Adhyaya 16
Anushanga PadaAdhyaya 1659 Verses

Adhyaya 16

Śrāddha-kalpa: Dāna-phala-nirdeśa (Gifts in Śrāddha and Their Fruits)

本章延续《施罗陀(śrāddha)仪轨》(śrāddha-kalpa)的教诫体叙述,列举在施罗陀中所行布施(dāna)的“果报目录”(phala),说明各类供施与其相应结果。说法者布里哈斯帕提(Bṛhaspati)指出,布施是救度之具(tāraṇa),能扶持众生,并带来通往天界之道(svarga-mārga)的安乐。经文继而枚举典型施物:食粮(anna)、熟食佳肴(savyañjana)、圣线(yajñopavīta)、净水壶(kamaṇḍalu)、鞋履(pādukā/upānah)、扇(tālavṛnta)、伞盖(chatra)、含卧具与饮食的庇护所、衣服、宝石与车乘等;并将每一项与生动的奖报意象相连,如光辉如日月的天界飞宫(vimāna)、与天女(apsarā)相伴、寿命延长、富饶兴盛、容貌端丽、乘具便利、芬芳花饰与天界尊荣。此章重在仪礼而非谱系:它把供物类型、受施者情境(尤指婆罗门与苦行者)及宇宙论式的后世图景对应起来,以激励如法奉行。

Shlokas

Verse 1

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशो ऽध्यायः // १५// बृहस्पतिरुवाच अतः परं प्रवक्ष्यामि दानानि च फलानि च / तारणं सर्वभूतानां स्वर्गमार्गसुखावहम्

如是,在《圣·梵卵大摩诃往世书》中,风神(Vāyu)所宣说的中篇、第三“引言支”(Upoddhāta-pāda)之“施祖仪轨篇”(Śrāddha-kalpa)里,有名为“婆罗门考验”的第十五章。布里哈斯帕提说道:从此我将宣说诸种布施及其果报;此能济度一切众生,并带来通往天界之道的安乐。

Verse 2

लोके श्रेष्ठतम् सर्वमात्मनश्चैव यत्प्रियम् / सर्वं पितॄणां दातव्यं तेषामेवाज्ञयार्थिना

世间凡最殊胜者、亦凡自身所最珍爱者,皆当奉献为施,供养诸祖灵(Pitṛ);求其许可与欢喜者,当如是行。

Verse 3

जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् / दिव्याप्सरोभिः संपूर्णमन्नदो लभते ऽक्षयम्

由阎浮那陀金所成、光辉如日的天界飞宫(vimāna),充满天女(apsarā);施食者得不尽之果报(akṣaya)。

Verse 4

सव्यञ्जनं तु यो दद्यादहतं श्राद्धकर्मणि / आयुः प्राकाश्यमैश्वर्यं रूपं च लभते शुभम्

于施祖仪式(śrāddha)中,若有人布施新鲜未损(ahata)之食并配诸肴馔,则得寿命、名声光辉、富贵与吉祥之相。

Verse 5

यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु यज्ञवित् / पावनं सर्व विप्राणां ब्रह्मदानस्य तत्फलम्

通晓祭祀(yajña)者,若于施祖之时布施圣线(yajñopavīta),则能净化一切婆罗门(vipra);此即“梵施”(brahma-dāna)之果。

Verse 6

प्लुतं विप्रेषु यो दद्याच्छ्राद्धकाले कमडलुम् / मधुक्षीराज्यदधिभिर्दातारमुपतिष्ठते

若有人于施行室罗陀(Śrāddha)之时,向婆罗门布施上等净水壶(kamaṇḍalu),其功德将以蜂蜜、乳、酥油与凝乳之福,亲近护持施主。

Verse 7

चक्राविद्धं च यो दद्याच्छ्राद्धकाले कमण्डलुम् / धेनुं सलभते दिव्यां पयोदां सुखदो हिनीम्

若有人于室罗陀之时布施刻有法轮(cakra)之净水壶(kamaṇḍalu),便得天界妙牛,乳流不息,赐安乐而最为殊胜。

Verse 8

तूलपूर्णे च यो दद्यात्पादुके श्राद्धकर्मणि / शोभनं लभते यानं पादयोः सुखमेधते

若有人于室罗陀仪式中布施以棉絮充填之木履(pāduka),便得庄严美好的乘舆,双足之安乐亦增长。

Verse 9

व्यचनं तालवृन्तं च दत्त्वा विप्राय सत्कृतम् / प्राप्नुयात्सर्वपुष्पाणि सुगन्धीनि मृदूनि च

以恭敬心向婆罗门奉施扇(vyajana)与棕榈柄者,将得一切芬芳柔软之花。

Verse 10

श्राद्धे ह्युपानहौ दत्त्वा ब्राह्मणेभ्यः सदा बुधः / दिव्यं स लभते यानं वाजियुक्तं नवं तथा

智者于室罗陀中布施婆罗门以鞋履(upānahau),便得崭新天妙之乘舆,骏马牵引。

Verse 11

श्राद्धे छत्रं तु यो दद्यात्पुष्पमालान्वितं तथा / प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति

若有人于施罗达祭(śrāddha)中布施缀以花鬘之伞,其功德化为最胜宫殿,随其行而相伴。

Verse 12

शरणं रत्नसंपूर्णं सशय्याभोजनं बुधः / श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे महीयते

智者若于施罗达祭中施与行者(yati)以满载珍宝之庇护,并供床榻与饮食,便在天界受尊崇。

Verse 13

सुक्तावैदूर्यवासांसि रत्नानि विविधानि च / वाहनानि च दिव्यानि प्रयुतान्यर्बुदानि च

他将得着镶嵌珍珠与吠琉璃(vaidūrya)之衣、种种宝珠、天界神乘,以及无量(prayuta、arbuda)财富。

Verse 14

सुमहद्व्योमगं पुण्यं सर्वकामसमन्वितम् / चन्द्रसूर्यनिभं दिव्यं विमानं लभते ऽक्षयम्

他将获得极其宏大、行于虚空、充满功德、具足诸愿、光辉如月如日的神圣不坏天宫(vimāna)。

Verse 15

अप्सरोभिः परिवृतं कामगं सुमनोजवम् / वसेत्स तु विमानाग्रे स्तूयमानः समन्ततः

他为天女(apsarā)环绕,随意而行,迅疾如心念;居于天宫(vimāna)之前部,四方皆颂赞之。

Verse 16

दिव्यैःपुष्पैश्चितश्चाहुर्दानानां परमं बुधाः / सुश्लक्ष्मानि सुवर्णानि श्राद्धे पात्राणि दापयेत्

智者说:以天界之花庄严的布施,是诸施中最上。于施罗陀(śrāddha)仪式中,应施与光洁明亮的金器。

Verse 17

रसास्तमुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव च / तिलानिक्षूंस्तथा श्राद्धे द्विजेभ्यः संप्रयच्छति

诸味、食物与福运皆来亲近于他;在施罗陀(śrāddha)中,他恭敬地把芝麻与甘蔗等施与二生者(dvija)。

Verse 18

मित्राणि लभते लोके स्त्रीषु सौभाग्यमेव च / यः पात्रं तैजसं दद्यान्मनोज्ञ श्राद्धभोजनैः

他在世间得友,又于妇女之中得福缘。凡以悦意的施罗陀(śrāddha)供食相伴,布施光辉之器者,得此果报。

Verse 19

पात्रं भवति कामाना रूपस्य च धनस्य च / राजतं काञ्चनं वापि यो दद्याच्छ्राद्धकर्मणि

他将成为欲愿、容色与财富的受器。凡于施罗陀(śrāddha)仪式中布施白银或黄金者,得此功德。

Verse 20

दानात्तु लभते कामान्प्राकाश्यं धनमेव च / धेनुं श्राद्धे तु यो दद्याद्गृष्टिं कुम्भापदोहनीम्

由布施,他得遂愿、名声光显与财富。凡于施罗陀(śrāddha)中布施一头乳牛,能挤乳入罐者,得此福报。

Verse 21

गावस्तमुपतिष्ठन्ति नरं पुष्टिस्तथैव च / दद्याद्यः शिशिरे चाग्निं बहुकाष्ठं प्रयत्नतः

凡人在寒季勤勉施舍火与大量柴薪者,群牛将来亲近侍奉;其人亦得滋养与健壮。

Verse 22

कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं तभते नरः / इन्धनानि तु यो दद्या द्द्विजेभ्यः शिशिरागमे

寒季来临时,若有人向婆罗门等二生者施与燃料,则得身中火力之炽盛、光明显耀与吉祥福运。

Verse 23

नित्यं जयति संग्रामे श्रिया जुष्टस्तु जायते / सुरभीणि च माल्यानि गन्धवन्ति तथैव च

其人常于战阵得胜,生来蒙受吉祥天女室利(拉克希米)眷顾;并得芬芳花鬘与馥郁香气。

Verse 24

पूजयित्वा तु पात्रेभ्यः श्राद्धे सत्कृत्य दापयेत् / गन्धमाल्यं महात्मानं सुखानि विविधानि च

于施行施罗达(祭祖供养)时,当先礼敬合格受供者并以恭敬款待,继而施与香料、花鬘、适合大德之供品,以及种种安乐之物。

Verse 25

दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः / शयनासनयानानि भूमयो वाहनानि च

施主身边将有贞顺的年轻妇人前来侍奉;并得卧具、座具、车乘、田地与诸般载具。

Verse 26

श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत् / श्राद्धकाले गुणवति विप्रे वै समुपस्थिते

凡于施罗陀(śrāddha)中布施此等供养者,得阿湿婆美陀(Aśvamedha)之功德果;尤以施罗陀之时有德婆罗门在座为胜。

Verse 27

इष्टद्रव्यं च यो दद्यात्स्मृतिं मेधां च विन्दति / सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत्

施与所喜之物者,得记忆与慧力;于施罗陀中,当恭敬布施盛满酥油(ghee)之器皿。

Verse 28

कुम्भोपदोहगृष्टीनां बह्वीनां फलमश्नुते / श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकफलं लभेत्

其人享受如布施多头能满罐出乳之牛的功德果;于施罗陀中随愿施与,得“芬陀利迦”(Puṇḍarīka)之果报。

Verse 29

वनं पुष्पफलोपेतं दत्त्वा गोसवमश्नुते / कूपारामतडागानि क्षेत्रगोष्ठगृहाणि च

布施花果具足之林者,得享“瞿萨瓦”(Gosava)祭之果报;又布施井、园、池塘、田地、牛舍与房舍等,亦皆成福德。

Verse 30

दत्त्वा मोदन्ति ते स्वर्गे नित्यमाचन्द्रतारकम् / स्वास्तीर्णं शयनं दत्त्वा श्राद्धेरत्नविभूषितम्

如是布施者,于天界欢喜安住,直至月与星辰尚存。于施罗陀中,若布施铺设妥善、以宝石庄严之卧榻,亦得同等果报。

Verse 31

पितरस्तस्य तुष्यन्ति स्वर्गलोकं समशनुते / अस्मिंल्लोके च संपन्नं स्यन्दनं च सुवाहनैः

他的祖灵(Pitṛ)得以满足;他得至天界(Svarga)。在此世亦得富足,并获配以良驭的华美战车。

Verse 32

अष्टाभिः पूज्यते चात्र धनधान्यैश्च वर्द्धते / पर्णकौशेयपट्टोर्णे तथा प्रावारकंबलौ

在此他以八种方式受敬奉,并以财宝与谷粮而增长;又得叶衣、丝绸、锦缎、羊毛之衣,以及披风与毯褥。

Verse 33

अजिनं काञ्चनं पट्टं प्रवेणीं मृगलोमकम् / दद्यादेतानि विप्राणां भोजयित्वा यथाविधि

鹿皮(ajina)、黄金、细锦(paṭṭa)、编织之物(praveṇī)与鹿毛——应依仪轨先供养婆罗门饮食,然后将这些布施。

Verse 34

प्राप्नोति श्रद्धधानस्तु वाजपेयफलं नरः / बहुभार्याः सुरूपाश्च पुत्रा भृत्याश्च किङ्कराः

具足信心(śraddhā)之人得获“瓦阇佩耶”(Vājapeya)祭的果报:多位妻室、容貌端正之子,以及仆从与随侍。

Verse 35

वशे तिष्ठन्ति भूतानि लोके चास्मिन्निरामयम् / कौशेयं क्षौमकार्पासं दुकूलं गहनं तथा

诸生灵皆在其掌控之中;在此世他亦无病安泰。并得丝绸、麻布、棉布、细软之衣(dukūla)及上等华服。

Verse 36

श्राद्धे चैतानि यो दद्यात्कामानाप्नोत्यनुत्तमान् / अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा

在施行室罗达(śrāddha)时,凡布施这些供品者,得最上愿望;此等布施能灭除不祥贫乏,如日出驱散黑暗。

Verse 37

भ्राजते य विमानाग्रे नक्षत्रेष्विव चन्द्रमाः / वासो हि सर्वदैवत्ये सर्वदेवैरभिष्टुतम्

如同群星之中月亮在天车(vimāna)前端辉耀,衣服在供奉诸神的仪式中亦为一切天神所赞颂而显光彩。

Verse 38

वस्त्राभावे क्रिया नास्ति य५दानतपांसि च / तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः

无衣则无仪式可行:祭祀、布施与苦行皆难成;因此在室罗达之时,应当常常施舍衣物。

Verse 39

तानि सर्वाण्यवाप्नोति श्राद्धे दत्त्वा तु मानवः / नित्यश्राद्धे तु यो दद्यात्प्रयतस्तत्परायणः

人在室罗达中布施,便能获得这一切果报;而于日常室罗达中勤谨专注者,也当如法施与。

Verse 40

सर्वकामानवाप्नोति राज्यं स्वगे तथव च / सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते

他将获得一切愿望,并在天界得王权;且享受那圆满诸愿之祭祀(yajña)所生的果报。

Verse 41

भक्ष्यजातं तु सुकृतं स्वस्तिकाद्यं सशर्करम् / कृसर मधुसर्पिश्च पयः पायसमेव च

精心制成的诸般供食,含“吉祥印”之类的瑞相食物并加糖;又有克利萨拉饭、蜂蜜与酥油、牛乳及乳粥(payasa)。

Verse 42

स्निग्धप्रायाश्च यो दद्यादग्निष्टोमफलं लभेत् / दधिगव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा

若以酥油等润泽之供品为主而施与者,得获阿耆尼什托摩祭的功果;并施不杂之酸乳、牛乳所出之清净品,以及种种食物点心。

Verse 43

दत्त्वा न शोचते श्राद्धे वर्षासु च मघासु च / घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजोत्

于施罗陀祭、雨季以及摩伽星宿之时行施者,不复忧伤;当以酥油供养婆罗门,并将酥油献洒于大地。

Verse 44

छायायां हस्तिनश्चैव दत्त्वा श्राद्धेन शोचते / ओदनं पायसं सर्पिर्मधुमूलफलानि च

即便在阴影处施与,乃至施与大象,因施罗陀之事人仍会忧伤;故当供献熟饭、乳粥(payasa)、酥油、蜂蜜、根茎与果实。

Verse 45

भक्ष्यांश्च विविधान्दत्त्वा परत्रेह च मोदते / शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः

施与种种供食者,于此世与彼世皆得欢喜;以糖与乳调和之薄米饼(pṛthukā)常赐不竭之福果。

Verse 46

स्यात्तु संवत्सरं प्रीतिः शाकैर्मांसरसेन च / सक्तुलाजास्तथापूपाः कुल्माषा व्यञ्जनैः सह

若供奉蔬菜与肉汁,并以炒粉、爆米花、甜饼与豆食等佐菜同献,便得一年之欢喜与悦意。

Verse 47

सर्पिःस्निग्धानि सर्वाणि दध्ना संस्कृत्य भोजयेत् / श्राद्धेष्वेतानि यो दद्यात्पद्मं स लभते निधिम्

凡以酥油润泽诸食,并以酸乳调制而供养者;于施祖祭(śrāddha)中布施此等者,得名为“莲华宝藏”(Padma-nidhi)。

Verse 48

नवसस्यानियो दद्याच्छ्राद्धे सत्कृत्य यत्नतः / सर्वभोगानवाप्नोति पूज्यते च दिवं गतः

若于施祖祭中恭敬勤谨地布施新收之谷,便得一切受用;升至天界亦受礼敬。

Verse 49

भक्ष्यभोज्यानि पेयानि चोष्यलेङ्यवराणि च / भोजनाग्रासनं दत्त्वा अतिथिभ्यः कृताञ्जलिः

当以可嚼之食、可餐之肴、可饮之浆,以及可吮可舔之上品,连同饭食第一口,奉与宾客;并合掌恭敬。

Verse 50

सर्वयज्ञक्रतूनां हि फलं प्राप्नोत्यनुत्तमम् / क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते

此人得一切祭祀与仪轨之无上果报;当速以不甚烫、不给人困苦之食,施与饥者。

Verse 51

सव्यञ्जनं तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः / तरुणादित्यसंकाशं विमानं हंसवाहनम्

若人以虔敬之心勤谨供施,恭敬布施佐馔丰美、润泽之食,必得如初升旭日般光耀之天车(毗摩那),以天鹅为乘。

Verse 52

अन्नदो लभते नित्यं कन्याकोटीस्तथैव च / अन्नदानात्परं दानं नान्यत्किञ्चित्तु विद्यते

施食之人恒得“千千万万次嫁女功德”之果报;世间无有胜过施食之布施。

Verse 53

अन्नाद्भूतानि जायन्ते जीवन्ति प्रभवन्ति च / जीवदानात्परं दानं नान्यत्किञ्चन विद्यते

众生由食而生,因食而活,凭食而长;赐予生命(吉瓦达那)之施,无有其上。

Verse 54

अन्नाल्लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् / अन्नं प्रजापतिः साक्षात्ते न सर्वमिदं ततम्

诸界依食而安立——此即“施与诸界”之果;食即是普罗阇波提亲现,由此一切皆遍满。

Verse 55

तस्मादन्नसमं दानं न भूतं न भविष्यति / यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा

是故与施食等同之布施,过去未有,未来亦无;纵然大地上有珍宝、车乘与佳丽。

Verse 56

क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु यो नरः / प्रतिश्रयं च यो दद्यादतिथिब्यः कृताञ्जलिः

敬奉祖灵(Pitṛ)之人,速得一切;并且合掌恭敬、施与宾客栖身之所者,亦获其福。

Verse 57

देवास्तं संप्रतीच्छन्ति दिव्यातिथ्यैः सहस्रशः / सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत्

诸天以千百种天界礼遇迎受此人;凡能施与这一切者,将于大地成一统之王。

Verse 58

त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भदेत् / दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः

以三种、两种,乃至一种布施,亦能得安乐;布施为至上之法,常为贤善者恭敬礼赞。

Verse 59

त्रैलोक्यस्या धिपत्यं हि दानेनैव ध्रुवं स्थितम् / अराजा लभते राज्यमधनश्चोत्तमं धनम् / क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः

三界之主权,唯由布施而坚固;无王位者得王国,贫乏者得上妙财;短寿者得寿命——常敬祖灵(Pitṛ)之人如是。

Frequently Asked Questions

A śrāddha-kalpa dāna-phala index: specific gifts offered during śrāddha are paired with explicitly described outcomes (longevity, prosperity, vehicles/vimānas, heavenly honors).

Bṛhaspati speaks, presenting dāna as ‘tāraṇa’ (a means of deliverance/support) and as a source of svarga-mārga sukha, i.e., pleasurable and elevated post-mortem trajectories.

No; the sampled content is ritual-prescriptive and motivational, focusing on śrāddha offerings and their rewards rather than vamsha lists, bhuvana-kośa measurements, or Lalitopakhyana vidyā/yantra narratives.