Adhyaya 11
Anushanga PadaAdhyaya 11116 Verses

Adhyaya 11

Pitṛ-Śrāddha Vidhi: Rājata-dāna, Kṛṣṇājina, and Vedi/Garta Construction (Ancestral Rite Protocols)

本章以圣贤对话的形式作技术性仪轨说明,所引偈颂中由布里哈斯帕提(Bṛhaspati)亲自开示。经文强调若在祖灵施食(Pitṛ-Śrāddha)中配用银器(rājata)并行与银相关之布施,可得“无尽之果”(akṣaya-phala),并使后裔得以“济度”祖灵(Pitṛ)。又列举诸清净吉祥之物:金(kanaka)、银、芝麻(tilā)、kutupa,以及黑羚羊皮(kṛṣṇājina)的持有或供施,称其能护身辟邪(rakṣoghna),增长梵光威德(brahma-varchas)、牛畜、子嗣与富饶。程序部分规定祭坛/坛座(vedi)置于东南方,方形尺度端正,并备三坑(garta)与三根 khadira 木柱/杖,详述尺寸与朝向;并提到以净水与 pavitra 行净化,以及以羊乳或牛乳作洁净。此法与持续的 tarpaṇa 相连,若持咒并守戒律,尤在新月日(amāvāsyā)行之,则功德高胜,堪比马祭(aśvamedha)之果。所许之报为资养丰足、王权与兴盛、寿命延长、族脉增长、天界光辉,并渐次趋入解脱(mokṣa)。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे पितृराज्य कल्पो नाम दशमो ऽध्यायः // १०// बृहस्पतिरुवाच राजतं राजताक्तं वा पितॄणां पात्रमुच्यते / राजतस्य कथावापि दर्शनं दान मेव वा

如是,在《圣梵卵大摩诃往世书》(风神所宣)中部第三“序说品”,名为“祖灵王国仪轨”的第十章。布里哈斯帕提曰:供奉祖灵(Pitṛ)之器,当用白银或镀银;即便听闻银之功德、得见其形,或以银施舍,亦皆成福德。

Verse 2

अनन्तमक्षयं स्वर्गे राजते दानमुच्यते / पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत

银之布施在天界被称为得无量不尽之果;凭此布施,贤善之子亦能度脱祖灵(Pitṛ)。

Verse 3

राजते हि स्वधा दुग्धा पात्रे तैः पृथिवी पुरा / स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम्

昔日在大地上,彼等祖灵(Pitṛ)曾将“斯瓦达”(svadhā)汲入银器之中;孩子啊,诸王若于此银器中奉献斯瓦达,其功德便成不尽(akṣaya)。

Verse 4

कृष्णाजिनस्य सांनिध्यं दर्शनं दानमेव च / रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत्

亲近黑羚皮、瞻礼其相并以之布施,皆能摧灭邪魅,增长婆罗门光辉,并能护佑牲畜与子嗣得以度脱。

Verse 5

कनकं राजतं पात्रं दौहित्रं कुतुपस्तिलाः / वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा

黄金、白银、器皿、赐予外孙之施、库图帕时与芝麻——皆为净化之物;或修持三杖行者(Tridaṇḍī)之瑜伽亦然。

Verse 6

श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः / आयुःकीर्तिप्रजैश्वर्यप्रज्ञासंततिवर्द्धनः

于施罗陀(śrāddha)仪轨中,此乃最胜、永恒之婆罗门法;能增长寿命、名声、子嗣、福贵、智慧与家族绵延。

Verse 7

दिशिदक्षिणपूर्वस्यां वेदिस्थानं निवेदयेत् / सर्वतो ऽरत्निमात्रं च चतुरस्रं सुसंस्थितम्

当于东南方指示坛(vedi)之处;其形四方端正,四边各一肘(aratni)之量,安置稳固。

Verse 8

वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासितम् / धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा

我将宣说依诸祖灵(Pitṛ)所教之如法处所;其地吉祥,赐寿与安康,并增长气力与色相光辉。

Verse 9

तत्र गर्तास्त्रयः कायार्स्त्रयो दण्डाश्च खादिराः / अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः

于彼处当作三穴,又作三根以卡迪罗木制之杖。其杖长一肘许,并以白银庄严装饰。

Verse 10

ते वितस्त्यायता गर्त्ताः सर्वतश्चतुरङ्गुलाः / प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा

其穴当长一维塔斯提,四周各四指之量。应令其向东南,坚固而不空洞。

Verse 11

अद्भिः पवित्रयुक्ताभिः पावयेत्सततं शुचिः / पयसा ह्याज गव्येन शोधनं चाद्भिरेव च

以具“圣草环”(pavitra)之水,清净者当恒常自净。又以山羊乳与牛乳为净,并以水而净之。

Verse 12

सततं तर्पणं ह्येतत्तृप्तिर्भवति शास्वती / इह वामुत्र य वशी सर्वकामसमन्वितः

此乃恒常之“供养满足”(tarpaṇa);由此得永恒之满足。能如是自制者,于此世彼世皆具足一切所愿。

Verse 13

एवं त्रिषवणस्नातो योर्ऽचयेत्प्रयतः पितॄन् / मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत्

如是于三时沐浴者,若以恭敬之心依仪轨持诵真言而供奉祖灵(Pitṛ),则得阿湿婆美陀(Aśvamedha)大祭之果报。

Verse 14

तान्स्थापयेदमावास्यां गर्त्तान्वै चतुरङ्गुलान् / त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः

在阿摩婆娑夜(新月日),应安置深四指的坑穴。此等祭祀具“三乘七”(二十一)之仪式,由此支撑三界。

Verse 15

तस्य पुष्टिस्तथैश्वर्यमायुः संततिरेव च / दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात्

彼人得滋养、福贵、寿命与子嗣增长;在天界亦因吉祥天女(拉克希米)之光而辉耀,并将循序获得解脱。

Verse 16

पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेत् / अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम्

彼得能灭罪、净化之马祭(阿湿婆梅陀)之果报;此马祭之果报,乃由诸婆罗门(再生者)依仪轨净治而礼敬。

Verse 17

मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् / देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च

因此我将宣说由梵(梵天/梵)所造、如甘露般的真言;此真言奉献于诸天、祖灵(Pitṛ)以及大瑜伽行者。

Verse 18

नमः स्वाहयै स्वधायै नित्यमेव भवत्युत / आद्धे ऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा

恒常礼敬“娑嚩诃”(Svāhā)与“娑陀”(Svadhā)。在施行祭祖供养(śrāddha)之始与终,当常诵三遍。

Verse 19

पिण्डनिर्वपणे वापि जपेदेतं समाहितः / क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च

即使在施供团食(piṇḍa)之时,若能摄心诵此真言,祖灵(Pitṛ)便迅速来临,罗刹亦将奔散而去。

Verse 20

पित्र्यं तु त्रिषु कालेषु मन्त्रो ऽयं तारयत्युत / पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः

此为祭祖之真言,若于三时诵持,确能度脱;在施行śrāddha(祭奠)时,持戒的梵行者亦常恒诵读。

Verse 21

राज्यकामो जपेदेतं सदा मन्त्रमतन्द्रितः / वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम्

欲求王权者,当恒常不懈诵此真言;它增长精力、勇武、财富、清净之性(sattva)、福佑、寿命与智慧。

Verse 22

प्रीयन्ते पितरो येन जपेन नियमेन च / सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम्

以何种持诵与戒律能令祖灵欢喜,我将宣说那吉祥、能满一切愿的“七焰(Saptarciṣ)”。

Verse 23

अमूर्त्तीनां समूर्त्तिनां पितॄणां दीप्ततेजसाम् / नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम्

我恒常礼敬诸祖灵:或无形、或有形,光辉炽盛;彼等为禅观之士,具瑜伽之眼。

Verse 24

इन्द्रादीनां च नेतारो दशमारीचयोस्तथा / सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान्

我礼敬因陀罗等诸天之领袖、十位摩利支,以及七圣仙之祖灵(Pitṛ);愿诸位赐予所求,我今顶礼。

Verse 25

मन्वादिनां च नेतारः सूर्याचन्द्रमसोस्तथा / तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि

我礼敬诸摩奴之领袖,亦礼敬日神与月神之领袖;顶礼诸位之后,我亦奉行一切与祖灵(Pitṛ)相关之仪轨。

Verse 26

नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनथ / द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः

我常以合掌礼敬:星宿与诸 ग्रह之祖灵、风神与火神之祖灵,以及天与地(Dyāvā–Pṛthivī)之祖灵。

Verse 27

देवर्षीणां च नेतारः सर्वलोकनमस्कृताः / त्रातारः सर्वभूतानां नमस्यामि पितामहान्

我礼敬诸位毗多摩诃(祖父祖灵):为天仙圣者(Devarṣi)之领袖,受一切世界敬礼,护佑诸有情。

Verse 28

प्रजापतेर्गवां वह्नेः सोमाय च यमाय च / योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः

我常合掌礼敬:生主(Prajāpati)、圣牛、火神阿耆尼、苏摩、阎摩,以及诸位瑜伽自在者(Yogeśvara)。

Verse 29

पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु / स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे

礼敬七界之中七类祖灵(Pitṛ)众;亦礼敬自生者梵天(Brahmā),具瑜伽之眼者。

Verse 30

एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेवितम् / पवित्रं परमं ह्येतच्छ्रीमद्रोगविनाशनम्

此即所谓“七焰(Saptārci)”之颂,为诸梵仙所奉事;至极清净,具吉祥光辉,能灭诸病。

Verse 31

एतेन विधिना युक्तस्त्रीन्वरांल्लभते नरः / अन्नमायुः सुताश्चैव ददते पितरो भुवि

依此法而行者,得三种恩赐;在世间,祖灵赐予食粮、寿命与子嗣。

Verse 32

भक्त्या परमया युक्तः श्रद्धधानो जितेन्द्रियः / सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः

若有人具至上虔敬,怀信心,制伏诸根,恒常摄心而诵“七焰(Saptārci)”,

Verse 33

सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् भवेत् / यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा

在七洲七海之大地上,他将成独尊之王;其家中所烹之物,无论点心或正餐,

Verse 34

अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा / क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम्

在那不相宜之处,未先奉献则不可食用;从此以后,我将依次宣说供献巴利之器。

Verse 35

येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रुणु / पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना

当听我所说:各器各有其果;以帕拉沙者得梵辉,以阿湿瓦他者生财宝之念与丰饶。

Verse 36

सर्वभूताधिपत्यं च प्लक्षे नित्यभुदात्दृतम् / पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः

于普拉克沙,恒说得统御一切众生;于尼耶伽罗陀,得滋养与子嗣,并得慧、智、坚忍与忆念。

Verse 37

रशोध्नं च यशस्यं च काश्मरीपात्रमुच्यते / सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम्

所谓迦湿摩利之器,能息病并赐名声;而以摩度迦者,世间得最上吉祥福运。

Verse 38

फलगुपात्रेषु कुर्वाणः सर्वान्कामानवाप्नुयात् / परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः

于法拉古之器行仪者,得一切所愿;而于阿尔迦者,得最上光辉,尤得殊胜明耀。

Verse 39

बैल्वे लक्ष्मीन्तथा मेधां नित्यमायुस्तथैव च / क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह

在毕尔瓦树旁,吉祥天女拉克希米、智慧与长寿恒常增长;田地、园林、池塘及一切庄稼之中亦皆充满祥瑞。

Verse 40

वर्षत्य जस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः / एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः

为供养而以竹器盛置食物者,雨神帕尔迦尼亚便不断降雨;唯在这些清净善器中,应将饮食之初分毫无遗地奉献。

Verse 41

सदा दद्यात्स यज्ञानां सर्वेषां फलमाप्नुयात् / पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः

恒常布施者,得一切祭祀之果;并且专心向祖灵(Pitṛ)奉献花鬘与芬芳供品。

Verse 42

सदा दद्यात्क्रियायुक्तः श विभाति दिवाकरः / गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति

依仪轨恒常布施者,如日轮般光耀;凡向祖灵奉献古古鲁等诸香烟者,亦复如是。

Verse 43

संयुक्तान्मधुसर्पिर्भ्यं सो ऽग्निष्टोमफलं लभेत् / धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः

以蜂蜜与酥油和合供献者,得阿耆尼什托摩祭之果;制成具足芬芳之香烟,专心归依祖灵者亦获其福。

Verse 44

लभते च सुशर्माणि इह चामुत्र चोभयोः / दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः

若人不懈怠,恒常如法供施于祖灵(Pitṛ),则于此世与彼世两处皆得安乐吉祥。

Verse 45

दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति / गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम्

以清净心恒常为祖灵(Pitṛ)供灯者,得无比之归趣与天眼;因此获得吉祥善果。

Verse 46

तेजसा यशसा चैव कान्त्या चापि बलेन च / भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे

以威光、名声、光彩与力量,他在大地上显耀,并在三十三天(Triviṣṭapa,天界)中亦灿然辉映。

Verse 47

अप्सरोभिः परिवृतो विमानाग्रे च मोदते / गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च

为天女(Apsaras)所环绕,他在天车(vimāna)前端欢喜受乐;又以香、花、熏香,以及诵念与火供(āhuti)而得满足。

Verse 48

फलमूलनमस्कारैः पितॄणां प्रयतः शुचिः / पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसंपदा

当以清净与谨慎之心,以果、根与礼拜供奉祖灵(Pitṛ);继而礼敬二生者(dvija),以丰足饮食资具而供养之。

Verse 49

श्राद्धकालेषु नियतं वायुभूताः पितामहाः / आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते

在施行施罗达(śrāddha)之时,诸位祖父神灵化作风气,必定进入最上等的二生者之中;因此我对你如此宣说。

Verse 50

वस्त्रै रत्नप्रदानैश्च भक्ष्यैः पेयैस्तथैव च / गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान्

应以衣服、宝石供施、饮食甘露,并以牛、马乃至村落之施舍,来供敬最上等的二生者。

Verse 51

भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु / तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा

二生者受供敬之时,诸祖灵便得欢喜;故当勤勉依仪轨,常常供养二生者。

Verse 52

सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः / प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः

二生者当以左手与右手行“拂拭/标记”(ullekhana);继而于施罗达仪式中不懈怠地行“洒净”(prokṣaṇa)。

Verse 53

दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च / गन्धदानमलङ्कारमेकैकं निर्वपेद् बुधः

达尔婆草、食团(piṇḍa)、诸般供食、种种花鬘、香供与饰物,智者当一一依次奉献。

Verse 54

पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् / अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि

将安阇那(圣眼膏)细细研磨后,应依次依仪轨为毗湿维天众(Viśvedeva)行事;随后以三束达尔婆草(darbha)按法作涂抹沐抹(abhyaṅga)。

Verse 55

अपसव्यं वितृभयश्च दद्यादञ्जनमुत्तमम् / निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा

以逆绕(apasavya)之姿,并行除惧之仪,施与上等安阇那。随后在众人前屈膝,供给作衣之线,或仅一缕线亦可。

Verse 56

खण्डनं प्रोक्षणं चैव तथैवोल्लेखनं द्विजः / सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते

婆罗门应行分割(khaṇḍana)、洒净(prokṣaṇa)及同样的划记(ullekhana)。为天祖(deva-pitṛ)仅一次;为祖灵(pitṛ)则说应作三次。

Verse 57

एकं पवित्रं हस्तेन पितॄनसर्वान्सकृत्सकृत् / चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम्

手持一枚“净环”(pavitra,库沙草环),反复触及一切祖灵。继而诵“衣咒”(caila-mantra),供于诸团食(piṇḍa),并将其安置于达尔沙安阇利(darśāñjali)之中。

Verse 58

सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि / जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः

以专心奉祖之心,常将拌有酥油与芝麻的三团食(piṇḍa)安置于地上。随后屈膝,以顺绕(savya)之姿,在地上依仪行礼。

Verse 59

पितॄन्पितामहांश्चैव तथैव प्रपितामहान् / आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः

父亲、祖父与曾祖父等祖灵,应面向东方,以“祖灵圣水位(pitṛtīrtha)”恭敬勤谨地召请。

Verse 60

पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः / अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः

当不懈怠,以逆绕(apasavya)之式端正安置食团(piṇḍa),并以主食与各类供食分别奉献。

Verse 61

पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः / त्रीन्पिण्डानानुपूर्व्येण सांगुष्ठान्पुष्टिवर्द्धनान्

亦有人愿为外祖系祖灵另设供团;依次奉献三枚食团,约拇指大小,寓意增益滋养与福泽。

Verse 62

जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् / सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन्

当于双膝之间谨慎依次施放食团;并以双手作“savyottara”之持法承托,同时诵念真言。

Verse 63

नमो वः पितरः शोषायेति सर्वमतन्द्रितः / दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत्

当不懈怠,诵曰:“namo vaḥ pitaraḥ śoṣāya(敬礼诸祖灵,愿其得安)”,并以右手奉放第一枚食团。

Verse 64

नमो वः पितरः सौम्यः पठन्नेवमतन्द्रितः / सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः

向诸位祖灵(Pitṛ)致敬。性情温和者当如是诵读,不可懈怠;以左手并双手上举,于法仪中奉献阿尔伽(arghya)。

Verse 65

उलूखलस्य लेखायामुदपात्रावसेचनम् / क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा

在臼(ulūkhal)的刻线处,以水器洒水。随后布施新的麻线(kṣauma),并同样布施亚麻/苎麻线(śaṇa)与棉线(kārpāsa)。

Verse 66

पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेत् / वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम्

应当避开叶绒、锦线与绢丝(kauśeya)。在祭祀(yajña)中应当禁用,即便它们是新布且未曾洗涤。

Verse 67

न प्रीणन्ति तथैतानि दातु श्चाप्यहितं भवेत् / श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च

这些并不能如法令其欢喜,且对施者也可能不利。被称为最上者是“三峰(trikakuda)之安阇那(眼膏)”,并应恒常供奉。

Verse 68

कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सुपरिरक्षितम् / चन्दनागुरुणी चोभे तमालोशीरपद्मकम्

为诸“黑色者”(Kṛṣṇa,指深色之神/祖灵),在诸油中当奉献那经由勤慎妥善保存的油;并奉檀香与沉香二者,以及多罗树香(tamāla)、香根草(uśīra)与莲木香(padmaka)。

Verse 69

धूपश्च गुग्गलः श्रेष्टस्तुरुष्कः श्वेत एव च / शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च

诸香之中,古古卢最为殊胜,白色图鲁什迦亦然。白色苏摩那花最上,莲花(钵特摩)与优钵罗亦同。

Verse 70

गन्धरूपोपपन्नानि चारण्यानि च कृत्स्नशः / तथा हि सुमना नाडीरूपिकास्मकुरण्डिका

凡具香与色的诸般林野之花,皆在其中;又如苏摩那、那地卢比迦、阿斯摩库兰迪迦等。

Verse 71

पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः / यथा गन्धादपेतानि चोग्रगन्धानि यानि च

于施行舍罗陀(祭祖)之仪时,常有应避之花:无香者,以及气味过于浓烈刺鼻者。

Verse 72

वर्जनीयानि पुष्पाणि पुष्टिमन्विच्चता सदा / द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः

欲求滋养吉庆(puṣṭi)者,当恒常避弃应避之花;诸二生者依所指示,应守法而面向北方。

Verse 73

पूजयेद्यजमानस्तु विधिवद्यक्षिणामुखः / तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः

施主当依仪轨面向南方而行供奉;并当正对彼等,殷勤奉上夹以达尔婆草的团食(piṇḍa)。

Verse 74

अनेन विधिना साक्षादर्चिताः स्युः पितामहाः / हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः

依此仪轨,诸位Pitāmaha(祖灵)如同亲临受供养;其相呈青黄之色,丰润滋养,柔和润泽,心神安住。

Verse 75

रत्निमात्राः प्रमाणेन वितृतीर्थेन संस्मृताः / उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः

以一“ratni”(掌宽)为度,称念为“Vitṛtīrtha”。近根处应呈青蓝色;为铺展之用,当取上等库沙草。

Verse 76

तथा श्यामाकनीवारा दूर्वा च समुदाहृता / पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः

同样也提到śyāmāka、nīvāra与dūrvā草。往昔在诸多有名者中,名为Aśva的Prajāpati最为卓越。

Verse 77

तस्य बाला निपतिता भूमौ काशत्वामागताः / तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः

他的毛发坠落大地,化为迦舍草(kāśa)。因此,在śrāddha祭祖仪式中,受敬奉的迦舍草应当常常供献。

Verse 78

पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता / प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः

欲求bhūti(福泽兴盛)者,应于其中行piṇḍa-nirvapaṇa(供奉团食)。如此,众生便具足滋养、光辉、智慧、名声与端严之美。

Verse 79

भवन्ति रुचिरा नित्यं विपाप्मानो ऽघवर्जिताः / सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः

他们恒常清净可爱,离罪无垢、远离诸恶。为施供团食(piṇḍa)时,当面向南方,仅一次铺设库沙草。

Verse 80

प्राग्दक्षिणाग्रान्नियतो विधि चाप्यत्र वक्ष्यति / न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः / एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः

此处之法:库沙草尖当定向东与南。行者不应沮丧、不应嗔怒、亦不应心散;当一心安定而行施祖祭(śrāddha)。

Verse 81

निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया / रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्वे

凡如不净之物,我尽皆摧灭;由我,诸天之敌的达那婆已被诛。罗刹、夜叉、毗舍遮群与一切夜徒檀那,皆为我所杀。

Verse 82

एतेन मन्त्रेण तु संयतात्मा तां वै वेदिं सकृदुल्लिख्य धीरः / शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः

以此真言,摄心之坚毅者当将祭坛(vedi)仅一次划定;欲求吉祥而坚定之慧,当趋向北方,并洒净两次。

Verse 83

एवं पित्र्यं दृष्टमन्त्रं हि यस्यतस्यासुरा वर्जयन्तीह सर्वे / यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति

凡持有此祖灵(pitṛya)验成之真言者,此处一切阿修罗皆避之。凡诵此真言之国土,罗刹亦必远离。

Verse 84

अन्नप्रकारानशुचीनसाधून्संवीक्षते नो स्पृशंश्वापि दद्यात् / पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते

不可观看或触碰不净而不相宜的食物种类,也不可甚至施与犬。应令双手清净;不如是者,不能享受所作之果报。

Verse 85

अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा / मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः

若有人依此法恒常每日行施祖祭(śrāddha),其心所愿之事,诸位祖父先灵(pitāmaha)皆赐与之。

Verse 86

पितरो हृष्टमनसो रक्षांसि विमनांसि च / भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः

若如是勤勉恒常行施祖祭(śrāddha),诸祖灵(pitara)心生欢喜,而罗刹众则意气消沉。

Verse 87

शूद्राः श्राद्धेष्वविक्षीरं बल्वजा उपलास्तथा / विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः

于施祖祭(śrāddha)中,应恒常避开:首陀罗、未滤之乳、balvajā、upalā、viraṇa、otuvālā以及甜团(laddu)。

Verse 88

एवमादीन्ययज्ञानि तृणानि परिवर्जयेत् / अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा

同样,应避开一切非祭祀所宜之草等物;并且(其时)亦当戒除点眼膏(añjana)、涂油、熏香,以及佩戴圣线(yajñopavīta)。

Verse 89

काशेः पुनर्भवैः कार्यमश्वमेधफलं लभेत् / काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः

在迦尸(Kāśī)得再生者,可获马祭(Aśvamedha)之功德果报。凡迦尸之再生者,称为 barhiṇa 与 upabarhiṇa。

Verse 90

इत्येते पितरो देवा देवाश्च पितरः पुनः / पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः

如是,祖灵(Pitṛ)即诸天,诸天亦复为祖灵。此乃为供奉花、香与庄严饰物而宣说之真言。

Verse 91

आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः / अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये

为行护摩,应勤谨迎取南方圣火(Dakṣiṇāgni)以供祭。为他事亦可,为令业事成就,亦可于世间常火中投献供物。

Verse 92

अन्तर्विधाय समिधस्ततो दीप्तो विधीयते / समाहितेन मनसा प्रणीयाग्निं समन्ततः

先将柴薪(samidh)置于其中,继而令火焰炽盛。以摄心之念,依仪轨使圣火周遍四方而行。

Verse 93

अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः / सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः

礼敬供奉祖灵之火神阿耆尼(kavyavāha),以“svadhā”致敬——向安吉罗萨(Aṅgirasa)顶礼。礼敬护持祖灵之苏摩(Soma),亦以“svadhā”致敬——再向安吉罗萨顶礼。

Verse 94

यमाय वैवस्वतये स्वधानम इति ध्रुवम् / इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः

献给阎摩——毗婆斯梵之子——当诵“svadhānam”,此为定则;这些便是为三者依次所用的火供真言。

Verse 95

दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा / एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते

南方常献供于火神阿耆尼,北方亦献供于苏摩;而在二者之间,应日日向毗婆斯梵献火供。

Verse 96

उपहारः स्वधाकारस्तथैवोल्लेखनं च यत् / होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः

有供献(upahāra)、诵出“svadhā”之声,以及仪式性的标记与称述;于火供与持诵中行礼敬(namaskāra),尤当行洒净(prokṣaṇa)。

Verse 97

बहुहव्येन्धने चाग्नौ सुसमिद्धे तथैव च / अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा

于多供品与柴薪所助、燃烧炽盛之火中;亦当行涂抹薰饰(añjana-abhyañjana)与安置食团供(piṇḍa-nirvapaṇa)。

Verse 98

अश्वमेधफलं चैतत्समिद्धे यत्कृतं द्विजैः / क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत्

此等由二次生者在炽燃之火中所行之业,能得阿湿婆梅陀之果;故一切所指示的仪轨,当以勤勉尽力而修行。

Verse 99

बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः / विधूमे लेलिहाने च होतव्यं कर्मसिद्धये

为使仪式成就,应在燃料供品充足、尤为炽盛、无烟且火舌翻卷的圣火中行供献。

Verse 100

अप्रबुद्धे समिद्धे वा जुहुयाद्यो हुताशने / यजमानो भवे दन्धः सो ऽमुत्रेति हि नः श्रुतम्

若在未完全炽起或仅微燃的供火(胡塔沙那)中投献供物,祭主将陷于困顿昏昧;我们听闻其于彼世亦将败亡。

Verse 101

अल्पेन्धनो वा रूक्षो ऽग्निर्वस्फुलिङ्गश्च सर्वशः / ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये

若火燃料稀少、干涩粗烈,四方飞溅火星,且火焰与烟气向左旋转,此火不致成就。

Verse 102

दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः / भूमिं वगाहते यत्र तत्र विद्यात्पराभवत्

若火散发恶臭,呈蓝色或尤为黑色,并在某处似乎陷入地中,当知彼处为“败亡”之相,凶兆也。

Verse 103

अर्चिष्मान् पिण्डितशिखः सर्प्पिकाञ्जनसन्निभः / स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये

火焰光耀、焰尖凝聚,明亮如酥油调和的安阇那,润泽而向右旋行(右绕),此圣火能令所作成就。

Verse 104

नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् / अक्षयं पूजितास्तेन भवन्ति पितरो ऽग्नयः

他从男女大众之中获得恒常的供奉;由他礼敬的祖灵(Pitṛ)与火神阿耆尼,皆成就不灭之福果。

Verse 105

बिल्वोदुंबरपत्राणि फलानि समिधस्तथा / श्राद्धे महापवित्राणि मेध्यानि च विशेषतः

毕罗婆与优昙婆罗之叶、诸果与祭柴(samidh)——在施行祭祖(śrāddha)时,皆为大净之物,尤具净化之力。

Verse 106

पवित्रं च द्विजश्रेष्ठाः शुद्धये जन्मकर्मणाम् / पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि

诸位最胜婆罗门啊!为净化生与业,我在祭祖(śrāddha)仪轨中规定了净物(pavitra)以及置于器皿中的供果。

Verse 107

तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् / कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम्

此事亦当于祭柴(samidh)中依次尽知其全;我令心专注,确实行持阿耆尼之仪(agneya)。

Verse 108

अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः / घृतमादाय पात्रे च जुहुयाद्धव्यवाहने

当最胜婆罗门允曰“可行”之时,应取酥油置于器中,向“载供之火”——哈维亚瓦哈那(圣火)献上供献。

Verse 109

पलाशप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः / उदुंबरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये

婆罗沙树、普拉克沙树、尼耶伽罗陀(榕/菩提类)、普拉克沙、阿湿瓦他(菩提/榕)、维迦迦塔、优檀婆罗、毕尔瓦、檀香,以及一切适于祭祀(yajña)的树木。

Verse 110

सरलो देवदारुश्च शालश्च कदिरस्तथा / समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः

娑罗罗、天香雪松(devadāru)、娑罗(śāla)与佉提罗(khadira)——这些树木尤其被称赞为最适合做祭柴(samidh)。

Verse 111

ग्राम्याः कण्टकिनश्चैव याज्ञिया ये च केचन / पूजिताः समिदर्थं ते पितॄणां वचनं यथा

无论是乡野之木、带刺之木,或任何具祭祀性质的树木——若为祭柴(samidh)而供奉,皆如同遵循诸祖灵(Pitṛ)的教言而受敬礼。

Verse 112

समिद्भिः षट्फलेयाभिर्जुहुयाद्यो हुताशनम् / फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु

凡以“六果”之祭柴(ṣaṭphaleyā samidh)向火神(Hutāśana)献供者——其所作之业果为何,请听我宣说。

Verse 113

अक्षयं सर्वकामीयमश्वमेधफलं हि तत् / श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा

其果报不可耗尽,能成就一切所愿;实与马祭(Aśvamedha)之果等同。(祭柴种类:)止痰树(śleṣmāntaka)、夜香树(naktamāla)、木苹果(kapittha)与娑罗绵树(śālmali)亦在其中。

Verse 114

नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः / चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि

在施行施罗陀(śrāddha)之仪时,尼帕树与毗毗多迦树被视为不宜;同样,久生毕罗婆、拘罗与提都迦亦为施罗陀所当避用。

Verse 115

बल्वजः कोविदारश्च वर्जनीयाः समन्ततः / शकुनानां निवासांश्च वर्जयेत महीरुहान्

巴尔瓦阇与拘毗陀罗应当处处避用;并且凡为鸟类栖居之大树(mahīruha),亦应回避。

Verse 116

अन्यांश्चैवंविधान्सर्वान्नयज्ञीयांश्च वर्जयेत् / स्वधेति चैव मन्त्राणां पितॄणां वचनं यथा / स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम्

同样,一切如此类的非祭祀(不宜于 yajña)之物皆应避弃。对祖灵(Pitṛ)的咒语以“svadhā”为辞;对诸天(Deva)的祭祀行事则以“svāhā”为称。

Frequently Asked Questions

A prescriptive Pitṛ-Śrāddha/Tarpaṇa protocol: the chapter praises rājata (silver) vessels and dāna, lists sanctifying adjuncts (tilā, kutupa, kṛṣṇājina), and gives spatial/measurement rules for vedi and three gartas, alongside purification steps.

Rājata (silver)—as vessel, sight, or gift—is explicitly described as producing anantam-akṣayam merit; the discourse also elevates kṛṣṇājina proximity/darśana/dāna and other pāvanīya items (e.g., tilā, kanaka) as highly efficacious for śrāddha.

Neither as a primary catalog: it is predominantly ritual-technical (śrāddha-vidhi). Its link to vaṃśa is functional—ancestral satisfaction is presented as enabling progeny/lineage increase and prosperity rather than listing dynasties.