Yogatattva
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।
तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥
ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् ।
ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥
निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः ।
यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥
पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः ।
पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः ॥
धारयित्वा यथाशक्ति रेचयेदिडया शनैः ।
यया त्यजेत्तयापूर्य धारयेदविरोधतः ॥
जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥
न । अति-उच्छ्रितम् । न । अति-नीचम् । चैल-अजिन-कुश-उत्तरम् ।
तत्र । उपविश्य । मेधावी । पद्मासन-समन्वितः ।
ऋजु-कायः । प्राञ्जलिः । च । प्रणमेत् । इष्ट-देवताम् ।
ततः । दक्षिण-हस्तस्य । अङ्गुष्ठेन । एव । पिङ्गलाम् ।
निरुध्य । पूरयेत् । वायुम् । इडया । तु । शनैः । शनैः ।
यथा-शक्ति । अविरोधेन । ततः । कुर्यात् । च । कुम्भकम् ।
पुनः । त्यजेत् । पिङ्गलया । शनैः । एव । न । वेगतः ।
पुनः । पिङ्गलया । पूर्य । पूरयेत् । उदरम् । शनैः ।
धारयित्वा । यथा-शक्ति । रेचयेत् । इडया । शनैः ।
यया । त्यजेत् । तया । पूर्य । धारयेत् । अविरोधतः ।
जानु । प्रदक्षिणी-कृत्य । न । द्रुतम् । न । विलम्बितम् ।
अङ्गुलि-स्फोटनम् । कुर्यात् । सा । मात्रा । परिगीयते ।
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram |
tatropaviśya medhāvī padmāsanasamanvitaḥ ||
ṛjukāyaḥ prāñjaliś ca praṇamed iṣṭadevatām |
tato dakṣiṇahastasya aṅguṣṭhenaiva piṅgalām ||
nirudhya pūrayed vāyum iḍayā tu śanaiḥ śanaiḥ |
yathāśaktyavirodhena tataḥ kuryāc ca kumbhakam ||
punastyajet piṅgalayā śanaireva na vegataḥ |
punaḥ piṅgalayāpūrya pūrayed udaraṃ śanaiḥ ||
dhārayitvā yathāśakti recayed iḍayā śanaiḥ |
yayā tyajet tayāpūrya dhārayed avirodhataḥ ||
jānu pradakṣiṇīkṛtya na drutaṃ na vilambitam |
aṅgulisphoṭanaṃ kuryāt sā mātrā parigīyate ||
Trên chỗ ngồi không quá cao không quá thấp, lấy vải, da linh dương và cỏ kuśa làm lớp phủ, bậc trí an tọa trong padmāsana. Thân thẳng, chắp tay, đảnh lễ iṣṭa-devatā. Dùng ngón cái tay phải bịt piṅgalā (mũi phải), chậm rãi hít vào qua iḍā (mũi trái). Rồi tùy sức, không gắng ép, thực hành kumbhaka. Lại thở ra qua piṅgalā thật chậm, không cưỡng. Lại hít vào qua piṅgalā, từ từ làm đầy bụng; giữ theo khả năng rồi thở ra chậm qua iḍā. Thở ra bằng lỗ nào thì hít vào bằng lỗ ấy, và giữ hơi không căng thẳng. Xoay gối sang phải theo vòng—không nhanh không chậm—búng ngón tay; đó gọi là một mātrā, đơn vị thời gian.
On a seat that is neither too high nor too low, with a cloth, antelope-skin, and kuśa-grass as the upper layer, the intelligent one should sit there, endowed with padmāsana. With body upright and hands joined, he should bow to the chosen deity. Then, with the thumb of the right hand, having closed the piṅgalā (right nostril), he should slowly and slowly fill the breath through iḍā (left nostril). Then, without strain and according to capacity, he should perform breath-retention (kumbhaka). Again he should exhale through piṅgalā, slowly, not forcefully. Again, filling through piṅgalā, he should slowly fill the abdomen; having retained according to capacity, he should slowly exhale through iḍā. By whichever (nostril) he exhales, through that he should inhale, and he should retain without strain. Making the knee-circle to the right—neither quickly nor slowly—he should snap the fingers; that is said to be a ‘mātrā’ (unit of time).