Adhyaya 26
Tritiya SkandhaAdhyaya 2672 Verses

Adhyaya 26

Sāṅkhya: Categories of the Absolute Truth and the Unfolding of Creation (Tattva-vicāra)

本章续述迦毗罗对提婆呼提的教诲,由“束缚之病因”转入对诸“真理范畴”(tattva)的系统铺陈;如实了知,便能斩断对物质的执著。迦毗罗说明主质/自然(pradhāna/prakṛti)乃三德(guṇa)之均衡与显现,列举诸元素与诸根,并指出时间(kāla)为统摄之原则,亦是主宰的能量,藉此支配变迁与对死亡的恐惧。主入于物质自然而“授种”,生起大真理(mahat-tattva,宇宙智),其中显现如瓦苏提婆(vāsudeva)般的清明;继而我执(ahaṅkāra)依三德分化:由善德生心(manas),由动德生智与诸根,由暗德生细元素(tanmātra)与大元素(mahābhūta),次第为:声→空(以太)→触→风→色→火→味→水→香→地。叙事继而转入宇宙论:主进入宇宙卵,毗罗阇·普鲁沙(virāṭ-puruṣa)之诸器官与主宰诸天显现,然宇宙之身仍如无生,直至内在统御者——至上灵(Paramātmā)/觉知——入驻,昭示仅凭机械因缘不能使存在有生命。此章为迦毗罗后续瑜伽之展开奠基,使奉爱(bhakti)、离欲与智慧建立在对创造与具身之精确本体论上。

Shlokas

Verse 1

श्रीभगवानुवाच अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद्विदित्वा विमुच्येत पुरुष: प्राकृतैर्गुणै: ॥ १ ॥

至上人格神(迦毗罗)说道:慈母啊,如今我将分别宣说绝对真理诸“塔特瓦”(范畴)的特征;知此者,便能解脱物质自然三德(guṇa)的影响。

Verse 2

ज्ञानं नि:श्रेयसार्थाय पुरुषस्यात्मदर्शनम् । यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥

为证见自我(我性)之智,即通向至善解脱之道。我将为你宣说那种智慧,能斩断心中对物质世界的执著之结。

Verse 3

अनादिरात्मा पुरुषो निर्गुण: प्रकृते: पर: । प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ ३ ॥

至上人格神为至上灵,亦无始无终;超越自然三德,超越物质界。祂自体光明,遍在于内;凭其自光之辉,整个宇宙得以维系。

Verse 4

स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभु: । यद‍ृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ४ ॥

那位至大至上的主,以其戏乐(līlā),随其意愿接受了与毗湿奴相关、由三德构成的微细神圣物质能量(普拉克里蒂)。

Verse 5

गुणैर्विचित्रा: सृजतीं सरूपा: प्रकृतिं प्रजा: । विलोक्य मुमुहे सद्य: स इह ज्ञानगूहया ॥ ५ ॥

见到由三德使然、创造众生种种形相的物质自然,众生立刻被幻力(māyā)遮蔽知识的作用所迷惑。

Verse 6

एवं पराभिध्यानेन कर्तृत्वं प्रकृते: पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥

由于遗忘与执念(parābhidhyāna),众生把本属物质自然的“作作者”之性归于自己;由诸德(guṇa)所推动的行为,也误以为是自我之所为。

Verse 7

तदस्य संसृतिर्बन्ध: पारतन्‍त्र्यं च तत्कृतम् । भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मन: ॥ ७ ॥

物质意识是众生轮回束缚与受制的根因。虽灵魂本不作业、为主宰之见证且本性寂然,仍会被有条件的生存状态所影响。

Verse 8

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदु: । भोक्‍तृत्वे सुखदु:खानां पुरुषं प्रकृते: परम् ॥ ८ ॥

在因果与作为者的层面,根因被智者认作普拉克里提(物质自然)。而超越物质自然的普鲁沙之乐苦受用,则由灵魂自身而起。

Verse 9

देवहूतिरुवाच प्रकृते: पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥

提婆护底说:至上人格神啊,恳请开示至上之人(普鲁沙)及其能量(普拉克里提)的特征;因为显现与未显现、存在与非存在的创造,皆以此二者为因。

Verse 10

श्रीभगवानुवाच यत्तत्‍त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १० ॥

至上人格神说:那由三种属性构成、永恒而未显现、兼具有与无之相的组合,被称为“普拉达那”。当它处于显现状态时,则称为“普拉克里提”。

Verse 11

पञ्चभि: पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु: ॥ ११ ॥

五大粗元素、五种微细元素(坦玛特拉)、四种内在机能、五种认知感官与五种行动器官——这二十四类要素的总和,被称为属于“普拉达那”的体系。

Verse 12

महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभ: । तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥

粗大五大为:地、水、火、风、空;微细五唯为:香(嗅)、味、色(形)、触、声——此乃我之所说。

Verse 13

इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिका: । वाक्‍करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥

诸根共十:耳、皮肤、眼、舌、鼻;以及五作业根:语、手、足、生殖器与排泄门——合为十。

Verse 14

मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥

内在微细之器官呈四相:意(心)、智、我慢与染污之识。其差别唯由各自作用而可辨,因为各具不同特征。

Verse 15

एतावानेव सङ्ख्यातो ब्रह्मण: सगुणस्य ह । सन्निवेशो मया प्रोक्तो य: काल: पञ्चविंशक: ॥ १५ ॥

此等皆数为具德之梵(有相梵)。而使诸法聚合调和者,名为“时”(kāla),我说它是第二十五种要素。

Verse 16

प्रभावं पौरुषं प्राहु: कालमेके यतो भयम् । अहङ्कारविमूढस्य कर्तु: प्रकृतिमीयुष: ॥ १६ ॥

有人称“时”(kāla)为至上普鲁沙之威力所现;因为与物质自然相接、被我慢迷惑而自认作者的灵魂,正由此而生起对死亡的恐惧。

Verse 17

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि । चेष्टा यत: स भगवान्काल इत्युपलक्षित: ॥ १७ ॥

母亲啊,斯瓦扬布瓦·摩奴之女,我所说明的“时间”因素即是至上人格神(薄伽梵);当中性、未显的自然(普拉克里提)被搅动时,创造便由祂而起。

Verse 18

अन्त: पुरुषरूपेण कालरूपेण यो बहि: । समन्वेत्येष सत्त्वानां भगवानात्ममायया ॥ १८ ॥

至上人格神以祂的自性幻力显现诸般能量,调和一切元素:内在以普鲁沙(至魂、Paramātmā)而住,外在以时间(Kāla)而现。

Verse 19

दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ पर: पुमान् । आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥

当物质自然因受缚众生的业报归宿而被搅动时,至上普鲁沙以其内在能量将种子置入自身之胎(普拉克里提);于是自然生出总体现智——金辉的“希兰摩耶”(Hiraṇmaya)。

Verse 20

विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुर: । स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तम: ॥ २० ॥

于是,在显现种种差别之后,那光辉的摩诃特(mahat-tattva)——内含诸宇宙、为一切宇宙显现之根芽、于毁灭时亦不坏——吞没了在溶解之际遮蔽光明的猛烈黑暗(令自性沉睡之昏暗)。

Verse 21

यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवत: पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥

那清澈宁静的善性(萨特瓦)——能体悟至上主境界的状态——通常称为“瓦苏戴瓦”(vāsudeva),即意识(citta),在摩诃特(mahat-tattva)中显现出来。

Verse 22

स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतस: । वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृति: परा ॥ २२ ॥

当大本原(mahat-tattva)显现之后,心识的这些特征同时呈现:清澈、无变异与寂静。正如水在未与土接触之前,本性澄明、甘美而无波;同样,纯净意识的标志是圆满安宁、明净清晰与不散乱。

Verse 23

महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् । क्रियाशक्तिरहङ्कारस्त्रिविध: समपद्यत ॥ २३ ॥ वैकारिकस्तैजसश्च तामसश्च यतो भव: । मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥

由主(Bhagavān)的能量所生、并由大本原(mahat-tattva)变异而起者,即物质我执(ahaṅkāra)。此我执以行动之力为主,分为三类:善性(vaikarika)、激情(taijasa)与昏暗(tāmasa)。由这三种我执,心(manas)、认知诸根、行动诸根以及粗大元素相继演化。

Verse 24

महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् । क्रियाशक्तिरहङ्कारस्त्रिविध: समपद्यत ॥ २३ ॥ वैकारिकस्तैजसश्च तामसश्च यतो भव: । मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥

我执分为三类:善性(vaikarika)、激情(taijasa)与昏暗(tāmasa);由此三者,心、诸根以及粗大五大(mahābhūta)得以生起。此我执乃由源自主之能量的大本原变异而显现。

Verse 25

सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥

被称为具千首、亲自为阿难多(Ananta)之主者,即名为桑卡尔沙那(Saṅkarṣaṇa)的普鲁沙;他遍满为诸大、诸根与心识。

Verse 26

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्तघोरविमूढत्वमिति वा स्यादहङ्कृते: ॥ २६ ॥

我执的标志是:自认是作者、是工具、也是结果。又随三德之影响,它或在善性中显为宁静,在激情中显为猛烈与活动,在昏暗中显为迷钝与迟滞。

Verse 27

वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत । यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भव: ॥ २७ ॥

由善性之假我再起变化,生出心识;心以取舍分别(意向与疑虑)运作,由此欲望生起。

Verse 28

यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् । शारदेन्दीवरश्यामं संराध्यं योगिभि: शनै: ॥ २८ ॥

众生之心被称为阿尼鲁陀主,乃诸根之至上主宰。其身色青黑,如秋时蓝莲;瑜伽行者以渐次修持而得见之。

Verse 29

तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति । द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रह: ॥ २९ ॥

由激情之假我变异而生智慧原理,贤淑女士啊。智慧之用,在境物显现时判定其性相,并扶助诸根。

Verse 30

संशयोऽथ विपर्यासो निश्चय: स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तित: पृथक् ॥ ३० ॥

疑惑、颠倒误解、正确定解、记忆与睡眠,依其各别作用,被说为智慧的不同特征。

Verse 31

तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागश: । प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥

激情之我执生出两类根:知根与业根。业根依于气(普拉那)之作用力;知根依于 बुद्धि(智慧)之认知力。

Verse 32

तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूत्तस्मान्नभ: श्रोत्रं तु शब्दगम् ॥ ३२ ॥

当处于无明的我执被至上人格神(薄伽梵)的威力之能所激荡时,微细的“声”之唯相显现;由声而生虚空(以太),并生能取声的听觉根。

Verse 33

अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च । तन्मात्रत्वं च नभसो लक्षणं कवयो विदु: ॥ ३३ ॥

通达真知的贤者界定:声是承载对象意义之所依,是指示隐而不见之说者存在的标记,并且也是虚空(以太)的微细唯相。

Verse 34

भूतानां छिद्रदातृत्वं बहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥

虚空元素的作用特征可见于:为一切众生的外在与内在存在提供空间,并作为气息(普拉那)、诸根与心意活动的场域与依处。

Verse 35

नभस: शब्दतन्मात्रात्कालगत्या विकुर्वत: । स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च संग्रह: ॥ ३५ ॥

由声之唯相所生的虚空,在时间推动下继续演化,显现“触”之唯相;由此生起风(气)元素,并使能取触的皮肤触觉根显著。

Verse 36

मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वत: ॥ ३६ ॥

柔软与坚硬、寒冷与炎热,是“触”的辨别属性;而“触”被称为风(气)元素的微细唯相。

Verse 37

चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयो: । सर्वेन्द्रियाणामात्मत्वं वायो: कर्माभिलक्षणम् ॥ ३७ ॥

风之作用表现为运动与搅拌,使众生得以趋近声音等诸境,并统摄扶持诸根,使一切感官各得其用。

Verse 38

वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् । समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ॥ ३८ ॥

由风与触之微细(触坦玛特拉)相互作用,并随天命安排,种种形相显现;由此形相之演化生出火,眼根得以取色相与其色彩。

Verse 39

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । तेजस्त्वं तेजस: साध्वि रूपमात्रस्य वृत्तय: ॥ ३९ ॥

贤母啊,色相之特征可由其量度形状、性质与个别相而知;而火之色相,则以其光辉(tejas)而得体认。

Verse 40

द्योतनं पचनं पानमदनं हिममर्दनम् । तेजसो वृत्तयस्त्वेता: शोषणं क्षुत्तृडेव च ॥ ४० ॥

火之作用为发光、烹煮、助消化、摧破寒冷、干燥蒸发,并引生饥渴,促使饮食。

Verse 41

रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् । रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रह: ॥ ४१ ॥

当火(tejas)与色相之微细相互作用而变异,在天上安排的推动下,味之微细生起;由味而生水大,能取味之舌根亦随之显现。

Verse 42

कषायो मधुरस्तिक्त: कट्‍वम्‍ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥

味本为一,但因与诸物相触而起变化,遂分为涩、甜、苦、辛、酸、咸等多种。

Verse 43

क्लेदनं पिण्डनं तृप्ति: प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमा: ॥ ४३ ॥

水的特性表现为:润湿万物、使混合物凝结、带来满足、维持并滋养生命、令物柔软、驱除热恼、不断充盈江湖水藏,并以解渴而使人清新。

Verse 44

रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् । गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धग: ॥ ४४ ॥

水与味之细微境(味坦玛特拉)相应,在上妙安排下转化,遂生香之细微境;由此大地与嗅觉显现,使众生得以种种领受地之香气。

Verse 45

करम्भपूतिसौरभ्यशान्तोग्राम्‍लादिभि: पृथक् । द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते ॥ ४५ ॥

香气本为一,但随所合诸物之分量差别,便成混杂、臭秽、芬芳、柔和、浓烈、酸馊等种种。

Verse 46

भावनं ब्रह्मण: स्थानं धारणं सद्विशेषणम् । सर्वसत्त्वगुणोद्भेद: पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥

大地之功能可由此知:塑造形相以表至上梵、营建居处、制作盛水之器等。总之,大地为诸元素与一切众生之依止与养育之所。

Verse 47

नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते । वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदु: ॥ ४७ ॥

以“声音”为所缘、即虚空之特性者,名为听觉;以“触”为所缘、即风之特性者,名为触觉(皮肤)。

Verse 48

तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदु: । भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥

以“色相”为所缘、即火之特性者,名为眼根(视觉);以“味”为所缘、即水之特性者,名为舌根(味觉);以“香”为所缘、即地之特性者,名为鼻根(嗅觉)。

Verse 49

परस्य द‍ृश्यते धर्मो ह्यपरस्मिन्समन्वयात् । अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥

由于因在果中相续相应,前者之法相在后者中亦可见;因此,一切诸元素的差别特性唯于地大中最为显著。

Verse 50

एतान्यसंहत्य यदा महदादीनि सप्त वै । कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥

当从大(mahat)等起的七种分支尚未和合、彼此不杂时,作为宇宙本源的至上主(薄伽梵)连同时间、业力与自然三德,进入了这世界。

Verse 51

ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् । उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५१ ॥

随后,这七种原理因主的临在而被激发并结合,生起一个无知觉的宇宙卵;由此显现出著名的毗罗吒·普鲁沙(宇宙大人)。

Verse 52

एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरै: । तोयादिभि: परिवृतं प्रधानेनावृतैर्बहि: । यत्र लोकवितानोऽयं रूपं भगवतो हरे: ॥ ५२ ॥

此宇宙之卵,名为“殊胜之卵”,乃物质能量的特别显现。其外有水、风、火、空、我执与大本原(mahat-tattva)等层层包裹,后层较前层厚十倍;最外层又为原质(pradhāna)所覆。此卵之内安住主哈利的宇宙形体(维拉塔),十四世界体系皆为其身之肢分。

Verse 53

हिरण्मयादण्डकोशादुत्थाय सलिलेशयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥

至上人格神——维拉塔·普鲁沙——从卧于水上的金色卵壳中显现,进入其中,并将此卵分为诸多部门与界分。

Verse 54

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् । वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयो: ॥ ५४ ॥

首先在祂身上显现口;继而生出言语之根,并随之显现主宰此根的火神。随后显现双鼻孔;其中出现嗅觉之根,并同时显现普拉那——生命之气。

Verse 55

घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयो: । तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिश: ॥ ५५ ॥

随嗅觉之后,主宰其根的风神显现。继而在宇宙形体中出现双眼,其中生出视觉之根;随视觉之后,主宰其根的太阳神显现。接着出现双耳,其中生出听觉之根,并随之显现诸方位之神(Dig-devatā)。

Verse 56

निर्बिभेद विराजस्त्वग्रोमश्मश्रवादयस्तत: । तत ओषधयश्चासन् शिश्नं निर्बिभिदे तत: ॥ ५६ ॥

随后,维拉塔·普鲁沙显现其皮肤;由此生出毛发、胡须、髭等。继而一切草药与药用植物显现;随后祂的生殖器官亦显现。

Verse 57

रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् । गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्कर: ॥ ५७ ॥

随后显现出精液(生殖之力)以及主宰诸水的神祇。继而显现肛门;由肛门生起下行气(阿般那),并随之显现为诸界所畏惧的死神。

Verse 58

हस्तौ च निरभिद्येतां बलं ताभ्यां तत: स्वराट् । पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरि: ॥ ५८ ॥

随后,主的宇宙形体显现出双手;随之生起抓取与放下之力,继而显现斯瓦拉特·因陀罗。接着双足显现;随之生起行走与运动之程,继而显现哈利(毗湿奴)。

Verse 59

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् । नद्यस्तत: समभवन्नुदरं निरभिद्यत ॥ ५९ ॥

随后,宇宙之身的脉络显现,由此凝成赤血(血液)。继而诸河流(主宰脉络的神祇)出现,随后腹部显现。

Verse 60

क्षुत्पिपासे तत: स्यातां समुद्रस्त्वेतयोरभूत् । अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥

接着生起饥与渴,随之诸大海显现。随后心脏显现,而在心脏之后,意(心识)出现。

Verse 61

मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पति: । अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥

在意(心)之后,月神显现。继而智慧(布提)显现,而在智慧之后,言语之主梵天显现。随后假我显现,继而鲁陀罗(湿婆)显现;在湿婆之后,心识(质多)与主宰心识的神祇(柴底耶)显现。

Verse 62

एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशु: खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥

诸感官的天神与主宰神既已显现,便欲唤醒其显现之本源——毗罗吒·普鲁沙;然终不能起之,于是为使其苏醒,便依次重新进入他身上的诸孔窍。

Verse 63

वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् । घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ॥ ६३ ॥

火神携言语之根入于其口,然毗罗吒·普鲁沙仍未苏醒。继而风神携嗅觉之根入于其鼻孔,然毗罗吒·普鲁沙依旧不起。

Verse 64

अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट् । श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् ॥ ६४ ॥

日神携视觉之根入于其双眼,然毗罗吒·普鲁沙仍不起身。同样,诸方位的主宰神携听觉之根由其双耳而入,然他依旧不起。

Verse 65

त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् ॥ ६५ ॥

皮肤的主宰神与诸药草香草携身毛入于其皮肤,然宇宙之身仍不起。继而水之主宰神携生殖之力入于其生殖器,然毗罗吒·普鲁沙仍不升起。

Verse 66

गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् । हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् ॥ ६६ ॥

死神携下行气(阿般那风)入于其肛门,然毗罗吒·普鲁沙仍未被激发而行动。因陀罗携执取与放舍之力入于其双手,然毗罗吒·普鲁沙依旧不起。

Verse 67

विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् ॥ ६७ ॥

毗湿奴以行走之力进入祂的双足,然而毗罗吒·普鲁沙仍不肯起身。诸河随血液与循环之力进入祂的血脉,但这宇宙之身依旧不为所动。

Verse 68

क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् । हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् ॥ ६८ ॥

大海携饥渴之力进入祂的腹中,然而毗罗吒仍不肯起身。月神随心意进入祂的心脏,但毗罗吒依旧未被唤醒。

Verse 69

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् ॥ ६९ ॥

梵天亦携智慧进入祂的心中,然而毗罗吒仍未起身。鲁陀罗亦携我执进入祂的心中,但毗罗吒依旧不动。

Verse 70

चित्तेन हृदयं चैत्य: क्षेत्रज्ञ: प्राविशद्यदा । विराट् तदैव पुरुष: सलिलादुदतिष्ठत ॥ ७० ॥

然而当内在主宰——主宰觉知的“场知者”(Kṣetrajña)——随心识进入心中之时,毗罗吒·普鲁沙当下便从因水之中升起。

Verse 71

यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधिय: । प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥

正如人沉睡之时,生命气息、诸根、心与智——虽依他而运作——也不能凭自身之力将他唤醒;唯有至上灵(Paramātmā)相助,他方能醒来。

Verse 72

तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥

因此,应以趋入瑜伽的智慧,凭借奉爱、离欲与灵性知识而加以辨析,在自心中观想那位超灵:虽住此身之内,却又超然离身。

Frequently Asked Questions

Kāla is presented as the mixing/activating factor that coordinates transformation among the elements and triggers the agitation of neutral pradhāna into manifest creation. It also becomes the experiential basis of fear of death when the soul identifies with false ego. In Bhāgavata theism, time is not merely physical duration; it is a potency through which the Supreme governs change while remaining transcendent.

Ahaṅkāra emerges from mahat-tattva and divides by the guṇas: from sattvic ego comes manas (mind, associated with Aniruddha); from rajasic ego arise buddhi (intelligence) and the ten senses (jñānendriyas and karmendriyas); from tamasic ego arise the tanmātras and then the gross elements in sequence—sound→ether, touch→air, form→fire, taste→water, odor→earth—along with their corresponding sense capacities.

The episode teaches that presiding deities and functional organs can exist as a complete system yet remain inert without the presence of Paramātmā, the ultimate animator. This reinforces the Bhāgavata’s hierarchy: material and cosmic mechanisms operate only when empowered by the Lord within, so liberation likewise depends on turning toward that Supersoul through bhakti, detachment, and realized knowledge.

Kapila links cosmic functions to Viṣṇu-tattva expansions: the threefold ahaṅkāra is identified with Saṅkarṣaṇa (connected with Ananta), and the mind is identified with Aniruddha, the ruler of the senses. The intent is theological integration—showing that even the categories of Sāṅkhya ultimately rest on and are governed by the Supreme Person’s expansions.