तवा॒यᳪ सोम॒स्त्वमेह्य॒र्वाड् श॑श्वत्त॒मᳪ सु॒मना॑ अ॒स्य पा॑हि । अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र
tavā́yaṃ sómas tvám ehy arvā́k śaśvattamáṃ sumánā asyá pāhi | asmín yajñé barhíṣyā niṣádyā dadhíṣvemáṃ jaṭháre índum indra
ఈ సోమము నీకోసమే; ఇక్కడికి రా—శాశ్వతస్థిరుడా, సుమనస్కుడా. దీనిని పానము చేయి. ఈ యజ్ఞంలో బర్హిస్ (కుశ) పై కూర్చొని, హే ఇంద్రా, ఈ ఇందు-బిందువును నీ ఉదరంలో స్థాపించు.
तव । अ॒यम् । सोमः । त्वम् । ए॒हि । अ॒र्वाक् । श॑श्वत्त॒मम् । सु॒मनाः । अ॒स्य । पा॑हि । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिष्या । नि॒षद्या॑ । दधि॒ष्व । इ॒मम् । ज॒ठरे । इन्दुम् । इन्द्र ।