Adhyaya 13
Anushanga PadaAdhyaya 13143 Verses

Adhyaya 13

Śrāddha-kalpa: Amarakantaka–Tīrtha-Māhātmya and Akṣaya Pitṛ-Tarpaṇa

本章置于《Śrāddha-kalpa》之中,以布里哈斯帕提(Bṛhaspati)的教诲阐明祭奉Pitṛ(祖灵)的功效:哪怕仅一次如法供奉,也能令“不可毁坏”的祖先满足,并扶助行祭者死后趋升天界(svarga),而解脱(mokṣa)亦可循序渐近。随后论述由仪轨原则转入圣地地理的目录式铺陈:湖泊、河流、tīrtha、地域、群山与āśrama,皆为能迅速增长功德的高效仪式节点。Amarakantaka被尊为三界中最具功德之地,与诸siddha相应,并与Bhagavān Aṅgiras所行猛烈苦行(tapas)相连。章中强调其殊胜特征:如在持戒之日方显的圣水池(如Jvālāsaras),以及能除诸苦恼、具疗愈力的Viśalyakaraṇī河,并给出方位线索,提及与Mālyavat及Kalinga一侧的关联。核心仪式主张是:在Amarakantaka山上献供piṇḍa,尤其以优胜的darbha/kuśa为具,可成就“akṣaya śrāddha”,增益祖灵欢喜;且祖灵至此kṣetra时被说为显现/隐没(antardhāna)。全章将śrāddha教义、依地而生的宇宙功德体系与tīrtha信息紧密合一,并以Amarakantaka为锚。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे श्राद्धकल्पे द्वादशो ऽध्यायः // १२// बृहस्पतिरुवाच सकृदभ्यर्चिताः प्रीता भवन्ति पितरो ऽव्ययाः / योगात्मानो महात्मानो विपाप्मानो महौजसः

如是,在《圣梵卵大摩诃往世书》中,风神(Vāyu)所宣说的中部第三“序说支”之“施祖仪轨”(Śrāddha-kalpa)第十二章。布里哈斯帕提曰:祖灵(Pitṛ)不减不坏,哪怕仅一次如法供奉亦即欢喜;彼等具瑜伽之性,为大灵者,无罪垢,具大威光。

Verse 2

प्रेत्य च स्वर्गलोकाय कामैश्च बहुलं भुवि / येषु वाप्यनुगृह्णन्ति मोक्षप्राप्तिः क्रमेण तु

身后,他们赐予往生天界(Svarga-loka)与世间诸多愿求的成就;凡蒙其垂恩者,终将循序获得解脱(mokṣa)。

Verse 3

तानि वक्ष्याम्यहं सौम्य सरांसि सरितस्तथा / तीर्थानि चैव पुण्यानि देशांश्छैलांस्तथाश्रमान्

温和者啊,我将宣说那些湖泊、河流、诸般神圣的渡口圣地(tīrtha)、国土、群山与修行林苑(āśrama)。

Verse 4

पुण्यो हि त्रिषु लोकेषु सदैवामरकण्टकः / पर्वतप्रवरः पुण्यः सिद्धयारणसेवितः

阿摩罗坎塔卡山恒常为三界所崇圣;它是群山之最胜,具足福德,为诸悉地者与林居修行者所奉事。

Verse 5

यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च / तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा

在那处,往昔圣者安吉罗(Aṅgirā)曾历经千千岁月,乃至无量的“普罗由他”“阿尔布达”之期,修行极其艰难的苦行。

Verse 6

यत्र मृत्योर्गतिर्न्नास्ति तथैवासुररक्षसाम् / न भयं नैव चालक्ष्मीर्यावद्भूमिर्द्धरिष्यति

在彼处,死神无路可至,阿修罗与罗刹亦不得其门;只要大地尚能承载,那里便无恐惧,亦无阿拉克什弥(不祥与贫厄)。

Verse 7

तपसा तेजसा तस्य भ्रजते स नगोत्तमः / शृङ्गे माल्यवतो नित्यं वह्निः संवर्त्तको यथा

凭其苦行与威光,那至胜之山熠熠生辉;犹如在摩利耶伐特(Mālyavat)峰顶恒常燃烧的劫尽之火(Saṃvartaka)。

Verse 8

मृदवस्तु सुगन्धाश्च हेमाभाः प्रियदर्शनाः / शान्ताःकुशा इति ख्याताः परिदक्षिणनर्मदाम्

它们柔和芬芳,金光灿然,悦目可亲;被称为“寂静之库沙草”,并绕那尔摩陀河作右绕礼。

Verse 9

दृष्टवान्स्वर्गसोपानं भगवानङ्गिराः पुरा / अग्निहोत्रे महातेजाः प्रस्तारार्थं कुशोत्तमान्

往昔,圣者安吉罗见到通往天界的阶梯。那位大光明者在火供(阿耆尼霍多罗)中,为铺设祭席而取上等库沙草。

Verse 10

तेषु दर्भेषु यः पिण्डान्मरकण्टटकपर्वते / दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम्

在这些达尔婆草中,凡智者于摩罗坎塔塔迦山哪怕一次施行供团(品陀供),其所得之果,我将宣说。

Verse 11

तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्धनम् / अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा

此般施行之施罗达成为不灭之功,增长祖灵(Pitṛ)欢喜。抵达此圣域者,亦恒得入于隐秘之境(antardhāna)。

Verse 12

तत्र ज्वालासरः पुण्यं दृश्यते चापि पर्वसु / सशल्यानां च सत्त्वानां विशल्यकरणी नदी

在那里,逢诸节期亦可见到圣洁的“焰池”(Jvālāsara)。又有一条河,能令带刺创伤的众生除刺无痛,成就无伤(viśalya)。

Verse 13

प्राग्दक्षिणायतावर्त्ता वापी सा सुनगोत्तमे / कलिङ्गदेशपश्चार्द्धे शृङ्गे माल्यवतो विभोः

那圣池向东南回环,位于名为“苏那戈多塔摩”的胜地;在羯陵伽国的西半部,至尊的摩利耶伐特山峰上安住。

Verse 14

सिद्धिक्षेत्रमृषिश्रेष्ठा यदुक्तं परमं भुवि / संमतं देवदैत्यानां श्लोकं चाप्युशना जगौ

诸位最胜仙人啊!世间所称的至上“成就圣地”,为天神与阿修罗两方所共许;关于此事,乌沙那亦曾诵出一偈。

Verse 15

धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम् / पितॄन्संतर्पयिष्यन्तिश्राद्धे पितृपरायणाः

世间有福之人,是那些到达阿摩罗坎塔迦、专心归敬祖灵者;他们将在施行施罗陀时,使诸祖灵(Pitṛ)得以满足。

Verse 16

अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः / सकृदेवार्चितास्तत्र स्वर्गमामरकण्टके

以少许苦行便能得成就,毫无疑虑。在阿摩罗坎塔迦,哪怕仅一次礼敬诸神,也能获得天界之果。

Verse 17

महेन्द्रःपर्वतः पुण्यो रम्यः शक्रनिषेवितः / तत्रारुह्य भवेत्पूतः श्राद्धं चैव महाफलम्

摩诃因陀罗山圣洁而秀丽,为释迦天帝所游履;登临其上,众生得以净化,而在彼处所行施罗陀亦获大果。

Verse 18

वैलाटशिखरे युक्त्वा दिव्यं चक्षुः प्रवर्तते / अधृष्यश्चैव भूतानां देववच्चरते महीम्

安住于毗罗吒之峰,天眼便得开启;对众生不可战胜,如天神般行走于大地。

Verse 19

सप्तगोदावरे चैव गोकर्णे च तपोवने / अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्ततः

在七哥达婆利与果迦耳那的苦行林中沐浴,可得马祭之果;并在彼处布施,则更获殊胜功德。

Verse 20

धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः / रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः

抵达“涤罪之地”而沐浴者,便得清净。正是在那里,天神之神大自在天鲁陀罗曾修苦行。

Verse 21

गोकर्णे निहितं देवैर् नास्तिकानां निदर्शनम् / अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति

在果迦耳那,诸天为不信者设下警示之征。非婆罗门而诵《娑毗特丽》(伽耶特丽)者,将自取毁灭。

Verse 22

देवर्षिभवने शृङ्गे सिद्धचारणसेविते / आरुह्यतं निय मवांस्ततो याति त्रिविष्टपम्

在为成就者与歌神所奉事的天仙住处之峰,若以自制之心登临,便由此往生三十三天(天界)。

Verse 23

दिव्यैश्चन्दनवृक्षैश्च पादपैरुपशोभितम् / आपश्चन्दनसंयुक्ताः स्पन्देति सततं ततः

彼处以天妙檀香树及诸多草木庄严。其水与檀香芬芳相和,恒常荡漾微动不息。

Verse 24

नदी प्रवर्तते ताभ्यस्ताम्रपर्णीति नामतः / या चन्दनमहाखण्डाद्दक्षिणं याति सागरम्

由彼处发源一河,名曰“檀摩罗婆尔尼”(Tamraparni);自广大檀香之地向南流去,入于大海。

Verse 25

नद्यास्तस्याश्च ताम्रायास्तूह्यमाना महोदधौ / शङ्खा भवन्ति शुक्त्यश्च जायते यासु मौक्तिकम्

当那檀摩罗婆尔尼河注入大海时,便生出海螺与贝蛤;其中孕育出珍珠。

Verse 26

उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम् / आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम्

若取来那与海螺与珍珠相应之水,便能脱离忧恼与疾病,得至阿摩罗伐底(天城)。

Verse 27

चन्दनेभ्यः प्रसूतानां शङ्खानां मौक्तिकस्य वा / पापकर्त्तॄनपि पितॄंस्तारयन्ति यथाश्रुति

依圣传(闻教)所说,由檀香之地所生的海螺或珍珠,其功德能度脱甚至造罪的祖灵。

Verse 28

चन्द्रतीर्थे कुमार्यां च कावेरीप्रभवे क्षये / श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ

在月亮圣渡(Candratīrtha)、在童女圣地(Kumārī,今坎尼亚库马里)、在卡维里河发源处的汇合圣域,以及在圣山室利山(Śrīparvata)的诸圣地与名为Vaikṛta的山峰之上。

Verse 29

एकस्था यत्र दृश्यन्ते वृक्षाह्यौशीरपर्वते / पलाशाः खदिरा बिल्वाः प्लक्षाश्वत्थविकङ्कताः

在奥希罗山(Auśīra)上,有一处同地可见诸树并生:婆罗沙(palāśa)、佉地罗(khadira)、毗罗婆(bilva)、钵罗叉(plakṣa)、阿湿婆他(aśvattha)与毗迦迦多(vikaṅkata)。

Verse 30

एवं द्विमण्डलाविद्धं विज्ञेयं द्विजसत्तमाः / अस्मिंस्त्यक्त्वा जनोंऽगाति क्षिप्रं यात्यमरावतीम्

诸位最胜婆罗门啊,应知此处为“被两重曼荼罗所贯穿”之地;人在此舍身,便迅速往生天帝之都阿摩罗伐底(Amarāvatī)。

Verse 31

श्रीपर्वतस्य तीर्थे तु वैकृते च तथा गिरौ / कर्माणि तु प्रयुक्ता नि सिद्ध्यन्ति प्रभवाप्यये

在室利山(Śrīparvata)的圣渡与名为Vaikṛta的山上,所行诸业与仪轨,即便在“生起与消融”(prabhava–apyaya)之时,也必定成就。

Verse 32

दुष्प्रयुक्ता हि पितृषु सुप्रयोगा भवन्त्युत / पितॄणां दुहिता पुण्या नर्मदा सरितां वरा

即便为祖灵(Pitṛ)所作的祭献有失误,在那里也会转为善妙正行;而那位圣洁的“祖灵之女”——纳尔玛达河(Narmadā),为诸河之最胜。

Verse 33

यत्र श्राद्धानि दत्तांनि ह्यक्षयाणि भवन्त्युत / माठरस्य वने पुण्ये सिद्धचारणसेविते

在那处,施于施罗陀(śrāddha)的供施必得不尽之果——于摩陀罗的圣林中,诸悉地者与查罗那众所侍奉。

Verse 34

अन्तर्द्धानेन गच्छन्ति युक्त्वा तस्मिन्महा गिरौ / विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनीम्

他们依止于那座大山,便以隐没之法(antardhāna)而去;在圣洁的温陀耶山上,显现出昭示正法与非法之相。

Verse 35

धारां पापा न पश्यन्ति धारां पश्यन्ति साधवः / तत्र तद्दृश्यते पापं केषां चित्पापकर्मणाम्

罪人不见那道水流,唯有善者得见;在那里,某些作恶者之罪业竟清晰可见。

Verse 36

कैलासे या मतङ्गस्य वापी पापनिषूदनी / स्नात्वा तस्या दिवं यान्ति कामचारा विहङ्गमाः

在凯拉萨有牟当伽之池,能摧灭罪垢;于彼沐浴后,即便随意飞翔的鸟类亦得升天界。

Verse 37

शौर्पारके तथा तीर्थे पर्वते पालमञ्जरे / पाण्डुकूपे समुद्रान्ते पिण्डारकतटे तथा

在绍尔帕拉迦圣地、在帕拉曼阇罗山;在海滨的般度井(Pāṇḍukūpa),以及在宾达罗迦河岸亦复如是。

Verse 38

विमले च विपापे च संकल्पं प्राप्य चाक्षयम् / श्रीवृक्षे चित्रकूटे च जंबूमार्गे च नित्यशः

在清净无罪之地,可得不坏之誓愿(saṃkalpa);于圣树处、质多罗俱吒(Citrakūṭa)及阎浮之道(Jambūmārga)亦恒常如此。

Verse 39

असितस्य गिरौ पुण्ये योगाचार्यस्य धीमतः / तत्रापि श्राद्धमानन्त्यमसितायां च नित्यशः

在智者瑜伽师阿悉多(Asita)的福德圣山上,乃至在阿悉多河圣地(Asitā)中,常行施作的祭祖供养(śrāddha)被说为得无尽之果。

Verse 40

पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलमा / महोदधौ प्रभासे च तद्वदेव विनिर्दिशेत्

在普什迦罗(Puṣkara),祭祖供养(śrāddha)为不坏,苦行(tapas)亦得大果;在大海之滨的普罗婆娑(Prabhāsa)亦当如是宣说。

Verse 41

देविकायां वृषो नाम कूपः सिद्धनिषेवितः / समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः

在德维迦(Devikā)有一口名为“弗里沙”(Vṛṣa)的井,为诸悉地者所奉事;其水因牛声而恒常跃涌上腾。

Verse 42

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः / दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम्

此处常为诸瑜伽自在者所亲近,能除遣一切罪垢;凡在此施设祭祖供养(śrāddha)者,其所得之果,我将宣说。

Verse 43

अक्षयं सर्वकामीयं श्राद्धं प्रीणाति वै पितॄन् / जातवेदः शिला तत्र साक्षादग्नेः सनातनात्

此不灭、能满一切愿的施祖祭(śrāddha)确能令诸祖灵(Pitṛ)欢喜;彼处名为“阇多吠陀”(Jātaveda)的石,即是永恒火神阿耆尼(Agni)的亲现。

Verse 44

श्राद्धानि चाग्निकार्यं च तत्र कुर्यात्सदा क्षयम् / यस्त्वग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते

在彼处应常行施祖祭与火供,令其果报恒常不减;凡于彼处入火者,必在天界之巅欢喜受乐。

Verse 45

अग्निशान्तः पुनर्जातस्तत्र दत्तं ततो ऽक्षयम् / दशाश्वमेधिके तीर्थे तीर्थे पञ्चाश्वमेधिके

为火神阿耆尼所安抚者得以再生;因此在彼处所施之供养成为不灭之福。此圣地以“十马祭圣地”(Daśāśvamedhika)与“五十马祭圣地”(Pañcāśvamedhika)而著称。

Verse 46

यथोद्दिष्टफलं तेषां क्रतूनां नात्र संशयः / ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम्

诸祭仪(kratu)之果报,正如所宣说者在此必得,毫无疑虑。名闻遐迩的“马首”(Hayaśiro)圣地,能即刻赐予所愿之恩。

Verse 47

श्राद्धं तत्र सदाक्षय्यं दाता स्वर्गे च मोदते / श्राद्धं सुंदनिसुंदे च देयं पापनिषू दनम्

在彼处所行之施祖祭恒常不灭,施者亦于天界欢喜。于孙陀与尼孙陀(Sunda–Nisunda)相关之地/事迹处亦当施行施祖祭,此能摧灭罪业。

Verse 48

श्राद्धं तत्राक्षयं प्रोक्तं जपहोमतपांसि च / जतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन्

据说在彼处所行的施祖祭(śrāddha)得不坏之果;诵念(japa)、火供(homa)与苦行亦然。在吉祥的阇都恩伽圣地(Jatuṅga tīrtha),应常以供水礼(tarpaṇa)奉献祖灵(Pitṛ)。

Verse 49

दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम् / पृथिव्यामक्षयं दत्तं विरजा यत्र पादपः

在诸节期(parva)之日,常可见天界众生的影现;在彼处,于人间所施之布施成不坏功德;且彼处有名为“离尘”(Virajā)的树。

Verse 50

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः / दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम्

此处常为诸瑜伽自在者(Yogeśvara)所亲近,能摒除一切罪垢。凡在此施行祖祭(śrāddha)者,我将宣说其所得之果报。

Verse 51

अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा / अस्मिंल्लोके वशी च स्यात्प्रेत्य स्वर्गे मही यते

由此,祖灵(Pitṛ)便得以真实而恒常地受供养。此人在现世得自在与威势,身后于天界(svarga)受尊崇。

Verse 52

प्रायशो मद्रवा पुण्या शिवो नाम ह्रदस्तथा / तत्र व्याससरः पुण्यं दिव्यो ब्रह्मह्रदस्तथा

彼处多有名为“摩陀罗婆”(Madravā)的圣地,亦有名为“湿婆”(Śiva)的湖。其间又有清净的“毗耶娑池”(Vyāsasara)与神圣的“梵天湖”(Brahma-hrada)。

Verse 53

ऊर्ज्जन्तः पर्वतः पुण्यो यत्र योगेश्वरालयः / अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः

圣山名为“乌尔阇恩塔”,其上有瑜伽自在主(Yogēśvara)的神圣居所。此处亦有大圣仙瓦西什塔(Vasiṣṭha)的清净道场。

Verse 54

ऋग्यजुः सामशिरसः कपोताः पुष्पसाह्वयाः / आख्यान पञ्चमा वेदाः सृष्टा ह्येते स्वयंभुवा

由《梨俱》《夜柔》《娑摩》之“首部”生出名为“鸽”(Kapota)与“花”(Puṣpa)的支分;并以“传说叙事”(Ākhyāna)为第五吠陀,这一切皆由自生者(Svayaṃbhū)所创。

Verse 55

गत्वैतान्मुच्यते पापद्द्विजो वह्निं समाश्रयन् / श्राद्धं चानन्त्यमेतेषु जपहोमतपांसि च

前往这些圣地并依止圣火(阿耆尼),再生者便能脱离罪垢。在此所行的施食祭(śrāddha)果报无尽,诵念(japa)、火供(homa)与苦行(tapas)亦皆成就。

Verse 56

पुण्डरीके महातीर्थे पुण्डरीकसमं फलम् / ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलम्

在大圣地“莲华”(Puṇḍarīka)中,所得功德与莲华圣地等同。噫,大智者!在“梵圣地”(Brahmatīrtha)中,所得功德等同于一切祭祀(yajña)。

Verse 57

सिंधुसागरसंभेदे तथा पञ्चनदे क्षयम् / विरजायां तथा पुण्यं मद्रवायां च पर्वते

在信度河与大海的交汇处,以及在五河之地(Pañcanada),罪业得以消灭;在维拉阇河(Virajā)亦有同等功德,在马德拉瓦山(Madravā)亦复如是。

Verse 58

देयं सप्तनदे श्राद्धं मानसे वा विशेषतः / महाकूटे ह्यनन्ते च गिरौ त्रिककुदे तथा

在七河圣地,尤其在摩那萨处,应奉献施罗陀祭;在摩诃库塔、阿难多以及特里卡库达山亦当如是。

Verse 59

संध्यायां च महानद्यां दृश्यते महादद्भुतम् / अश्रद्दधानं नाभ्येति सा चाभ्येति धृतव्रतम्

在黄昏时分的大河中可见大奇迹:它不临近无信者,却临近持戒守誓之人。

Verse 60

संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः / तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिनाम्

他们彼此相依,日日趋向黄昏;因此,欲为祖灵求得不竭功德者,应常在彼处奉行施罗陀祭。

Verse 61

कृतात्मा वाकृतात्मा च यत्र विज्ञायते नरः / स्वर्गमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम्

人在此处被辨知为自成之人或未成之人;此圣地名为“赐天道者”,能即刻赐予恩愿。

Verse 62

चीराण्युत्सृज्य यस्मिंस्तु दिवं सप्तर्षयो गाताः / अद्यापि तानि दृश्यन्ते चीराण्यंभोगतानि तु

在那处,七仙弃下衣钵而升天;直到今日,那些衣物仍可见于水中。

Verse 63

स्नात्वा स्वर्गमवाप्नोति तस्मिंस्तीर्थेत्तमे नरः / ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितम्

人在那最殊胜的圣地沐浴,便得升天界。彼处有南迪著名圣所,为诸成就者所奉事。

Verse 64

नन्दीश्वरस्य सा मूर्त्तिर्निराचारैर्नदृश्यते / दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करोदये

南迪自在天的圣像,不为无戒行者所见;然于日出之时,可见金色祭柱与其灿然光辉。

Verse 65

कृत्वा प्रदक्षिणं तांस्तु गच्छन्त्यानन्दिता दिवम् / सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः

绕行礼敬彼等之后,信众欢喜而升天界。遍处库鲁之野皆为善渡处,而此地尤为殊胜。

Verse 66

पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः / कीर्त्यते च तिलान्दत्त्वा पितृभ्योवै सदाक्षयम्

大圣瑜伽主宰善达库玛罗之功德如是称扬:以芝麻供施诸祖灵(pitṛ),得常住不尽之果报。

Verse 67

उक्तमेवाक्षयं श्राद्धं धर्मराजनिषेवितम् / श्राद्धं दत्तममावास्यां विधिना च यथाक्रमम्

所谓“不坏的施祖祭”(akṣaya śrāddha),正是法王所奉行者:于新月日(amāvasyā)依仪轨次第所行之施祖祭。

Verse 68

पुंसः सन्निहितायां तु कुरूक्षेत्रे विशेषतः / अर्चयित्वा पितॄंस्तत्र स पुत्रस्त्वनृणो भवेत्

在俱卢之野(库鲁克舍特拉)尤为殊胜之处,若在彼处供奉礼敬诸祖灵(Pitṛ),其子便得脱离对祖先之债。

Verse 69

सरस्वत्यां विनशने प्लक्षप्रश्रवणे तथा / व्यासतीर्थे दृषद्वत्यां त्रिप्लक्षे च विशेषतः

在萨拉斯瓦蒂河的维那沙那、普拉克沙泉源处;在德里沙德瓦蒂河的毗耶娑圣渡;以及三普拉克沙处——皆尤为殊胜。

Verse 70

देयमोङ्कारपवने श्राद्धमक्षयमिच्छता / शक्रावतारे गङ्गायां मैनाके च नगोत्तमे

欲求不坏之施(阿克沙耶·施拉达)者,当于“唵迦罗清风之地”行施拉达;亦当于恒河之“释迦罗降临圣渡”及至胜的美那迦山行之。

Verse 71

यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते / अत्युष्णाश्चातिशीताश्च आपस्तस्मिन्निदर्शनम्

在亚穆那河的源头,人得解脱一切罪垢;彼处之水或极热、或极寒,此即其征相。

Verse 72

यमस्य भगिनी पुष्या मार्त्तण्डदुहिता शुभा / तत्राक्षयं सदा श्राद्धं पितृभिः पूर्वकीर्त्तितम्

阎摩之妹、吉祥的“摩尔坦达”之女普什雅;在彼处,祖灵早已宣说:所行施拉达恒得不坏之果。

Verse 73

ब्रह्मतुण्डह्रदे स्नात्वा सद्दयो भवति ब्राह्मणः / तस्मिंस्तु श्राद्धमानन्त्यं जपहोमतपांसि च

在梵天之口圣池(Brahmatuṇḍa)沐浴者,婆罗门当下即得清净。于此圣地行施祖祭(śrāddha)得无量果报,诵念(japa)、火供(homa)与苦行亦皆成就功德。

Verse 74

स्थाणुभूतो ऽचरत्तत्र वसिष्टो वै महातपाः / अद्यापि तत्र दृश्यन्ते पादपा मणिबर्हणाः

大苦行者婆悉吒(Vasiṣṭha)在彼处如柱般不动而住。直至今日,那里仍可见饰若宝珠之树木(maṇi-barhaṇa)。

Verse 75

तुला तु दृश्यते तत्र धर्मान्धर्मनिधर्शिनी / यथा वै तोलितं विप्रैस्तीर्थानां फलमुत्तमम्

彼处可见一架衡量,能鉴别正法与非法。仿佛由诸婆罗门称量而显现诸圣地(tīrtha)之最上果报。

Verse 76

पितॄणां दुहिता योगा गन्धकालीति विश्रुता / चतुर्थो ब्रह्मणस्त्वंशः पराशरकुलोद्भवः

诸祖灵(Pitṛ)之女名为瑜伽(Yogā),以“甘达迦梨”(Gandhakālī)著称。她出自帕罗沙罗(Parāśara)家族,被说为梵天(Brahmā)的第四分。

Verse 77

व्यसिष्यति चतुर्द्धा वै वेदं धीमान्महामुनिः / महायोगं महात्मानं या व्यासं जनयिष्यति

睿智的大圣仙将把吠陀分为四部;而生出大瑜伽行者、伟大圣者毗耶娑(Vyāsa)的,也正是她。

Verse 78

अच्छोदकं नामसरस्तत्राच्छोदासमुद्भवः / मत्स्ययोनौ पुनर्जाता नियोगात्कारणेन तु

彼处有名为“阿阇陀迦”(Acchodaka)之圣池,阿阇陀(Acchodā)即由此而生。由于尼约伽之因缘,她复生于鱼类之胎。

Verse 79

तस्यास्त्वाद्याश्रमे पुण्ये पुण्यकृद्भिर्निषेविते / दत्तं सकृदपि श्राद्धमक्षयं समुदाहृतम्

在她最初的圣洁道场中,为行善积德者所常来礼敬;即便只施设一次施罗陀(śrāddha),亦被称为得“无尽”(akṣaya)之果。

Verse 80

नद्यां योगसमाधानं दत्तं युगपदुद्भवेत् / कुबेरतुङ्गे पापघ्नं व्यासतीर्थेतथैव च

于河中以瑜伽三昧安住而施,其果报即刻同生。在“俱毗罗崇”(Kuberatuṅga)与“毗耶娑圣渡”(Vyāsatīrtha)亦被称为灭罪之行。

Verse 81

पुण्यायां ब्रह्मणो वेद्यां श्राद्धमानन्त्यमिष्यते / सिद्धैस्तु सेविता नित्यं दृश्यते तु कृतात्मभिः

在福德圆满的梵天圣坛(Brahma-vedī)所行施罗陀,被认作得无量无尽之果。诸悉地者恒常奉事其处,心已成就者亦得亲见。

Verse 82

अनिवर्तनं तु नन्दायां वेद्याः प्रागुत्तरदिशि / सिद्धिक्षेत्रं सुरैर्जुष्टं यत्प्राप्य न निवर्त्तते

在圣坛之东北(伊舍那)方位的难陀(Nandā)处,有名为“无返”(Anivartana)之成就圣域,为诸天所喜;得至彼处者,不复再返。

Verse 83

महालये पदं न्यस्तं महादेवेन धीमता / भूतानामनुकंपार्थं नास्तिकानां निदर्शनम्

在摩诃罗耶(Mahālaya),睿智的大自在天(Mahādeva)安置了圣足印,为怜悯诸鬼神众(bhūta),亦为不信者示现明证。

Verse 84

विरजे त्वक्षयं श्राद्धं पूर्वमेव महालये / नन्दायां विरजे चैव तथैव च महालये

在毗罗阇(Virajā)与摩诃罗耶(Mahālaya),自古即行“不尽施”的阿克沙耶祭祖供养(akṣaya śrāddha);在难陀(Nandā)、毗罗阇以及同样在摩诃罗耶亦复如是。

Verse 85

आत्मानं तारयन्तीह दशपूर्वान्दशापरान् / काकह्रदे जातिस्मर्यं सुवर्णममितौजसम्

在此,他们自度解脱,并使前十代与后十代同得超度;于迦迦湖(Kāka-hrada)可得赐予宿命记忆之果,金色辉耀,威光无量。

Verse 86

कौमारं च सरः पुण्यं नागभोगाभिरक्षितम् / कुमारतीर्थे स्नात्वा तु त्रिदिवं याति मानवः

名为“童子池”(Kaumāra)的圣湖由龙族(nāga)之伞盖守护;凡于“童子圣渡”(Kumāra-tīrtha)沐浴者,得往三十三天(Tridiva)。

Verse 87

देवालये तपस्तस्वा एकपादेन दुश्चरम् / निराहारो युगं दिव्यमुमातुङ्गो स्थितो ज्वलन्

在神庙中,他以独足行难行苦行;断食一整个天界劫期,乌玛图恩伽(Umātuṅga,乌玛之所爱)炽然屹立。

Verse 88

उमातुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये / तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता

在乌玛通伽、婆利古通伽、梵通伽与摩诃罗耶之地,欲求恒常不减之福者,应当常常于彼处奉献施行施罗陀祭。

Verse 89

अक्षयं तु सदा श्राद्धं शालग्रामे समन्ततः / दुष्कृतं दृश्यते तत्र प्रत्यक्षमकृतात्मनाम्

在沙罗伽罗摩之地,四周所行的施罗陀祭恒为不减;在那里,未自修者的恶业会清楚地显现于眼前。

Verse 90

प्रत्यदेशो ह्यशिष्टानां शिष्टानां च विशेषतः / तत्र देवह्रदः पुण्यो ब्रह्मणो नागराट् शुचिः

此地对无礼之人是警戒之境,对贤善之人尤为殊胜吉祥;其间有梵天的圣净“天池”(Devahrada)与清澈的“那伽罗特”(Nāgarāṭ)。

Verse 91

पिण्डं गृह्णति हि सतां न गृह्णात्यसतां सदा / अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते

善人之供团(piṇḍa)在彼处得以受纳,恶人之供团则永不受纳;正如在烈焰般炽盛的群蛇之间,无法进食一般。

Verse 92

प्रत्यक्षं दृश्यते धर्मस्तीर्थयोर्नतयोर्द्वयोः / कारवत्यां च शाण्डिल्यां गुहायां वामनस्य च

在名为“那塔”(Nata)的两处圣地,正法可得亲见;在迦罗伐底、商提利耶以及侏儒化身婆摩那的圣窟中亦复如是。

Verse 93

गत्वा चैतानि पूतःस्याच्छ्रदद्धमक्षयमेव च / जपो होमस्तपो ध्यानं यत्किञ्चित्सुकृतं भवेत्

前往这些圣地者得以清净,其信心亦成不坏。诵念(japa)、火供(homa)、苦行、禅观,以及任何善业,皆能成就功德。

Verse 94

ब्रह्मचर्यं च यौ धत्ते गुरुभक्तिं शतं समाः / एवमाद्यास्सरिच्छ्रेष्ठा यत्स्नानादघमोक्षणम् / कुमारधारा तत्रैव दृष्टा पापं प्रणश्यति

守持梵行并百年敬奉师长者——此等为最初最胜之诸河;于其水中沐浴能解脱罪垢。就在彼处,唯见“童子之流”(Kumāradhārā),罪亦消灭。

Verse 95

ध्यानासनं तु तत्रैव व्यासस्याद्यापि दृश्यते / शैलः कान्तिपुराभ्याशे प्रागुदीच्यां दिशि स्थितः

就在彼处,至今仍可见毗耶娑的禅坐之座。那座岩山位于迦安提补罗附近,处在东北方向。

Verse 96

पुण्य पुष्करिणी तत्र किरातगणरक्षिता / यस्यां स्नात्वा सकृद्विप्रः कामानाप्नोति शाश्वतान्

彼处有一方福德圣池(puṣkariṇī),由基罗多众守护。婆罗门只需在其中沐浴一次,便能获得恒常所愿。

Verse 97

अदृश्यः सर्वभूतानां देववच्चरते महीम्

他对一切众生皆不可见,却如天神一般行走于大地。

Verse 98

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् / तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता

迦叶波的大神圣渡口,传闻名为“迦罗萨尔毗”。欲求恒常不坏之福者,当于彼处常行施设祭祖供养(śrāddha)。

Verse 99

देवदारुवने वापि धारायास्तु निदर्शनम् / निर्धूतानि तु पापानि दृश्यन्ते सुकृतात्मनाम्

即便在天雪松林中,也可见此水流之征:善业之人之罪垢,仿佛被冲刷而净,清晰可见。

Verse 100

भागीरथ्यां प्रयागे तु नित्यमक्षयमुच्यते / कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले

在薄伽罗提河畔的普罗耶伽,据说功德恒常不坏;在迦楞阇罗、达沙尔那、奈弥沙与俱卢旃伽罗亦复如是。

Verse 101

वाराणस्यां नगर्यां च देयं श्राद्धं प्रयत्नतः / तत्र योगेश्वरो नित्यं तस्यां दत्तमथाक्षयम्

在瓦拉纳西城中,也应殷勤施设祭祖供养(śrāddha)。彼处瑜伽自在主恒常安住,因此在彼处所施皆成不坏。

Verse 102

गत्वा चैतानि पूर्तः स्याच्छ्राद्धमक्षय्यमेव च / जबो होमस्तथा ध्यानं यत्किञ्चित्सुकृतं भवेत्

前往这些圣地,便得圆满“普尔塔”之功德,所行祭祖供养(śrāddha)亦成不坏。诵念(japa)、火供(homa)、禅观(dhyāna)——凡所作善业,皆得其果。

Verse 103

लौहित्ये वैतरण्यां चस्वर्गवेद्यां तथैव च / सा तु देवी समुद्रान्ते दृश्यते चैव नामभिः

在娄希底耶、毗多罗尼与天界祭坛等处,那位女神亦于海滨显现,以诸多圣名为人所见。

Verse 104

गयायां धर्मवृष्ठे तु सरसि ब्रह्मणस्तथा / गयां गृध्रवटे चैव श्राद्धं दत्तं महाफलम्

在伽耶的“法雨”池、梵天池,以及伽耶的鹫树坛处所施的施祖祭(śrāddha),能得极大功德果报。

Verse 105

हिमं च पतते तत्र समन्तात्पञ्चयो जनम् / भरतस्याश्रमे पुण्ये ऽरण्यं पुण्यतमं स्मृतम्

彼处四周五由旬之内皆有降雪;婆罗多圣者的清净道场之林,被忆念为最为殊胜的福地。

Verse 106

मतङ्गस्य वनं तत्र दृश्यते सर्वमानुषैः / स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम्

在那里,马当伽仙人的林苑为众人所见;它是为此世所立、彰显法(Dharma)全体精髓的明证。

Verse 107

यद्दण्डकवनं पुण्यं पुण्यकृद्भिर्निषेवितम् / यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम्

那为行善者所依止的清净檀陀迦林中,有名为“离创”(Viśalyā)的圣地,能即刻得见其胜相。

Verse 108

तुलामानैस्तथा चापि शास्त्रैश्च विविधैस्तथा / उन्मच्चन्ति तथा लग्न ये वै पापकृतो जनाः

造恶之人执著于衡量尺度与种种经典,心被系缚,行止如狂乱之徒。

Verse 109

तृतीयायां तथा पादे निराधायां तु मण्डले / महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम्

在第三日(Tṛtīyā)之分段,于尼罗陀曼荼罗、拘尸姬之大湖处所施的祭祖供养(śrāddha),得大果报。

Verse 110

मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता / बहुदेवयुगांस्तप्त्वा तपस्तीव्रं सुदश्चरम्

在穆ṇḍ之背上,睿智的摩诃提婆踏下足迹;历经无数天神劫(deva-yuga),修行极其严峻难行之苦行。

Verse 111

अल्पेनाप्यत्र कालेन नरो धर्मपरायणः / पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः

在此处,即使短暂时日,奉持正法之人也能迅速弃除罪垢,如蛇蜕去旧皮。

Verse 112

सिद्धानां प्रीतिजननं पपानां च भयङ्करम् / लेलिहानैर्महाघोरै रक्ष्यते सुमहोरगैः

此处令成就者(siddha)心生欢喜,却使罪人胆寒;有吐舌舔舐的极其可怖巨蛇守护。

Verse 113

नाम्ना कनकनन्दीति तीर्थं जगति विश्रुतम् / उदीच्यां मुण्डपृष्टस्य ब्रह्मर्षिगणसेवितम्

名为“Kanakanandī”的圣地在世间闻名;它位于Muṇḍapṛṣṭa之北,常为诸婆罗门仙众所供奉。

Verse 114

तत्र स्नात्वा दिवंयान्ति स्वशरीरेण मानवाः / दत्तं वापि सदा श्राद्धमक्षय्यं समुदाहृतम्

在彼处沐浴者,能以此身升往天界;在彼处所行的施与与祭祖(śrāddha),亦被称为常得不灭之果。

Verse 115

ऋणैस्त्रिभिस्ततः स्नात्वा निष्क्रीणाति नरस्तनुम् / मानसे सरसि स्नात्वा श्राद्धंनिर्वर्त्तयेत्ततः

在彼处沐浴后,人得以脱离三种圣债而赎净其身;继而于玛那萨湖沐浴,并在其后完成祭祖之礼(śrāddha)。

Verse 116

तीरे तु सरसस्तस्य देवस्या यतनं महत् / आरुह्य तु जपंस्तत्र सिद्धो याति दिवं ततः

在那湖畔,有彼神祇宏伟的圣所;登临其处而持诵(japa)者,得成就而由此升天。

Verse 117

उत्तरं मानसं गत्वासिद्धिं प्राप्नोत्यनुत्तमाम् / स्नात्वा तस्मिन्सरश्रेष्ठे दृश्यते महादद्भुतम्

前往北方的玛那萨,便能获得无上成就;在那最胜之湖中沐浴时,将见到宏大的奇妙景象。

Verse 118

दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते / गङ्गा त्रिपथगा देवी विष्णुपादाच्च्युता सती

吉祥尊贵的恒河自天界降下,在虚空中辉耀。她是行于三界之路的女神,圣洁地从毗湿奴之足流出。

Verse 119

आकाशे दृश्यते तत्र तोरणं सूर्यसन्निभम् / जांबूनदमयं पुण्यं स्वगद्वारमिवायतम्

在那里,天空中可见一座如太阳般光耀的门阙。它以圣洁的阎浮那陀黄金铸成,宛如广阔的天界之门。

Verse 120

ततः प्रवर्त्तते भूयः सर्वसागरमण्डिका / पावनी सर्वभूतानां धर्मज्ञानां विशेषतः

随后她再次奔流,仿佛环绕诸海成一大圈。她净化一切众生,尤其净化通达法义之人。

Verse 121

चन्द्रभागा च सिद्धुश्च शुभे मानससंभवे / सागरं पश्चिमं यातो दिव्यः सिंधुनदो वरः

源自吉祥的摩那斯湖的旃陀罗婆伽与信度——这条神圣卓越的信度河,流向西方大海。

Verse 122

पर्वतो हिमवान्नाम नानाधातुविभूषितः / आयतो वै सहस्राणि योजनानां बहुनि तु

名为喜马梵的山岳,以种种矿石金属为饰;其绵延广阔,达数千由旬之遥。

Verse 123

सिद्धचारणसंकीर्णा देवर्षिगणसेविता / तत्र पुष्करिणी रम्या सुषुम्णा नाम नामतः

彼处遍集悉达与查罗那,复为天仙圣贤众所侍奉;其间有一处清妙圣池,名号称为“苏舒姆那”。

Verse 124

दशवर्षसहस्राणि तस्यां स्नातस्तु जीवति / श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम्

于彼池中沐浴者,得寿一万年;在彼处所施之祭祖供养(施罗陀),功德无尽,成就大福德之兴起。

Verse 125

तारयेच्च सदा श्राद्धे दशपूर्वान्दशापरान् / सर्वत्र हिमवान्पुण्यो गङ्गा पुण्या समन्ततः

于施罗陀之祭中,常能度脱前十代与后十代;雪山(喜马万)处处为福地,恒河亦四方皆清净。

Verse 126

समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः / एवमादिषु चान्येषु श्राद्धं निर्वर्तयेद्बुधः

入海诸河与诸大海,皆四方具福德;如是等诸处及其他圣地,智者当圆满行施罗陀。

Verse 127

पुतो भवति वै स्नात्वा हुत्वा दत्त्वा तथैव च / शेलसानुषु शृङ्गेषु कन्दरेषु गुहासु च

既沐浴、行火供、施布施者,必得清净——即便在山坡、山巅、峡谷与洞窟之中亦然。

Verse 128

उपह्वरनितंबेषु तथा प्रस्रवणेषु च / पुलिनेष्वापगानां च तथैव प्रभवेषु च

在幽谷的坡岸处,也在泉水涌流之地;在诸河的沙洲上,亦在其发源之处。

Verse 129

महोदधौ गवां गोष्टे संगमेषु वनेषु च / सुसंमृष्टोपलिप्तेषु त्दृद्येषु सुरभिष्वथ

在大海之滨、在牛群的牛舍、在诸水汇合处与林野之中;于细致抹平涂饰、坚实而芬芳之处。

Verse 130

गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च / कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि

即便在以牛粪涂抹的清净僻静之屋中;亦当于此等处依仪轨恒常修行施行“施罗陀”(Śrāddha)。

Verse 131

प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकीर्षया / एवमेतेषु सर्वेषु श्राद्धं कुर्यादतन्द्रितः

趋向东南之方,为成就一切所愿;如是于诸处皆当不懈地行施罗陀(Śrāddha)。

Verse 132

एतेष्वेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् / त्रैवर्णविहितैः स्थाने धर्मे वर्णाश्रमे रतैः

唯于这些地方,智者得证“梵性之成就”(Brahmī-siddhi);此乃三姓所共许之处,乐住于法与种姓—住期(Varṇāśrama)之行者所在。

Verse 133

कौपस्थानं च संत्यागात्प्राप्यते पितृपूजनम् / तीर्थान्यनुसरन्वीरः श्रद्दधानः समाहितः

舍离“考帕斯坦”之执著,便得祭奉祖灵之功德。勇者怀信(śraddhā)而心专一,随行诸圣地(tīrtha)。

Verse 134

कृतपापो ऽपि शुध्येत किं पुनः शुभकर्मकृत् / तिर्यग्योनिं न गच्छेच्च कुदेशे च न जायते

造过罪者尚可得清净,何况行善业者!他不堕畜生之胎,亦不生于恶国。

Verse 135

स्वर्गी भवति विप्रो वै मोक्षोपायं च विन्दति / अश्रद्दधानः पापायुर्नास्तिको ऽच्छिन्नसंशयः

婆罗门得生天界,亦得解脱(mokṣa)之方便;然无信(śraddhā)、寿命系于罪业、且为不信者(nāstika),其疑惑终不断绝。

Verse 136

हेतुनिष्ठश्च पञ्चैते न तीर्थे फलभागिनः / गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम्

执著于因由论辩的这五类人,不得分受圣地(tīrtha)之果。唯在师长圣地(guru-tīrtha)有至上成就;此乃诸圣地之最高境位。

Verse 137

ध्यानं तीर्थं परं तस्माद्ब्रह्मतीर्थं सनातनम् / उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम्

是故禅观(dhyāna)为至上圣地——永恒的梵之圣地(Brahma-tīrtha)。较之斋戒更胜者为禅观,能令诸根收摄退息。

Verse 138

उपवासनिबद्धैर्हि प्राणैरेव पुनः पुनः / प्राणापानौ वशे कृत्वा वशगानीन्दियाणि च

以斋戒所系之气息,反复调御入息与出息(prāṇa、apāna),并使诸根亦皆顺服于制御。

Verse 139

बुद्धिं मनसि संयम्य सर्वेषां तु निवर्त्तनम् / प्रत्याहारं कृतं विद्धि मोक्षोपायमसंशयम्

将觉知(buddhi)摄入于心(manas),令一切皆退回收摄;当知此即“制感”(pratyāhāra),无疑是趋向解脱之道。

Verse 140

इन्द्रियाणां मनो घोरं बुद्ध्यादीनां विवर्त्तनम् / अना हारो क्षयं याति विद्यादनशनं तपः

随逐诸根之心甚为猛烈,能令觉知等亦生转变;然不食(anāhāra)终将衰竭,当知绝食之行(anaśana)乃为苦行(tapas)。

Verse 141

निग्रहे बुद्धिमन्सोरन्यबुद्धिर्न जायते / क्षीणेषु सर्वदोषेषु क्षीणेष्वेवेन्द्रियेषु च

当觉知与心意被摄伏时,别样的分别智不再生起;诸过皆尽、诸根亦渐息之时。

Verse 142

परिनिर्वाति शुद्धात्मा यथा वह्निरनिधनः / कारणेभ्यो गुणेभ्यश्च व्यक्ताव्यक्ताच्च कुत्स्नशः

清净之我如无尽之火而归于寂然;于诸因、诸德性(guṇa),以及显与不显(vyakta/avyakta)之境,皆彻底超越。

Verse 143

नियोजयति क्षेत्रज्ञं तेभ्योयोगेन योगवित् / तस्य नास्ति गतिः स्थानं व्यक्ताव्यक्ते च सर्वशः / न सन्नासन्न सदसन्नैव किञ्चिदवस्थितः

通达瑜伽者以瑜伽令“田知者”(Kṣetrajña)安置于诸理之中。于显与不显的一切处,彼无去来,亦无住处。彼非有、非无,亦非有无并存——不住于任何状态。

Frequently Asked Questions

That even a single, properly performed act of Pitṛ worship—especially piṇḍa-dāna and tarpaṇa in a potent kṣetra—can greatly please the Pitṛs and yield enduring (akṣaya) results, supporting heavenly ascent and gradual liberation.

Amarakantaka is foregrounded as a tri-loka-puṇya mountain-kṣetra where tapas traditions (Aṅgiras) and tīrtha features (lakes/rivers) make it a high-intensity node in the Purāṇic merit economy, linking place with post-mortem destiny.

Jvālāsaras is presented as a sacred reservoir manifesting on observance-days, while the river Viśalyakaraṇī is described as removing afflictions; together they mark the site as both ritually efficacious and therapeutically auspicious for śrāddha-associated practice.