Yogatattva
इडया वायुमारोप्य शनैः षोडशमात्रया ।
कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥
रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः ।
पुनः पिङ्गलया पूर्य पूर्ववत्सुसमाहितः ॥
प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् ।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥
एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् ।
यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥
इडया । वायुम् । आरोप्य । शनैः । षोडश-मात्रया ।
कुम्भयेत् । पूरितम् । पश्चात् । चतुःषष्ट्या । तु । मात्रया ।
रेचयेत् । पिङ्गला-नाड्या । द्वात्रिंशत्-मात्रया । पुनः ।
पुनः । पिङ्गलया । पूर्य । पूर्ववत् । सु-समाहितः ।
प्रातः । मध्यन्दिने । सायम् । अर्धरात्रे । च । कुम्भकान् ।
शनैः । अशीतिः-पर्यन्तम् । चतुर्वारम् । समभ्यसेत् ।
एवम् । मास-त्रय-अभ्यासात् । नाडी-शुद्धिः । ततः । भवेत् ।
यदा । तु । नाडी-शुद्धिः । स्यात् । तदा । चिह्नानि । बाह्यतः ।
iḍayā vāyum āropya śanaiḥ ṣoḍaśa-mātrayā |
kumbhayet pūritaṃ paścāc catuḥṣaṣṭyā tu mātrayā ||
recayet piṅgalā-nāḍyā dvātriṃśan-mātrayā punaḥ |
punaḥ piṅgalayā pūrya pūrvavat su-samāhitaḥ ||
prātar madhyandine sāyam ardharātre ca kumbhakān |
śanair aśīti-paryantaṃ caturvāraṃ samabhyaset ||
evaṃ māsa-trayābhyāsān nāḍī-śuddhis tato bhavet |
yadā tu nāḍī-śuddhiḥ syāt tadā cihnāni bāhyataḥ ||
Hít vào qua iḍā (mạch trái) thật chậm trong mười sáu mātrā; rồi giữ hơi đã đầy trong sáu mươi bốn mātrā; kế đó thở ra qua piṅgalā (mạch phải) trong ba mươi hai mātrā. Lại hít vào qua piṅgalā như trước, tâm an định, hành các kumbhaka vào buổi sáng, giữa trưa, chiều tối và nửa đêm—dần dần tăng đến tám mươi (nhịp đếm), mỗi thời bốn lượt. Tu tập như vậy trong ba tháng thì nāḍī được thanh tịnh. Khi nāḍī đã thanh tịnh, các dấu hiệu bên ngoài sẽ hiện rõ.
Having drawn the breath in through the iḍā (left channel) slowly for sixteen mātrās, one should retain the filled breath for sixty-four mātrās; then one should exhale through the piṅgalā (right channel) for thirty-two mātrās. Again, inhaling through the piṅgalā as before, remaining well-collected, one should practice kumbhakas in the morning, at midday, in the evening, and at midnight—gradually up to eighty (counts), four times (each period). By practicing thus for three months, purification of the nāḍīs arises. When purification of the nāḍīs occurs, then there are external signs.