
सगरदिग्विजयः (Sagara’s World-Conquest / Digvijaya)
本章以结尾题记式开篇,继而由阇弥尼叙述萨伽罗王的典范治世,称其统御“具七洲之大地”(saptadvīpavatī)。所引偈颂强调王法(rājadharma)为社会与宇宙秩序之支柱:国王安立四姓(varṇa)各守其法(dharma),以调御诸根护持国土,使民众遵循最善之范式而行。文中描绘理想政体:无夭折之死,诸国兴盛安宁,聚落无量,四姓共同体遍布,凡所兴作皆得成果。物质丰饶并伴随道德气象:民众敬爱归依于王,庆典常行而城邦和睦,无贫病与贪欲,尊师重道,乐学守信,畏惧非议,远离恶友。末以四时调顺、农产充盈作结,显示此章旨在呈现与疆土丰足相连的法治王道范本,而非技术性宇宙论或秘仪。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरदिग्विजयो नामैकोनपञ्चाशत्तमो ऽध्यायः // ४९// जैमिनिरुवाच एवं स राजा विधिवत्पालयामास मेदिनीम् / सप्तद्वीपवतीं सम्यक्साक्षाद्धर्म इवापरः
如是,在《圣梵卵大摩诃往世书》中,由风神伐由所宣说的中篇第三“引言品”里,名为“娑伽罗征服四方”的第四十九章。阇弥尼说道:那位国王依法善治七洲大地,宛如正法(Dharma)之另一化身。
Verse 2
ब्राह्मणादींस्तथा वर्णान्स्वेस्वे धर्मे पृथक्पृथक् / स्थापयित्वा यथान्यायं ररक्षाव्याहतेन्द्रियः
他依正理将婆罗门等诸种姓各安置于各自的法(dharma)之中,分明而不紊;并以不受扰动的诸根守护国土。
Verse 3
प्रजाश्च सर्ववर्णेषु यथाश्रेष्ठानुवर्त्तिनः / वर्णाश्चैवानुलोम्येन तद्वदर्थेषु च क्रमात्
诸种姓之民皆随从本族中最贤者的教范;诸种姓亦依“顺序相承”(anuloma)而立,同样在财利与政务(artha)之事上也循序而行。
Verse 4
न सति स्थविरे बालं मृत्युरभयुपगच्छति / सर्ववर्णेषु भूपाले महीं तस्मिन्प्रशासति
当那位稳健的君王治理大地时,死亡也不敢临近孩童;在这位护国之王(bhūpāla)的统治下,诸种姓皆安住无畏。
Verse 5
स्फीतान्यपेतबाधानि तदा राष्ट्राणि कृत्स्नशः / तेष्वसंख्या जनपदाश्चातुर्वर्ण्यजनावृताः
当时诸国尽皆繁盛、灾患消弭;其中有无数城邦与郡国(janapada),充满四种姓之民。
Verse 6
ते चासंख्यागृहग्रामशतोपेता विभागशः / देशाश्चावासभुयिष्टा नृपे तस्मिन्प्रशासति
当那位国王治理之时,无数由数百家宅与村落组成的聚落按区分而安置;诸国之中居所极其繁盛。
Verse 7
अनाश्रमी द्विजः कश्चिन्न बभूव तदाभुवि / प्रजानां सर्ववर्णेषु प्रारंभाः फलदायिनः
那时在那片大地上,没有任何一位“二生者”(dvija)不依于四住期(āśrama);众民诸种姓所起之事,皆能结成果报。
Verse 8
स्वोचितान्येव कर्माणि प्रारभन्ते च मानवाः / पुरुषार्थोपपन्नानि कर्माणि च तदा नृणाम्
众人只开始各自相称之业;那时世人的诸行皆与“人生四义”(puruṣārtha)相应,因而圆满有义。
Verse 9
महोत्सवसमुद्युक्ताः पुरग्रामव्रजाकराः / अन्योन्यप्रियकामाश्च राजभक्तिसमन्विताः
城邑、乡村与弗拉阇(vraja)之民皆勤于盛大庆典;彼此愿对方所喜,且具足对王的忠敬之心。
Verse 10
ननिन्दितो ऽभिशस्तो वा दरिद्रो व्याधितो ऽपि वा / प्रजासु कश्चिल्लुब्धो वा कृपणो वापि नाभवत्
在百姓之中,无人受讥毁或被控告;无人贫困,亦无人患病;更无人贪婪或吝啬。
Verse 11
जनाः परगुणप्रीताः स्वसंपर्काभिकाङ्क्षिणाः / गुरुषु प्रणता नित्यं सद्विद्याव्यसनादृताः
众人喜爱他人的德行,渴慕善众共修(satsanga);常常礼敬上师,勤修正法妙智(sadvidyā)。
Verse 12
परापवादभीताश्च स्वदाररतयो ऽनिशम् / निसर्गात्खलसंसर्गविरता धर्मतत्पराः
他们畏惧毁谤与流言,恒常爱敬自己的妻子;天性远离恶人之交,专心奉行达摩。
Verse 13
आस्तिकाः सर्वशो ऽभूवन् प्रजास्तस्मिन्प्रशासति / एवं सुबाहुतन्ये स्वप्रतापार्जितां महीम्
当他施政之时,百姓处处皆成虔信(āstika);如此在苏婆呼的世系中,他统御着以自身威德所赢得的大地。
Verse 14
ऋतवश्च महाभाग यथाकालानुवर्तिनः / शालिभूयिष्ठसस्याढ्या सदैव सकला मही
大福者啊!四时依其时序运行;普天之下常得五谷丰登,尤以沙利稻(śāli)最为充盈。
Verse 15
बभूव नृपशार्दूले तस्मिन् राज्यानि शासति
当那位“王中之狮”治理国土之时,如此吉祥的昌盛便恒常存在。
Verse 16
यस्याष्टादशमण्डलाधिपतिभिः सेवार्थमभ्यागतैः प्रख्यातोरुपराक्रमैर्नृपशतैर्मूर्द्धाभिषिक्तैः पृथक् / संविष्टैर्मणिविष्टरेषु नितरामध्यास्यमानामरैः शक्रस्येव विराजते दिवि सभा रत्नप्रभोद्भासिता
他的天上宝殿因珠宝光辉而灿然,如同释迦罗(因陀罗)之天庭;十八曼荼罗之主为奉事而来,百余受灌顶、以勇武著称的诸王各自就座,诸天安坐宝座之上,使此会堂愈加辉煌。
Verse 17
संकेताविषयान्तराभ्युपगमाः सर्वे ऽपि सोपायनाः कृत्वा सैन्यनिवेशनानि परितः पुर्याः पृथक् पार्थिवाः / द्रष्टुं काङ्क्षितराजकाः सतनयाविज्ञापयन्तो मुहुर्द्वास्थैरेव नरेश्वराय सुचिरं वत्स्यन्तमन्तःपुरे
诸王皆依暗号就诸事达成允诺,并携献礼,各自于城郭四周设立军营。为求瞻仰所期之王,他们与诸子屡屡托门卫向人主奏请;而那位君王却仿佛久居内宫。
Verse 18
नमन्नरेद्रमुकुटश्रेणीनामतिघर्षणात् / किणीकृतौ विराजेते चरणौ तस्य भूभुजः
因俯伏诸王冠冕成列的剧烈摩擦,那位地上君王的双足生出磨痕与茧印;然而那双足反而更显光彩。
Verse 19
सेवागतनरेद्रौघविनिकीर्णैः समन्ततः / रत्नैर्भाति सभा तस्य गुहा सोमे रवी यथा
因前来奉事的诸王之众四周散落的宝石,他的会堂熠熠生辉,宛如洞窟中同时映照月与日的光明。
Verse 20
एवं स राजा धर्मेण भानुवंशशिखामणिः / अनन्यशासनामुर्वीमन्वशासदरिन्दमः
于是那位国王——婆奴族系之冠冕宝珠、摧敌者——以达摩而治,统御那唯独遵从其一人号令的大地。
Verse 21
इत्थं पालयतः पृथ्वीं सगरस्य महीपतेः / न चापपात मुत् पुत्रमुखालोकनजृंभिता
就这样,国王萨伽罗护持大地;因得见儿子容颜而生欢喜,他从未沮丧。
Verse 22
विना तां दुःखितो ऽत्यर्थं चितयामास नैकधा / अहो कष्टमपुत्रो ऽहमस्मिन्वंशे ध्रुवं तु यत्
没有她,他极其悲伤,反复思量:“唉,多么艰难!在此族系中,我必定无子。”
Verse 23
प्रयान्ति नूनमस्माकं पितरः पिण्डविप्लवम् / निरयादपि सत्पुत्रे संजाते पितरः किल
想必我们的祖先因断绝供奉食团(pinda)而受扰;因为贤子一生,祖先据说甚至能脱离地狱。
Verse 24
प्रीत्या प्रयान्ति तद्गेहं जातकर्मक्रियोत्सुकाः / महता सुकृतेनापि संप्राप्तस्य दिवं किल
他们欢喜地来到那家中,急切欲行诞生礼(jātakarma)等诸仪;据说即便以大功德得升天界者,他们也同样前来。
Verse 25
अपुत्रस्यामराः स्वर्गे द्वारं नोद्धाटयन्ति हि / पिता तु लोकमुभयोः स्वर्लोकं तत्पितामहाः
无子之人,诸天不为其开启天界之门;若有子,则父亲在两界皆得安立,而其祖父辈得至斯瓦尔伽天界。
Verse 26
जेष्यन्ति किल सत्पुत्रे जाते वंशद्वये ऽपि च / अनपत्यतयाहं तु पुत्रिणां या भवेद्गतिः
贤良之子一旦诞生,纵使两支族系亦得胜利;而我因无嗣,必将承受无子之人的归宿。
Verse 27
न तां प्राप्क्यामि वै नूनं सुदुर्लभतरा हि सा / पदादैन्द्रात्किलाभिन्नमृद्धं राज्यमखण्डितम्
那种归宿我必定得不到,因为它极其难得;据说连如帝释天之位般富足无缺、完整不裂的王国,也与之无别。
Verse 28
मम यत्तदपुण्यस्य याति निष्फलतामिह / इदं मत्पूर्वजैरेव सिंहासनमधिष्ठितम्
我那不善之业的果报在此竟成徒然;这狮子宝座本是我先祖们所曾登临。
Verse 29
अपुत्रत्वेन राज्यं च पराधीनत्वमेष्यति / तस्मादौर्वाश्रममहं गत्वा तं मुनिपुङ्गवम्
因无子嗣,王国也将沦为他人所制;因此我将前往奥尔瓦仙人的道场,去拜见那位卓绝的牟尼。
Verse 30
प्रसादयिष्ये पुत्रार्थं भार्याभ्यां सहितो ऽधुना / गत्वा तस्मै त्वपुत्रत्वं विनिवेद्य महात्मने
如今我将与两位王后同往,为求得子嗣而祈请其欢悦;到彼处后,我将向那位大德陈述我无嗣之苦。
Verse 31
स यद्वक्ष्यति तत्सर्वं करिष्ये नात्र संशयः / इति सञ्चिन्त्य मनसा सगरोराजसत्तमः
至高的萨伽罗王在心中思惟道:“他所吩咐的一切,我必尽行;于此毫无疑虑。”
Verse 32
इत्येष कृत्यविद्राजन्गन्तुमौर्वाश्रमं प्रति / स मन्त्रिप्रवरे राज्यं प्रतिष्ठाप्य ततो वनम्
大王啊,这位明晓职责的君王欲往奥尔瓦仙人的道场。他将国政安置于首席大臣之手,随后入林而行。
Verse 33
प्रययौ रथमारुह्य भार्याभ्यां सहितो मुदा / जगाम रथघोषेण मेघनादातिशङ्किभिः
他欢喜登车,与两位王后同行而去。车轮轰鸣如云雷之声,使人误以为霹雳而心生惊惧。
Verse 34
स्तब्धेक्षणैर्लक्ष्यमाणो मार्गोपान्ते शिखण्डिभिः / प्रियाभ्यां दर्शयन्राजन्सारङ्गांस्तिमितेक्षणान्
路旁孔雀以凝滞之目注视着他。大王啊,他一边前行,一边指给两位爱后看那目光安定的娑罗伽鹿。
Verse 35
क्षममूर्ध्वमुखान्सद्यः पलायनपरान्पुनः / वृक्षान्पुष्पफलोपेतान्विलोक्य मुदितो ऽभवत्
他见那些从地上抬首、又立刻准备逃遁的生灵;又观花果繁盛之树,心中欢喜。
Verse 36
अम्लानकुसुमैः स्वादुफलैः शाद्वलभूमिकैः / सुस्निग्धपल्लवच्छायैरभितः संभृतं नगैः
那片林苑遍布不凋之花、甘甜之果与青翠草地;四周群山环抱,嫩叶成荫,清润柔和。
Verse 37
चूताग्रपल्लवास्वादस्निग्धकण्ठपिकारवैः / श्रोत्राभिरामजनकैस्संघुष्टं सर्वतोदिशम्
啄食芒果枝头嫩叶、喉音柔润的杜鹃啼声,悦耳动听,向四方回荡不绝。
Verse 38
सर्वर्तुकुसुमोपेतं भ्रमद्भ्रमरमण्डितम् / प्रसूनस्तबकानम्रबल्लरीवेल्लितद्रुमम्
那林中四时花开不绝,群蜂盘旋点缀;树木被花串沉垂的藤蔓缠绕,婀娜成景。
Verse 39
कपियूथसमाक्रान्तव नस्पतिशतावृतम् / उन्मत्तशिखिसारङ्गकूजत्पक्षिगणान्वितम्
林中猴群出没,百般草木覆地;狂喜的孔雀、萨朗伽鹿与啁啾鸟群同在其间。
Verse 40
गायद्विद्याधरवधूगीतिकासुमनोहरम् / संचरत्किन्नरीद्वन्द्वविराजद्वनगह्वरम्
那幽深林谷因歌唱的持明天女之曲而格外动人;又因徜徉其间的紧那罗女双侣而更显辉耀。
Verse 41
हंससारसचक्राह्वकारण्डवशुकादिभिः / सुस्वरैरावृतोपान्तैः सरोभिः परिवारितम्
那地方为诸多湖泊所环绕,湖畔满是天鹅、鹤、鸳鸯、野鸭与鹦鹉等,清音婉转,回荡四周。
Verse 42
सरः स्वंबुज कह्लारकुमुदोत्पलराशिषु / शनैः परिवहन्मन्दमारुतापूर्णदिङ्मुखम्
那湖上莲华、白睡莲、夜开莲与青莲成簇,微风徐徐掠过,清凉芬芳充满四方。
Verse 43
एवंविधगुणोपेतमधिगाह्य तपोवनम् / गच्छन्रथेनाथ नृपः प्रहर्षं परमं ययौ
进入这般具足妙德的苦行林苑,国王乘车前行,心中生起无上的欢喜。
Verse 44
उपशान्ताशयः सो ऽथ संप्राप्याश्रममण्डलम् / भार्याभ्यां सहितः श्रीमान्वाहादवरुरोह वै
他心意寂静,抵达精舍境域后,与两位王后一道从车乘上下来。
Verse 45
धुर्यान्विश्रामयेत्युक्त्वा यन्तारमवनीपतिः / आससादाश्रमोपान्तं महर्षेर्भावितात्मनः
国王吩咐御者:“让挽车的牲畜歇息。”说罢,便走近那位心性修成的大圣仙之精舍。
Verse 46
स श्रुत्वा मुनिशिष्येभ्यः कृतनित्यक्रियादरम् / मुनिं द्रष्टुं विनीतात्मा प्रविवेशाश्रमं तदा
他听闻牟尼弟子们对每日仪轨的虔敬,便以谦恭之心于彼时进入精舍,欲拜见牟尼。
Verse 47
मुनिमध्ये समासीनमृषिवृन्दैः समन्वितम् / ननाम शिरसा राजा भार्याभ्यां सहितो मुदा
见那牟尼端坐于众仙贤之间,周围群圣环侍,国王偕两位王后欢喜俯首,顶礼致敬。
Verse 48
कृतप्रणामं नृपतिमृषिरौर्वः प्रतापवान् / उपविशेति प्रेम्णा वै सह ताभ्यां समादिशत्
对已行礼的国王,威德具足的奥尔瓦仙人以慈爱说道:“请坐吧。”并命其与两位王后同坐。
Verse 49
अर्घ्यपाद्यादिभिः सम्यक्पूजयित्वा महामुनिः / आतिथ्येन च वन्येन सभार्यं तमतोषयत्
大牟尼以阿尔伽、洗足水等礼敬之物如法供奉,又以林中清供行宾礼,使国王与王后们皆得欢喜满足。
Verse 50
अथातिथ्योपविश्रान्तं प्रणम्या सीनमग्रतः / राजानमब्रवीदौर्वः शनैर्मृद्वक्षरं वचः
随后,国王因宾礼而得歇息,奥尔瓦先行礼拜,复坐其前,徐徐以柔和之辞开口说道。
Verse 51
कुशलं ननु ते राज्ये बाह्येष्वाभ्यन्तरेषु च / अपिधर्मेण सकलाः प्रजास्त्वं परिरक्षसि
你的国度内外可都安泰吉祥?你是否依循达摩(正法)护持一切臣民?
Verse 52
अपि जेतुं त्रिवर्गं त्वमुपायैः सम्यगीहसे / फलन्ति हि गुणास्तुभ्यं त्वया सम्यक्प्रचोदिताः
你是否以正当方便努力成就三法(达摩、利、欲)?因为你的德行在你正当激励之下必得结果。
Verse 53
दिष्ट्यात्वया जिताः सर्वे रिपवो नृपसत्तम / दिष्ट्या च सकलं राज्यं त्वया धर्मेण रक्ष्यते
至高的君王啊,幸而你已战胜一切仇敌;幸而你又以达摩守护整个国土。
Verse 54
धर्म एव स्थितिर्येषां तेषां नास्त्यत्रविप्लवः / न तं रक्षति किं धर्मः स्वयं येनाभिरक्षितः
以达摩为立足者,于此无有动乱。既为达摩亲自护持之人,又何须他者再护?
Verse 55
पूर्वमेवाहमश्रौषं विजित्य सकलां महीम् / सबलोनगरीं प्राप्तः कृतदारो भवानिति
我早已听闻:你征服了整个大地,率军回到城都,并已成婚立室。
Verse 56
राज्ञां तु प्रवरो धर्मो यत्प्रजापरिपालनम् / भवन्ति सुखिनो नूनं तेनैवेह परत्र च
诸王之最上法,是护持百姓;由此众生必定今世与来世皆得安乐。
Verse 57
स भवान्राज्य भरणं परित्यज्य मदन्तिकम् / भार्याभ्यां सहितो राजन्समायातो ऽसि मे वद
大王啊,你舍弃国政重担,携两位王后来到我近前;请告诉我,这是为何?
Verse 58
जैमिनिरुवाच एवमुक्तस्तु मुनिना सगरो राजसत्तमः / कृताञ्जलिपुटो भूत्वा प्राह तं मधुरं वचः
阇弥尼曰:仙人如是言已,王中最胜萨伽罗合掌恭敬,对他柔和而甘美地说道。
It presents an idealized portrait of King Sagara’s governance: establishing varṇa-specific duties, protecting the realm, and generating social harmony and prosperity across the saptadvīpa earth.
Vaṃśānucarita is foregrounded through the king-centered historical-ethical narrative; cosmology appears as a framing epithet (“saptadvīpavatī medinī”) rather than as a measurement-driven bhuvana-kośa section.
No. The sampled material is not Lalitopākhyāna; it is rajadharma and social-order narration centered on Sagara, without Shakta battle-myths, vidyā/yantra exposition, or Bhāṇḍāsura motifs.