Sukta 10.100
चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥
चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः । रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥
citrás te bhānúḥ kratu-prā́ abhiṣṭíḥ sánti spṛ́dho jaraṇi-prā́ ádhṛṣṭāḥ | rájiṣṭhayā rájyā paśv á̄ góḥ tūtūrṣati páry ágraṃ duvasyúḥ ||
รัศมีของท่านหลากสีงดงาม; การพุ่งเข้าหาของท่านเป็นผู้พิทักษ์เจตจำนง (kratu). การชิงชัยของท่านดำรงอยู่ ไม่อาจพิชิตได้ และผลักดันกวีให้ก้าวหน้า. ด้วยวิถีอันเร็วที่สุด ผู้แสวงหาการปรนนิบัติเร่งไปสู่โคแห่งแสง เวียนล้อมไปยังยอดอันเป็นที่สุดเบื้องหน้า.
चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒ऽप्राः । अ॒भि॒ष्टिः । सन्ति॑ । स्पृधः॑ । ज॒र॒णि॒ऽप्राः । अधृ॑ष्टाः । रजि॑ष्टया । रज्या॑ । प॒श्वः । आ । गोः । तूतू॑र्षति । परि॑ । अग्र॑म् । दु॒व॒स्युः ॥चित्रः । ते । भानुः । क्रतुप्राः । अभिष्टिः । सन्ति । स्पृधः । जरणिप्राः । अधृष्टाः । रजिष्टया । रज्या । पश्वः । आ । गोः । तूतूर्षति । परि । अग्रम् । दुवस्युः ॥citraḥ | te | bhānuḥ | kratu-prāḥ | abhiṣṭiḥ | santi | spṛdhaḥ | jaraṇi-prāḥ | adhṛṣṭāḥ | rajiṣṭayā | rajyā | paśvaḥ | ā | goḥ | tūtūrṣati | pari | agram | duvasyuḥ