
अग्निनिचयः (Agninichaya) / The Accumulation of Sacred Fire & the Classification of Pitṛs by Time-Order
本章由苏多(Sūta)叙述开篇,将论述置于自生摩奴期(Svāyambhuva Manvantara):梵天(Brahmā)繁衍众生之时,先后出现人类、阿修罗与诸天(deva),继而出现祖灵(Pitṛ),他们以父亲般的态度敬视梵天(pitṛvat)。经文以摘要重述祖灵的起源,并以历法—宇宙论的视角加以系统化:从“Madhu”起的六季(ṛtu)被确立为祖灵之神格(Pitṛ-devatā),并以近似吠陀圣闻(śruti)的句式“ṛtavaḥ pitaraḥ devāḥ”作依据。又按祭仪能力与火祭关联区分具名祖灵群,如 Agniṣvātta 与 Barhiṣad(不燃圣火者与行 agnihotra 者),从而把祖灵本体与 yajña 的分类相连。章中并列举与季节阶段相应的月对(Madhu–Mādhava、Śuci–Śukra、Nabhas–Nabhasya 等),解释“abhi-mānin”为驻于时间层位的主宰身份:半月、月、季、ayana 与年。总体而言,本章将谱系性的祖灵类别转化为严整的时间地图,把创生(sṛṣṭi)、祭仪分类与宇宙年代学融为一体。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे अग्निनिचयो नाम द्वादशो ऽध्यायः सुत उवाच ब्रह्मणः सृजतः पुत्रान् पूर्वं स्वायंभुवेंऽतरे / गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः
如是,在《圣梵卵大往世书》中,风神(Vāyu)所宣说的前分第二“附支”(Anuṣaṅga-pāda)里,有名为《聚火》(Agninicaya)的第十二章。苏多(Sūta)说道:在自生者(Svāyambhuva)摩奴纪之初,梵天(Brahmā)创造诸子之时,从其肢体中诞生了人类、阿修罗与诸天。
Verse 2
पितृवन्मन्यमानास्तं जज्ञिरे पितरो ऽपि च / तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः
因将他视为父亲,诸祖灵(Pitṛ)亦随之诞生。他们的起源先前已述;如今请再简要聆听。
Verse 3
देवासुरमनुष्यांश्च सृष्ट्वा ब्रह्माभ्यमन्यत / पितृवन्मन्यमाना वै जज्ञिरे ऽस्योपपक्षतः
梵天创造了诸天、阿修罗与人类之后,心中起念;而将他奉为父者——诸祖灵(Pitṛ)——从他的侧旁诞生。
Verse 4
मध्वादयः षडृतवः पितॄंस्तान्परिचक्षते / ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः
以“摩度”(Madhū)等为首的六季,正是对那些祖灵(Pitṛ)的称谓。“季节即祖灵,祖灵即诸天”——此乃吠陀圣传(Śruti)。
Verse 5
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै / एते स्वायंभुवे पूर्वमुत्पन्नाश्चान्तरे शुभे
在一切摩奴纪(Manvantara)之中,无论过去或未来,他们皆最先于吉祥的自生者摩奴纪(Svāyambhuva)中出现。
Verse 6
अग्निष्वात्ता स्मृता नाम्ना तथा बर्हिषदश्च वै / अयज्वानस्तथा तेषामासन्ये गृहमेधिनः
他们被称为“阿伽尼施瓦塔”(Agniṣvātta),亦称“巴尔希沙达”(Barhiṣada);其中另有不行祭祀者,为居家持业的家主。
Verse 7
अग्निष्वात्ता स्मृतास्ते वै पितरो नाहिताग्नयः / यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः
称为“阿伽尼施瓦塔”的祖灵,是未建立圣火者;而其中行祭的诸祖灵,则为饮苏摩之祖灵。
Verse 8
स्मृता बर्हिषदस्ते वै पितर स्त्वग्निहोत्रिणः / ऋतवः पितरो देवाः शास्त्रे ऽस्मिन्निश्चयं गताः
称为“巴尔希沙达”的祖灵,是行阿耆尼火供者;在此经典中,诸季节被确定为祖灵之神。
Verse 9
मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ च शुष्मिणौ / नभाश्चैव नभस्यश्च जीवावेतापुदात्दृतौ
应知“摩度”(Madhu)与“摩达婆”(Mādhava)为甘露之味;“舒支”(Śuci)与“舒克罗”(Śukra)为光辉强盛;“那婆”(Nabhā)与“那婆斯耶”(Nabhasya)二者称为“吉瓦”(Jīva),具“阿普达特-德利塔”之性。
Verse 10
इषश्चैव तथोर्जश्च स्वधावन्तावृदात्दृतौ / सहश्चैव सहस्यश्च घोरावेतापुदात्दृतौ
“伊沙”(Iṣa)与“乌尔迦”(Ūrja)二者称为“具斯瓦达”(svadhāvant),并具“弗利达特-德利塔”(vṛdāt-dṛta)之性;“萨哈”(Saha)与“萨哈斯耶”(Sahasya)二者称为“可畏”(ghora),并具“阿普达特-德利塔”(apudāt-dṛta)之性。
Verse 11
तपाश्चैव तपस्यश्च मन्युमन्तौ तु शैशिरौ / कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः
“Tapā、Tapasyā,以及 Manyumanta、Śaiśira”等六个“月名”,安立于时间的六种阶段之中。
Verse 12
इमे च ऋतवः प्रोक्ताश्चेतनाचेतनेषु वै / ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्ते ऽभिमानिनः
这些季节被说遍及有情与无情;诸季节乃梵天之子,应知为具“主宰意识”的阿毗摩宁者。
Verse 13
मासार्द्धमासस्थानेषु स्थानिनौ ऋतवो मताः / स्थानानां व्यतिरेकेण ज्ञेयाः स्थानागिमानिनः
在月与半月的位次中,诸季节被认为是安住的主宰;依位次差别,应知其为“处所主宰者”(sthānābhimānin)。
Verse 14
अहोरात्राणि मासाश्च ऋतवश्चायनानि च / संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम्
昼夜、月份、季节、行程(ayana)与年岁——皆为诸“阿毗摩宁”之所依处,称为“欲(Kāma)”之名。
Verse 15
एतेषु स्थानिनो ये तु कालावस्था व्यवस्थिताः / तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत
安住于这些处所的诸时间状态,同具一味之实性、同一之自性;我将为汝宣说——当谛听领受。
Verse 16
पार्वण्यस्ति थयः संध्याः पक्षा मासार्द्धसंमिताः / निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः
帕尔瓦、晨昏(sandhyā)、半月期(pakṣa)与半月之数,皆为时间的度量;刹那(nimeṣa)、分(kalā)、刻(kāṣṭhā)、须臾(muhūrta)、日与减尽(kṣaya)亦属时计。
Verse 17
द्वावर्द्धमासौ मासस्तु द्वौ मासावृ तुरुच्यते / ऋतुत्रयं चाप्ययनं द्वे ऽयने दक्षिणोत्तरे
两半月合为一月;两月称为一季(ṛtu)。三季合为一“行程”(ayana);而行程有二:南行与北行。
Verse 18
संवत्सरः समेतश्च स्थानान्येतानि स्थानिनाम् / ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट्
诸量合而为“岁”(saṃvatsara);此乃承持时间者之所住。诸季(ṛtu)为尼弥之子,当知共有六季。
Verse 19
ऋतुपुत्राः स्मृताः पञ्च प्रजाः स्वार्तवलक्षणाः / यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जङ्गमाः
由季节之子而说有五类众生,皆具时令(ārtava)之相;因为从这些时令之力,生出一切不动与动行之类。
Verse 20
आर्तवाः पितरस्तस्मादृतवश्च पितामहाः / समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः
因此,时令之力(ārtava)被称为“父”,诸季(ṛtu)被称为“祖父”。它们会合之时,便生出普罗阇波提(Prajāpati)之众生。
Verse 21
तस्मात्स्मृतः प्रजानां वै वत्सरः प्रपितामहः / स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः
因此,对众生而言,“瓦特萨拉(Vatsara,岁)”被忆念为至高祖先(Prapitāmaha)。诸者各安住其位,故称为“处所之自性(灵体)”。
Verse 22
तदाख्यास्तत्ससत्त्वाश्च तदात्मानश्च ते स्मृताः / प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः
他们以其名而得名,具其清净之性(sattva),并被忆念为其自体。凡被称为“众生之主”(Prajāpati)者,即被认为是“萨姆瓦特萨拉”(Saṃvatsara,岁)。
Verse 23
संवत्सरसुतो ह्यग्नि ऋत इत्युच्यते बुधैः / ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः
萨姆瓦特萨拉之子火神阿耆尼,被智者称为“梨多”(Ṛta,神圣秩序)。诸季节由梨多而生,因此称为“梨多瓦”(Ṛtavaḥ,诸季)。
Verse 24
मासाः षडर्तवो ज्ञेयास्तेषां पञ्चर्तवाः स्मृताः / द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि
由诸月当知有六季;其中五者被忆念为“阿尔塔瓦”(ārtava),适用于二足、四足以及飞禽等一切众类。
Verse 25
स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् / ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम्
对于五类不动者(sthāvara),花被忆念为“时之阿尔塔瓦”(kāla-ārtava),即随时而显的季相之征。此处亦宣说:季性(ṛtutva)、ārtava之性与父性(pitṛtva)。
Verse 26
इत्येते पितरो ज्ञेया ऋतवश्चार्तवाश्च ये / सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे
因此,这些祖灵(Pitṛ)当知为诸季节(ṛtu)亦名“ārtava”;一切众生皆依季节之时,从他们而生。
Verse 27
तस्मादेते हि पितर आर्तवा इति नः श्रुतम् / मन्वन्तरेष्विह त्वेते स्थिताः कालभिमानिनः
因此我们听闻这些祖灵称为“ārtava”;在诸摩奴劫中,他们安住于此,自任为“迦罗”(时间)的主宰。
Verse 28
कार्यकारणयुक्तास्तु ए श्वर्याद्व्याप्य संस्थिताः / स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंगमात्
他们与因果之理相应,以神圣威德遍满而安住;因执著于所居之位,遂随缘而住于此。
Verse 29
अग्निष्वात्ता बर्हिषदः पितरो विविधाः पुनः / जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते
名为阿耆尼湿瓦多(Agniṣvātta)与婆尔希沙达(Barhiṣad)的祖灵亦复多类;而从“斯瓦达—祖灵”中诞生了两位世间闻名的少女。
Verse 30
मेना च धारणी चैव याभ्यां धतमिदं जगत् / ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे
那两位——梅那(Menā)与达拉尼(Dhāraṇī)——由她们承持此世界;二者皆为宣说梵理者,亦皆为瑜伽女行者(yoginī)。
Verse 31
पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे / अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी
吉祥的少女啊!那些祖灵为成就法而将自己的女儿施与。被称为“阿耆尼湿瓦多”(Agniṣvātta)者,其意生之女即为梅娜。
Verse 32
धारणी मानसी चैव कन्या बर्हिषदां स्मृता / मेरोस्तां धारणीं नाम पत्न्यर्थं वा सृजन् घुभाम्
名为“达拉尼”(Dhāraṇī)的意生之女,被记为婆诃利沙达(Barhiṣad)祖灵之女。梅鲁为得其为妻,创造了这位吉祥者,并赐名达拉尼。
Verse 33
पितरस्ते बर्हिषदः स्मृता ये सोमपायिनः / अग्निष्वात्तास्तु तां मेना पत्नी हिमवते ददुः
那些被记为婆诃利沙达(Barhiṣad)、饮苏摩者的祖灵——正是这些阿耆尼湿瓦多(Agniṣvātta)将梅娜赐予雪山王希摩梵(Himavān)为妻。
Verse 34
उपहूता स्मृता ये वै तद्दौहित्रान्निबोधत / मेना हिमवतः पत्नी मैनाकं सा व्यजायत
当知那些被称为“优婆呼多”(Upahūta)者的外孙后裔。希摩梵之妻梅娜生下了迈那迦(Maināka)。
Verse 35
गङ्गां सरिद्वरां चैव पत्नी या लवणोदधेः / मैनाकस्या त्मजः क्रौचः क्रैञ्चद्वीपो यतः स्मृतः
恒河,诸河之最胜,也被记为咸海拉瓦那欧达提(Lavaṇodadhi)之妻。迈那迦之子名克劳恰(Krauca),由其而有“克赖恩恰洲”(Kraiñcadvīpa)之称。
Verse 36
मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम् / मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः
须弥之妻陀罗尼具足天妙灵药,诞下一子名曼陀罗,又生三位闻名的女儿。
Verse 37
वेलां च नियतिं चैव तृतीयां चायतिं विदुः / धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता
她们被称为韦拉、尼耶提,以及第三位阿耶提。阿耶提为达图之妻;尼耶提被记为毗达图之妻。
Verse 38
स्वायं भुवेंऽतरे पूर्वं ययोर्वै कीर्त्तिताः प्रजाः / सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम्
在斯瓦扬布瓦摩奴期之前,那些众生已先被称述;韦拉由萨伽罗生下一位无瑕的女儿。
Verse 39
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः / सवर्णायां सुता जाता दश प्राचीनबर्हिषः
普拉钦那巴尔希什之妻为海之女,名萨瓦尔娜。由萨瓦尔娜,普拉钦那巴尔希什生下十位儿子。
Verse 40
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः / तेषां स्वायंभुवो दक्षः पुत्रत्वं जग्मि वान्प्रभुः
他们皆名为普罗切塔斯,精通弓术之学(檀努尔韦达)。在他们之中,斯瓦扬布瓦的达克沙尊主降生为子。
Verse 41
त्रयंबकस्याभिशापेन चाक्षुषस्यातरे मनोः / एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनिः
由于三眼神特里央巴卡的诅咒,此事发生在恰克舒沙·摩奴的中间时期。听闻此事后,商沙巴耶尼便询问苏多。
Verse 42
उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु / चाक्षुषस्यान्तरे पूर्वं तन्नः प्रब्रूहि पृच्छताम्
达克沙如何因婆伐(湿婆)的诅咒而出生?请向我们这些发问者讲明:在恰克舒沙·摩奴的中间时期先前发生了什么。
Verse 43
इत्युक्तः कथयामास सूतो दक्षाश्रयां कथाम् / शांशपायनिमामन्त्र्य त्र्यंबकाच्छापकारणम्
被如此询问后,苏多开始讲述以达克沙为中心的故事;他呼唤商沙巴耶尼,并说明特里央巴卡降咒的缘由。
Verse 44
सूत उवाच दक्षस्यासन्सुता ह्यष्टौ कन्या याः कीर्त्तिता मया / स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे
苏多说道:达克沙有八位女儿,我已称述过。父亲将她们从各自的居所召来,在家中加以礼敬供奉。
Verse 45
ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे / तासां ज्येष्ठा सती नाम पत्नी या त्र्यंबकस्य वै
随后她们都受礼敬而住在父亲家中。其中长女名为萨蒂,确是特里央巴卡(湿婆)的妻子。
Verse 46
नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् / अकरोत्संनतिं दक्षे न कदाचिन्महेश्वरः
憎恨鲁陀罗的达克沙并未召唤自己的女儿;而大自在天摩诃湿伐罗也从未向达克沙屈身致敬。
Verse 47
जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः / ततो ज्ञात्वा सती सर्वाः न्यवसंस्ताः पितुर्गृहे
那位女婿在岳父面前依其本性安住于威光;萨蒂明白此事后,便与诸位姊妹一同住在父家。
Verse 48
जगाम साप्यनाहूता सती तत्स्व पितुर्गृहम् / ताभ्यो हीनां पिता चक्रे सत्याः पूजामसंमताम्
萨蒂虽未受邀仍前往父家;但其父却为萨蒂安排了较他人低下、令人不堪的祭礼供奉。
Verse 49
ततो ऽब्रवीत्सा पितरं देवी क्रोधादमर्षिता / यवीयसीभ्यो प्यधमां पूजां कृत्वा मम प्रभो
于是女神因愤怒而难以忍受,对父亲说道:“主啊,你竟给我安排卑下的供奉,连年幼的姊妹都得到了更好的祭礼!”
Verse 50
असत्कृत्य पितर्मां त्वं कृतवानसि गर्हितम् / अहं ज्येष्ठा वरिष्ठा च त्वं मां सत्कर्तुमर्ह सि
父亲啊!你不敬重我,实为可责之举;我乃长女且更为尊贵,你理当以礼敬奉于我。
Verse 51
एवमुक्तो ऽब्रवीदेनां दक्षः संरक्तलोचनः / त्वत्तः श्रेष्ठावरिष्ठाश्च पूज्या बालाः सुता मम
听罢此言,双目赤红的达克沙对她说:“我的女儿们比你更为殊胜,亦当受敬礼供奉。”
Verse 52
तासां चैव तु भर्तार स्ते मे बहुमाताः सति / ब्रह्मिष्ठाः सुतपस्काश्च महायोगाः सुधार्मिकाः
噢,萨蒂,她们的夫君亦为我所敬重:安住梵道,苦修精严,为大瑜伽行者,且持正法清净。
Verse 53
गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यंबकात्सति / वसिष्ठो ऽत्रिः पुलस्त्यश्च ह्यङ्गिरा पुलहः क्रतुः
噢,萨蒂,他们众人德行更胜于三目神,皆堪称颂:婆悉吒、阿特利、普罗娑底耶、安祇罗、普罗诃与克罗图。
Verse 54
भृगुर्मरीचिश्च तथा श्रैष्ठा जामातरो मम / यस्मान्मां स्पर्द्धते शर्वः सदा चैवावमन्यते
婆利古与摩利支亦是我最上乘的女婿;只因舍婆常与我争胜,且恒常轻慢于我。
Verse 55
तेन त्वां न विभूषोमि प्रतिकूलो हि मे भवः / इत्युक्तवांस्तदा दक्षः संप्रमूढेन चेतसा
因此我不为你加以装饰;因为婆婆(Bhava)与我相违——达克沙如此说时,心神已为迷妄所蔽。
Verse 56
शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः / तथोक्ता पितरं सा वै क्रुद्धा देवीदम ब्रवीत्
忆及自己发咒之因与诸大圣仙所言,忿怒的女神便对父亲如此说道。
Verse 57
वाङ्मनः कर्मभिर्यस्माददुष्टां मां विगर्हसे / तस्मात्त्यजाम्यहमिमं देहं तात तवात्मजम्
既然你以言语、心念与行为诋毁无过的我,那么,父亲啊,我这作你女儿的,便舍弃此身。
Verse 58
ततस्तेनावमानेन सती दुःखादमर्षिता / अब्रवीद्वचनं देवी नमस्कृत्य स्वयंभुवे
因那侮辱,萨蒂悲痛难忍;女神遂向自生梵天顶礼,而后开口说道。
Verse 59
यत्राहमुपपद्ये च पुनर्देहेन भास्वता / तत्राप्यहमसंभूता संभूता धार्मिकादपि
无论我将来在何处以光辉之身再生,于彼处我亦不从你而生;我必从奉法之人而生。
Verse 60
गच्छेयं धर्मपत्नीत्वं त्र्यंबकस्यैव धीमतः / तत्रैवाथ समासीना युक्तात्मानं समादधे
我当成为智者三目主(湿婆)的正法之妻;如此立誓,女神即于彼处端坐,摄心入瑜伽定。
Verse 61
धारयामास चाग्नेयीं धारणां मनसात्मनः / तत आत्मसमुत्थो ऽस्या वायुना समुदीरितः / सर्वागेभ्यो विनिःसृत्य वह्निस्तां भस्मसात्करोत्
她以心与自我之力安住于火界持念。随即由自身生起、为风所激的火焰从诸肢体迸出,将她焚为灰烬。
Verse 62
तदुपश्रुत्य निधनं सत्या देवो ऽथ शूलभृत् / संवादं च तयोर्बुद्धा याथातथ्येन शङ्करः / दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः
听闻萨蒂之死,并如实洞悉二人之对话后,持三叉戟的神商羯罗——至上主宰——对达克沙与诸仙人震怒。
Verse 63
रुद्र उवाच सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते / तं सदा धारयिष्यामि निदेशात्परमेष्ठिनः
鲁陀罗曰:诸界之中,布尔洛迦被称为最初之界。奉帕拉梅什提之命,我将恒常承持此界。
Verse 64
अस्यां क्षितौ धृता लोकाः सर्वे तिष्ठन्ति भास्वराः / तानहं धारया मीह सततं च तदाज्ञया
在此大地之上,诸界皆被承托而光辉安住。依彼之命,我在此恒常支撑诸界。
Verse 65
चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते / नाहं तैः सह भोक्षये वै ततो दास्यन्ति ते पृथक्
诸天之中亦有四种阶序,且同处而食。我不与他们同食;因此他们将另行分开供奉于我。
Verse 66
यस्मादवमता दक्ष मत्कृते ऽनागसा सती / प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह
达克沙啊!因我之故,你轻慢了无罪的萨蒂;因此你的一切女儿当与各自夫君同得称赞与吉祥,其余亦然。
Verse 67
तस्मा द्वैवस्वते प्राप्ते पुनरेते महर्षयः / उत्पत्स्यन्ते द्वितीये वै मम यज्ञ ह्ययोनिचाः
因此当达维阿斯瓦塔的摩奴期到来时,这些大圣仙将再度出现;在我第二次祭祀中,他们将以“无胎生”(ayonicā)之身显现。
Verse 68
हुते वै ब्रह्मणा शुक्रे चाक्षुषस्यातरे मनोः / अभिव्याहृत्य सर्वांस्तान् दक्षं चैवाशपत्पुनः
在恰克舒沙摩奴的间期、于“舒克罗”之时,梵天行火供;他呼唤众人之名,并再次诅咒达克沙。
Verse 69
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये / प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचे तसाम्
你将在恰克舒沙摩奴的族系中成为人间之王;为普拉钦那巴尔希什之孙,亦为诸普罗切塔斯之子。
Verse 70
दक्ष एवेह नाम्ना तु मारिषायां जनिष्यसि / कन्यायां शाखिनां त्वं वै प्राप्ते वैवस्वतेंऽतरे
你将在此以“达克沙”之名从玛丽沙之胎而生;在毗婆斯瓦塔摩奴期的间隙,你将由“树族”(Śākhin)之女而诞生。
Verse 71
विघ्नं तत्रा प्यहं तुभ्यमाचरिष्यामि दुर्मते / धर्म्मयुक्ते च ते कार्ये एकस्मिंस्तु दुरासदे
愚昧之人啊,即使在彼处我也要为你制造障碍;你那唯一合乎法(Dharma)的事业也将变得极其难成。
Verse 72
सुत उवाच तदुपश्रुत्य दक्षस्तु रुद्रं सो ऽभ्य शपत्पुनः / यस्मात्त्वं मत्कृते ऽनिष्टमृषीणां कृतवानसि / तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः
苏多说道:听罢此言,达克沙又再咒诅鲁陀罗:“因我之故,你使诸仙人遭不祥;因此在与诸天同在的祭祀(yajña)中,婆罗门(二生者)必不祭献于你。”
Verse 73
हुत्वाऽहुतिं तव क्रूर ह्यपः स्प्रक्ष्यन्ति कर्मसु / इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात्
残酷者啊,你的供献既已投下,在诸仪轨中清水将触及它;并且直到劫末,你将舍离天界,唯住此处。
Verse 74
ततो देवैःस तैः सार्द्धं नेज्यते पृथसिज्यते / ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा
于是他不再与那些诸天同受祭祀,而是被分开祭祀;随后,光威无量的鲁陀罗向达克沙发出回应。
Verse 75
स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह
舍弃自生者(Svayambhuva)之身,他在此处转生于人间。
Verse 76
ज्ञात्वा गृहपतिर्दक्षो यज्ञाना मीश्वरं प्रभुम् / समस्तेनेह यज्ञेन सो ऽयजद्दैवतैः सह
家主达克沙既知主宰乃一切祭祀之自在天与至上主,便在此以圆满大祭,与诸天同共奉祀。
Verse 77
अथ देवी सती या तु प्राप्ते वैवस्वतेंऽतरे / मेनायां तामुमां देवीं जनयामास शैलराट्
其后至毗婆斯瓦特之摩奴期,彼昔为萨蒂之女神,于梅娜胎中由山王诞生,化为乌玛女神。
Verse 78
या तु देवी सती पूर्वमासीत्पश्चादुमाभवत् / सदा पत्नी भवस्यैषा न तया मुच्यते भवः
昔为萨蒂之女神,后化为乌玛;她恒为婆婆(湿婆)之妻,婆婆从不与她相离。
Verse 79
मरीचं कश्यपं देवी यथादितिरनुव्रता / यथा नारायणं श्रीश्च मघवतं शची यथा
如阿底提女神随顺摩利支与迦叶,如吉祥天女室利常依那罗延,如是舍支亦随顺摩伽婆(因陀罗)。
Verse 80
विष्णुं कीर्ती रुषा मूर्यं वसिष्ठं चाप्यरुन्धती / नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कदाचन
吉尔蒂依毗湿奴,鲁沙依穆尔雅,阿伦达蒂依婆悉吒——这些女神从不离弃其夫。
Verse 81
आवर्तमानाः कल्पेषु जायन्ते तैः पुनः सह / एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेंऽतरे
众生于诸劫中往复轮回,与彼等同再出生。如是,普罗切塔之子达克沙确于恰克舒沙摩奴期中诞生。
Verse 82
दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृपः / जज्ञे तदाभिशापेन द्वितीय इति नः श्रुतम्
由十位普罗切塔而生,在玛丽沙胎中那位君王再度降生;因当时诅咒之故,闻说他被称为“第二”。
Verse 83
भृगवादयश्च ये सप्त जज्ञिरे च महर्षयः / आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य च
婆利古等七位大圣仙亦已诞生——在最初的特雷塔纪,且在毗婆斯瓦特摩奴之前。
Verse 84
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् / इत्येषो ऽनुशयो ह्यासीत्तयोर्जात्यन्तरानुगः
在大神的宏大祭祀中,(一者)持有瓦鲁妮之身;此即所谓“随眠”之旧习,随二者而至于异生之中。
Verse 85
प्रजापतेश्च दक्षस्य त्र्यबकस्य च धीमतः / तस्मान्नानुशयः कार्यो वैरेष्विह कदाचन
生主达克沙与三目者(湿婆)皆为智者;故于此世,切莫在怨仇中生起“随眠”之恨。
Verse 86
जात्यन्तरगतस्यापि भवितस्य शुभाशुभैः / ख्यातिं न मुञ्चते जन्तुस्तन्न कार्यं विपश्चिता
即使转生于他种姓,因善恶业果,众生亦不舍其名声;故智者不应作此等事。
Verse 87
इत्येषा समनुक्रान्ता कथा पापप्रमोचनी / या दक्षमधिकृत्येह त्वया पूर्वं प्रचौदिता
如是,这段能除罪垢的故事已略述完毕;此乃关于达克沙之事,先前正是你发问而促使我讲述。
Verse 88
पितृवंशप्रसंगेन कथा ह्येषा प्रकीर्त्तिता / पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम्
此故事因述及祖灵(Pitṛ)之族系而宣说;从今以后,我将依祖灵的次第,讲述诸天。
Verse 89
त्रेतायुगमुखे पूर्वमासन्स्वायंभुवेंऽतरे / देवायामा इति ख्याताः पूर्वं ये यज्ञसूनवः
往昔在特雷塔纪元之初,于自生者(Svāyambhuva)摩奴期中,那些先前为祭祀之主(Yajña)之子者,名为“德瓦亚玛”(Devāyāma)。
Verse 90
प्रथिता ब्रह्मणः पुत्रा अजत्वादजितास्तु ते / पुत्राः स्वायंभुवस्यैते शक्ता नाम तु मानसाः
他们是梵天著名之子;因具“阿阇”(不生)之性,故称“阿吉塔”(Ajita)。他们乃自生者(Svāyambhuva)的意生子,名为“沙克塔”(Śaktā)。
Verse 91
तेषां यतो गणा ह्येते देवानां तु त्रयः स्मृताः / छन्दजास्तु त्रयस्त्रिंशत्सर्गे स्वायंभुवस्य ह
由他们而生此诸神众;天神有三类,为传统所记。于自生摩奴之创世中,源自《吠陀韵律》(Chandas)之天神计三十三位。
Verse 92
यदुर्ययातिर्देवौ द्वौ वीवधस्रासतो मतिः / विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः
雅度与雅雅提为二天神,又有毗瓦达斯拉萨与摩提;并有毗婆娑与克罗图,以及普罗耶提——皆为名闻遐迩、光辉灿然之神。
Verse 93
वायव्यः संयमश्चैव यामा द्वादश कीर्त्तिताः / असमश्चोग्रदृष्टिश्च सुनयो ऽथ शुचिश्रवाः
瓦耶维耶与三耶摩,被称为“夜摩”(Yāmā)十二神之一;又有阿萨摩、乌格拉德里什提、苏那耶与舒奇施拉瓦,亦列其间。
Verse 94
केवलो विश्वरूपश्च सुदक्षो मधुपस्तथा / तुरीय इद्रयुक्चैव युक्तो ग्रावजितस्तु वै
又有凯瓦拉、毗湿瓦鲁帕、苏达克沙与摩杜帕;并有图利耶、伊德拉尤克、尤克塔与格拉瓦吉特——亦皆列为天神。
Verse 95
चनिमा विश्वदेवा च जविष्ठो मितवानपि / जरो विभुर्विभावश्च स ऋचीको ऽथ दुर्दिहः
又有恰尼玛与毗湿瓦德瓦,并有贾维什塔与米塔万;以及贾罗、毗布、毗婆瓦、里奇科与杜尔迪哈——亦皆称为天神。
Verse 96
श्रुतिर्गृणानो ऽथ बृहच्छुक्रा द्वादश कीर्त्तिताः / आसन्स्वायंभुवस्यैते चान्तरे सोमपायिनः
“Śruti、Gṛṇāna与Bṛhacchukra”等被称颂为十二位;在斯瓦扬布瓦(Svāyambhuva)摩奴劫中,他们皆为饮苏摩者。
Verse 97
दीप्तिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः / तेषामिन्द्रस्तद्दा ह्यासीत्प्रथमे विश्वभुक्त प्रभुः
这些众神族光辉灿然、勇力充盈、威力广大;当时他们之中以因陀罗为首——享有世界的主宰。
Verse 98
असुरा ये तदा तेषामासन् दायादबान्धवाः / सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः
当时的阿修罗是他们的分嗣承继者,却非亲族;又有金翅鸟族(Suparṇa)、夜叉、乾闼婆、毗舍遮、龙蛇(Ura ga)与罗刹。
Verse 99
अष्टौ ताः पितृभिः सार्द्धमासन्या देवयोनयः / स्वायंभुवेन्तरे ऽतीताः प्रजास्तासां महस्रशः
那八类天生族(devayoni)与诸祖灵(Pitṛ)同属另一支系;在斯瓦扬布瓦摩奴劫中他们已成往昔,而其后裔众多,千千万万。
Verse 100
प्रभावरूपसंपन्ना आयुषा च बलेन च / विस्तरादिह नोच्यन्ते माप्रसंगो भवेदिह
他们具足威光与形貌,又具寿命与力量;此处不作详述,免得篇章旁逸而冗长。
Verse 101
स्वायंभुवो विसर्गस्तु विज्ञेयः सांप्रतेन ह / अतीतो वर्तमानेन दृष्टो वैवस्वते न सः
当知自生者(斯瓦扬布瓦)的创化流出,可由现世而悟;在毗婆斯瓦特的摩奴期中,今人不见其相,因为它已成往昔。
Verse 102
प्रजाभिर्देवाताभिश्च ऋषिभिः पितृभिः सह / तेषां सर्पर्षयः पूर्वमासन्ये तान्निबोधत
与众生、诸天、诸仙与祖灵同在;在他们之前,先有蛇仙(萨尔帕·里希)——当谛听而了知。
Verse 103
भृग्वं गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः / अत्रिश्चैव वसिष्ठस्च सप्त स्वायंभुवे ऽतरे
婆利古、安吉罗、摩利支、普罗私底耶、普罗诃、克罗图、阿特里与婆悉吒——此七圣仙在斯瓦扬布瓦之摩奴期中。
Verse 104
आग्नीध्रश्चाग्निबाहुश्च मोधा मेधातिथिर् वसुः / ज्योतिष्मान् द्युतिमान्हव्यः सवनः सत्त्र एव च
阿格尼陀罗、阿格尼婆呼、摩陀、梅陀阿提提、婆苏、光耀者、辉明者、哈维耶、萨瓦那与萨特拉——此等亦为显著之名。
Verse 105
मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः / वायुवेगा महासत्त्वा राजानः प्रथमेंऽतरे
斯瓦扬布瓦摩奴之十子,皆具大威力;疾如风,性力宏伟——在最初的摩奴期中,他们成为诸王。
Verse 106
सासुरं तत्सुगन्धर्वं सयक्षोरगराक्षसम् / सपिशाचमनुष्यञ्च ससुपर्णाप्सरोगणम्
其中有诸天、乾闼婆、夜叉、龙族与罗刹,也有毗舍遮与人类,并有金翅鸟族及天女阿普萨罗众。
Verse 107
नशक्यमानु पूर्व्येण वक्तुं वर्षशतैरपि / बहुत्वान्नामधेयानां संख्या तेषां कुतः कुले
依古人之法,即使说上百年也难以尽述;名号繁多无量,其族类之数又怎能计数?
Verse 108
या वै प्रजा युगाख्यास्तु आसन्स्वायंभुवेंऽतरे / कालेन महतातीता अयनाब्दयुगक्रमैः
在斯瓦扬布瓦摩奴劫中,那些以诸“劫名”著称的众生,已随大时(摩诃迦罗)之流,依半岁、年与劫的次第而逝去。
Verse 109
ऋषय ऊचुः क एष भगवान् कालः सर्वभूतापहारकः / कस्य योनिः किमादिश्च किं सतत्त्वः किमात्मकः
诸仙人说道:“这位夺取一切众生的圣者——时(迦罗)究竟是谁?他从何而生?其初因为何?其真实本体(tattva)为何?其自性为何?”
Verse 110
किमस्य चक्षुः का मूर्तिः के वा अवयवाः स्मृताः / किं नामधेयं को ऽस्यात्मा एप्तत्त्वं ब्रूहि तत्त्वतः
他的眼目为何?他的形相(穆尔蒂)为何?经典所记他的肢分为何?他的名号为何?他的我(阿特曼)是谁?请如实宣说此真义。
Verse 111
सूत उवाच श्रूयता कालसद्भावः श्रुत्वा चैवावधार्यताम् / सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते
苏多说道:当听闻“时”(迦罗)的真实本性;听后当深自领会。它以太阳为源,生起刹那(nimeṣa)等诸量,故称为“计数之眼”。
Verse 112
मूर्तिरस्य त्वहो रात्रो निमेषावयवश्च सः / संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः
其形相为昼与夜,刹那(nimeṣa)等为其肢分。它本身即是“岁”(saṃvatsara)之实性,其名亦称“具分之时”(kalātmaka)。
Verse 113
साम्प्रतानागतातीतकालात्मा स प्रजापतिः / पञ्चधा प्रविभक्तां तु कालावस्थां निबोधत
彼普罗阇波提乃现时、未来与过去三时之自性。如今当了知:时间之状态分为五类。
Verse 114
दिवसार्द्धमासमासैश्च ऋतुभिस्त्वयनैस्तथा / संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः
依日、半日、月与副月、季节(ṛtu)与行程(ayana)等次第:第一称“萨ṃ瓦特萨拉”(saṃvatsara),第二称“帕里瓦特萨拉”(parivatsara)。
Verse 115
इड्रवत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः / पञ्चमो वत्सरस्तेषां कालःस युगसज्ञितः
第三称“伊德罗瓦特萨拉”(idravatsara),第四称“阿努瓦特萨拉”(anuvatsara)。第五为“瓦特萨拉”(vatsara);合此诸时,名为“瑜伽/劫”(yuga)。
Verse 116
तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानं निबोधत / क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
我将宣说他们的真实义理;当被颂扬之时,当谛听领会。所谓“祭祀之火(Kratu-Agni)”,即被认作“萨姆瓦特萨拉(Samvatsara,圣年)”。
Verse 117
आदितेयस्त्वसौ सूर्यः कालाग्निः परिवत्सरः / शुक्लकृष्णगतिश्चापि अपां सारमयः खगः
那太阳为阿底提之子;“时之火(Kāla-Agni)”即为“Parivatsara”。其运行循白半与黑半之道,又如由水之精髓所成的神鸟。
Verse 118
स इडावत्सरः सोमः पुराणे निश्चयं गतः / यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः
那苏摩即为“Idavatsara”,在《普拉那》中已成定论。正是他以七乘七的诸身形,净化诸世界。
Verse 119
अनुवाता च लोकस्य स वायुरनुवत्सरः / अहङ्कारादुदग्रुद्रः संभूतो ब्रह्मणास्तु यः
随世间而行的微风即是他;此风神(Vāyu)名为“Anuvatsara”。又有那由梵天因我执(Ahaṃkāra)而生的猛烈鲁陀罗。
Verse 120
स रुद्रो वत्सर स्तेषां विज्ञेयो नीललोहितः / सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत
在他们之中,那位鲁陀罗当知为“Vatsara”;应识其名为“尼罗罗希多(Nīlalohita)”。我将宣说他的真实义理;当被颂扬之时,当谛听领会。
Verse 121
अङ्गप्रत्यङ्गसंयोगात्कालात्मा प्रतितामहः / ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः
由肢与支肢的结合而生,彼为时间之自性、至上的祖父(Pitāmaha);彼为《梨俱》《娑摩》《夜柔》之源胎,亦为五类之主、自在天(Īśvara)。
Verse 122
सो ऽग्निर्यमश्च कालश्च संभूतिः स प्रजापतिः / प्रोक्तः संवत्सरश्चेति सूर्य चोनिर्मनीषिभिः
彼即是火神(Agni),亦是阎摩(Yama)与时神(Kāla);彼即是生起(Saṃbhūti),亦是众生主(Prajāpati)。智者又称彼为“岁”(Saṃvatsara)与“太阳之胎”(Sūrya-yoni)。
Verse 123
यस्मात्कालविभागानां मासर्त्वयनयोरपि / ग्रहनक्षत्रशीतोष्णवर्षायुः कर्मणां तथा
由彼而生时间的分判——月、季与行程(ayana)——亦生诸行星与宿曜、寒与暑、雨与年、寿命,以及业行的次第。
Verse 124
योनिः स प्रविभागानां दिवसानां च भास्करः / वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः
彼为诸分判之源胎,亦为诸日之光照者(Bhāskara);彼为变化所生者(Vaikārika)、心性澄明者,乃梵天之子——众生主(Prajāpati)。
Verse 125
एको नैको ऽथ दिवसो मासो ऽथर्तुः पितामहः / आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः
彼既是一,亦是多;彼为日、月与季节之祖父(Pitāmaha)。彼为阿底提耶(Āditya)、萨维塔(Savitā)、婆奴(Bhānu)——赐生者——为梵天所礼赞。
Verse 126
प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः / ताराभिमानी विज्ञेयो द्वितीयः परिवत्सरः
彼日神婆斯迦罗,为众生之本源且不坏;当知其为群星之主——即第二“周岁”(Parivatsara)。
Verse 127
सोमः सर्वौंषधिपतिर्यस्मात्स प्रपितामहः / आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः
苏摩为一切药草之主,故称“曾祖”(Prapitāmaha);他是众生的生计之源,成就瑜伽与安稳之自在主。
Verse 128
आवेक्षमाणः सततं बिभर्ति जगदंशुभिः / तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि
他恒常观照,以光芒维系世界;并调御诸月日(tithi)、节期交界,以及满月与新月之时。
Verse 129
योनिर्निशाकरो यश्च अमृतात्मा प्रजापतिः / तस्मात्स पितृमान्सोमः स्मृत इङ्वत्सरात्मकः
彼为胎藏(yoṇi)、为夜光者(尼沙迦罗)、为甘露自性之生主;因此,与祖灵(Pitṛ)相应的苏摩被忆为“因瓦特萨拉”(Iṅvatsara)之体。
Verse 130
प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि / कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः
凭借出入息等诸气——普拉那、阿帕那、萨玛那,以及遍行气与上行气——他在世间发动众生的一切活动。
Verse 131
पञ्चानां चेन्द्रियमनोर्बुद्धिस्मृतिबलात्मनाम् / समानकालकरणक्रियाः संपादयन्नपि
即使他同时成就五者——诸根、意、智、忆念、力与我(Ātman)——的一切作用。
Verse 132
सर्वात्मा सर्वलोकेश आवहप्रवहादिभिः / वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः
他是遍一切的真我、诸世界之主;以“引来、流行”等诸助益而运作,显现为七乘七种身相。
Verse 133
विधाता सर्वभूतानाङ्क्षेमी नित्यं प्रभञ्जनः / योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः
他是造化者(Vidhātā),恒常护佑众生的安泰者,永恒的“破风者”(Prabhañjana);亦为火、水、地、日与月之本源。
Verse 134
वायुः प्रजापतिर्भूतो लोकात्मा प्रपितामहः / अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः
风神(Vāyu)化为生主(Prajāpati),为世界之魂、至上祖先;他造作昼夜,因此风称为“随岁”(Anuvatsara)。
Verse 135
एते प्रजानां पतयश्चत्वार उपपक्षजाः / पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः
这四位由旁支所生的生主(Prajāpati)为众生之主;他们被称颂为一切世界的祖灵(Pitṛ)与世界之魂。
Verse 136
ध्यायतो ब्रह्माणो वक्त्रादुदन्समभवद्भवः / ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः
当梵天入定观想时,婆婆(Bhava)自其口中涌现;他是圣仙、婆罗门、摩诃提婆,众生之灵我,亦为至上祖父(Prapitāmaha)。
Verse 137
ईश्वरः सर्वभूतानां प्रणवो यो ऽथपठ्यते / आत्मावेशेन भूतानामङ्गप्रत्यङ्गसंभवः
那位一切众生之主,被诵为“普拉那瓦”(Praṇava,唵);以自我之入驻,他令众生的肢体与诸部分得以生成。
Verse 138
उन्मादको ऽनुग्रहकृद्रुद्रो वत्सर उच्यते / सूर्य्यश्च चन्द्रमाश्चाग्निर्वायू रुद्रस्तथैव च
能使众生震荡、亦施恩佑的鲁陀罗被称为“瓦特萨拉”(Vatsara);太阳、月亮、火与风,也同样皆是鲁陀罗。
Verse 139
युगाभिमानी कालात्मा नित्यं संक्षयकृद्विभुः / रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा
作为诸劫之主、以时间为自性、恒常令万物归灭的遍在者——圣鲁陀罗以自身光威进入此世界。
Verse 140
आश्रयान्मयि संयोगात्तनुभिर्नाममिस्तथा / ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्
依止于我、与我相合,他随其诸多形体而受持相应之名;继而凭其威力,成就饶益诸世界的恩佑之业。
Verse 141
देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् / तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते
由于他具足至上的神性、父性与时间(迦罗)之本质,因此鲁陀罗为智者所普遍礼敬。
Verse 142
यतः पतिः स भगवान् प्रजेशानां प्रजापतिः / भावनः सर्वभूतानां सर्वात्मा नीललोहितः
他即是世尊,为诸“众生主”(Prajēśa)之夫、为生主(Prajāpati);滋养一切众生,为万有之我,名为尼罗罗希多(青赤者)。
Verse 143
औषधीः प्रतिसंधत्ते रुद्रः क्षीणाः पुनःपुनः / प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः
鲁陀罗一次又一次地复合并复苏衰竭的药草;以生主(Prajāpati)为首的诸天,为求正当祭祀之果而如法礼拜他。
Verse 144
त्रिभिरेव कपालैश्च त्रयंबकैरौषधिक्षये / इज्यते भगवान् यस्मात्तस्मार्त्र्यंबक उच्यते
当药草衰竭之时,以三颅(kapāla)之“特里扬巴迦”(Tryambaka)来祭礼世尊;因此他被称为“特里扬巴迦”。
Verse 145
गायत्री चैव त्रिष्टुप्च जगती चैव याः स्मृताः / त्र्यंबका नामतः प्रेम्णा योनयस्ता वनस्पतेः
伽耶特丽、特里什图普与阇伽蒂——这些被忆持的韵律,因爱而名为“特里扬巴迦”(Tryambakā);它们是植物之胎源(yoni)。
Verse 146
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः / त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः
凭借那三种而归于一体的力量,并以自身威能,此供饼(puroḍāśa)被称为“三资具”与“三钵”。
Verse 147
त्र्यंबकः स पुरोडाशस्तेनैष त्र्यंबकः स्मृतः / इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः
此供饼即为“三目者”(Tryambaka),因此被记作“三目者”。诸贤宣说:五年即为一劫(yuga)。
Verse 148
यश्चैष पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः / सैकः षट्को विजज्ञे ऽथ मध्वादिऋतुसंज्ञकः
婆罗门称此“岁”(saṃvatsara)具五重体性;而此一岁又被认识为六季,名为“蜜季(Madhu)”等。
Verse 149
ऋतुपुत्रार्त्तवाः पञ्च इति सर्गः समासतः / इत्येष बहुमानो वै प्राणिना जीवितानि च / नदीवेग इवासक्तः कालो धावति संहरन्
“季之子”与“时令(ārtava)”共五者,此为略说之生起。如此,时间如急河之势紧缠奔流,疾驰而夺众生之命。
Verse 150
एतेषां यदपत्यं वै तदशक्यं प्रमाणतः / बहुत्वात्परिसंख्यातुं पुत्र पौत्रमनन्तकम्
他们的后裔实难以量定其数;因其繁多,子孙无尽,无法一一计数。
Verse 151
इमं वंशं प्रजेशानां महतः पुण्यकर्मणाम् / कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात्
若有人称颂诸般大功德的众生主(Prajapati)之族系,歌咏具福德名声者的圣誉,便能获得广大成就(悉地)。
Rather than a royal Solar/Lunar dynastic vamśa, this chapter catalogs an ancestral-cosmological lineage: the Pitṛ orders arising in Brahmā’s creation, especially the named classes Agniṣvātta and Barhiṣad, defined through their ritual status and relationship to sacred fire.
No bhuvana-distance measures dominate the sampled material; the chapter’s ‘technical data’ is calendrical-astronomical in form—month-pairs and the six ṛtus—used to encode cosmic order through time units (ahorātra, māsa, ṛtu, ayana, saṃvatsara).
This adhyāya is not part of the Lalitopākhyāna arc; its focus is cosmological time-ordering and Pitṛ classification. Its ‘esoteric’ payoff lies in correlating presiding-identities (abhimānins) with temporal stations, a key Purāṇic method for linking ritual life to cosmic structure.