर्ण्यमाना निबोधत / सुरसेनापतिः स्कन्दः पठ्यते ऽङ्गारको ग्रहः

当谛听其余诸曜之性相,今当如实宣说:天军统帅斯甘达,被诵为安伽罗迦曜(火星)。

Verse 49

नारायणं बुधं प्राहुर्वेदज्ञानविदो बुधाः / रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम्

通达吠陀之智者称:布陀曜(Mercury)即那罗延。又鲁陀罗本身即毗婆斯瓦多——现前之阎摩,诸世间之主。

Verse 50

महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्वरः / देवासुरगुरू द्वौ तु भानुमन्तौ महा ग्रहौ

善尼自在(Saturn)为大曜,二生中最胜者,行度迟缓。又天与阿修罗之二师——舒克罗与布里哈斯帕提——皆为光辉大曜。

Verse 51

प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती / आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः

此二者——舒克罗与布里哈斯帕提——皆为生主(Prajāpati)之子。三界一切以阿底提耶为根本,此中无疑。

Verse 52

भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् / रुद्रोपेन्द्रेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम्

由此而生起整个世界,具足天神、阿修罗与人类;鲁陀罗、优彭陀罗、因陀罗、月神,以及居于天界的最胜婆罗门亦皆由此而出。

Verse 53

द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् / सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः

祂是诸光明者的一切光辉,是遍满诸世间的威光;祂即一切之我、诸世界之主——大天(摩诃提婆)、众生之祖(般阇波提)。

Verse 54

सूर्य एव त्रिलोकस्य सूलं परमदैवतम् / ततः संजायते सर्वं तत्र चैव प्रलीयते

太阳神即是三界之至上神祇,如圣三叉戟之威;万有由祂而生,亦复归于祂而寂灭。

Verse 55

भावाभावौ हि लोकानामादित्यान्निःमृतौ पुरा / जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः

诸位婆罗门啊!诸世界的有与无,古时皆由阿底提耶而流出;为宇宙所当识知之星体,即那光辉灿然、极其明耀的罗毗(日神)。

Verse 56

अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः / क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः

在此处,刹那、牟呼尔多、白昼、黑夜以及一切半月期,皆反复出生,又反复归于终灭。

Verse 57

मासाः संवत्सराश्चैव ऋतवो ऽथ युगानि च / तदादित्यादृते ह्येषा कालंसख्या न विद्यते

月、年、季节与诸劫皆由此立;若离开那位阿底提耶(日神),便无从计数时间。

Verse 58

कालादृते न निगमो न दीक्षा नाह्निकक्रमः / ऋतूनामविभागाच्च पुष्पमूलफलं कुतः

若无时间,则无《尼伽摩》之法、无受戒之仪、无日常行持次第;若无四时分判,花、根、果又从何而生?

Verse 59

कुतः सस्यविनिष्पत्तिस्तृणौषधिगणो ऽपि वा / अभावो व्यवहाराणां जन्तूनां दिवि चैह च

庄稼的成熟从何而来?草木药植的群类又如何得有?众生的世间行用将成虚无——天界与人间皆然。

Verse 60

जगत्प्रतापनमृते भास्करं वारितस्करम् / स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः

若无炽照世界的婆斯迦罗(日神),谁能阻止名为黑暗的盗贼?他即是时间,他即是火——具十二体相的生主(Prajāpati)。

Verse 61

तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् / स एष तेचसां राशिस्तमो घ्रन्सार्वलौकिकम्

诸位最胜婆罗门啊!他炽热照临三界,含一切动与不动;他是光辉之聚,摧灭诸世界的黑暗。

Verse 62

उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् / पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः

依止至上的道路,凭借风神伐由的光辉,此世界在侧、在上、在下,处处皆被炽热所熏。

Verse 63

यथा प्रभाकरो दीपोगृहमध्ये ऽवलंबितः / पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम्

如同明灯悬挂在屋中,它在侧、在上、在下,均等地消除黑暗。

Verse 64

तद्वत्सहस्रकिरणो ग्रहराजो जगत्पतिः / सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः

同样,千光之日、诸星之王、世界之主的太阳,以其光线从四方照耀一切世界。

Verse 65

रवे रश्मिसहस्रं यत्प्राङ्मया समुदात्दृतम् / तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः

先前所说太阳的千道光线之中,又有七道最为殊胜,为引导诸行星运行之光。

Verse 66

सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च / विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परः

这七道光线名为:苏舒姆那、哈利凯沙、毗湿瓦羯磨、毗湿瓦施罗婆;另有二者——三帕德与瓦苏拉塔——亦极为殊胜。

Verse 67

अर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्त्तितः / सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत्

又有一束光称为“阿尔瓦瓦苏”,另有一束称为“斯瓦拉特”。“苏舒姆那”乃太阳之光,能滋养亏弱的月亮。

Verse 68

तिर्यगूर्ध्वप्रचारो ऽसौ सुषुम्णः परिकीर्त्तितः / हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते

“苏舒姆那”被称为横行与上行皆具之光。位于东方者名“哈利凯沙”,亦称“里克沙约尼”。

Verse 69

दक्षिणे विश्वकर्मा तु रश्मिन्वर्द्धयते वुधम् / विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः

在南方,“毗湿瓦羯磨”之光增益水星(布陀)。而在西方者为“毗湿瓦施罗瓦”,智者称其为“输迦罗约尼”。

Verse 70

संपद्वसुस्तु यो रश्मिः स योनिर्लोहितस्य तु / षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः

名为“桑帕德瓦苏”的光线,是“洛希塔”(火星)的胎源与出处;第六束“阿尔瓦瓦苏”之光,则被说为“布里哈斯帕提”(木星)的胎源。

Verse 71

शनैश्चरंपुन श्चापि रश्मिराप्यायते स्वराट् / एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः

并且凭借“斯瓦拉特”之光,缓行者(沙奈施遮罗,土星)亦得滋养。由此,因太阳之威光,诸行星、星宿与群星皆熠熠生辉。

Verse 72

वर्त्न्ते दिवि ताः सर्वा विश्वं चैदं पुनर्जगत् / नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः

它们都运行于天穹之上,此世界与宇宙周而复始;因其不衰不减,故名为“那克沙特拉”(宿星)。

Verse 73

क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः / तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः

这些“领域”先随光芒而显现;随后太阳——宿星之因——依次摄取并统摄它们的领域。

Verse 74

तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् / तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः

凭善业而得度者,在善业圆满之际依止诸“行星”(graha);因其能“渡人”故名“塔拉卡”,又因其皎白光明亦称“塔拉卡”。

Verse 75

दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः / आदानान्नित्यमादित्यस्तेजसा तपसामपि

无论天界、地界,亦或夜间诸象;阿底提耶以自身光威恒常摄取一切,乃至苦行(tapas)的光力亦不例外。

Verse 76

स्वनं स्यन्दनार्थे चु धातुरेषु विभाव्यते / स्वनात्तेजसो ऽपां च तेनासौ सविता मतः

在诸词根中,“svan”亦被解释为“syandana”——使之流动;因其使光热与水流行,故被称为“萨维塔”(Savitā)。

Verse 77

बह्वर्थश्चदिरित्येष ह्लादने धातुरुच्यते / शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते

“cadi”这一词根被说为多义,表示“hlādana”之喜悦;亦可观于其洁白、甘露般的不死性与清凉之性。

Verse 78

सूर्याचन्द्रमसो र्दिव्ये मण्डले भास्वरे खगे / जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे

太阳与月亮在天穹中有其神圣光耀的圆轮;洁白而由水与光辉所成,形如圆壶,吉祥殊胜。

Verse 79

घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् / घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु

彼处,沙辛(月)的圆轮被记为由浓厚之水性所成;而婆斯迦罗(日)的洁白圆轮则由浓厚之光热所成。

Verse 80

विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः / मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः

诸天众神无不遍入这些处所;在一切摩奴劫中,他们依止于星宿、太阳与诸“伽罗诃”(行星神)。

Verse 81

तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च / सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च

这些处所确为诸神之宅,亦以其名而称;太阳入于“娑罗”(saura)之位,苏摩(月)亦如是入于“娑摩耶”(saumya)之位。

Verse 82

शौक्रं शुक्रो विशेत्स्थानं षोड शार्चिः प्रभास्वरम् / जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः

金星神(Śukra)进入名为“Śaukra”的宫位,十六道光辉灿然。木星神(Bṛhaspati)进入“Jaiva”之位,赤星(Lohita,火星)进入“Lauhita”之位。

Verse 83

शनैश्चरो र्विशेत्स्थानं देवः शानैस्चरं तथा / बौधं बुधो ऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः

土星神(Śanaiścara)进入名为“Śanaiścara”的宫位;诸神亦如是入于“Śānaiscara”。继而水星神(Budha)入“Baudha”之位,斯瓦尔婆奴(Svarbhānu)安住于其自有之位。

Verse 84

नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत / गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम्

一切宿星皆入于各自的宿位。此等诸“宫宅”与诸光曜,皆为积善之灵魂化作光明之居所。

Verse 85

कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा / स्थानान्येतानि तिष्ठन्ति यावदात्रूतसंप्लवम्

于劫初,此等运转由自生者(Svayambhū,梵天)所建立。诸位处恒住不移,直至毁灭之大洪流(saṃplava)来临。

Verse 86

मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै / अभिमानिनो ऽवतिष्ठन्ते देवस्थानानि वै पुनः

于一切摩奴劫(manvantara)之中,诸天之位处确然常在;而其位处之主宰神(abhimānī)亦复屡屡安住其间。

Verse 87

अतीतैस्तु सहातीता भाव्या भाव्यैः सुरैः सह / वर्त्तन्ते वर्त्तमानैश्च स्थानिभिस्तैः सुरैः सह / अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः

与过去同逝者、与未来同来者、与现在同住者——这些皆为安住不移的天神。在此摩奴劫中,诸“行星神”(graha)被称为“毗陀尼迦”(vaitānika)。

Verse 88

विवस्वानदितेः पुत्रः सूर्यो वैवस्वते ऽन्तरे / त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः

阿底提之子毗婆斯梵,即在毗婆斯梵摩奴劫中为日神苏利耶;而名为“提毗施”(Tviṣi)、法(Dharma)之子之月神苏摩,被记为八“婆苏”之一。

Verse 89

शुक्रो देवस्तु विज्ञेयो भार्गवो ऽसुरयाजकः / बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽगि रस्सुतः

须知舒克罗为神:他属婆利古族(Bhārgava),为阿修罗之祭司;而名为“布里哈特泰迦”(Bṛhattejā)的天神,安祇罗之子,被记为诸天之师(ācārya)。

Verse 90

बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः / शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः

布陀(Budha)端丽可喜,被记为提毗施之子;而缓行者善尼什遮罗(Śanaiścara),名“毗卢婆”(Virūpa),乃毗婆斯梵与桑吉尼娅(Saṃjñā)之子。

Verse 91

अग्नेर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः / नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः

火神阿耆尼在毗计施雅中生出“尤婆”(Yuvā),为“洛希多”(Lohita)之主;而以“里克沙”(Ṛkṣa)为名的诸宿(nakṣatra),被记为“达克沙之女”(Dākṣāyaṇī)。

Verse 92

स्वर्भानुः सिंहिकापुत्रो भूतसंतापनो ऽसुरः / सोमर्क्षग्रहसूर्येषु कीर्त्तिता ह्यभिमानिनः

斯瓦尔婆奴为辛希迦之子,是使众生受苦的阿修罗;经中称他对月神苏摩、星宿、诸行星与太阳怀傲慢之心。

Verse 93

स्थानान्येतानि चोक्तानि स्थानिनश्चाथ देवताः / शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः

这些处所及其所居之神祇已被宣说;千光之毗婆斯瓦特——太阳神——其住处洁白而具火性。

Verse 94

सहस्रांशोस्त्विषेः स्थानमम्मयं शुक्लमेव च / आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम्

千光者之光辉所居亦洁白而属水性;而可爱之五光者(月神)之宅,被记为水性且呈幽暗之色。

Verse 95

शुक्रस्याप्यम्मयं शुक्लं पद्मं षौडःशरश्मिषु / नवरश्मेस्तु भौमस्य लौहितं स्थानमम्मयम्

金星(舒克罗)之所亦洁白、属水性,如莲华,具十六道光;而九光之婆乌摩(火星)之处,亦属水性而呈赤色。

Verse 96

हरिदाप्यं बृहत्स्थानं द्वादशांशैर्बृहस्पतेः / अषृ रश्मिगृहं प्रोक्तं कृष्णं मन्दस्य चाम्मयम्

十二光之布里哈斯帕提,其广大住处呈青绿而属水性;而曼陀(沙尼,土星)之宅被说为具八道光,亦属水性且为黑色。

Verse 97

स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम् / विज्ञेयास्तारकाः सर्वा अम्मयास्त्त्वे करश्मयः

斯瓦尔婆奴的幽暗之处,是令众生受热恼之所;当知一切星辰,其光芒被说为具水性。

Verse 98

आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चापि वर्णतः / घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः

它们是以功德闻名者的依止,色泽极其洁白;当知其体性如浓厚之水,于劫初即已造作。

Verse 99

आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः / नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः

由于与阿底提耶的光线相合,它们被记为具光明之性;萨维特利(太阳)的直径被说为九千由旬。

Verse 100

त्रिगुणास्तस्य विस्तारो मण्डलस्य प्रमाणतः / द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः

那一轮域的广度按尺度说为三倍;而月(莎希)的广度被记为太阳广度的两倍。

Verse 101

तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति / उद्धृत्य पृथिवीछायां निर्मितो मण्डलाकृतिः

斯瓦尔婆奴与二者等量,遂向下游行;提起大地之影,便造成了轮域之形。

Verse 102

स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् / आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु

斯瓦尔婆奴的广大住处为第三层,充满幽暗;他从阿底提耶(日神)处出离,于诸“节分”(parva)之时趋向苏摩(月神)。

Verse 103

आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु / स्वर्भासा नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते

他自苏摩而至阿底提耶,又在太阳的诸节分之时再度返回;因被“斯瓦尔婆”(光辉)所驱逐,故名斯瓦尔婆奴。

Verse 104

चन्द्रस्य षोडशो भागो भार्गवस्तु विधीयते / विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः

以月神之十六分之一为度量,规定婆尔伽瓦(金星);依其圆轮之直径与由旬之尺度而定。

Verse 105

भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः / बृहस्पतेः पाद हीनौ भौमसौरावुभौ स्मृतौ

婆尔伽瓦之下少一“足”(pāda)者,为布里哈斯帕提;而较布里哈斯帕提又少一足者,传为婆乌摩(火星)与骚罗(土星)二者。

Verse 106

विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः / तारानक्षत्ररूपाणि वपुष्मन्ति च यानि वै

就其广度与圆轮而言,布陀(水星)较彼二者少一“足”;而诸星辰与宿曜之形相,亦皆具形体而放光。

Verse 107

बुधेन समरूपाणि विस्तारान्मण्डलाच्च वै / प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्

通达真理者应知:与水星(布陀)形相相似的诸星宿,依其广度与轮围,多半与月之瑜伽(旃陀罗瑜伽)相应。

Verse 108

तारानक्षत्ररूपाणि हीनानि तु परस्परात् / शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने

诸星以星宿之形彼此递减;其相隔距离说为五百、四百、三百与二百由旬。

Verse 109

पूर्वापरनिकृष्टानि तारकामण्डलानि च / योजनाद्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते

东西两方的星轮彼此相近;其间距仅半由旬,不能更短。

Verse 110

उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः / सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः

其上有三颗远行之 ग्रह:苏罗(Saura)、安吉罗萨(Aṅgirasa)与瓦克拉(Vakra);当知其行度迟缓。

Verse 111

तेभ्यो ऽध स्तात्तु चत्वारः पुनरेव महाग्रहाः / सूर्यसोमौ बुधश्चैव भार्गवश्चैव शीघ्रगाः

其下复有四大行星:日(苏利耶)、月(苏摩/旃陀罗)、水星(布陀)与婆尔伽瓦(即金星);皆为疾行者。

Verse 112

तावत्यस्तारकाकोट्यो यावदृक्षाणि सर्वशः / विधिना नियमाच्चैषामृक्षचर्या व्यवस्थिता

诸方有多少“ṛkṣa”(宿、星宿),便有多少亿万群星;依循仪轨与法则,它们的星宿运行已被安立。

Verse 113

गतिस्तासु च सूर्यस्य नीचौच्चे त्वयनक्रमात् / उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः

在这些星宿中,太阳的行度依“ayana”次第而有高下升降;而在诸“parva”节期,月亮行于“Uttarāyaṇa”(北行之道)。

Verse 114

उच्चत्वाद्दृश्यते शीघ्रं नीतिव्यक्तैर्गभस्तिभिः / तदा दक्षिणमार्गस्यो नीयां विथीमुपाश्रितः

由于处于高位,凭其分明的光芒便很快可见;此时它依循“Dakṣiṇa-mārga”(南行道)中较低的轨道而行。

Verse 115

भूमि लेखावृतः सूर्यः पूर्णामावास्ययोः सदा / न दृश्यते यथाकालं शीघ्रमस्तमुपैति च

在满月与新月之时,太阳常被大地的界线所遮;不能按时显现,并且很快沉没。

Verse 116

तस्मादुत्तरमार्गस्थो ह्यमावस्यां निशाकरः / दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च

因此在新月之日,行于北道的“Niśākara”(月亮)可见;而依其定则,行于南道时则不可见。

Verse 117

ज्योतिषां गतियोगेन सूर्याचन्द्रमसावृतः / समानकालास्तमयौ विषुवत्सु समोदयौ

由于诸天体运行的合会,日与月相互遮映;在春秋分之时,其落与升同一时刻。

Verse 118

उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ / पूर्णामवास्ययोर्ज्ञोयौ ज्योतिश्चक्रानुवर्तिनौ

在北方的运行轨道上,其落与升有差别;于满月与新月之时当知此差异,因为它们随从星辰之轮而行。

Verse 119

दक्षिणायनमार्गस्थो यदा चरति रश्मिवान् / तदा सर्वग्रहाणां च सूर्यो ऽधस्तात्प्रसर्पति

当光辉的太阳行于南行之道(Dakṣiṇāyana)时,便似乎在诸行星之下向下移行。

Verse 120

विस्तीर्ण मण्डलं कृत्वा तस्योर्द्ध्व चरते शशी / नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्व प्रसर्पति

形成广阔的圆轮之后,月在其上运行;而整个宿星之轮又在月(苏摩)之上更为伸展。

Verse 121

नक्षत्रेभ्यो बुधश्चोर्द्ध्र बुधादूर्द्ध्वं तु भार्गवः / वक्रस्तु भार्गवादूर्द्ध्व वक्रादूर्द्ध्वं बृहस्पतिः

在诸宿星之上为布陀(Mercury),布陀之上为婆尔伽瓦(Śukra/Venus);婆尔伽瓦之上为瓦克拉(Maṅgala/Mars),瓦克拉之上为布里哈斯帕提(Jupiter)。

Verse 122

तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् / ऋषीणां चापि सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः

其上为善尼施遮罗(土星),再上为七仙宿之环;而在七位仙人之上,北极星(Dhruva)安住于高处。

Verse 123

द्विगुणेषु सहस्रेषु योजनानां शतेषु च / ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम्

以数百由旬与成千由旬之倍数计,在上方依次排列着诸星与诸行星之间的间距。

Verse 124

ग्रहाश्च चन्द्रसूर्यौं च दिवि दिव्येन तेज सा / नित्यमृक्षेषु युज्यन्ते गच्छन्तो नियताः क्रमात्

诸行星以及月与日,以天界神辉照耀苍穹,恒常与诸星宿相系,并依既定次第运行。

Verse 125

ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृजवस्तथा / समागमे च भेदे च पश्यन्ति युगपत्प्रजाः

诸行星、星宿与太阳亦有低高之位与直行之势;其相会与相离,众生同时得见。

Verse 126

परस्परस्थिता ह्येते युज्यन्ते च परस्परम् / असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः

它们彼此安住、互相联结;智者当知,其相合之理无有杂乱混淆。

Verse 127

इत्येवं सन्निवेशो वै वृथिव्या ज्यौतिषस्य च / द्विपानामुदधीनां च पर्वतानां त्थैव च

如是,已阐明大地与神圣的天文(Jyotiṣa)之布置,以及诸洲、诸海与群山的安置。

Verse 128

वर्षाणां च नदीनां च ये च तेषु वसंति वै / एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः

至于诸方域(varṣa)、诸河流及其间的众生——一切行星(graha)皆于这些宿(nakṣatra)中兴起。

Verse 129

विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेंऽतरे / विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः

阿底提之子毗婆斯梵,即太阳神苏利耶,于恰克舒沙·摩奴期在毗舍佉宿中诞生;他为诸行星之首。

Verse 130

त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसोस्सुतः / शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः

光辉的苏摩神,法之子、婆苏之子;清凉之光的“夜之造者”(月),于昴宿(Kṛttikā)中诞生。

Verse 131

षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम् / ताराग्रहाणां प्रवरस्तिष्यऋक्षे समुत्थितः

具十六光焰的婆利古之子—— शुक्र(Shukra,金星)——继太阳之后而生;他为诸星曜之最胜,显现于提舍宿(Tiṣya)。

Verse 132

ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः / फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः

安吉罗萨之子、具十二光焰的行星布里哈斯帕提,生于前法尔古尼宿,尊为世间之师。

Verse 133

नवार्चिर्लोहिताङ्गश्च प्रजापतिसुतो ग्रहः / आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः

九焰光辉、赤色之身的行星(火星,曼伽罗),为生主之子,生于前阿沙陀宿——此为圣闻所传。

Verse 134

रेवतीष्वेव सप्तार्चिस्तथा सौरिः शनैश्चरः / सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः

在勒伐提宿,七焰之娑乌利·沙奈施遮罗(土星)诞生;在檀尼什塔宿,温和的布陀以五焰行星之相升起。

Verse 135

तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी / आर्श्लेषासु समुत्पन्नः सर्वहारी महाग्रहः

由黑暗所成、死神之子、令众生衰灭的“施奇”,生于阿室列沙宿;他是夺尽一切的巨行星。

Verse 136

तथा स्वनामधेयेषु दाक्षायण्यः समुछ्रिताः / तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः

同样,他们在以自身名号命名的达克沙耶尼诸宿中被尊崇;而罗睺具黑暗之力,其本性为黑色圆轮。

Verse 137

भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्द्दनः / एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः

在婆罗尼宿中出生了一位名为“摧月日者”(Candrārkamardana)的行星。此等星辰与行星,如婆伽婆等,皆应当知晓。

Verse 138

जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः / स्पृश्यन्ते तेन दोषेण ततस्तद्ग्रहभक्तितः

因出生宿的侵扰,人便趋于失衡与缺陷;为其过咎所触,故当以虔敬奉事相应之行星。

Verse 139

सर्वग्रहाणामेतेषामादिरादित्य उच्यते / ताराग्रहाणां शुक्रस्तु केतूनामपि धूमवान्

此诸行星之始称为阿底提耶(太阳)。在诸“星行”中以舒克罗(金星)为首;在诸彗曜(ketu)中以“具烟者”Dhūmavān为尊。

Verse 140

ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्द्दिशम् / नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम्

对分布四方的诸行星而言,天极星(Dhruva)如同枢钉。诸宿之中以室宿(Śraviṣṭhā)为要;诸行(ayana)之中以北行(Uttarāyaṇa)为尊。

Verse 141

वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः / ऋतूनां शिशिरश्चापि मासानां माघ एव च

五种年法之中,以“萨姆瓦特萨拉”(Saṃvatsara)为首。诸季之中为寒季(Śiśira);诸月之中以摩伽月(Māgha)为尊。

Verse 142

पक्षाणां शुक्लपक्षश्च तिथीनां प्रतिपत्तथा / अहोरात्रविभागानामहश्चापि प्रकीर्तितम्

在诸半月中,以白半(Śuklapakṣa)为称;在诸月日(tithi)中,以初一(Pratipadā)为称;在昼夜分判中,“ahaḥ”(白昼)亦被宣说称扬。

Verse 143

मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः / क्षणश्चापि निमेषादिः कालः कालविदां वराः

在诸穆呼尔塔(muhūrta)中,最初的穆呼尔塔以鲁陀罗为其神祇;刹那亦自眨瞬(nimeṣa)等而起——诸位通晓时轮者,此即“迦罗”(Kāla,时间)。

Verse 144

श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम् / भानोर्गतिविशेषेण चक्रवत्परिवर्त्तते

自天鼗宿(Dhaniṣṭhā)起至听宿(Śravaṇa)终的这一“瑜伽”(周期)被说为五年;随太阳运行之差别,它如轮般周转。

Verse 145

दिवाकरः स्मृतस्तस्मात्कालस्तद्विद्भिरीश्वरः / चतुर्विधानां भूतानां प्रवर्त्तकनिवर्त्तकः

因此,天日(Divākara,太阳)被忆为“时”(Kāla),通晓者称其为自在主(Īśvara);他令四类众生起行亦令其止息。

Verse 146

तस्यापि भगवान्रुद्रः साक्षाद्देवः प्रवर्त्तकः / इत्येष ज्योतिषामेव संनिवेशोर्ऽथनिश्चयात्

即便对这一切,直接的推动者亦是现前的天神、薄伽梵鲁陀罗;由义理之确定,如是便成就了诸天文历数(jyotiṣa)的安置与体系。

Verse 147

लोकसंव्यवहारार्थ मीश्वरेण विनिर्मितः / उत्तराश्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा

为世间行事之秩序,此由主宰伊湿伐罗所造;又由“乌多罗·阿湿罗伐那”而加以撮要,并同样安置于“德鲁瓦”之位。

Verse 148

सर्वतस्तेषु विस्तीर्णो वृत्ताकार इव स्थितः / बुद्धिबूर्वं भागवता कल्पदौ संप्रवर्त्तितः

它在其中向四方遍布,宛如圆轮而住;于劫初,世尊以智慧使之运转。

Verse 149

साश्रयः सो ऽभिमानी च सर्वस्य ज्योतिषात्मकः / वैश्वरूपप्रधानस्य परिणामो ऽयमद्भुतः

它有所依止,亦具“我慢”,并为一切之光明自性;此乃以宇宙形相为主的“普罗陀那”(Vaiśvarūpa-pradhāna)之奇妙转化。

Verse 150

नैतच्छक्यं प्रसंख्यातुं याथातथ्येन केनचित् / गतागतं मनुष्येण ज्योतिषां सांसचक्षुषा

此事无人能如实计数;凡人以世俗之眼,不能度量诸光体之往来运行。

Verse 151

आगमादनुमा नाच्च प्रत्यक्षदुपपत्तितः / परिक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता

依凭圣传(Āgama)、推理与现量之合乎道理者;以智慧精审考察之后,明哲之士当安立信心(śraddhā)。

Verse 152

चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिवित्तमाः / पञ्चैते हेतवो विप्रा ज्योतिर्गणविवेचने

眼目、经典、水、书写、算术与智慧——此五者,婆罗门啊,是辨析天文占星(Jyotiṣa)计算之因。

Frequently Asked Questions

They are requesting a structured account of celestial ‘abodes/houses’ and the correct classification of luminaries—i.e., how astral order is organized and named within the Purāṇic cosmological scheme.

The chapter outlines a triadic model: (1) solar/divine fire associated with the Sun’s heat, (2) atmospheric/lightning fire (vaidyuta), and (3) terrestrial/physical fire connected with earth and fuel, alongside related internal fire (jāṭhara).

It presents creation as functional differentiation: light and heat are not incidental but foundational regulators that make the cosmos intelligible and habitable, enabling later discussions of time-cycles, astral motion, and worldly order.